संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|त्रयोविंशः पटलः| योगिनां भोजननियमः त्रयोविंशः पटलः योगिनां भोजननियमः आसननियमस्तद्भेदांश्च त्रयोविंशः पटलः - योगिनां भोजननियमः आसननिरूपणम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल योगिनां भोजननियमः Translation - भाषांतर श्रीभैरवी उवाचअथातः सम्प्रवक्ष्यामि ब्रह्ममार्गमनुत्तमम् ।यद् यज्ज्ञात्वा सुराः सर्वे जयाख्याः परमं जगुः ॥१॥न तन्तेजःप्रकाशाय महतां धर्मवृद्धये ।योगाय योगितां देव भक्षप्रस्थनिरुपणम् ॥२॥योगाभ्यास यः करोति न जानातीह भक्षणम् ।कोटिवर्षसहस्त्रेण न योगी भवति ध्रुवम् ॥३॥अतो वै भक्षमाहात्म्यं प्रवदामि समासतः ।यज्ज्ञात्वा सिद्धिमाप्नोति स्वाधिष्ठानादिभेदनम् ॥४॥आदौ विवेकी यो भूयाद भूतले परमेश्वर ।स एव भक्षनियमं गृहेऽरण्ये समाचरेत् ॥५॥वाय्वासन दृढानन्दपरमानन्दनिर्भरः ।मिताहारं सदा कुर्यात पूरकाहलादहेतुना ॥६॥तदा पूरकसिद्धिः स्याद् भक्षणादिनिरुपणात् ।उदरं पूरयेन्नित्यं कुम्भयित्वा पुनः पुनः ॥७॥निजहस्तप्रमाणाभिः पूरयेत् पूर्णमेव च ।तत्पूरयेत् स्थापयेन्नाथ विश्वामित्रकपालके ॥८॥हंसद्वादशवारेण शिलायामपि घर्षयेत् ।नित्यं तत्पात्रपूण च पाकेनैकेन भक्षयेत् ॥९॥तण्डुलान् शालिसम्भूतान्कपालप्रस्थपूर्णकान् ।दिने दिने क्षयं कुर्याद् भक्षणादिषु कर्मसु ॥१०॥हंसद्वादशवारेण जपेन संक्षयं चरेत् ।शिलायां तत्कपालं च वर्द्धयेत् पूरकादिकम् ॥११॥यावत्कालं क्षयं याति निजभक्षणनिर्णयम् ।तत्काल्म वायुनापूर्य नोदरं काकचञ्चुभिः ॥१२॥आकुञ्चयेत् सदा मूले कुण्डली भक्षधारणात् ।तत्र सम्पूरयेद्योगी भक्षप्रस्थावनाशनात् ॥१३॥कालक्रमेण तत् सिद्धिमाप्नोति जितेन्द्रियः ।यत्स्थानं भक्षणस्यैव तत्स्थाने पूरयेत्सुखम् ॥१४॥पुनः पुनर्भक्षणेन भक्षसिद्धिमुपैति हि ।विना पूरकयोगेन भक्षणं नापि सिद्धयति ॥१५॥अथवान्यप्रकारेण भक्षत्यांग विनिर्णयम् ।येन हीना न सिद्धयन्ति नाडीचक्रस्थदेवताः ॥१६॥द्वात्रिंशद् ग्रासमादाय त्रिपर्व्वाणि यथास्थितम् ।अर्द्धग्रासं विहायापि नित्यं भक्षणमाचरेत् ॥१७॥सदा सम्पूरयेद् वायुं भावको गतभीर्ममहान् ।भक्षस्थाने समायोज्य पिबेद् वायुमहर्निशम् ॥१८॥चतुःषष्टिदिने सर्वं क्षयं कृत्वा ततः सुधीः ।पयोभक्षणमाकुर्यात् स्थिरचेता जितेन्द्रियः ॥१९॥पयः प्रमाणं वक्ष्यामि हस्तप्रस्थत्रयं त्रयम् ।शनैः शनैर्विजेतव्याः प्राणा मत्तगजेन्द्रवत् ॥२०॥षण्मासाज्जायते सिद्धिः पूरकादिषु लक्षणम् ।क्रमेणाष्टाङसिद्धिः स्यात् यतीनां कामरुपिणाम् ॥२१॥बद्धपद्मासनं कृत्वा विजयानन्दनन्दितः ।धारयेन्मारुतं मन्त्री मूलाधारे मनोलयम् ॥२२॥ N/A References : N/A Last Updated : April 16, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP