संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|पञ्चविशं पटलः| योगिनां सूक्ष्मतीर्थानि पञ्चविशं पटलः सूक्ष्मसृष्टिस्थितिसंहारकथनम् योगिनां सूक्ष्मतीर्थानि योगिनां जपनियमः शाङ्करी-विद्यानिरुपणम् पञ्चविशं पटलः - योगिनां सूक्ष्मतीर्थानि षट्चक्रसारसंकेते योगशिक्षाविधिनिर्णयः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल योगिनां सूक्ष्मतीर्थानि Translation - भाषांतर ईडा च भारती गङा पिङला यमुना मता ।ईडापिङुलयोर्मध्ये सुषुम्ना च सरस्वती ॥४५॥त्रिवेणीसङमो यत्र तीर्थराजः स उच्यते ।त्रिवेणीसङमे वीरश्चालायेत्तान् पुनः पुनः ॥४६॥ सर्वपापाद् विनिर्मुक्तः सिद्धो भवति नान्यथा ।पुनः पुनः भ्रामयित्वा महातीर्थे निरञ्जने ॥४७॥वायुरुपं महादेवं सिद्धो भवति नान्यथा ।चन्द्रसूर्यात्मिकामध्ये वहिनरुपे महोज्ज्वले ॥४८॥ध्यात्वा कोटि(रवि)करं कुण्डलीकिरणं वशी ।त्रिवारभ्रमणं वायोरुत्तमाधममध्यमाः ॥४९॥यत्र यत्र गतो वायुस्तत्र तत्र त्रयं त्रयम् ।इडादेवी च चन्द्राख्या सूर्याख्या पिङुला तथा ॥५०॥सुषुम्ना जननी मुख्या सूक्ष्मा पक्ङजतन्तुवत् ।सुषुम्ना मध्यदेशे च वज्राख्या नाडिका शुभा ॥५१॥तत्र सूक्ष्मा चित्रिणी च तत्र श्रीकुण्डलीगतिः ।तया सड्ग्राह्य तं नाड्या षट्पद्मं सुमनोहरम् ॥५२॥ध्यानगम्यापरं ज्ञानं षट्शरं शक्तिसंयुतम् ।ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥५३॥ततः परशिवो नाथ षट्शिवाः परिकीर्तिताः ।डाकिनी राकिणी शक्तिर्लकिनी काकिनी तथा ॥५४॥साकिनी तत्र षट्पद्मे शक्तयः षट्शिवान्विताः ।मूलाधारं स्वाधिष्ठानं मणिपूर सुपङ्कजम् ॥५५॥अनाहतं विशुद्धाख्यमाज्ञाचक्रं महोत्पलम् ।आज्ञाचक्रादिमध्ये तु चन्द्रं शीतलतेजसम् ॥५६॥प्रपतन्तं मूलपद्मे तं ध्यात्वा पूरकनिलम् ।यावत्कालं स्थैर्यगुणं तत्कालं कुम्भकं स्मृतम् ॥५७॥पिङुलायां प्रगच्छन्तं रेचकं तं वशं नयेत् ।अङ्गुष्ठैकपर्वणा च दक्षनासपुटं वशी ॥५८॥धृत्वा षोडशवारेण प्रणवेन जपं चरेत् ।एतत्पूरकमाकृत्य कुर्यात्कुम्भकमद्भुतम् ॥५९॥चतुःषष्टिप्रणवेन जपं ध्यानं समाचरेत् ।कुम्भकानन्तरं नाथ रेचकं कारयेद् बुधः ॥६०॥ द्वात्रिंशद्वारजापेन मूलेन प्रणवेन वा ।द्विनासिकापुटं बद्ध्वा कुम्भकं सर्वासिद्धदम् ॥६१॥कनिष्ठानामिकाभ्यां तु वाममङ्गुष्ठदक्षिणम् ।पुनर्दक्षिणनासाग्रे वायुमापूरयेद् बुधः ॥६२॥मनिषोडश्जापेन कुम्भयेत् पूर्ववत्ततः ।ततो वामे रेचकञ्च द्वात्रिंशत्प्रणवेन तु ॥६३॥पुनर्वामेन सम्पूर्य षोडशप्रणवेन तु ।पुनर्दक्षिणनासाग्रे द्वादशाङ्गुलमानतः ॥६४॥कुम्भयित्वा रेचयेद्यः सर्वत्र पूर्ववत् प्रभो ।प्राणायामत्रयेणैव प्राणायामैकमुत्तमम् ॥६५॥द्विवारं मध्यमं प्रोक्तं मध्यमं चैकावारकम् ।त्रिकालं कारयेद्यत्नात् अनन्तफलसिद्धये ॥६६॥प्रातर्मध्याहनकाले च सायहने नियमः शुचिः ।जपध्यानादिभिर्मु(र्यु)क्तं सगर्भं यः करोति हि ॥६७॥मासात् सल्लक्षणं प्राप्य षण्मासे पवनासनः ।तालुमूले समारोप्य जिहवाग्रं योगसिद्धये ॥६८॥त्रिकाले सिद्धिमाप्नोति प्राणायामेन षोडश ।सदाभ्यासी वशीभूत्त्वा पवनं जनयेत् पुमान् ॥६९॥षण्मासाभ्यन्तरे सिद्धिरिति योगार्थनिर्णयः ।योगेन लभ्यते सर्व्म योगाधीनमिदं जगत् ॥७०॥तस्माद् योगं कार्यं यदा योगी तदा सुखी ।बिना योगं न सिद्धेऽपि कुण्डली परदेवता ॥७१॥अथ योगं सदा कुर्यात् ईश्वरपाददर्शनात् ।योगयोगाद् भवेन्मोक्षे इति योगार्थनिर्णयः ॥७२॥मन्त्रसिद्धीच्छुको यो वा सैव योगं सदाभ्यसेत् ।मात्रावृत्तिं प्रवक्ष्यामि काकचञ्चुपुटं तथा ॥७३॥सूक्ष्मवायु भक्षणं तत् चन्द्रमण्डलचालनम् ।त्र्यावृत्तिञ्चैव विविधं तन्मध्ये उत्तमं त्रयम् ॥७४॥वर्णं सचन्दं संयुक्तं मूलं त्र्यक्षरमेव वा ।जानुजङ्वामध्यदेशे तत्तत्सर्वासनस्थितः ॥७५॥वामहस्ततालुमूलं भ्रामयेद् द्वादशक्रमात् ।द्वादशक्रमशः कुर्यात् प्राणायांम हि पूर्ववत् ॥७६॥मात्रावृत्तिक्रमेणैव जपमष्टसहस्त्रकम् ।प्राणायामद्वादशैकैर्भवेत्तदष्टसहस्त्रकम् ।कृत्वा सिद्धीश्वरो नाम निष्पापी चैकमासतः ॥७७॥त्रिसन्ध्यं कारयेद्यत्नाद ब्रह्मज्ञानी निरञ्जनः ।भवतीति न सन्देहः सदाभ्यासी हि योगिराट् ॥७८॥ योगाभ्यासाद् भवेन्मुक्तो योगाभ्यासात् कुलेश्वरः ।योगाभ्यासाच्च संन्यासी ब्रह्मज्ञानी निरामयः ॥७९॥सदाभ्यासाद् भवेद्योगी सदाभ्यासात् परन्तपः ।सदाभ्यासात् पापमुक्तो विधिविद्याशकृत शकृत् ॥८०॥काकचञ्चुपुटं कृत्वा पिबेद्वायुमहर्निशम् ।सूक्ष्मवायुक्रमेणैव सिद्धो भवति योगिराट् ॥८१॥ N/A References : N/A Last Updated : April 16, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP