संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|पञ्चविशं पटलः| शाङ्करी-विद्यानिरुपणम् पञ्चविशं पटलः सूक्ष्मसृष्टिस्थितिसंहारकथनम् योगिनां सूक्ष्मतीर्थानि योगिनां जपनियमः शाङ्करी-विद्यानिरुपणम् पञ्चविशं पटलः - शाङ्करी-विद्यानिरुपणम् षट्चक्रसारसंकेते योगशिक्षाविधिनिर्णयः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल शाङ्करी-विद्यानिरुपणम् Translation - भाषांतर शाङ्करी-विद्यानिरुपणम्पथापथज्ञानविवर्जिता ये धर्मार्थकामाद्धि विहीनमानसाः ।विनावलम्बं जगतामधीश्वर एषैव मुद्रा विचरन्ति शाङ्करी ॥१०४॥आध्यात्मनिरुपणम्ज्ञाने साध्याम्तविद्यार्थं जानाति कुलनायकम् ।अध्याज्ञाचक्रपद्मस्थं शिवात्मानं सुविद्यया ॥१०५॥अध्यात्मज्ञानमात्रेण सिद्धो योगी न संशयः ।षट्चक्रभेदको यो हि अध्यात्मज्ञः स उच्यते ॥१०६॥अध्यात्मशास्त्रङ्केमात्मना मण्डितं शिवम् ।कोटिचन्द्राकृतिं शान्तिं यो जानाति षडम्बुधे ॥१०७॥स ज्ञानी सैव योगी स्यात् सैव देवो महेश्वरः ।स मां जानाति हे कान्त विस्मयो नास्ति शङ्कर ॥१०८॥मम सर्वात्मकं रुपं जगत्स्थावरजङुमम् ।सृष्टिस्थितिप्रलयग यो जानाति स योगिराट् ॥१०९॥आध्यात्मज्ञाननिरुपणम्अध्यात्मविद्यां विज्ञाप्य नानाशास्त्रं प्रकाशितम् ।तच्छास्त्रजालयुग्मा ये तेऽध्यात्मज्ञाः कथं नराः ॥११०॥त्रिदण्डी स्यात्सदाभक्तो वेदाभ्यासपरः कृती ।वेदादुद्भवशास्त्रणि त्यक्त्वा मां भावयेद्यदि ॥१११॥वेदाभ्यासं समाकृत्य नानाशास्त्रर्थनिर्णयम् ।समुत्पन्नां महाशक्तिं समालोक्य भजेद्यतिः ॥११२॥सर्वत्र व्यापिका शक्तिं कामरुपा निराश्रयाम् ।व्यक्ताव्यक्तां स्थिरपदां वायवीं मां भजेद्यतिः ॥११३॥यस्या आनन्दमतुलं ज्ञानं यस्य फलाफलम् ।योगिनां निश्चयज्ञानमेकमेव न संशयः ॥११४॥यस्याः प्रभावमात्रेण तत्त्वचिन्तापरो नरः ।तामेव परमां देवीं सर्पराजसु कुण्डलीम् ॥११५॥तामेव वायवीं शक्तिं सूक्ष्मरुपां स्थिराशयाम् ।आनन्दसिकां गौरीं ध्यायेत् श्वासनिवासिनीम् ॥११६॥आनन्दं ब्रह्मणो रुपं तत्त्वदेहे व्यवस्थितम् ।तस्याभिव्यञ्जकं द्रव्यं योगिभिः परिपीयते ॥११७॥तद्द्रव्यस्थां महादेवीं नीलोत्पलदलप्रभाम् ।मानवीं परमां देवीमष्टदशभुजैर्युताम् ॥११८॥कुण्डलीं चेतनाकान्तिं चैतन्यां परदेवताम् ।आनन्दभैरवीं नित्यां घोरहासां भयानकाम् ॥११९॥तामेव परमां देवीं सर्ववायुवशङ्करीम् ।मदिरासिन्धुसम्भूतां मत्तां रौद्रीं वराभयाम् ॥१२०॥योगिनीं योगजननीं ज्ञानिनां मोहिनीसमाम् ।सर्वभूत सर्वपक्षस्थितिरुपां महोज्ज्वलाम् ॥१२१॥षट्चक्रभेदिकां सिद्धिं तासां नित्यां मतिस्थिताम् ।विमलां निर्मला ध्यात्त्वा योगी मूलाम्बुजे यजेत् ॥१२२॥एतत्पटलपाठे तु पापमुक्तो विभाकरः ।यथोद्र्ध्वरेता धर्मज्ञो विचरेत् ज्ञानसिद्धये ॥१२३॥एतत्क्रियादर्शनेन ज्ञानी भवति साधकः ।ज्ञानादेव हि मोक्षः स्यान्मोक्षः समाधिसाधनः ॥१२४॥यदुद्धरति वायुश्च धारणाशक्तिरेव च ।तन्मंन्त्रं वर्द्धयित्वा प्राणायामं समाचरेत् ॥१२५॥प्राणायामात् परं नास्ति पापरशिक्षयायं च ।सर्वपापक्षये याते किन्न सिद्धयति भूतले ॥१२६॥प्राणवायुं महोग्रं महत्तेजोमयं परम् ।प्राणायामेन जित्वा च योगी मत्तगजं यथा ॥१२७॥प्राणायांम विना नाथ कुत्र सिद्धो भवेन्नरः ।सर्वसिद्धिक्रियासारं प्राणायामं परं स्मृतम् ॥१२८॥प्राणायामं त्रिवेणीस्थं यः करोति मुहुर्मुहुः ।तस्याष्टाङसमृद्धिः स्याधोगिनां योगवल्लभः ॥१२९॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने भावनिर्णये पाशवकल्पे षट्चक्रसारसङ्केते सिद्धमन्त्रप्रकरणे प्राणायामोल्लासे भैरवीभैरवसंवादे पञ्चविंशः पटलः ॥२५॥ N/A References : N/A Last Updated : April 16, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP