सप्तमोऽध्यायः - श्लोक १०१ ते ११३

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


कर्तव्या नेतेरेषां च कारयेन्मतिमान्नरः । गृहमध्ये कृतं स्तम्भं ब्रह्मणो वेधमुच्यते ॥१०१॥

भित्तिश्चैव न कर्तव्या न ब्रह्मस्थान मुच्यते । तत्स्थानं यत्नतो रक्षेद्गृही कीलादिकैस्तथा ॥१०२॥

भाण्डेनाशुचिना तद्वच्छल्येन भस्मना तथा । रोगा नानाविधाः शोका जायन्ते तत्र नित्यशः ।

द्वारस्योपि यदद्वारं शकटं स्मृतम ॥१०३॥

चतुष्षऽष्ट्यंगुलोत्सेधं चतुस्त्रिंशच्च विस्तरम । द्वारस्योपरि यत्नेन शिवाय शकटं च यत ।

अध्माते क्षुद्रजं प्रोक्तं कुले कुलविनाशनम॥१०४॥

पीडाकरं पीडितं तु अभावं मध्यपीडितम । बाह्योन्नते प्रवासः स्याद्दिग्भ्रांते दस्युतो भयम ।

दौर्भाग्य निधनं रोगा दारिद्य्रं कलहं तथा ॥१०५॥

विरोधाश्चार्थनाशश्च सर्ववेधे क्रमाद्भवेत । पूर्वेण फलिता वृक्षा क्षीरवृक्षाश्च दक्षिणे ।

पश्चिमेन जलं श्रेष्ठं पद्मोत्पलभूषितम ॥१०६॥

सर्वताश्चापि कर्तव्य परिखावलयादिकम । याम्य तपोवनस्थानमुत्तरे मातृकागृहम ॥१०७॥

वारुणे श्रीनिवासस्तु वायव्ये गृहमालिका । उत्तरे यज्ञशाला तु निर्माल्यस्थानमुच्यते ॥१०८॥

वारुणे सोमदैवत्ये बलिनिर्वपणं स्मृतम । पुरतो वृषभस्थानं शेषं स्यात्कुसुमायुधम ॥१०९॥

जलवापी तथैशान्ये विष्णुं च जलशायिनम । एवमायतनं कुर्याच्छुभमण्डपसयुतम ॥११०॥

घण्टावितानकस्तोरणचित्रयुक्तं नित्योत्सवप्रमुदितेन जनेन सार्द्धम ।

यः कारयेत्सुगृहम भवनं ध्वजांकं श्रीस्तं न मुञ्चति सदा दिवि पूज्यते च ॥१११॥

एव द्वारार्चनविधि कृत्वा द्वारबलिं ततः । महाध्वजं द्वारमुखे प्रवेशसमये कृतम ॥११२॥

पुत्रदारधनादीनां वृद्धिदं सर्वकर्मणि । इति द्वारविधिः प्रोक्तो मया ब्रह्ममुखोदितः ।

यः करोति विधानेन स सुखी पुत्रवान भवेत ॥११३॥

इति वास्तुशास्त्रे द्वारनिर्माणं नाम सप्तमोऽध्यायः ॥७॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP