तत्त्वविवेकाख्यम् - श्लोक ४१ - ६५

'सार्थपंचदश्याम्' या ग्रंथात श्रीशंकराचार्यांनी मानवाच्या आयुष्यातील तत्वज्ञान सोप्या भाषेत विशद केले आहे.


सुषुप्त्य् अभाने भानं तु समाधाव् आत्मनो ऽन्वयः । व्यतिरेकस् तु आत्म भाने सुषुप्त्य् अनवभासनम् ॥४१॥

यथा मुञ्जाद् इषीकैवम् आत्मा युक्त्या समुद्धृतः । शरीर त्रितयाद् धीरैः परं ब्रह्मैव जायते ॥४२॥

परापरात्मनोर् एवं युक्त्या सम्भावितैकता । तत् त्वम् असि आदि वाक्यैः सा भाग त्यागेन लक्ष्यते ॥४३॥

जगतो यद् उपादानं मायाम् आदाय तामसीम् । निमित्तं शुद्ध सत्त्वां ताम् उच्यते ब्रह्म तद् गिरा ॥४४॥

यदा मलिन सत्त्वां तां काम कर्मादि दूषितम् । आदत्ते तत् परं ब्रह्म त्वं पदेन तदोच्यते ॥४५॥

त्रितयीम् अपि तां मुक्त्वा परस्पर विरोधिनीम् । अखण्डं सच्चिदानन्दं महा वाक्येन लक्ष्यते ॥४६॥

सो ऽयम् इत्य् आदि वाक्येषु विरोधात् तद् इदन्तयोः । त्यागेन भागयोर् एक आश्रयो लक्ष्यते यथा ॥४७॥

मायाविद्ये विहायैवम् उपाधी पर जीवयोः । अखण्डं सच्चिदानन्दं परं ब्रह्मैव लक्ष्यते ॥४८॥

सविकल्पस्य लक्ष्यत्वे लक्ष्यस्य स्याद् अवस्तुता । निर्विकल्पस्य लक्ष्यत्वं न दृष्टं न च सम्भवी ॥४९॥

विकल्पो निर्विकल्पस्य सविकल्पस्य वा भवेत् । आद्ये व्याहतिर् अन्यत्र अनवस्थ् आत्म् आश्रय् आदयः ॥५०॥

इदं गुण क्रिया जाति द्रव्य सम्बन्ध वस्तुषु । समं तेन स्वरूपस्य सर्वम् एतद् इतीष्यताम् ॥५१॥

विकल्प तद् अभावाभ्याम् असंस्पृष्टात्मा वस्तुनि । विकल्पितत्व लक्ष्यत्व सम्बन्धाद्यास् तु कल्पिताः ॥५२॥

इत्थं वाक्यैस् तद् अर्थानुसन्धानं श्रवणं भवेत् । युक्त्या सम्भावितत्वानुसन्धानं मननं तु तत् ॥५३॥

ताभ्यां निर्विचिकित्से ऽर्थे चेतसः स्थापितस्य यत् । एकतानत्वम् एतद्द् हि निदिध्यासनम् उच्यते ॥५४॥

ध्यातृ ध्याने परित्यज्य क्रमाद् ध्येयैक गोचरम् । निवात दीपवच् चित्तं समाधिर् अभिधीयते ॥५५॥

वृत्तयस् तु तदानीम् अज्ञाता अप्य् आत्म गोचराः । स्मरणाद् अनुमीयन्ते व्युत्थितस्य समुत्थितात् ॥५६॥

वृत्तीनाम् अनुवृत्तिस् तु प्रयत्नात् प्रथमाद् अपि । अदृष्टासकृद् अभ्यास संस्कार सचिवाद् भवेत् ॥५७॥

यथा दीपो निवातस्थ इत्य् आदिभिर् अनेकधा । भगवान् इमम् एवार्थम् अर्जुनाय न्यारूपयत् ॥५८॥

अनादाव् इह संसारे संचिताः कर्म कोटयः । अनेन विलयं यान्ति शुद्धो धर्मो विवर्धते ॥५९॥

धर्म मेघम् इमं प्राहुः समाधिं योगवित्तमाः । वर्षत्य् एष यतो धर्मामृत धाराः सहस्रशः ॥६०॥

अमुना वासना जाले निःशेषं प्रविलापिते । समूलोन्मूलिते पुण्य पापाख्ये कर्म संचये ॥६१॥

वाक्यम् अप्रतिबद्धं सत् प्राक् परोक्षावभासिते । करामलकवद् बोधम् अपरोक्षं प्रसूयते ॥६२॥

परोक्षं ब्रह्म विज्ञानं शाब्दं देशिक पूर्वकम् । बुद्धि पूर्व कृतं पापं कृत्स्नं दहति वह्निवत् ॥६३॥

अपरोक्षात्मा विज्ञानं शाब्दं देशिक पूर्वकम् । संसार कारणाज्ञान तमसश् चण्ड भास्करः ॥६४॥

इत्थं तत्त्व विवेकं विधाय विधिवन् मनः समाधाय । विगलित संसृति बन्धः प्राप्नोति पारं पदं नरो नचिरात् ॥६५॥

इति प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : March 09, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP