संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|त्रयोदशः पटलः| अकाराद्यक्षरक्रमेणप्रश्नफलम् त्रयोदशः पटलः अकाराद्यक्षरक्रमेणप्रश्नफलम् कलिकालोद्भवः त्रयोदशः पटलः - अकाराद्यक्षरक्रमेणप्रश्नफलम् वर्णविन्यासनिर्णयकथनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल अकाराद्यक्षरक्रमेणप्रश्नफलम् Translation - भाषांतर आनन्दभैरवी उवाचआज्ञाप्रश्नार्थभावञ्च वर्णविन्यासनिर्णयम् ।अधुना श्रृणु सर्वज्ञ भावज्ञानपरायण ॥१॥यदि मेषे स्वनक्षत्रं स्ववारसंयुतं शुभम् ।ज्ञात्वा शुभादिपत्रञ्च पलमानेन साधकः ॥२॥गणयेद् वर्णसारञ्च येन तत् प्रश्ननिर्णयः ।पूर्वे दले ककारस्य वर्णभेदं श्रृणु प्रभो ॥३॥मनसि सुखसमूहं प्राणसौख्यार्थचिन्तावसनगमनलाभं प्रीतिपुत्रार्थयोग्यम् ।स्थिरपदमपि देशे दर्शनं प्राणबन्धोःसकलकलुषहानिश्चादिपत्रे ककारे ॥४॥सदा नृनासिके सुखं सुखोल्बणस्य सेवनं सदाशिवे च भक्तिदं स्वकीयगेहसत्फलम् ।कलाधरस्य दृष्टिभिः प्रधानलोकपूजन्मं हिताहितं न बाधते विवाहकेलिना सुखम् ॥५॥ऋकारं विपदां ध्वंसं धैर्ये विद्याविबोधनम् ।व्याधिपीडादुर्जनानां पीडाप्रश्नं वदेत्तदा ॥६॥उकारे वायुभावस्य वृथागमनमेव च ।दारिद्रयहानयोर्यान्ति दूरागमनदुर्लभम् ॥७॥खकारे द्रव्यप्रश्नञ्च शुभकार्ये गते भयम् ।आशु भयं समाप्नोति प्राप्य निर्धनतां व्रजेत् ॥८॥पञ्चत्वजिज्ञासनमेव सत्यं सत्यं सुखानामुदयाय चेष्टा ।शत्रेर्विनाशाय हिताय बन्धोः पकारकूटे परचौरचेष्टा ॥९॥कैवल्यादिसमापनं निजपनो दुष्टव्यापहं कामिनांनानाभोगविनाशनं कनकरौप्यराजप्रदं स्वके ।मारीभीतिविरोधन धनपतेरानन्दुपुञ्जोदयंगोविद्याश्रियाशु लाभविविधं धर्मार्थचिन्ताकुलम् ॥१०॥हरिपूजा हरिध्यानं हरिपादाम्बुजे रतिः ।चौर्याहरणद्रव्यस्य न हानिर्जन्महार्दके ॥११॥आकारे तेजसो हानिर्महाशब्दे विनाशनम् ।आगतानाञ्च हानिः स्यात् पक्षपातं गतौ जयम् ॥१२॥उशतो निजगेहस्था उल्बणव्याधिपीडनम् ।उत्साहध्वंसशून्यञ्च पाठे पाण्डित्यमुल्बणम् ॥१३॥दीर्घलृकारवर्णे च लावण्यलोचनो नृपः ।लज्जानष्टक्षेमबुद्धिर्मित्रतुल्यप्रियो भवेत् ॥१४॥दीर्घप्रणवमोङ्कारे निराश्रयो न जीवति ।महदाश्रयमात्रेण सर्वं चूर्णं करोति हि ॥१५॥सिंहे कार्मुकमेषलग्नसमये नित्याशिषं प्राप्नुयात्किञ्चिद्भाति पराक्रमी गतिमताम श्रेष्ठो भवेत् कर्माणि ।किञ्चिद्दोषकुलापहं नरपतेत्सासंवर्धनंक्रोधी नित्यपराक्रमी भवति सः शीघ्रभिलाषान्वितः ॥१६॥अथ वक्ष्ये महादेव वीराणमुत्तमोत्तम।सर्वशास्त्रार्थतत्त्वज्ञ तत्त्वज्ञानपरायण ॥१७॥दक्षिणस्थदलस्यापि वर्णभेदर्थनिर्गमम् ।फलमत्यन्तनिष्कर्षं वाञ्छावाक्यफलप्रदम् ॥१८॥कान्ते बीजे कमलनिलया गेहभागस्थिरा या नानादेभ्रमणभयदा नैव कुत्रापि सुस्था ।चण्डोद्वेगापहसति खलानाञ्च हानिः प्रबुद्धोवाणी वश्या वसति चक्रिणां हानयः स्युः ॥१९॥चारुप्रतापं चरणे गुरुणां भक्तिर्दृढा स्याद् गमनेषु चारुतदातातानां नृपतिप्रियाणां सम्प्रेरंण चारुफलञ्च कूटे ॥२०॥कान्तेषु कान्तावदनारविन्दे सुषट्पदत्वं रमणीविलासम् ।आयुः क्षयोद्वेगाविनाशकरणं चाकर्षण देशसुखं धनानाम् ॥२१॥टकारे धारणं देशे सुखं शेषे निशामुखम् ।विदेशस्थधनादीनाम स्यादागमनमुत्तमम् ॥२२॥दकूटमधनं विना भवति विघ्नहानिः सदाजयं स्वगृहकामिनो कमलनेत्रकान्ता यथा ।सुसिद्धकरमेव हि प्रबलभावनातो भवेत्भवे जयति मानुषस्तु पृष्टस्य जिज्ञासने ॥२३॥व्याख्यातं मुनिभिः फलं फलमयं काल रिपूणां सदालोकानां वशकारणं कुलवरो वेदागमे पारगः ।प्राप्नोति प्रियपुत्रकं नरपतेरुत्साहसं कारणं कार्ये दुर्जनपीडनं भयसमूहानां विनाशङ्कके ॥२४॥यशासि वयसि तेजो बुद्धिरेव यकूटे समयफलभूपोल्लासवृद्धिः समृद्धया ।यजनमपि सुराणां चौर्यमात्रं भूया दतिशयधनवृद्धिः क्रेयविक्रेयकाले ॥२५॥शीतकाले धनप्राप्तिः स्वर्णरौप्यदिलाभकम् ।पुत्रप्राप्तिः सुखप्राप्तिः सङ्कटॆ वदति ध्रुवम् ॥२६॥लक्ष्मीः प्रियं धनं दातुं मुदिता भूमिमण्डले ।जलेन जायते हानिर्लयं देवे न कूटके ॥२७॥प्रश्नाद्यक्षरमित्यादिस्वरमूलं हि यो नरः ।जिज्ञासनं यदा कुर्यात् तदा स्यादुत्कटं फलम् ॥२८॥श्रृणु तत्तत् स्वरं नाथ एतत्पत्रस्थमाक्षयम् ॥२९॥इकारकूलमङुले धनदितृष्णयान्वितोः ।विशेषधर्मलक्षणं धनञ्च पैतृकं लभेत् ॥३०॥गतिप्रियं सुदेवता सुसम्पदं सदासुखम् ।तथा हि सूक्ष्मबुद्धिभिः परास्तमाकरोदरिम् ॥३१॥ईकारमपरप्रियं परमतध्वंससंवर्द्धनम् ।विदेशगमनं नहि प्रभवतीह बाह्यं दया ॥३२॥जगज्जनमभिप्रियं तरुणदोषसम्माननम् ।विकाररहितं सुखं भवति पृष्ट आवेदके ॥३३॥ए बीजे बद्धसन्तोषं कामनाफलसिद्धिदम् ।वायुना हरणं चैव प्राप्नोति नृपमाननम् ॥३४॥अमीत्येकाक्षरे बीजे बीजभूते जगत्पतेः ।प्राप्नोति कन्यादानादिफलं वस्त्रञ्च तैजसम् ॥३५॥गोकन्यामकरे खगे खगचरता सौन्दर्यलक्ष्मीर्भवेत्शेषे काञ्चनपुञ्जलाभमतुलं सन्तोषसारं गतौ ।संसारे निजदायिका स्वजनता रत्नादिक सञ्चयंसर्वं सञ्चयति प्रभो हितकरं प्रशनार्थमाद्याक्षरे ॥३६॥तृतीयदलामाहात्म्य यद् यद् वर्णे विचारयेत् ।प्रश्नाद्यक्षरवर्णेषु नीत्वा च गगनं चरेत् ॥३७॥तत्प्रकारं श्रृणु प्राणवल्लभ प्रेमपारग ।यज्ज्ञानात् प्रश्नसिद्धिः स्यादकालफलदं नृपम् ॥३८॥दृष्टवा ज्ञात्वा भावराशिमुत्तमाधममध्यमम् । लोकभावविधानज्ञो निजविद्यादिकं तथा ॥३९॥सर्वं विषयरुपेण भावसारं विचारयेत् ।गबीजं मङुलं ज्ञेयं फलमत्यन्तभाग्यदम् ॥४०॥गतद्रव्यादिलाभञ्च तथा लोकवशं फलम् ॥४१॥दकारकूटे कठिनं रिपूणां विद्रावणं धर्मविणाशकस्य ।भूमिपतेर्वा मरणं विनाशनं दिव्याङुनाया वररत्नलाभम् ॥४२॥टकारे दूरगानाञ्च दर्शनं भवति ध्रुवम् ।उद्वाहः पुत्रसम्पत्तिः षष्ठमासेन लभ्यते ॥४३॥टान्ते चौरभयं नास्ति तद्द्रव्यागमनं भवेत् ।विधिविद्याप्रकाशेन शिवे विष्णौ च भक्तिमान् ॥४४॥धकारकूटे धरणीपतित्त्वं व्याधेर्भयं नास्ति तथा पशोश्च ।प्रवेशमात्रेण गतौ कलापि जीवादिसम्पत्तिमुपैति लक्ष्मीम् ॥४५॥रबीजे सिद्धः सम्यक् खगकुलवरो धीरगमनम्वाञ्छातुल्यं विभवमतुलं राजराज्यप्रियं स्यात् ।प्रतापं साम्राज्यं सकलहितगोलोकरसता रसं सर्वं लोकं प्रियमतिसुखं लाभविविधम् ॥४६॥चकारे वहिनबीजे च जितं सर्वं चराचरम् ।यथा क्रमेण सर्वत्र गमने भाग्यदं फलम् ॥४७॥षकारमध्यमे देशे वार्त्तादेशादुपैति हि ।पत्रिकागमनं कार्यं यः करोति धनं लभेत् ॥४८॥क्षकारे सख्यभावञ्च मित्रभावं यदा लभेत्सुप्रीतिश्च भवेत्तस्मात् तदा प्रश्नभयं न च ॥४९॥स्वराज्ये च भवेत् सौख्यं पुष्पजिज्ञासकर्मणि ।हसनान्ते तथा वर्णे पाचकं देहि चादिदम् ॥५०॥यदि स्यादुच्यते नाथ विपरीतफलं न च ॥५१॥दीर्घीकारे विषयघटना नाथ पादेः मतिः स्याद् यद्यारम्भो भवति कुलनं दीर्घजीवी नरेन्द्रः ।बालापत्यं गमयति मुदा कालदेशाधिकारी लोकारण्ये सकललुषध्वंसहेतोर्मृगेन्द्रः ॥५२॥सुखञ्चचार चाष्टमे महाधनेशसन्निधौप्रबुद्धवान् भवेन्नरः समाहितो भवेद् ध्रुवम् ।विचित्रचातुरी यदा महाकुचोरगा प्रभोप्रहस्यते क्षनादपि प्रभातसूर्यदर्शनात् ॥५३॥अतीव धैर्यतां लभेत् विचित्रवाग्भवेज्जयम् ।जयेन सेवितं पुरा पुराण वाक्यलाभकं ।जगज्जनादिसेवन लभेत् (वा यदि स्वयं?) ॥५४॥न चाकुलागमं गयागभीरतुल्यसत्फलम् ।सदा हि पुण्यसागरे गुरोः पदाम्बुजं लभेत् ॥५५॥विसर्जनीये सुस्वरे समाप्तिकोमलान्वितम् ।जनागमं धनागमं विशालवेदनान्वितम् ॥५६॥मनोगतं कुबुद्धिदं स्वकीयबन्धुसज्जनम् ।विसर्जन कुलक्षणं भवेल्लभेत् कुबन्धनम् ॥५७॥सकुलं निष्कुलं कान्तं विदुः श्रेष्ठा महर्षयः ।हास्यसुखे हास्यफलं भावनायां भवेन्नहि ॥५८॥क्रोधक्रमेणैव तदैव चक्षुषोर्विकारभावेन हरेत् समस्तम्।शीर्षे करौ चेत् कलिकालसंयुतंफलं हि लाभे वध एव भूषणम् ॥५९॥शेषे वेददले वराभयकरे हारावशब्दापहादूरादागमनं भवेद्धि नियतं बालागणैरावृतम् ।घोरापायाविसर्जनं जलगुणाहलादेन सामोदितंकूटे कूटघकारवर्गलहरी भासापभासारसे ॥६०॥जवर्गे जतुकं स्वर्णं जीवनोपायचिन्तनम् ।जराव्याधिसमाक्रान्तं जीर्णवस्त्रापहारणम् ॥६१॥ठकारकूटे यदि चक्रवर्तीभूमण्डले स्यात्पततीति निश्चितम् ।अन्तःसुख हन्ति यदादिभावेठकारमात्रेण रिपूत्तमो भवेत् ॥६२॥आद्यप्रश्नाक्षरं नाथ तकारं तरुणप्रियम् ।पापान्धकार पटलध्वंसाय कल्पयते तदा ॥६३॥नकारमाध्ये यदि प्रश्नवाग्मी जिज्ञासमानो ध्रुवमर्थसञ्चयम् ।आलापमात्रेण नरा वशा स्युः प्रवेशनं राजकुलेन्द्रसन्निधौ ॥६४॥भीतो भवति देशे च भयस्थाने न दुःखभाक् । भूषासम्पत्तिवृद्धिश्च भकारकूटमङुले ॥६५॥लोकानुरागं सर्वत्र आद्यक्षरविचारतः ।लकारस्यापि लोकेश भार्यादुःखं विमुञ्चाति ॥६६॥सकारे मैथुनं कान्ताकुलस्य कुलवर्द्धनम् ।धनवृद्धिर्वंशवृद्धिः सरस्वतीकृपा भवेत् ॥६७॥वेदपत्रे अकारस्य फलमाहात्म्यनिर्णयम् ।श्रृणु नाथ प्रवक्ष्यामि सावधानाऽवधारय ॥६८॥ककारादि क्षरारान्तं व्याप्त तिष्ठति तत्त्वतः ।अकारेण विना शक्तिर्ज्जायते कुत्र न प्रभो ॥६९॥अकारे ग्रथितं सर्वं चराचरकलेवरम् ।यद्यकारमाद्यभागे प्रश्नजिज्ञासने भवेत् ॥७०॥कुफलेऽपि सत्फलानां सञ्चयं भवति ध्रुवम् ।शत्रूणां वासहेतोर्धनादीनाञ्चैव सञ्चये ॥७१॥अन्तर्यजनविद्यासु लोकस्यागमने तथा ।निजदुःखानुतापे स्याद्यकारविधिरुच्यते ॥७२॥उकारफलमाहात्म्यं श्रृणु प्रश्नार्थपण्डित ।उषाकाले चौर्यप्रश्नमुल्लासं मानसोद्धमम् ॥७३॥उत्तमस्थलवासञ्च उत्कृष्टभोजनादिकम् ।उल्बणाबुद्धित्पत्तिरुमादेवीपदे मतिः ॥७४॥रकारलक्षणं चक्षुः शब्दस्य वचनं भवेत् ।लोचने दर्शनं स्त्रीणां लिखनं दूरसम्भवम् ॥७५॥प्राप्नोति परमां लक्ष्मीं लोकवश्याय केवलम् ।लाङुलानां सञ्चयञ्च भूमिलाभो भवेद् ध्रुवम् ॥७६॥ओकारे राज्यवृद्धिः स्यात् पुत्रवृद्धिस्तथैव च ।सदा सन्तोषमाप्नोति प्रणवः सर्वसिद्धिदः ॥७७॥मीने कर्कटराशिवृश्चिकतुले धर्माग्निभानूदयेगेहे वेदविचारणे शुभफलं श्रीलाभगत्युन्नतिम् ।विद्यावेदकथादिक जयवतामानन्दसिन्धोः फलंप्राप्नोति प्रतित्तिसिद्धपदवीम मर्त्यो मुदा हर्षनम् ॥७८॥पत्रप्रमाणं कथितं हीनविद्याविनिर्गमम् ।पुनः श्रृणु महाकालकलिकालस्य उद्भवम् ॥७९॥यद्यन्मासस्य प्रथमे तथा चाहनोऽर्भकस्य च ।दण्डद्वये शुभफलं प्रथमस्य महेश्वर ॥८०॥तृतीयैकदण्डमात्रं विपरीतफलप्रदम् ।तत्र दण्डेषु नक्षत्रं यदि चेन्नाशुभं भवेत् ॥८१॥अश्विन्याद्यष्टनक्षत्रं पूर्वप्रथमपत्रके ।तत्सुतार विजानीयात् दुष्टदोषे सुखं भवेत् ॥८२॥आश्लेषाभादिचित्रान्तं द्वितीये दक्षिणे दले ।तत्फलं विपरीताख्यं सफलेऽपि फलापहम् ॥८३॥ N/A References : N/A Last Updated : April 10, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP