षष्ठोऽध्यायः - श्लोक १२१ ते १३६

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


तत्र रत्नादिभिस्सार्द्ध भूमि च त्दृदये न्यसेत । तत्तद्गर्भ हि तस्यैव नीरन्ध्रं वज्रलेपकैः ।

लिप्तोऽथ शांतितोयेन प्रोक्ष्योल्लिख्योक्तवत्ततः ॥१२१॥

ततस्तेजोभि ( वि ) धांशक्तिं कलितासनरुपिणीम ।स्थापयेच्च सुलग्ने तु दैवज्ञोक्ते मुहुर्तके ॥१२२॥

अथात संप्रवक्षामि मण्डपानां लक्षणम मण्डपान प्रवरान वक्ष्ये प्रासादस्यानुरुपतः ॥१२३॥

विविधा मण्डपाः कार्याः श्रेष्ठमध्यकनीयसः । नामतस्तान प्रवक्ष्यामि श्रृणुध्वं द्विजसत्तमाः ॥१२४॥

पुष्पकः पुष्पभद्रश्च सु वृत्तोऽमृतनन्दनः । कौशल्यो बुद्धिसंकीर्णो गजभद्रो जयावहः ॥१२५॥

श्रीवृक्षो विजयश्चैव वास्तुकोऽर्णश्रुतन्धरः । जयभद्रो विलासश्च सश्लिष्टः शत्रुमर्दनः ॥१२६॥

भाग्यपञ्चौ नन्दनश्च भानवो मानभद्रकः । सुग्रीवो हर्षणश्चैव कर्णिकारः पदाधिकः ॥१२७॥

सिहश्च यामभद्रश्च शत्रुघ्नश्च तथैव च । सप्तविंशतिराख्याता लक्षणं श्रृणुत द्विजाः ॥१२८॥

स्तम्भा यत्र चतुष्षष्टिः पुष्यकः स उदात्दृतः । द्वाषष्टिः पुष्पभद्रस्तु षष्टिस्तु वृत्त उच्यते ॥१२९॥

स्तंभोऽष्टपञ्चाशद्वापि कथ्यतेऽमृतनन्दनः । कौशल्योऽथ द्विपञ्चाशच्चतुःपंचशतात्पुनः ॥१३०॥

नाम्ना तु बुद्धिसंकीर्णो द्विहिनो राजभद्रकः । जयावहस्त्रिपंचाशच्छ्रीवत्सस्तु द्विहिनकः ॥१३१॥

द्वात्रिंशद्धर्षणो ज्ञेयः कर्णिकारश्च विंशतिः । पदद्विकोऽष्टाविंशतिभिर्द्वरष्टो सिंह उच्यते ॥१३२॥

द्विहिनो यामभद्रस्तु शत्रुघ्नश्च निगद्यते । यामभद्रः क्वचित्प्रोक्तो द्वादशस्तम्भसंयुतः ॥१३३॥

मण्डपाः कथिता ह्येते यथावल्लक्षणान्विताः । त्रिकोणवृत्त मध्ये तु अष्टकोणं द्विरष्टकम ॥१३४॥

चतुष्कोणं च कर्तव्यं संस्थानं मण्डपस्य तु । राज्य़ं च विजयं चैव आयुर्वर्द्धनमेव च ॥१३५॥

पुत्रलाभः श्रियः पुष्टिः स्त्रीपुत्रादि क्रमद्भवेत । एवन्तु शुभदः प्रोक्तः अन्यथा तु भयावहः ॥१३६॥

इति वास्तुशास्त्रे प्रासादविधानं नाम षष्ठोऽध्यायः ॥६॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP