चाणक्यनीतिदर्पणाः - षष्ठोऽध्यायः

आर्य चाणक्यने आपल्या नीतिशास्त्र या ग्रंथात आदर्श जीवन मूल्ये सविस्तर सांगितली आहेत.

Nitishastra is a treatise on the ideal way of life, and shows Chanakya's in depth study of the Indian way of life.


श्रुत्वा धर्मं विजानाति श्रुत्वा त्यजति दुर्मतिम् ।

श्रुत्वा ज्ञानमवाप्नोति श्रुत्वा मोक्षमवाप्नुयात् ॥१॥

पक्षिणां काकचाण्डालः पशूनां चैव कुक्कुरः ।

मुनीनां पापी चाण्डालः सर्वचाण्डालनिन्दकः ॥२॥

भस्मना शुध्यते कांस्यं ताम्रमम्लेन शुध्यति ।

रजसा शुध्यते नारि नदी वेगेन शुध्यति ॥३॥

भ्रमन्संपूज्यते राजा भ्रमन्संपूज्यते द्विजः ।

भ्रमन्संपूज्यते योगी स्त्री भ्रमन्ती विनश्यति ॥४॥

यस्यार्थास्तस्य मित्राणि यस्यर्थास्तस्य बांधवाः ।

यस्याथाः स पुमांल्लोके यस्यार्थाः सच पण्डितः ॥५॥

तादृशी जायते बुध्दिर्व्यवसायोऽपि तादृशः ।

सहायास्तादृशा एव यादृशी भवितव्यता ॥६॥

कालः पचति भूतानि कालः संहरते प्रजाः ।

कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥७॥

नैव पश्यति जन्माधः कामान्धो नैव पश्यति ।

मदोन्मत्ता न पश्यन्ति अर्थी दोषं न पश्यति ॥८॥

स्वयं कर्म करोत्यत्मा स्वयं तत्फलमश्नुते ।

स्वयं भ्रमति संसारे स्वयं तस्माद्विमुच्यते ॥९॥

राजा राष्ट्रकृतं पापं राज्ञः पापं पुरोहितः ।

भर्ता च स्त्रीकृतं पापं शिष्यपापं गुरुस्तथा ॥१०॥

ऋणकर्ता पिता शत्रुमाता च व्यभिचारिणी ।

भार्या रूपवती शत्रुः पुत्रः शत्रुरपण्डितः ॥११॥

लुब्धमर्थेन गृहिणीयात् स्तब्धमञ्जलिकर्मणा ।

मूर्खं छन्दानुवृत्या च यथार्थत्वेन पण्डितम् ॥१२॥

वरं न राज्यं न कुराजराज्यं

वरं न मित्रं न कुमित्रमित्रम् ।

वरं न शिष्यो न कुशिष्यशिष्यो

वरं न दारा न कुदारदाराः ॥१३॥

कुराजराज्येन कुतः प्रजासुखं

कुमित्रमित्रेण कुतोऽभिनिर्वृतिः ।

कुदारदारैश्च कुतो गृहे रतिः

कुशिष्यमध्यापयतः कुतो यशः ॥१४॥

सिंहादेकं वकादेकं शिक्षेच्चत्वारि कुक्कुटात् ।

वायसात्पञ्च शिक्षेच्चष्ट् शुनस्त्रीणिगर्दभात् ॥१५॥

प्रभूतं कार्यमपि वा तन्नरः कर्तुमिच्छति ।

सर्वारम्भेण तत्कार्यं सिंहादेकं प्रचक्षते ॥१६॥

इन्द्रियाणि च संयम्य वकवत् पण्डितो नरः ।

देशकालबलं ज्ञात्वा सर्वकार्याणि साधयेत् ॥१७॥

प्रत्युत्थानञ्च युध्द्ञ्च संविभागञ्च बन्धुषु ।

स्वयमाक्रम्यभुक्तञ्चशिक्षेच्चत्वारिकुक्कुटात् ॥१८॥

गूढमैथुनचारित्वं काले काले च संग्रहम् ।

अप्रमत्तमविश्वासं पञ्च शिक्षेच्च वायसात् ॥१९॥

बह्वाशी स्वल्पसन्तुष्टः सनिद्रो लघुचेतनः ।

स्वामिभक्तश्च शूरश्च षडेतो श्वानतोगुणाः ॥२०॥

सुश्रान्तोऽपि वहेत भारं शीतोष्णं न च पश्यति ।

सन्तुष्टश्चरते नित्यं त्रीणि शिक्षेच्च गर्दभात् ॥२१॥

एतान् विंशतिगुणानाचरिष्यति मानवः ।

कार्यावस्थासु सर्वासु अजेयः स भविष्यति ॥२२॥

N/A

References : N/A
Last Updated : September 19, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP