दक्षिण प्रयाग माहात्म्यः - द्वितीयोऽध्यायः

श्रीनृसिंहपूर क्षेत्राचे माहात्म्य वाचल्याने प्रत्यक्ष त्या क्षेत्री गेल्याचे पुण्य मिळते.


देव्युवाच ।
कासौ शक्तिर्द्रवीभूता विष्णोस्ते जीवितेश्वर ।
किं नाम कथमाख्याभूद्युदयोरिति शंस मे ॥१॥

श्रीशिव उवाच ।
या शक्तिर्वैष्णवी देवि द्रवीभूतामलाशिवा ।
सा नीरेति समाख्याता विष्णुतत्वैकवादिभिः ॥२॥
नयनी सर्वभावांना नीरा या कथ्यते बुधैः ।
सा नीरा प्रथिता लोके विष्णोः शक्तिः परेश्वरी ॥३॥
निःशेषरमणा नीरा चिद्रसानंदवर्धिनी ।
नीराकारा हरितनुः सेव्या सुरमुनीश्वरैः ॥४॥
नानासिद्धिप्रदा पुण्या पुण्यवदभिरवाप्यते ।
तथा नयति पापानि लोकानां या स्वरुपतः ।
भीमस्य मे द्रवतनुर्भीमा लोकेषु पठ्‌यते ॥६॥
इयं हरति लोकानां भीतिं हि भवसिंधुतः ।
नीराहरिरहं भीमा द्वयोर्योगः सुदुर्लभः ॥७॥
संगमोऽयं भुवि ख्यातः प्रयाग इति पावनः ।
अभवद्यजनं यत्र प्रहर्षमगमन्‌ सुराः ॥८॥
प्रयागमिति विख्यातं प्रयागात्मोटिपुण्यदं ।
महर्षिभिः कथितो यस्य महिमा श्रुणु पार्वति ॥९॥
नीराभीमरथीयोगं ये श्रृण्वंति विदूरतः ।
ते पापपंजरं हित्वा यांति विष्णोः परं पदम्‌ ॥१०॥
किं पुनः श्रद्धया नित्यं ये सेवंते महाधियः ।
नृसिंहमूर्तिं संद्दष्ट्‌वा पुरीं प्राप्ता महोदयाः ॥११॥
नीरा नीरेति भीमेति सकृन्नाम जपंति ये ।
तेषां नामैव गृणतां यमदूता न गोचराः ॥१२॥
नीराभीमांबुकल्लोलदर्शनोदितचेतसां ।
पितरो नरकाद्यांति बहिर्विमलिताशयाः ॥१३॥
इच्छंति ते सदात्द्येतदहो नः कुलदीपकः ।
कश्चिद्नता नरो योगं नीराभीमोद्भवं सुधीः ॥१४॥
तर्पयिष्यति सुस्नातः श्राद्धं भक्त्या करिष्यति ।
तेन तृप्ता दिवं गत्वा वत्स्यामः शाश्वतीः समाः ॥१५॥
नीरा भीमरथीयोगं द्रष्टुस्तुष्टाः पितामहाः ।
पुष्टीं ददाति धर्मस्य कष्टान्‍  दूरे दधत्यलम्‍ ॥१६॥
नीराभीमरथीयागे स्नातस्यांगेषु बिंदवः ।
तावंत्यबद्‌सहस्त्राणि वसतिः स्मर्यते दिवि ॥१७॥
यमुद्दिश्यांजलिं दत्ते नीराभीमांबुसंगमे ।
स विमानमुपारुह्य तत्क्षणान्मुच्यते भवात्‍ ॥१८॥
नीराभीमरथीयोगे श्राद्धं कृत्वा पितृनेकोत्तरं शतम्‍ ॥१९॥
ये नानायोनिगंतारो ये नानानरकार्दिताः ।
ते मुच्यन्ते क्षणादिवे नीराभीमांबुतर्पणात्‌  ॥२०॥
एकं संम्भोजयन्जीवं नीराभीमाम्बुसंगमे ।
त्रैलोक्यतृप्तिं विधिवन्नयेदाकल्पिकीं नरः ॥२१॥
यत्र श्रीमान्नरहरिः कैवल्याद्यखिलार्थदः ।
भक्तनुग्रहवानास्ते सरुपोऽरुपवानपि ॥२२॥
अहो क्षेत्रस्य माहात्म्यं को विजानाति तत्वतः ।
सहस्त्रवदनोऽप्याहो यत्र मूक इव स्थितः ॥२३॥
एवं नरहरेः साक्षात्‍ सच्चिदानंदरुपिणः ।
शरीरं क्षेत्ररुपेण प्रतिष्ठामात्पमत्र हि ॥२४॥
वालुकाविष्णुरुपेण तरवो विबुधोत्तमाः ।
पक्षिणो मुनयो यत्र मानवाश्चिद्रसात्मकाः ॥२५॥
सदा पुण्यतमः कालो देशः पुण्यतमः सदा ।
सदा पात्रं पवित्रं हि यत्र देवो नृकेसरी ॥२६॥
तत्तीर्थं  तीर्थतरणं तत्साधनमनुत्तमम्‌ ।
सा सिद्धिर्महती देवि पश्चाद्वापार्श्वैत्यलं ।
न शक्यतेऽधिंक कर्तुं परिपूर्णस्य सर्वतः ॥२८॥
तथापि लीलया तस्य गतीनां नियमः कृतः ।
तेनैव पश्यतां देवि ब्रह्मादीनां पुरः पुरा ॥२९॥
देवाग्रे मुक्तिरुद्दिष्टामृतानां पृष्ठातोधनं ।
वामे स्वर्गोऽथ विज्ञानं दक्षिणे परमात्मनः ॥३०॥
लब्घा भरतवर्षेऽत्र जन्ममानुषमुत्तमम्‍ ।
न गच्छेन्नृहरेः स्थानं स शोच्योवंचितो बत ॥३१॥
नृशब्दो जीववाचीह सिंशब्दो बंधवाचकः ।
नृसिं हंता नृंसिंहोऽयं जीवबंधविनाशकः ॥३२॥
नृसिंहेणाभितो ज्ञानं भक्तिवैराग्ययोगतः ।
पूर्ण पुरं त्रिलोकस्थैर्नृसिंहपुरमीर्यते ॥३३॥
एतद्रहस्यं त्रिषु विष्टपेषु रहस्यमेतत्‍ त्रिषु वैदिकेषु ।
एतद्रहस्यं त्रिगुणेश्वरेषु संगीयते वेदशिरोभिरार्यैः ॥३४॥
एतत्त्रयाणां लोकानामुपरिष्टात्पुरास्थितं ।
मदनुग्रहतो भूमौ ख्यातिमागादनुत्तमाम्‌ ॥३५॥
ब्रह्मणा तु पुरा प्रोक्तं रहस्यं मे प्रसंगतः ।
मया प्रोक्तं नारदाय सुरेभ्यः प्राह यो मुदा ॥३६॥
ततो लोकेषु विख्यातमभूत्पापहरं परं ।
सद्यः सिद्धिकरं देवि महामोक्षैकसाधकम्‍ ॥३७॥
विना जपं विना ध्यानं विनाचेंद्रियसंयमं ।
यथात्रभुक्तिर्मुक्तिश्च न तथान्यत्र कुत्रचित्‍ ॥३८॥
संति पुर्योवनानीह सरिच्छैलसरांस्यहो ।
न नृसिंहसमो देवो नीराभीमाकृतालयः ॥३९॥
एकतः सर्वतीर्थानि नृसिंहपुरमेकतः ।
न भवंति समान्यार्ये भुक्तिमुक्तिमहर्द्धिभिः ॥४०॥
कलिकल्मषबुद्धीनां पुरतो मृण्मयं स्फुटम्‌ ।
भविष्यति महाक्षेत्रं सर्वतेजोमय्म त्विदम्‌ ॥४१॥
न कर्लिन च वा कालो नाधिर्नव्याधिरुल्बणा ।
यत्र जागर्ति चंडोग्रो मृत्योर्मृत्युर्नृकेसरी ॥४२॥
तावत्पातकमातंगा गर्जन्ति भुवि निर्भयाः ।
यावद्‍ भीमातटोल्लासि सिंहनाम न वाक्पथे ॥४३॥
प्रसंगादुपहासाद्वा संकेतादुपदीर्तितं ।
नृसिंहेति सकृन्नाम दहेत्‍ पापौघपंजरम्‍ ॥४४॥
स यत्र लीलामास्थाय रमतेऽनंतशक्तिमान्‌ ।
ततः किं परंम लोके वर्णनीयं फलर्थिंभिः ॥४५॥
देवि तत्रास्थितो जन्तुर्लीलयाप्नोति याम गातिं ।
सा योगैरुत यागाद्यैः प्राप्तुमन्यत्र दुर्लभा ॥४६॥
अलं योगैरलं यागैलं दीनव्रतादिभिः ।
प्राप्तिर्यदिस्यान्नृहरेः पदस्यास्यमहौजसः ॥४७॥
श्रीनृसिंहकराग्रेण कल्पांतनखरोज्ज्वलं ।
त्रिकोणमस्त्रमेतद्धि राजते परमर्द्धिभिः ॥४८॥
तत्तीर्थं वरमद्यापि श्रूयते पुण्यगौरवात्‍ ।
यत्र श्रीसिंहवदन. श्रवणादेव मोक्षदः ॥४९॥
नीरामीमासमुत्पत्तिमाहात्म्यं नृहरेः पुरं ।
श्रृगुयात्कीर्तयेद्भक्त्या यः स पापैः प्रमुच्यते ॥५०॥
इति श्रीपद्मपुराणे नृसिंहपुरमाहात्म्ये श्रीशिवपार्वतीसंवादे नृसिंहपुरक्षेत्रमहिमावर्णनं नाम द्वितीयोऽध्यायः ।

N/A

References : N/A
Last Updated : March 23, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP