संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|त्रयोविंशः पटलः| आसननियमस्तद्भेदांश्च त्रयोविंशः पटलः योगिनां भोजननियमः आसननियमस्तद्भेदांश्च त्रयोविंशः पटलः - आसननियमस्तद्भेदांश्च आसननिरूपणम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल आसननियमस्तद्भेदांश्च Translation - भाषांतर अथासनप्रभेदञ्च श्रृणु मत्सिद्धिकाङिक्षणाम् ।येन विना पूरकाणां सिद्धिअभाक् न महीतले ॥२३॥अधो मुण्डासनं वक्ष्ये सर्वेषां प्राणिनां सुखम् ।ऊद्र्द्धमार्गे पदं दत्त्वा धारयेन्मारुतं सुधीः ॥२४॥सर्वासनानां श्रेष्ठं हि ऊद्र्ध्वपादो यदा चरेत् ।तदैव महतीं सिद्धिं ददाति वायवी कला ॥२५॥एतत्पद्मासनं कुर्यात् प्राणवायुप्रसिद्ध्ये ।शुभासन तदा ध्यायेत्पूरयित्वा पुनः पुनः ॥२६॥ऊरुमूले वामपादं पुनस्तद्दक्षिणं पदम् ।वामोरी स्थापयित्वा च पद्मासनमितिस्मृतम् ॥२७॥सव्यपादस्य योगेन आसनं परिकल्पयेत् ।तदैकासनकाले तु द्वितीयासनमाभवेत् ॥२८॥पृष्ठे करद्वयं नीत्वा वृद्धाङ्गुष्ठद्वयं सुधीः ।कायसङ्कोचमाकृत्य धृत्वा बद्धासनो भवेत् ॥२९॥बद्धपदासनं कृत्वा वायुबद्धं पुनः पुनः ।चिबुंक स्थापयेद्यत्नाद् हलादितेजसि भास्करे ॥३०॥इत्यासनं हि सर्वेषां प्राणिनां सिद्धिकारणम् ।वायुवश्याय यः कुर्यात स योगी नात्र संशयः ॥३१॥स्वभावसिद्धिकरणं सर्वेषां स्वस्तिकासनम् ।वामपादतले कुर्यात्पाददक्षिणमेव च ॥३२॥सव्यापसव्ययोगेन आसनद्वयमेव च ।सर्वत्रैवं प्रकारं च कृत्वा नाडीव सारमेत् ॥३३॥आसनानि श्रृणु होतात्त्रिंशतासंख्यकानि च ।सव्यापसव्ययोगेन द्विगुण प्रभवेदिह ॥३४॥चतुःषष्टयासनानीह वदामि वायुसाधनात् ।द्वात्रिंशद्बिन्दुभेदाय कल्पयेद् वायुवृद्धये ॥३५॥कार्मकासनामाकृत्य उदरे पूरयेत् सुखम् ।तदा वायुर्वशो याति कालेन सूक्ष्मवायुना ॥३६॥कृत्वा पद्मासनं मन्त्री वेष्टयित्वा प्रधारयेत् ।करेण दक्षिणेनैव वामपादन्तिकं तटम् ॥३७॥सव्यापसव्यद्विगुणं कार्मुकासनमेव च ।कार्मुकद्वययोगेन शरवद् वायुमानयेत् ॥३८॥कुक्कुटासनमावक्ष्ये नाडीनिर्मलहेतुना ।मत्कुलागमयोगेन कुर्याद् वायुनिषेवणम् ॥३९॥निजहस्तद्वयं भूमौ पातयित्वा जितेन्द्रियः ।पदभ्यां बद्धं यः करोति कूर्परद्वयमध्यतः ॥४०॥स्व्यापसव्ययुगलं कुक्कुटं ब्रह्मणा कृतम् ।बद्धं कृत्त्वा अधःशीर्ष यः करोति खगासनम् ॥४१॥खगासन प्रसादेन श्रमलोपो भवेद् द्रुतम् ।पुनः पुनः श्रमादेव विषयश्रमलोपकृत ॥४२॥लोलासनं सदा कुर्याद् वायुलोलापघातनात् ।स्थिरवायुप्रसादेन स्थिरचेता भवेद्द्रुतम् ॥४३॥पद्मासनं समाकृत्य पादयोः सन्धिगहवरे ।हस्तद्वयं मध्यदेशं नियोज्य कुक्कुटाकृतिः ॥४४॥निजहस्तद्वयद्वन्द्वं निपात्य हस्तनिर्भरम् ।कृत्वा श्रीरमुल्लाप्य स्थित्वा पद्मासनेऽनिलः ॥४५॥स्थित्वैतदासने मन्त्री अधःशीर्षं करोति चेत् ।उत्तमाङासनं ज्ञेयं योगिनामतिदुर्लभम् ॥४६॥एतदासनमात्रेण शरीरं शीतलं भवेत् ।पुनः पुनः प्रसादेन चैतन्या कुण्डली भवेत् ॥४७॥सव्यापसव्य योगेन यः करोति पुनः पुनः ।पूरयित्वा मूलपद्मे सूक्ष्मवायुं विकुम्भयेत् ॥४८॥कृत्वा कुम्भकमेव हि सूक्ष्मवायुलयं विधौ ।मूलदिब्रह्मारन्ध्रान्ते स्थापयेल्लयगे पदे ॥४९॥एतत् शुभासन कृत्त्वा सूक्ष्मरन्ध्रे मनोलयम् ।सूचीरन्ध्रे यथासूत्रं पूरयेत् सूक्ष्मवायुना ॥५०॥एतत् क्रमेण षण्मासान् पूरकस्तापि लक्षणम् ।महासुखं समाप्नोति योगाष्टाङुनिषेवणात् ॥५१॥अथ वक्ष्ये महादेव पर्वतासनमङुलम् ।यत्कृत्वा स्थिररुपी स्याद् षट्चक्रादिविलोपनम् ॥५२॥योन्यासनं पर्वतेन योगं योगफलेऽनिलम् ।तत्कालफललन्तावत् खेचरो यावदेव हि ॥५३॥पादयोगेन चक्रस्य लिङाग्रं यो नोयोजयेत् ।अन्यत्पदमूरौ दत्त्वा तत्र योन्यासनं भुवि ॥५४॥तत्र मध्ये महादेव बन्द्धयोन्यासनं श्रृणु ।यत्कृत्वा खेचरो भूत्वा विचरेदीश्वरो यथा ॥५५॥कृत्वा योन्यासनं नाथ लिङुगुह्यादिबन्धनम् ।मुखनासा नेत्रकर्णकनिष्ठाङगुलिभिस्तभा ॥५६॥ओष्ठाधरं कनिष्ठाभ्यामनामाभ्याञ्च नासिके ।मध्यमाभ्यां नेत्रयुग्मं तर्ज्जनीभ्यां परैः श्रुती ॥५७॥कृत्त्वा योन्यासनं नाथ योगिनामति दुर्लभम् ।कृत्त्वा यः पूरयेद् वायुं मूलमाकुञ्च्य स्तम्भयेत् ॥५८॥सव्यापसव्ययोगेन सिद्धो भवति साधकः ।शनैः शनैः समरुह्य कुम्भंक परिपूरयेत् ॥५९॥अरुणोदयकालाच्च वसुदण्डे सदाशिव ।सव्यापसव्ययोगेन गृहणीद्वायुगानिलम् ॥६०॥द्वितीयप्रहरे कुर्याद वायुपूजां मनोरमाम् ।एतदासनामाकृत्य सिद्धो भवति साधकः ॥६१॥अथान्यदासनं वक्ष्ये यत्कुत्वा सोऽमरो भवेत् ।मत्साधकः शुचिः श्रीमान् कुर्याद्गत्त्वा निराविले ॥६२॥भेकानामासनं योगं निजवक्षसि सम्मुखम् ।निधाय पादयुगलं स्कन्धे बाहू पदोपरि ॥६३॥ध्यायेद्धि चित्पदं भ्रान्तमासनस्थः सुखाय च ।यदि सर्वाङुमुत्तोल्य गगने खेचरासनम् ॥६४॥महाभेकासनं प्रोक्तं सर्वसिद्धिप्रदायकम् ।महाविद्यां महामन्त्रं प्राप्नोति जपतीह यः ॥६५॥एतत् प्रभेदं वक्ष्यामि करोति यः स चामरः ।एकपादमूरौ बद्ध्वा स्कन्धेऽन्यत्पादरक्षणम् ॥६६॥एतत्प्रणासनं नाम सर्वसिद्धिप्रदायकम् ।वायुमूले समारोप्य ध्यात्त्वाऽऽकुञ्च प्रकारयेत् ॥६७॥केवलं पादमेकञ्च स्कन्धे चारोप्य यत्नतः ।एकपादेन गगने तिष्ठेत् स दण्डवत प्रभो ॥६८॥अपानासनमेतद्धि सर्वेषां पूरकाश्रयम् ।कृत्त्वा सूक्ष्मे शीर्षपद्मे समारोप्य च वायुभिः ॥६९॥तदा सिद्धो भवेन्मर्त्त्यः प्राणापानसमागमः ।अपानासनयोगेन कृत्त्वा योगेश्वरी भुवि ॥७०॥समानासनमावक्ष्ये सिद्धमन्त्रदिसाधनात् ।एकपादमूरौ दत्त्वा गुह्योऽन्यल्लिङवक्त्रके ॥७१॥एतद् वीरासनं नाथ समानासनसंज्ञकम् ।इत्याकृत्य जपेन्मन्त्रं धृत्वा वायुं चतुर्दले ॥७२॥कुण्डलीं भावयेन्मन्त्रं कोटिविद्युल्लताकृतिम् ।आत्मचन्द्रामृत रसिअराप्लुतां योगिनीं सदा ॥७३॥वीरासनं तु वीराणां योगवायुप्रधारणम् ।यो जानाति महावीरः स योगी भवति ध्रुवम् ॥७४॥अथ वक्ष्ये महाकाल समानासनसाधनम् ।भेदक्रमेण यज्ज्ञात्वा वीराणामधिपो भवेत् ॥७५॥समानासनमाकृत्य वृद्धाड्गुष्ठं करेण च ।एकेन सोऽधिकारी स्यात् स्वरयोगादिसाधने ॥७६॥आसनं यो हि जानाति वायूनां हरणं तथा ।कालादीनां निर्णयं तु स कदाचिन्न नश्यति ॥७७॥कालेन लभ्यते सिद्धिः कालरुपो महोज्ज्वलः ।साधकैर्योगिभिर्ध्येयः सिद्धवीरासनात्मना ॥७८॥अथ वक्ष्ये नीलकण्ठ ग्रन्थिभेदासनं शुभम् ।ज्ञात्वा रुदो भवेत् क्षिप्रं सूक्ष्मवायुनिषेवणात् ॥७९॥कृत्वा पद्मासनं मन्त्री जङ्कयोः ह्रदये करौ ।कूर्परस्थान पर्यन्तं विभेद्य स्कन्धधारणम् ॥८०॥भित्वा पद्मासनं मन्त्री सहस्त्रार्द्धेन घाटनम् ।येन शीर्ष भावनम्रं सर्वाङ्गुलिभिराश्रमम् ॥८१॥ग्रन्थिभेदासन्ञ्चैतत् खेचरादिप्रदर्शनम् ।कृत्त्वा सूक्ष्मवायुलयं परमात्मनि भावयेत् ॥८२॥अथान्यासनमावक्ष्ये योगपूरकरक्षणात् ।कृत्त्वा पद्मासनं पादा अङ्गुष्ठजङ्कयोः स्थितम् ॥८३॥हस्तमेकं तु जङ्काया कार्मुकं कूर्परोर्द्धकम् ।पद्मासने समाधाय अङ्गुष्ठं परिधावयेत् ॥८४॥कार्मुकासनमेतद्धि सव्यापोअसव्ययोगतः ।पद्मासनं वेष्टयित्वा अड्गुष्ठांग्र प्रधावयेत् ॥८५॥यः करोति सदा नाथ कार्मुकासनमुत्तमम् ।तस्य रोगदिशत्रनां क्षयं नीत्वा सुखी भवेत् ॥८६॥अथ वक्ष्येऽत्र संक्षेपात् सर्वाङासनमुत्तमम् ।यत्कृत्वा योगनिपुणो विद्याभिः पण्डितो यथा ॥८७॥अधो निधाय शीर्षं च ऊद्र्ध्वपादद्वयं चरेत् ।पद्मासनं तु तत्रैव भूमौ कूर्परयुग्मकम् ॥८८॥दण्डे दण्डे सदा कुर्यात श्रमशान्तिपरः सुधीः ।नित्यं सर्वासनं हित्वा न कुर्याद वायुधारणम् ॥८९॥मासेन सूक्ष्मवायूनां गमनं चोपलभ्यते ।त्रिमासे देवपदवीं त्रिमासे शीतलो भवेत् ॥९०॥अथ वक्ष्ये महादेव मयूरासनमुत्तमम ।भूमौ निपात्य हस्तौ द्वौ कूर्परोपरि देहकम् ॥९१॥कूर्परोपरि संस्थाप्य सर्वदेहं स्थिराशयः ।केवलं हस्तयुगलं निपात्य भुवि सुस्थिरः ॥९२॥एतदासनमात्रेण नाडीसभेदनं भवेत् ।पूरकेण दृढो याति सर्वत्राङाश्रयेण च ॥९३॥अथान्यदासनं कृत्त्वा सर्वव्याधिनिवारणम् ।योगाभ्यासी भवेत्क्षिप्रं ज्ञानासनप्रसादतः ॥९४॥दक्षपादोरुमूले च वामपादतलंतथा ।दक्षपादतलं दक्षपार्श्वे संयोज्य धारयेत् ॥९५॥एतज्ज्ञानासनं नाथ ज्ञानद्विद्याप्रकाशकम् ।निरन्तरं यः करोति तस्य ग्रन्थिः श्लथी भवेत् ॥९६॥सव्यापसव्ययोगेन मुण्डासनमिति स्मृतम् ।कृत्वा ध्यात्वा स्थिरो भूत्वा लीयते परमात्मनि ॥९७॥गरुडासनमावक्ष्ये येन ध्यानं स्थिरं भुवि ।सर्वदोषाद्विनिर्मुक्तो भवतीह महाबली ॥९८॥एकपादमुरी बद्ध्वा एकपादेन दण्डवत् ।जङ्कापादसन्धिदेशे ज्ञानव्यग्रं व्यवस्थितम् ॥९९॥एतदासनमाकृत्य पृष्ठे संहारमुद्रया ।आराध्य योगनाथं च सदा सर्वेश्चरस्य च ॥१००॥अथान्यदासनं वक्ष्ये येन सिद्धो भवेन्नरः ।अकस्माद् वायुसञ्चारं कोकिलाख्यासनेन च ॥१०१॥ऊद्र्ध्वे हस्तद्वंयं कृत्वा तदग्रे पादयोः सुधीः ।वृद्धाङगुष्ठद्वयं नाथ शनैः शनैः प्रकारयेत् ॥१०२॥पद्मासनं समाकृत्य मूर्परोपरि संस्थितः ।अथ वक्ष्ये वीरनाथ आननदमन्दिरासनम् ॥१०३॥यत्कृत्वा अमरो धीरो भवत्येवेह साधकः ।हस्तयुग्मं पाददेशे पादयुग्मं प्रदापयेत् ॥१०४॥प्रकृत्य दण्डवत् कौल नितम्बाग्रे प्रतिष्ठति ।खञ्जनासनमावक्ष्ये यत्कृत्वा सुस्थिरो भवेत् ॥१०५॥पृष्ठे पादद्वयं बद्ध्वा हस्तौ भूमौ प्रधारयेत् ।भूमौ हस्तद्वयं नाथ पातयित्वानिलं पिबेत् ॥१०६॥पृष्ठे पादद्वयं बद्ध्वा खञ्जनेन जयी भवेत् ।अथान्यदासनं वक्ष्ये साधकानां हिताय वै ॥१०७॥पवनासनरुपेण खेचरो योगिराड्भवेत् ।स्थिर्वा बद्धासने धीरो नाभेरधः करद्वयम् ॥१०८॥ऊद्र्ध्वमुण्डः पिबेद् वायुं निरुद्ध्येत यमाविले ।अथ सर्पासनं वक्ष्ये वायुपानाय केवलम् ॥१०९॥शरीरं दण्डवत्तिष्ठेदरज्जुबद्धस्तु पादयोः ।वायवी कुण्डली देवी कुण्डलाकारमङ्गुले ॥११०॥मण्डिता भूषणाद्यैश्व वक्ष्ये सर्पासनस्थितम् ।निद्रालस्यभयान् त्यक्त्वा रात्रौ कुर्यात्पुनः पुनः ॥१११॥सर्वान् विघ्नान् वशीकृत्य निद्रादीन वायुसाधनात् ।अथ वक्ष्ये काकरुपस्कन्धास्नमनुत्तमम् ॥१२२॥कलिपापात् प्रमुच्येत वायवीं वशमानयेत् ।निजपदद्वयं बदध्वा स्कन्धदेशे च साधकः ॥११३॥नित्यमेतत् पदद्वन्द्वं भूमौ पुष्टिकरद्वयम् ॥११४॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने भावासननिर्णये पाशवकल्पे षट्चक्रसारसङ्केते सिद्धमन्त्रप्रकरणे भैरवीभैरवसंवादे त्रयोविंशः पटलः ॥२३॥ N/A References : N/A Last Updated : April 16, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP