चाणक्यनीतिदर्पणाः - नवमोऽध्यायः

आर्य चाणक्यने आपल्या नीतिशास्त्र या ग्रंथात आदर्श जीवन मूल्ये सविस्तर सांगितली आहेत.

Nitishastra is a treatise on the ideal way of life, and shows Chanakya's in depth study of the Indian way of life.


मुक्तिमिच्छासि चेत्तात ! विषयान् विषवत्त्यज ।

क्षमाऽऽर्जवं दया शौचं सत्यं पीयूषवत्पिब ॥१॥

परस्परस्य मर्माणि ये भाषन्ते नराधमाः ।

त एव विलयं यान्ति वल्मीकोदरसर्पवत् ॥२॥

गन्धः सुवर्णे फलभिक्षुदंडे-

नाऽकारि पुष्पं खलु चन्दनस्य ।

विद्वान् धनी भूपतिदीर्घजीवी

धातुः पुरा कोऽपि न बुध्दिदोऽभूत् ॥३॥

सर्वौषधीनाममृतं प्रधानम्

सर्वेषु सौख्येष्वशनं प्रधानम् ।

सर्वेन्द्रियाणां नयनं प्रधानं

सर्वेषु गात्रेषु शिरः प्रधानम्। ॥४॥

दुतो न सञ्चरति खे न चलेच्च वार्ता ।

पुर्व न जल्पितमिदं न च सड्गमोऽस्ति ।

व्योम्नि स्थितं रविशाशग्रहणं प्रशस्तं

जानाति यो द्विजवरः सकथं न विद्वान् ॥५॥

विद्यार्थी सेवकः पान्थः क्षुधार्तो भयकातरः ।

भाण्डारी प्रतिहारी च सप्त सुप्तान् प्रबोधयेत् ॥६॥

अहिं नृपं च शार्दुलं बरटि बालकं तथा ।

परश्वानं च मूर्ख च सप्त सुप्तान्न बोधयेत् ॥७॥

अर्थाधीताश्चयै र्वेदास्तथा शूद्रान्न भोजिनः ।

ते द्विजाः किं करिष्यन्ति निर्विषा इव पन्नगाः ॥८॥

यस्मिन रुष्टे भयं नास्ति तुष्टे नैव धनागमः ।

निग्रहाऽनुग्रहोनास्ति स रुष्टः किं करिष्यति ॥९॥

निविषेणापि सर्पेण कर्तव्या महती फणा ।

विषमस्तु न चाप्यस्तु घटाटोप भयंकरः ॥१०॥

प्रारर्द्यूतप्रसंगेन मध्यान्हे स्त्रीप्रसंगतः ।

रात्रौ चौरप्रसंगेन कालो गच्छति धीमताम् ॥११॥

स्वहस्तग्रथिता माला स्वहस्ताद घृष्टचन्दनम् ।

स्वहस्तलिखितं शक्रस्यापि श्रियं हरेत् ॥१२॥

इक्षुदंडास्तिलाः शुद्राः कान्ता कांचनमोदिनी ।

चन्दनं दधि ताम्बूलं मर्दनं गुणवर्ध्दनम् ॥१३॥

दरिद्रता धीरतया विराजते ।

कुवस्त्रता शुभ्रतया विराजते ॥

कदन्नता चोष्णतया विराजते ।

कुरूपता शीलतया विराजते ॥१४॥

N/A

References : N/A
Last Updated : September 19, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP