प्रथमःपरिच्छेदः - परिच्छेदः २

श्री १००८ श्रीमत्परमहंसपरिव्राजकाचार्य-योगीन्द्रवर्य-श्रीआत्मानन्दसर स्वतीस्वामिभिंर्विरचितः ।


अत्र पूर्वपक्षे मुमुक्षूणां वेदान्तेष्वप्रवृति:फलं ।
सिद्धांते तु मुमुक्षूणामुपनिषत्सु ब्रह्मज्ञानाय
विचारात्मकप्रवृत्तिसिद्धिः फलमिति विवेकः ।
अथात्रेयमपरा विप्रतिपत्तिः किं वेदांताः कर्मशेषतया ब्रह्मप्रतिपादनपरा उत नित्यशुद्धबुद्धमुक्तब्रह्मपरायणाः
अत्र अकर्मशेषब्रह्मपरत्वं वेदांतानामिति सिद्धांतः ‘यस्य निःश्र्वसितं वेदा यो वेदेभ्योखिलं जगत्,
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्र्वर’ मित्याम्नानात्, अत्र संसारतारणशक्तिमत्त्वेन विद्यायास्तीर्थरूपता
तत्र सकलानात्मवासनामलक्षालने सति  महेश्र्वरस्य प्रकाशनात्
विद्यायास्तावत्स्वोत्पत्तौ शास्त्रप्रमाणापेक्षणात् शास्त्रप्रमाणकत्वं ब्रह्मणः स्पष्टमभिधीयते
तथा च--तत्त्वमस्यादिमहावाक्यैरुपक्रमोपसंहारादिषड्विधलिंगावधृततात्पर्यैर्भागत्यागलक्षणया अखंडैकरसत्वेन ब्रह्मबोधः ।
तदुक्तं भगवत्पूज्यपादैः-- ‘संसर्गो वा विशिष्टो वा वाक्यार्थो नात्र संमतः ।
अखंडैकरसत्वेन वाक्यार्थो विदूषां मतः’ इति एतेन वेदांतानां कर्तृदेवतादिप्रतिपादकत्वैनार्थवादत्वमित्यपास्तं
मुख्यार्थस्य ब्रह्मणोपरित्यागे मानाभावात् "वर्णमात्रस्य नित्यंत्वं वर्णानां संततेरुत ।
नाद्यः सर्वलये तेषां लयसंभव हेतुतः" इत्यादिभिः प्रमाणैर्वेदानामक्षरत्वप्रमाणानां
बाधासंभवात् उत्पत्तिविनाशशालित्वप्रत्ययस्यान्यथासिद्धत्वात् सोयं गकार
इत्यादिप्रत्यभिज्ञाबलान्न वर्णानां क्षणिकत्वं किं तु आकाशादिवन्नित्यत्वमेव
तच्च सर्गाद्यकालीनोत्पत्तिमत्त्वं प्रलयकाले विनाशित्वं चेति नाद्वैतश्रुतिविरोधः ।
अत एव न तत्समुदायात्मकं पदमपि क्षणिकं न च पदसमुदायात्मकं वाक्यमपि
क्षणिकम् अथ च तादृशवाक्यसमुदायात्मको वेदोऽपि न क्षणिकः ।
तथैवोक्तं भगवता सूत्रकारेण "अत एव च नित्यत्वम्"
इति आभूतसंप्लवं स्थानममृतत्वं हि भाष्यते" इत्याद्युक्तरीत्या
प्रलयपर्यंतावस्थायित्वं नित्यत्वमिति ‘छंदांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत" "अस्य महतो भूतस्य निःश्र्वसितम्"
इत्यादिवेदजनिप्रतिपादकश्रुतीनामविरोधः, अबाधितं च वेदाचार्यत्वे परमेशितुः
वेदस्य स्वतःप्रामाण्यं च न च वेदस्योत्पत्तिविनाशाभ्युपगमे पौरुषेयतया स्वतःप्रामाण्यंव्याहन्येतेति
चेत् न पुरुषाधीनोत्पत्तिमत्त्वाभावेनापौरुषेयत्वं "तत्तेजो असृजत तत्सृष्ट्वातदेवानुप्राविशत्"
इत्यादिश्रुतिभिः कर्तुमकर्तुमन्यथाकर्त्तुसमर्थाद्ब्रह्मणो वेदस्याविर्भावमात्रस्य प्रतिपादनात्
सजा तीयोचारणमनपेक्ष्योच्चार्यमाणत्वं हि पौरुषेयत्वम्, ईश्र्वरस्तु पूर्वपूर्वकल्पीयवेदानुपूर्वी
मपेक्ष्यैव सर्गादौ वेदं विरचितवान्; इति वेदस्यापौरुषेयत्वमक्षतमेव, तथा च श्रुतयः
"धाता यथापूर्वमकल्पयत्" "आहो विद्वानमुं लोकं प्रत्याकश्र्चित् समश्नुता ३ उ"
पुरुषतन्त्रत्वाभावादेव स्वतःप्रामाण्यमप्यव्याहतं वेदस्येत्यलं पल्लवितेन ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP