संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|एकादशः पटलः| उत्तम साधकस्य लक्षणम् एकादशः पटलः स्वरुपकीर्तनम् दिव्यभावे वीरभावः उत्तम साधकस्य लक्षणम् एकादशः पटलः - उत्तम साधकस्य लक्षणम् भावप्रश्नार्थबोधनिर्णयः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल उत्तम साधकस्य लक्षणम् Translation - भाषांतर रात्रौ गन्धादिसम्पूर्णस्ताम्बूलपूरिताननः ।विजयानन्दसम्पन्नो जीवात्मपरमात्मनोः ॥३७॥ऐक्यं चित्ते समाधाय आनन्दोद्रेकसंभम्रः ।यो जपेत् सकलां रात्रिं गतभीर्निजने गृहे ॥३८॥स भवेत् कालिकादासो दिव्यानामुत्तमोत्तमः ।एवं भावत्रयं ज्ञात्वा यः कर्म साधयेत्ततः ॥३९॥अष्टैश्वर्ययुतो भूत्वा सर्वज्ञो भवति ध्रुवम् ।भावत्रयाणां मध्ये तु भावपुण्यार्थनिर्णयम् ॥४०॥श्रृणु नाथ प्रवक्ष्यामि सावधानाऽवधारय ।अकस्मात् सिद्धिमाप्नोति ज्ञात्वा सङ्केत्तलाञ्छितम् ॥४१॥यो जानाति महादेव तस्य सिद्धिर्न संशयः ।द्वादशे पटले सूक्ष्मसङ्केतार्थ्म वदामि तत् ॥४२॥आनन्दभैरवी उवाचएकादशे च पटले शुद्धभावार्थनिर्णयम् ।भावेन लभ्यते सर्वं भावाधीनं जगत्त्रयम् ॥४३॥भावं विना महादेव न सिद्धिर्यायते क्वाचित् ।पशुभावाश्रयाणाञ्च अरुणोदयकालतः ॥४४॥दशदण्डाश्रितं कालं प्रश्नार्थं केवलं प्रभो ।चक्रं द्वादशराशेश्च मासद्वादशकस्य च ॥४५॥दशदण्डे विजानीयाद् भावाभावं विचक्षणः ।अनुलोमविलोमेन पञ्चस्वरविभेदतः ॥४६॥बाल्य कैशोरसौन्दर्यं यौवनं वृद्धसञ्ज्ञकम् ।अस्त(अष्ट)मितंक्रमाज्ज्ञेयो विधिः पञ्चस्वरः स्वयम् ॥४७॥स्वकीयं नासिकाग्रस्थं पञ्चमं परिकीर्तितम् ।यन्नासापुटमध्ये तु वायुर्भवति भैरव ॥४८॥तन्नासापुटमध्ये तु भावाभावं विचिन्तयेत् ।आकाशं वायुरुपं हि तैजसं वारुणं प्रभो ॥४९॥पार्थिवं क्रमशो ज्ञेयं बाल्यास्तादिक्रमेण तु ।वामोदये शुभा वामा दक्षिणे पुरुषः शुभः ॥५०॥वायुनां गमनं ज्ञेयं गगनावधिरेव च ।केवलं मध्यदेशे तु गमनं पवनस्य च ॥५१॥तदाकाशं विजानीयाद् बाल्यभावं प्रकीर्तितम् ।तिर्यग्गतिस्तु नासाग्रे वायोरुदयमेव च ॥५२॥केवलं भ्रमणं ज्ञेयं सर्वमङुलमेव च ।किशोर तद्विजानीयाद् वायौ तिर्यग्गतौ विभो ॥५३॥केवलोर्द्धवनासिकाग्रे वायुर्गच्छति दण्डवत् ।तत्तैजसं विजानीयाद् गमनं बलवद् भवेत् ॥५४॥तद्वृद्धगतभावञ्च विलम्बोऽधिकचेष्टया ।प्राप्नोति परमां प्रीतिं वरुणाम्भोदये रुजाम् ॥५५॥यदाधो गच्छति क्षिप्रं किञ्चिद् ऊर्ध्वमगोचरम् ।यदा करोति प्रश्वासं तदा रोगोल्बणोदयः ॥५६॥पृथिव्या उन्नतं भाग्यं योगातपप्रपीडितम् ।अस्तमितं महादेव अनुलोमविलोमतः ॥५७॥पवनो गच्छति क्षिप्रं वामदक्षिणभेदतः ।वामनासापुटे याति पृथिवी जलमेव च ॥५८॥सदा फलाफलं दत्ते मुदिता कुण्डमण्डले ।तयोर्वै वायवी शक्तिः फलभागं तदा लभेत् ॥५९॥यद्येवं वामभागे तु वामायाः प्रश्नकर्मणि ।यदि तत्र पुमान् प्रश्नं करोति वामगामिने ॥६०॥तदा रोगमवाप्नोति कर्महीनो भवेद् ध्रुवम् ।यदि वायूदयो वामे दक्षिणे पुरुषः स्थितः ॥६१॥तदा फलमवाप्नोति द्रव्यागमनदुर्लभम् ।अकस्माद् द्रव्यहानिः स्यान्मनोगतफलापहम् ॥६२॥सुह्रद् भङुविवादञ्च भिन्नभिन्नोदये शुभम् ।केवलं वरुणस्यैव पुरुषो दक्षिणे शुभम् ॥६३॥अशुभं पृथिवीदक्षे भेदोऽयं वरदुर्लभः ।सदोदय दक्षिणे च वायोस्तैजसे एव च ॥६४॥आकाशस्य विजानीयात् शुभाशुभफलं प्रभो ।यदि भाग्यवशादेव वायोर्मन्दा गतिर्भवेत् ॥६५॥दक्षनाशामध्यदेशे तदा वामोदयं शुभम् ।तदा वामे विचारञ्च वायुतेजोद्वयस्य च ॥६६॥ज्ञात्वोदयं विजानीयाद् मित्रे हानिः सुरे भयम् ।एवं सुभवनागारे यदि गच्छति वायवी ॥६७॥तस्मिन् काले पुमान् दक्षो दक्षभागस्थसम्मुखः ।तदा कन्यादानफलं यथा प्राप्नोति मानवः ॥६८॥तदा वायुप्रदादेन प्राप्नोति धनमुत्तमम् ।देशान्तरस्थभावार्त्ता आयान्ति पुत्रसम्पदः ॥६९॥बाल्यादिकं भावत्रयं राशिभेदे शुभं दिशेत् एतच्चक्रे फलं तस्य राशिद्वादशचक्रके ॥७०॥सूक्ष्मं फलं विजानीयात् चक्रं नाम श्रृणु प्रभो ।आज्ञाचक्रं कामचक्रं फलचक्रञ्च सारदम् ॥७१॥प्रश्नचक्रं भूमिचक्रं स्वर्गचक्रं ततः परम् ।तुलाचक्रं वारिचक्रं षट्चक्रं त्रिगुणात्मकम् ॥७२॥सारचक्रमुल्काचक्र् मृत्युचक्रं क्रमात्प्रभो ।षट्कोण चात्र जानीयादनुलोमविलोमतः ॥७३॥सर्वचक्रे स्वरज्ञानं सर्वत्र वायुअसङुतिम् ।सर्वप्रश्नादिसञ्चारं भावेन जायते यदि ॥७४॥तदा तद्दण्डमानञ्च ज्ञात्वा राश्ययुदयं बुधः ।कुर्यात् प्रश्नइचारञ्च यदि कीर्तिमिहेच्छति ॥७५॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने भावबोधनिर्णये पशुभावविचारे सारसङ्केते सिद्धमन्त्रप्रकरणे भैरवीभैरवसंवादे एकादशः पटलः ॥११॥ N/A References : N/A Last Updated : April 10, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP