संस्कृत सूची|संस्कृत साहित्य|संहिता|अनिरुद्धसंहिता|
त्रयस्त्रिंशोऽध्यायः

अनिरुद्धसंहिता - त्रयस्त्रिंशोऽध्यायः

अनिरुद्धसंहिता


भृगुः---
विष्वक्‌सेनस्य देवस्य प्रतिष्ठा विहिता पुरा
तद्विधानं विशेषेण वदानुग्रहकाम्यया ॥१॥
श्रीभगवान्--
विष्वक्‌सेनप्रतीष्ठायाः लक्षणं वक्ष्यतेऽधुना।
देवाग्रे मण्‍डपं कृत्वा यथापूर्वमशेषतः ॥२॥
दिग्विदिग्गर्भिते वापि देशे मण्डपकल्पनम्।
तृतीयेऽहनि वा कुर्यात् अङ्कुरार्पणपूर्वकम् ॥३॥
प्रतिष्ठादिवसात् पूर्वं जलवासं प्रकल्पयेत्।
जलवासक्तियास्सर्वाः प्रतिष्ठाशास्त्रचोदिताः ॥४॥
नयनोन्मीलनं कृत्वा स्नपनादि समाचरेत्।
शयनं कल्पयित्वा तु द्वारयागं समाचरेत् ॥५॥
वेदिमध्ये तु संस्थाप्य महाकुम्भं तु विन्यसेत्।
विष्विक्‌सेनं समासाद्य कुम्भमध्ये विशेषतः ॥६॥
परिकुम्भैस्तथा दिक्षु इन्द्रादीनि यथाक्रमम्।
अष्टमङ्गलसंयुक्तं पालिकाभि स्समर्चयेत् ॥७॥
इन्द्रादीनि चतुर्दिक्षु अग्निकुण्डं यथाक्रमम्।
एककुण्डमथो वापि चतुरश्रं तु कल्पयेत् ॥८॥
उल्लेखनादि संस्कार मग्निबीजं समर्चयेत्।
अष्टोत्तरशतं हुत्वा समिदाज्यचरून् क्रमात् ॥९॥
विष्वक्‌सेनस्य मन्त्रेण आज्याहुतिं यथाक्रमम्।
शान्तिहोमं ततः कृत्वा पूर्वोक्तेन विधानतः ॥१०॥
प्रायश्चित्ताहुतिं चैव पञ्चोपनिषदैश्शतम्।
तिलशालियवोन्मिश्र माज्यमिश्रं च होमयेत् ॥११॥
विष्वक्‌सेनस्य मन्त्रेण अष्टोत्तरशताहुतीः।
तत्र होमं प्रकुर्वीत तत्वन्यासं समाचरेत् ॥१२॥
हविर्निवेदयेत् पश्चात् बलिदानपुरस्सरम्।
मण्डपेशानभागे तु दर्भेषु परिशाययेत् ॥१३॥
प्रभाते विमले शुद्धे नित्यपूजां समाचरेत्।
कुम्भे संपूजयेद्देवान् निवेदनपुरस्सरम् ॥१४॥
कुण्डपार्श्व समासाद्य होमकर्म समाचरेत्।
समिदाज्यचरूणआं तु प्रत्येकं षोडशाहूतीः ॥१५॥
प्रायश्चित्ताहुतीश्चैव तिलं शालिं शताष्टकम्।
पूर्णाहुतिं ततो हुत्वा शास्त्रदृष्टेन वर्त्मना ॥१६॥
मुहूर्ते समनुप्राप्ते ब्राह्मणानामनुज्ञया।
स्थापितं कुम्भमादाय प्रोक्षयेद्देवमूर्धनि ॥१७॥
विष्वक्‌सेनस्य मन्त्रस्य प्रणवादि नमोन्तकम्।
न्यासं कृत्वा यथान्यायं षडङ्गन्यासमाचरेत् ॥१८॥
हविर्निवेदयेत् पश्चात् देवभोज्यं निवेदयेत्।
आचार्यं पूजयेत् पश्चात् यथावित्तानुसारतः ॥१९॥
इति संक्षेपतः प्रोक्तं विष्वक्‌सेनप्रतिष्ठितम्॥
इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां
विष्वक्‌सेनप्रतिष्ठा नाम त्रयस्त्रिंशोऽध्यायः

N/A

References : N/A
Last Updated : January 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP