संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|एकादशः पटलः| स्वरुपकीर्तनम् एकादशः पटलः स्वरुपकीर्तनम् दिव्यभावे वीरभावः उत्तम साधकस्य लक्षणम् एकादशः पटलः - स्वरुपकीर्तनम् भावप्रश्नार्थबोधनिर्णयः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल दिव्य-वीर-पशुभावानां स्वरुपकीर्तनम् Translation - भाषांतर आनन्दभैरवी उवाचअथातः सम्प्रवक्ष्यामि दिव्यभावादिनिर्णयम् ।यमाश्रित्य महारुद्रो भुवनेश्वरनामधृक् ॥१॥यं ज्ञात्वा कमलानाथो देवतानामधीश्वरः ।चतुर्वेदाधिपो ब्रह्मा साक्षाद्ब्रह्म सनातनः ॥२॥बटुको मम पुत्रश्च शक्रः स्वर्गाधिदेवता ।अष्टसिद्धियुताः सर्वे दिक्पालाः खेचरादयः ॥३॥तत्प्रकारं महादेव आनन्दनाथभैरव ।सुरानन्दं ह्रदयानन्द ज्ञानान्द दयामय ॥४॥श्रृणुस्वैकमना नाथ यदि त्वं सिद्धिमिच्छसि ।मम प्रियान्दरुप यतो मे त्वं तनुस्थितः ॥५॥त्रिविधं दिव्यभावञ्च वेदागमविवेकजम् ।वेदार्थमधमं सम्प्रोक्तं मध्यमं चागमोद्भवम् ॥६॥उत्तमं सकलं प्रोक्तं विवेकाल्लाससम्भवम् ।तथैव त्रिविधं भावं दिव्यवीरपशुक्रमम् ॥७॥दिव्य-वीर-पशुभावानां स्वरुपकीर्तनम्दिव्यं विवेकजं प्रोक्तं सर्वासिद्धिप्रदायकम् ।उत्तमं तद्विजानीयादानन्दससागरम् ॥८॥मध्यमं चागमोल्लासं वीरभावं क्रियान्वितम् ।वेदोद्भवं फलार्थञ्च पशुभावं हि चाधमम् ॥९॥सर्वनिन्दा समाव्याप्तं भावानामधमं पशोः ।उत्तमे उत्तमं ज्ञानं भावसिद्धिप्रदं नृणाम् ॥१०॥मध्यमे मधुमत्याश्च मत्कुलागमसम्भवम् ।अकालमृत्युहरणं भावानामतिदुर्लभम् ॥११॥वीरभावं विना नाथ न सिद्धयति कदाचन ।अधमे अधमा व्याख्या निन्दार्थवाचकं सदा ॥१२॥यदि निन्दा न करोति तदा तत्फलमाप्नुयात् ।पशुभावेऽसिद्धिः स्यात् यदि वेदं सदाभ्यसेत् ॥१३॥वेदार्थचिन्तनं नित्यं वेदपाठध्वनिप्रियम् ।सर्वनिन्दविरहितं हिंसालस्यविवर्जितम् ॥१४॥लोभ-मोह-काम-क्रोध-मद-मात्सर्यवर्जितम् ।यदि भावस्थितो मन्त्री पशुभावेऽपि सिद्धिभाक् ॥१५॥पशुभावं महाभावं ये जानन्ति महीतले ।किमसाध्यं महादेव श्रमाभ्यासेन यान्ति तत् ॥१६॥श्रमाधीनं जगत् सर्वं श्रमाधीनाश्च देवताः ।श्रमाधीनं महामन्त्रं श्रमाधीनं परन्तपः ॥१७॥श्रमाधीनं कुलाचारं पशुभावोपलक्षणम् ।वेदार्थज्ञानमात्रेण पशुभावं कुलप्रियम् ॥१८॥स्मृत्यागमपुराणानि वेदार्थविविधानि च ।अभ्यस्य सर्वशास्त्राणि तत्त्वज्ञानात्तु बुद्धिमान् ॥१९॥पललमिव धान्यार्थी सर्वशास्त्राणि सन्त्यजेत् ।ज्ञानी भूत्वा भावसारमाश्रयेत् साधकोत्तमः ॥२०॥वेदे वेदक्रिया कार्या मदुक्तवचनादृतः ।पशूनां श्रमदाहानामिति लक्षणमीरितम् ॥२१॥आगमार्थं क्रिया कार्या मत्कुलागमचेष्ट्या ।वीराणामुद्धतानाञ्च मत् शरीरनुगामिनाम् ॥२२॥मच्चेच्छाकुल तत्त्वानामिति लक्षणमीरितम् ।विवेकसूत्रसंज्ञाज्ञा कार्या सुदृढचेतसाम् ॥२३॥सर्वत्र समभावनां भावमात्रं हि साधनम् ।सर्वत्र मत्पदाम्भोजसम्भवं सचराचरम् ॥२४॥पृष्ट्वा यत्कुरुते कर्म चाखण्डफलसिद्धिदम् ।अखण्डज्ञानचित्तानामिति भावं विवेकिनाम् ॥२५॥निर्मलानन्ददिव्यानामिति लक्षणमीरितम् ।दिव्ये तु त्रिविधं भावं यो जानति महीतले ॥२६॥न नश्यति महावीरः कदाचित् साधकोत्तमः ।दिव्यभावं विना नाथ मत्पदाम्भोजदर्शनम् ॥२७॥य इच्छति महादेव स मूढः साधकः कथम् ।पशुभावं प्रथमएक द्वितीये वीरभावकम् ॥२८॥तृतीये दिव्यभावञ्च दिव्यभावत्रय्म क्रमात् ।तत्प्रकारं श्रृणु शिव त्रैलोक्यपरिपावन ॥२९॥भावत्रयविशेषज्ञः षडाधारस्य भेदनः ।पञ्चतत्त्वार्थभावज्ञो दिव्याचाररतः तदा ॥३०॥स एव भवति श्रीमान् सिद्धनामादिपारगः ।शिववद् विहरेत् सोऽपि अष्टैश्वर्यसमन्वितः ॥३१॥सर्वत्र शुचिभावेन आनन्दघनसाधनम् ।प्रातःकालादिमध्याहनकालपर्यन्तधारणम् ॥३२॥भोजनञ्चोक्तद्रव्येण संयमादिक्रमेण वा ।यः साधयति स सिद्धो दिव्यभावे पशुक्रमात् ॥३३॥ N/A References : N/A Last Updated : April 10, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP