चाणक्यनीतिदर्पणाः - अष्टमोऽध्यायः

आर्य चाणक्यने आपल्या नीतिशास्त्र या ग्रंथात आदर्श जीवन मूल्ये सविस्तर सांगितली आहेत.

Nitishastra is a treatise on the ideal way of life, and shows Chanakya's in depth study of the Indian way of life.


अधमा धनमिइच्छन्ति धनं मानं च मध्यमाः ।

उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥१॥

इक्षुरापः पयो मूलं ताम्बूलं फलमौषधम् ।

भक्षयित्वाऽपिकर्तव्याःस्नानदानादिकाःक्रियाः ॥२॥

दीपो भक्षयते ध्वान्तं कज्जलं च प्रसूयते ।

यदन्नं भक्ष्यते नित्यं जायते तादृशी प्रजा ॥३॥

वित्तंदेहि गुणान्वितेष मतिमन्नाऽन्यत्रदेहि क्वचित् ।

प्राप्तं वारिनिधेर्जलं घनमुचां माधुर्ययुक्तं सदा

जीवाः स्थावरजड्गमाश्च सकला संजीव्य भूमण्डलं ।

भूयः पश्यतदेवकोटिगुणितंगच्छस्वमम्भोनिधिम् ॥४॥

चाण्डालानां सहस्त्रैश्च सूरिभिस्तत्त्वदर्शिभिः ।

एको हि यवनः प्रोक्तो न नीचो यवनात्परः ॥५॥

तैलाभ्यड्गे चिताधूमे मैथुने क्षौरकर्मणि ।

तावद् भवति चाण्डालो यावत्स्नानं न चाचरेत् ॥६॥

अजीर्णे भेषजं वारि जार्णे वारि बलप्रदम् ।

भोजने चाऽमृतं वारि भोजनान्ते विषप्रदम् ॥७॥

हतं ज्ञानं क्रियाहीनं हतश्चाऽज्ञानतो नरः ।

हतं निर्नायकं सैन्यं स्त्रियो नष्टा ह्यभर्तृकाः ॥८॥

वृध्द्काले मृता भार्या बन्धुहस्ते गतं धनम् ।

भाजनं च पराधीनं स्त्रिः पुँसां विडम्बनाः ॥९॥

अग्निहोत्रं विना वेदाः न च दानं विना क्रियाः ।

न भावेनविना सिध्दिस्तस्माद्भावो हि कारणम् ॥१०॥

न देवो विद्यते काष्ठे न पाषाणे न मृण्मये ।

भावे हि विद्यते देवस्तस्माद्भावो हि कारणम् ॥११॥

काष्ठ-पाषाण-धातूनां कृत्वा भावेन सेवनम् ।

श्रध्दया च तया सिध्दिस्तस्य विष्णोः प्रसादतः ॥१२॥

शान्तितुल्यं तपो नास्ति न सन्तोषात्परं सुखम् ।

न तृष्णया परो व्याधिर्न च धर्मो दया परः ॥१३॥

क्रोधो वैवस्वतो राहा तृष्णा वैतरणी नदी ।

विद्या कामदुधा धेनुः सन्तोषो नन्दनंवनम् ॥१४॥

गुणो भूषयते रूपं शीलं भूषयते कुलम् ।

सिध्दिर्भूषयते वद्यां भोगी भूषयते धनम् ॥१५॥

निर्गुणस्य हतं रूपं दुःशीलस्य हतं कुलम् ।

असिध्दस्य हता विद्या अभोगेन हतं धनम् ॥१६॥

शुध्दं भूमिगतं तोयं शुध्दा नारी पतिव्रता ।

शुचिः क्षेमकरोराजा संतोषी ब्राह्मणः शुचिः ॥१७॥

असंतुष्टा द्विजा नष्टाः संतुष्टाश्च महीभृतः ।

सलज्जागणिकानष्टाः निर्लज्जाश्च कुलांगनाः ॥१८॥

किं कुलेन विशालेन विद्याहीनेन देहिनाम् ।

दुष्कुलं चापि विदुषी देवैरपि हि पूज्यते ॥१९॥

विद्वान् प्रशस्यते लोके विद्वान्सर्वत्र गौरवम् ।

विद्यया लभते सर्व विद्या सर्वत्र पूज्यते ॥२०॥

रूपयौवनसंपन्ना विशालकुलसम्भवाः ।

विद्याहीना नशोभन्ते निर्गन्धा इवकिंशुकाः ॥२१॥

मांसभक्षैः सुरापानैः मूर्खैश्चाऽक्षरवर्जितैः ।

पशुभि पुरुषाकारर्भाराक्रान्ताऽस्ति मेदिनी ॥२२॥

अन्नहीना दहेद्राष्ट्रं मंत्रहीनश्च रिषीत्विजः ।

यजमानं दानहीनो नास्ति यज्ञसमो रिपुः ॥२३॥

N/A

References : N/A
Last Updated : September 19, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP