संस्कृत सूची|संस्कृत साहित्य|पुराण|दक्षिण प्रयाग माहात्म्यः| तृतीयोऽध्यायः दक्षिण प्रयाग माहात्म्यः प्रथमोऽध्यायः द्वितीयोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पंचमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः दक्षिण प्रयाग माहात्म्यः - तृतीयोऽध्यायः श्रीनृसिंहपूर क्षेत्राचे माहात्म्य वाचल्याने प्रत्यक्ष त्या क्षेत्री गेल्याचे पुण्य मिळते. Tags : nrusinhapothiprayagनृसिंहपोथीप्रयाग तृतीयोऽध्यायः Translation - भाषांतर सूत उवाच ।नृसिंहपुरमाहात्म्यं श्रुत्वा देवी मुदान्विता ।पुनः पप्रच्छ भावेन प्रणम्य गिरिशं सती ॥१॥देव्युवाच ।साधु साधु महापुण्यं रहस्यं कथितं त्वया ।माहात्म्यं पुरवर्यस्य महापापौघनाशनम् ॥२॥कियत्प्रमाणं तत्क्षेत्रं किमारभ्य भुवं गतं ।तीर्थान्यत्र कति स्वामिन् सर्वं वर्णय विस्तरात् ॥३॥श्रीशिव उवाच ।शिवे साधु महाक्षेत्रमेतद् बुद्धेरगोचरं ।प्रमाणं यावदाकाशं यावच्चित्तस्य विस्तरः ॥४॥एतद्नौणमपि प्रायो मुख्यं केचिद् हि मन्वते ।अन्यानि क्षेत्रजातानि क्षेत्रं प्राहुर्विपश्चितः ॥५॥लोकानां मूढदृष्टीनां तत्वज्ञाने कुचेतसाम् ।संसाराब्धिप्लवो दृष्टः क्षेत्रराजोऽयमुत्तमः ॥६॥पंचक्रोशं हरिपुरं नगरं योजनत्रयं ।देवालयं योजनार्धं प्रमाणमिति विश्रुतम् ॥७॥गणराजोंबिका दुर्गा शारदा बहिरास्थिताः ।क्षेत्रस्यास्य महाविघ्नान् संहर्तुं दिक्षु वै क्रमात् ॥८॥तदतरायुधान्यस्य दक्षिणोत्तरयोः पृथक् ।रक्षंति सकलापद्भ्यो महाक्षेत्रमिदं भिये ॥९॥देवालये सुरगणा मुनयः सिद्धचारणा । गंधर्वाप्सरसो नागा यक्षरक्षांसि किन्नराः ॥१०॥वसवोऽष्टौ तथा रुद्रा आदित्याः समरुन्दणाः ।अहं ब्रह्मा विश्वरुपो गणेशः सनकादयः ॥११।देवा अन्ये च शतशो रक्षंति क्षेत्रमुत्तमं ।निधिं यथा भूतगना उग्रवेषाः समंततः ॥१२॥एतत्पुरा महाकल्पे ब्रह्मणोंबुजशायिनः ।अनुग्रहायाविरभूद् दिव्यं भुवि महाद्भुतम् ॥१३॥देव्युवाच ।भगवन्ननुग्रहः कृतो ब्रह्मणो हरिणा कथं ।कथं भुवि गतं तच्च सर्वं विस्तरतो वद ॥१४॥श्रीशिव उवाच ।कल्पांते योगशय्याया उत्थिते कमलापतौ ।सिसृक्षासीत्पुरा तत्र पद्मनाभेरुदाययौ ॥१५॥तन्मध्ये रजसा युक्तो ब्रह्माभूद् विश्वसृक्पतिः ।तस्य स्वमूलपद्मस्य मूलेक्षासीदये सति ॥१६॥स वर्षाणां शतं पश्यन् नालरंध्रेण तत्पदं ।नाविंददथ संक्लिष्टो भूत्वा पद्मोपरि स्थितः ॥१७॥तत्र श्रीनृहरिः प्रेम्णा व्योमात्मा गूढमाहतं ।तपस्तपेति तं मत्वानुग्रहं स तताप ह ॥१८॥स वर्षशतमेकाग्रसमाधौ परितिष्ठितः ।तस्येदं दर्शयामास रुपं नारायणो हरिः ॥१९॥सहस्त्रशीर्षाः पुरुषः सहस्त्राक्षः सहस्त्रपात् ।सहस्त्रबाहुर्विश्वात्मा लोकान्व्याप्य व्यवस्थितः ॥२०॥दिव्याभरणशोभाढ्यो दिव्यगंधानुलेपनः ।दिव्यमाल्यांबरधरो दिव्यायुधविभूषितः ॥२१॥सर्वलक्षणलक्षण्यः सर्वसौभाग्यशेवधिः ।सर्वमंत्रमयोदेवः प्राहालं तपसा विधे ॥२२॥इति पीयूषमधुरां निपीयाब्जभवोगिरं ।स संजीव इव प्रेम्णा प्रफुल्लवदनांबुजः ॥२३॥प्रणम्य देवदेवेश्म प्रणतार्तिहरं हरिं ।अस्तौषीदेकमनसा हरिदर्शनलब्धधीः ॥२४॥ब्रह्योवाच ॥नमोऽस्तु लीलामयविग्रहाय स्वरुपदृष्ट्याहतसद्भ्रमाय ।नमः परानंदपरालयाय स्वभावसंपत्तिमहोदयाय ॥२५॥नमो गुणानां पतये महिम्ने विकारधाम्नेऽखिलकारणाय ।नमो जगद्भासयते गरिम्णे सते चिदात्माकृतये गुणाय ॥२६॥त्वमादिरस्यासि निदानमध्य्म विश्वाकृतिस्त्वं प्रलयो विभुस्त्वं ।त्व्म सर्वयोनिस्त्वसर्वयोनिस्त्वं सर्वशोऽसित्वमसर्वशश्च ॥२७॥नम्ह पुरस्तादथ पार्श्वयोस्ते पश्चान्नमोंतर्बहिरीश्वराय ।पूर्णाद्वितीयाय नमः पराय अणीयसेऽनंतचिदे परस्मै ॥२८॥व्नेः स्फुलिंगा इव वारिंभंगाः सिंधोरिवौघा इव वासनानां ।भवंति तिष्ठंति वियंति यत्र ब्रह्मांडसंघास्तमजं प्रपद्ये ॥२९॥यदीक्षया जनिरस्याप्रमेयो विभुर्नृसिंहो वरदो ममास्तु ।योनाहमस्मिन् विविधेऽत्रसगें संप्रेरितः कालविनष्टदृष्टीः ॥३०॥यस्यादेशात् सर्गकर्मप्रवृत्तो भूत्वाप्यहं कालसंमूढचेताः ।स पुण्यवाचा मम सृष्टिमेतामलंकरोतु प्रभविष्णुरीशः ॥३१॥इहैव लोको ह्यसमीक्ष्य बद्धो मायागुणैः कामयते नु कामान् ।यच्छन्नमुष्मै य इहाप्रमेयो हरत्यनंतो निमिषं प्रसीद ॥३२॥नमो नियंत्रे नियमालयाय नमो जगन्मोहतमोरुणाय ।नमो नृसिंहाय विलासधाम्ने नमः शिवायमितविक्रमाय ॥३३॥नमो मनोदूरचराय वाचां बाचामनिर्देश्यपदाय भूम्ने ।नमः स्वभासाखिलभासकाय प्रमाणमात्रे जगदीश्वराय ॥३४॥श्रीशिव उवाच ।इति स्तुत्वा यथाप्रज्ञमजमात्मानमीश्वरं ।तूष्णूं बभूव विश्रांत इव स्वे मनसीश्वरः ॥३५॥ततः प्रसादमधुरस्मितपीयूषसन्मुखः ।प्राह देवेश्वरी वाचा जीवयन्निगमानिव ॥३६॥श्रीभगवानुवाच ।अब्जयोने प्रसन्नोऽहं वरं वरय सुव्रत ।आदेशान्मम यत्पूर्वं तपस्तप्तं त्वया खलु ॥३७॥सर्वत्र मद्भावनया दूरयस्व रजो महत् ।अहमेवाखिलं वस्तु सदसत्परमव्ययम् ॥३८॥भूतं भव्यं भवच्चान्यन्नमत्तोऽस्ति चराचरं ।मय्येव मन आधत्स्व रजोगुणनिवृत्तये ॥३९॥यदात्मनि न निर्भातमाभाति च निरर्थंकम् ।तत्तमो बिंबवन्मायां जानीहि हीनदर्शनं ॥४०॥मदात्मा मद्विकारस्त्वं मत्कर्मा मदवस्थितिः ।मयात्मना सृजन् सर्वमपि नो लिप्यसे गुणैः ॥४१॥सिद्धं सर्वेश्वर त्वत्तः सर्वं मे यदभीप्सितं ।कामद्रुममवाप्याहो कः शोचेत हि पंडितः ॥४२॥तथापि याचे ह भवतः शासनेन महेश्वर ।स्थातव्यं भुवि देवेश रुपेणानेन सर्वग ॥४३॥ये मूढा ये दुराचारा ये च कामहता नराः ।तेषां मदान्धमनसां प्रसादं कर्तुमर्हसि ॥४४॥श्रीभगवानुवाच ।विधेद्यारभ्य तिष्ठामि भुवि लोकहितंकरः ।श्रवणाद्दर्शनाध्यानात्कायवाङ्मनसाघह्रत् ॥४५॥जंबुद्वीपे भारतेऽहं गोदाकृष्णांतरावनौ ।तिष्ठामि शंभुना सार्धमेकरुपः सतां गतिः ॥४६॥नृसिंहनामा जीवानां बंधहा वरदेश्वर ।स्थास्यामि दृश्यादृश्यात्मा नानाशक्तिभिरादरात् ॥४७॥तवानुग्रहकामाय लोकानां हितमीप्सया ।स्थितोऽपि पापैर्दुर्लभ्यः प्रायशोऽहं प्रजाधिप ॥४८॥तथापि पूर्वदत्तं ते वचनं कर्तुमिच्छया ।नीराभीमाबुकल्लोले विहरामि सुरेश्वर ॥४९॥ततः प्रल्हादनामाग्रे दैत्यपुत्रो भविष्यति ।स नारद वचसा करिष्यति तपो महत् ॥५०॥तत्तपस्तुष्ठ आराद्वि नीराभीमांबुसंगमात् ।स्थास्ये प्रत्यङमुखो ब्रह्मन् द्विभजः सिद्धिभूषणः ॥५१॥ततो मां भुवि सल्लोका भजिष्यंति सुसिद्धये ।अष्टाक्षरमनुप्रोक्तं प्रजापनवराभयम् ॥५२॥सर्वेषामिहभूतानां भजतां मामनारतं ।ददामि विपुलान् भोगानंते कैवल्यमद्भुतम् ॥५३॥श्रीशिव उवाच ।इत्युक्त्वा भगवान् विष्णुः प्रणतो ब्रह्मणार्चितः ।अंतर्धायात्मनोरुपं भुवि प्रादुर्भवं गतः ॥५४॥इमं प्रादुर्भवाध्यायं यः श्रोष्यति पठिष्यति ।सर्वान् कामानवाप्नोति प्रसादन्नृहरेहरेस्तु सः ॥५५॥इति श्रीपद्मपुराणे नृसिंहपुरमाहात्म्ये श्रीशिवपार्वतीसंवादे श्रीनृसिंहप्रादुर्भावो नाम तृयीयोऽध्यायः । N/A References : N/A Last Updated : March 23, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP