संस्कृत सूची|संस्कृत साहित्य|संहिता|अनिरुद्धसंहिता|
एकविंशोऽध्यायः

अनिरुद्धसंहिता - एकविंशोऽध्यायः

अनिरुद्धसंहिता


श्रीभगवान्--
महोत्सवं प्रवक्ष्यामि विस्तरेण तवानघ।
अङ्कुरावापनं पूर्व पताकारोपणं तथा ॥१॥
कौतुकस्योत्सवं पश्चात् उत्सवारंभगं भवेत्।
स्नपनं देवदेवस्य यागदीक्षाह्यनन्तरम् ॥२॥
चतुस्स्थानार्चनञ्चैव होमकर्माण्यनन्तरम्।
तीर्थाङ्कुरार्पणञ्चैव ग्रामस्य च बलिं तथा ॥३॥
यात्रचोत्सवबिम्बस्य तथा तीर्थाधिवासनम्।
तीर्थस्नानं ततः कुर्यात्पुष्पयागमनन्तरम् ॥४॥
ध्वजावरोहणकञ्चैव उद्वासनबलिं तथा।
विषक्‌सेनार्चञ्चैव कर्मक्रममिमं विदुः ॥५॥
उत्सवारम्भदिवसात् सप्तमे पञ्चमेऽहनि।
अङ्कुरस्यार्पणं कुर्यात्पूर्ववच्चोक्तवर्त्मना ॥६॥
उत्सवारम्भदिवसात् पूर्वेद्युश्च निशामुखे।
कौतुकं बन्धयेद्धीमान् तत्क्रमस्ते प्रवक्ष्यते ॥७॥
मण्टपं समलंकृत्य ध्वजतोरणकुम्भकैः।
क्रमुकैः कदलीकाण्डै र्दर्भमाल्यादिकै स्तथा ॥८॥
तन्मध्ये वेदिकां कुर्यात् बिष्णुयन्त्रं प्रकल्पयेत्।
मण्‍टपस्येशदिग्भागे कुम्भं संस्थापयेत्सुधीः ॥९॥
पूर्ववदग्निपार्श्वे तु कुण्डं कुर्याद्विचक्षणः।
मण्डलात्पश्चिमे बिम्बं स्थापयेत्तु यथाविधि ॥१०॥
द्वारादियजनं कृत्वा चतुः स्थानार्चनं यजेत्।
कौतुकं कारयेद्विद्वान् सौवर्णेनैव देशिकः ॥११॥
तन्तुसूत्रयुतञ्चैव उत्सवस्य विशेषतः।
देवीभ्यान्तु विशेषेण बलिस्नपनबेरयोः ॥१२॥
आचार्यस्य विशेषेण ऋत्विजानां तथैव च।
पृथक् तण्डुलपात्रेषु ताम्बूलसहितं न्यसेत् ॥१३॥
शिष्यस्य शिरसि स्थाप्य प्रादक्षिण्येन मन्दिरम्।
वेदघोषसमायुक्तं गीतवाद्यसमन्वितम् ॥१४॥
धान्यराशिं विनिक्षिप्य आधारोपरि बिन्यसेत्।
पुण्याहं वाचयेत् पश्चात् ब्राह्मणैस्सह देशिकः ॥१५॥
बिम्बं संपूजयेत् पश्चात् पूजयेत् प्रतिसरीयकम्।
सूत्रमादाय हस्ताभ्यां धारयित्वा विचक्षणः ॥१६॥
बन्धयेद्दक्षिणे हस्ते देवदेवस्य शार्ङ्गिणः।
श्रियो र्वामकरे कुर्यात् आचार्यस्य स्वहस्तके ॥१७॥
पूजयित्वा यथापूर्व मपूपादि निवेदयेत्।
मुद्गान्नं तु निवेद्याथ बलिं दद्यात् समन्ततः ॥१८॥
शयनं कल्पयित्वा च शयने सन्निवेशयेत्।
उषः कालोत्सवं कुर्यात् सर्वैः परिकरै स्सह ॥१९॥
अनेकदीपसंयुक्तं गीतवाद्यादिसंयुतम्।
स्वस्तिवाचनसंयुक्तं सर्वमङ्गलसंयुतम् ॥२०॥
वीध्यावरणपूर्वं तु अन्तरावरणपश्चिमम्।
एवं संभ्रामयित्वा तु मण्टपे सन्निवेशयेत् ॥२१॥
नृत्तगीतादिसकलं दर्शयित्वा विचक्षणः।
उत्सवारम्भणे स्नान मारभेन्मन्त्रवित्तमः ॥२२॥
अष्टोत्तरशतै र्वापि एकाशीतिघटैस्तु वा।
कलशैः स्नापयेत्पश्चात् चूर्णस्नानं समाचरेत् ॥२३॥
अलंकारासने नीत्वा अलंकृत्य यथाविधि।
यागमण्डपभूमौ तु पश्चिमे सन्निवेशयेत् ॥२४॥
श्रीभूमिसहितं विप्र बलिबिम्बसमन्वितम्।
यागदीक्षाविधिं वक्ष्ये समासादवधारय ॥२५॥
मण्डपं चाग्रतः कुर्यात् अग्रालाभे यथारुचि
मण्टपं समलंकृत्य वितानाद्यैरलंकृतम् ॥२६॥
ध्वजतोरण कुम्भाद्यै रम्भापूगसमन्वितैः
भित्तिचित्रविचित्रंस्यान्मण्‍डलं कारयेद्बुधः ॥२७॥
मण्डलस्योत्तरे पार्श्वे कुम्भं संस्थापयेद्बुधः।
कुम्भमण्डलयोर्बाह्ये परितः कुण्डमाचरेत् ॥२८॥
पूर्वादीशानपर्यन्तं कुण्डक्लप्तिमथ शृणु।
त्र्यश्रं वृत्तं षडश्रं वा वस्वश्रं विदिशः क्रमात् ॥२९॥
अष्टकुण्डविधौ विप्र चतुष्कुण्डविधिं शृणु।
अश्रं चाप मथो वृत्तं पद्मं पूर्वादितः क्रमात् ॥३०॥
मुख्यकल्पे तु विप्रेन्द्र अष्टकुण्डं प्रकल्पयेत्।
ऋत्विजो वरयेत्पूर्वं कुण्डे कुण्डे पृथक् पृथक् ॥३१॥
मण्डलस्य तु पूर्वे तु गरुडं सन्निवेशयेत्।
दक्षिणे चक्रराजं तु पश्चिमे बलिबेरकम् ॥३२॥
सेनेशमुत्तरे पार्श्वे अलंकृत्य निवेशयेत्।
मण्डलं चक्रपद्मं वा इष्टसिद्धिप्रदं तु वा ॥३३॥
वासुदेवाख्य यन्त्रं वा कारयेत्तु यथारुचि।
कुम्भमण्डलकुण्डन्तु परिकुम्भसमन्वितम् ॥३४॥
महाकुम्भस्य पार्श्वे तु वर्धीनीं संनिवेशयेत्।
उपकुम्भसमायुक्त मष्टमङ्गलकै र्युतम् ॥३५॥
पालिकाभिः समायुक्तं फलै र्नानाविधैर्युतम्।
दीर्घस्तबकसंयुक्तं क्रमुकै र्नालिकेरकैः ॥३६॥
वस्त्रयुग्मं महाकुम्भे एकमन्यत्र योजयेत्।
कूर्चपल्लवसंयुक्तं शरावे सूत्रसंयुतम् ॥३७॥
शरावे तु शरावे तु नालिकेरफलं न्यसेत्।
एवंकृत्वा विशेषेण द्वारपूजां समाचरेत् ॥३८॥
कुम्भे संपूजयेद्देवं वासुदेव मनामयम्।
उपकुम्भे यजेद्देवान्वासुदेवादिकान् क्रमात् ॥३९॥
अनेकैरुपचारैश्च चतुष्षष्टिगणैस्तु वा।
कुम्भे च मण्डले चैव प्रोक्षणस्नानमाचरेत् ॥४०॥
अग्नै चैव विशेषेण उपचारैः पृथग्घुवेत्।
मण्डले पूजयेत्पश्चात् बिम्बं संपूजयेत्परम् ॥४१॥
होमकार्यं ततः कृत्वा वासुदेवादि मन्त्रतः।
प्रभवाव्यययोगेन अष्टकुण्डेषु होमयेत् ॥४२॥
तीर्थाङ्कुरार्पणं कुर्यात् पूर्वोक्तक्रमयोगतः।
बलिं कृत्वा तथा वीथ्यां बलिबेरसमन्वितम् ॥४३॥
कुमुदादिगणै र्युक्तं गीतवाद्यसमन्वितम्।
उत्सवं यानमारोप्य कुञ्जरं वा रथं तु वा ॥४४॥
शिबिकांवा विशेषेण यथालब्धानुरूपतः।
नैकैः परिकरै र्युक्तं बहुदीपसमन्वितम् ॥४५॥
अन्तरावरणपूर्वं वीथ्यावरणपश्चिमम्।
बलिस्थाने तु संप्राप्ते ताम्बूलं चन्दनं ददेत् ॥४६॥
मध्यदेशे तु संप्राप्ते गणक्रीडां समाचरेत्।
एवं कृत्वा विशेषेण महामण्डपमानयेत् ॥४७॥
सिंहासने निवेश्याथ अर्घ्याद्यैः परिपूजयेत्।
अर्घ्यं पाद्यं तथाचामं गन्धं पुष्पञ्च धूपकम् ॥४८॥
दीपं नीराजनं चैव बहुनृत्तं प्रदर्शयेत्।
वस्त्रमाल्यान्यपोह्याथ स्नानकर्म समाचरेत् ॥४९॥
स्नानान्ते देवदेवेशं मण्डपे संनिवेशयेत्।
पूजनंत्वथ विप्रेन्द निवेद्यान्तं समाचरेत् ॥५०॥
प्रथमे स्यन्दनं प्रोक्तं द्वितीये शिबिका भवेत्।
तृतीये गरुडं प्रोक्तं चतुर्थे रथमेव च ॥५१॥
पञ्चमे दोलिकायानं षष्ठे वै कुञ्जरं तथा।
सप्तमे पुष्पयानं स्यादष्टमे चाश्ववाहनम् ॥५२॥
नवमे कुञ्चरप्राभा दशमे कुञ्जरं भवेत्?
तीर्थाधिवासनात्पूर्वं मृगयादिवसं भवेत् ॥५३॥
मृगयादिवसात्पूर्वं जलक्रीडावगाहनम्।
जलक्रीडादिनात्पूर्वमुद्यानगमनं भवेत् ॥५४॥
उद्यानगमनात्पूर्वं नदीयात्रां समाचरेत्।
नदीयात्रादिनात्पूर्वं व्रीहिमानमथोच्यते ॥५५॥
व्रीहिमानदिनात्पूर्वं वनवासमथाचरेत्।
यात्राचोत्वबिम्बस्य द्विकाले चोत्तमा भवेत् ॥५६॥
एककालमथोवापि कर्तुरिच्छानुरूपतः।
अपूर्वाभरणैर्माल्यैरपूर्वैश्चाम्बरैस्तथा ॥५७॥
अपूर्वोद्यानयानाद्यै र्यथाकौतुहलं भवेत्।
तथा विशिष्य कर्तव्यं यावत्तीर्थदिनावधि ॥५८॥
तीर्थस्नानदिनात्पूर्वं रात्रौ तीर्थाधिवासनम्।
मण्डपं समलंकृत्य तीर्थबेरं समानयेत् ॥५९॥
धान्यपीठं प्रतिष्ठाप्य तीर्थबेरं समानयेत्।
अर्घ्याद्यैरर्चचित्वाथ कुम्भं संस्थापयेत्सुधीः ॥६०॥
कुम्भे तीर्थं समावाह्य पूजयित्वा विचक्षणः।
हविर्निवेदयेत्पश्चात् बलिं दद्यात् समन्ततः ॥६१॥
रजनीचूर्णमादायोलखले तु विनिक्षिपेत्।
उलूखलं मुसलं चैव प्रक्षाल्याभ्यर्च्य देशिकः ॥६२॥
आचार्यावगाहनं पूर्वं गणिकाभिरनन्तरम्।
चूर्णेन घट्टनं वापि पञ्चकं त्रितयन्तु वा ॥६३॥
स्थण्डिले संप्रतिष्ठाप्य कूर्चञ्चैव विनिक्षेपेत्।
अभ्यर्च्य पुंसिमन्त्रेण? पुण्याहं चैव कारयेत् ॥६४॥
पुनरभ्यर्च्य देवेशं चूर्णस्नानं समाचरेत्।
वासुदेवतनुस्पृष्टं चूर्णं परमपावनम् ॥६५॥
पादस्पृष्टजलं विप्र गङ्गातोयसमं भवेत्।
तुलसी चन्दनं पुष्पं सर्वपापहरं नृणाम् ॥६६॥
तस्मात्सर्वप्रयत्नेन भक्तानां च प्रदापयेत्।
ये वहन्ति पिबन्त्यैतत् ते च यान्ति परांगतिम् ॥६७॥
अवभृथस्नानम्----
ततः प्रभाते विमले वासरोत्सवमाचरेत्।
पुरशोधनपूर्वन्तु यथापूर्व बलिं क्षिपेत् ॥६८॥
यात्रावसाने देवेशं मूलबेरपुरस्सरम्।
महाकुम्मस्थकूर्चेन प्रोक्षयेन्मूलमन्त्रतः ॥६९॥
पूजया संप़टीकुर्यान्मण्डले तु नियोजयेत्।
वह्निस्थं तु विशेषेण पूर्णाहुतिपुरस्सरम् ॥७०॥
प्रायश्चित्ताहुतिञ्चैव कुम्भमण्डलपूजनम्।
यथापूर्वं पुरा कृत्वा पश्चात्प्रोक्षणमाचरेत् ॥७१॥
तीर्थबेरं समारोप्य यानं विप्रवरैर्द्विज।
उत्सवान्ते समादाय केवलं तीर्थबेरकम् ॥७२॥
आनयेत्तीर्थदेशे तु प्रभां तत्रैव कारयेत्।
तीर्थदेशं समासाद्य प्रभामध्ये निवेशयेत् ॥७३॥
तीर्थकुम्भं समादाय योजयेत्तज्जलैः पुनः।
तत्तीर्थन्तु समभ्यर्च्य कलशैः स्नापयेत्प्रभुम् ॥७४॥
पश्चात्तीर्थं तु संप्राप्य निमज्य च त्रिथा पुनः।
ये स्नापयन्ति संप्राप्य गङ्गास्नानफलं लभेत् ॥७५॥
सर्वदानफलञ्चैव सर्वतीर्थफलं लभेत्।
स्वस्थाने संनिवेश्याथ शुद्धस्नानं समाचरेत् ॥७६॥
मन्त्रस्नानं ततः कृत्वा नीराजनमथाचरेत्।
अलङ्कारासनं नीत्वा हविरन्तं समर्चयेत् ॥७७॥
मन्दिरं प्रापयेद्देवं सर्वैः परिकरैः सह
ब्राह्मणै र्वेदघोषैश्चालयावरणपश्चिमम् ॥७८॥
उत्सवेन सह वीथ्यां तीर्थबेरं समानयेत्।
स्वस्थाने सन्निवेश्याथ द्वारे शङ्कं निनादयेत् ॥७९॥
उत्सवं मण्डपे स्थाप्य स्नापनं कारयेद्बुधः।
अलंकारासने नीत्वा प्रभूतान्नं निबेदयेत् ॥८०॥
दशमेऽहनि संप्राप्ते पुष्पयागं समाचरेत्।
सन्निधौ देवदेवस्य देवपारायणं चरेत् ॥८१॥
संहिताञ्चैव शाखाञ्च आरणं तदनन्तरम्।
ऋग्यजुस्सामवेदांश्च तथाथवेणमेव च ॥८२॥
संभावयेत्ततो देवान् वस्त्रताम्बूलभोजनैः।
स्नपनं पुष्पयागार्थं कारयेदुक्तवर्त्मना ॥८३॥
कौतुकं बन्धयेत्पूर्वं देवदेवस्य शार्ङ्गिणः।
अग्निमण्जलमासाद्य पुष्पमण्डलमाचरेत् ॥८४॥
चक्राब्जयन्त्रकं वापि आचार्यस्य वशात्तु वा।
मण्डलस्य तु पाश्चात्ये बिम्बं सिंहासने न्यसेत् ॥८५॥
मण्डलस्योत्तरे पार्श्वे कुम्भं संस्थापयेद्बुधः।
देवस्येशानभागे तु विष्वक्‌सेनं निवेशयेत् ॥८६॥
दक्षिणे हेतिराजानं ब्राह्मणान्परितो न्यसेत्।
द्वारार्चनं ततः कुर्यात् कुम्भमण्डलपूजनम् ॥८७॥
बिम्बे संपूजयेत्पश्चात् अष्टौ द्वादशधापि वा।
षट्कं चतुष्टयं कालं प्रत्येकन्तु विशेषतः ॥८८॥
अर्घ्यं पाद्यं तथाचामं गन्धं पुष्पं च दीपकम्।
धूपंचैव नैनेद्यं ताम्बूलं तिलदानकम् ॥८९॥
वेदं श्लोकं तथा गीतं नृत्तं वाद्यं पुनः पुनः।
गीतन्तु मङ्गलं प्रोक्तं नृत्तं वै मार्गनृत्तकम् ॥९०॥
पूष्पपूरं समाहृत्य पृथक् पात्रे निवेशयेत्।
सन्निधौ स्थापयित्वा च पुष्पपत्रैस्समर्चयेत् ॥९१॥
शोषणादि क्रियां कृत्वा अर्घ्याद्यैः संप्रपूजयेत्।
अर्घ्यं गन्धं तथा पुष्पं धूपञ्चैव चतुष्टयम् ॥९२॥
स्थापयेदम्बरेणैव विकिरेद्देवपादयोः।
शिल्पदासगणान् सर्वान् संभावनमथाचरेत् ॥९३॥
चन्दनैश्चैव ताम्बूलैः देववस्त्रं प्रदापयेत्।
आचार्यै स्साधकैश्चैव बिभवेद्देव मूर्धनि ॥९४॥
यात्रां च कारयेद्धीमान् प्रादक्षिण्येन मन्दिरम्।
एकधा वा द्विधा वापि स्थित्वा द्वारप्रदेशतः ॥९५॥
स्तोत्रेण तोषयेद्देवं जानानाहूय देशिकः।
सेवार्थमागतान् सर्वान् देवानृषिगणानपि ॥९६॥
विलोक्य देवदेवेशं स्वस्थाने तु विसर्जयेत्।
देवं गर्भगृहे नीत्वा स्वस्थाने संनिवेशयेत् ॥९७॥
तत्कुम्भन्तु समादाय आधारोपरि विन्यसेत्।
मूलबेरं समभ्यर्च्य प्रोक्षयेन्मूलमन्त्रतः ॥९८॥
पुन

N/A

References : N/A
Last Updated : January 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP