संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|त्रयोदशः पटलः| कलिकालोद्भवः त्रयोदशः पटलः अकाराद्यक्षरक्रमेणप्रश्नफलम् कलिकालोद्भवः त्रयोदशः पटलः - कलिकालोद्भवः वर्णविन्यासनिर्णयकथनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल कलिकालोद्भवः Translation - भाषांतर स्वात्यादिवसुनक्षत्रं तृतीयाधोदले लिखेत् ।तत्सुतारं क्रमाज्ज्ञेयं नान्यथाशुभमानयेत् ॥८४॥तत्फलार्थं कुत्सितञ्च विपरीतफलस्थले ।अशुभं तत्फलस्थाने कुफले सुफलं भवेत् ॥८५॥उत्तरषाढकातारादिरेवत्यन्तमेव च ।तत्फलं तु भवेद् मर्त्यो यदि कर्मपरो भवेत् ॥८६॥अथ वक्ष्ये महादेव अश्विवन्यादिफलं प्रभो ।यज्ज्ञात्वा देवताः सर्वा दिग्विदिक्ष्वादिरक्षकाः ॥८७॥तत्प्रकारं महापुण्यं देवदेव फलोद्भवम् ॥८८॥त्रैलोक्ये सौख्यपूजां त्रिभुवनविदिताम त्रैगुणाहलादसिद्धांसिद्धभ्रान्तो विशालो वरदविदलितां वेदनार्द्रापशङ्काम् । मन्दानां मन्दभाग्योपहगुणहननं हीनदीनापदाहांलोकानां सत्फलानां फलगतवपुषा साश्विनी सा ददौ चेत् ॥८९॥ एवं क्रमेण देवेश तारकाणां फलाफलम् ।पुनः पुनः श्रृणु प्राण-वल्लभ प्रेमभावक ॥९०॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने भावनिर्णये पाशवनिर्णये आज्ञाचक्रसारसङ्केते सिद्धमन्त्रप्रकरणे भैरवीभैरवसंवादे त्रयोदशः पटलः ॥१३॥ N/A References : N/A Last Updated : September 20, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP