मराठी मुख्य सूची|विधी|पूजा विधी|
वैश्वदेवमन्त्राः

वैश्वदेवमन्त्राः

पूजा विधी
Hindu Pooja Vidhis. The rituals that can be performed during worship of Hindu Gods, Godesses. This collection might contain some of the day specific rituals.


अग्नये स्वाहा । विश्वेभ्यो देवेभ्यस्स्वाहा ।
भूमाय स्वाहा ॥ ध्रुवक्षितये स्वाहा॥अच्युतक्षितये स्वाहा ॥
अग्नये स्विष्टकृते स्वाहा॥धर्माय स्वाहा॥
अधर्माय स्वाहा ॥ अद्भ्य-स्स्वाहा ।
ओषधिवनस्पतिभ्य-स्स्वाहा ॥
रक्षोदेवजनेभ्य-स्स्वाहा ।
गृहाभ्य-स्स्वाहा । अवसानेभ्य-स्स्वाहा ।
अवसानपतिभ्य-स्स्वाहा । सर्व-भूतेभ्य-स्स्वाहा ।
कामाय स्वाहा । अन्तरिक्षाय स्वाहा ।
यदेजति जगति यच्च चेष्टति नाम्नो भागोऽयं नाम्ने
स्वाहा॥पृथिव्यै स्वाहा । अन्तरिक्षाय स्वाहा ॥
दिवे स्वाहा । सूर्याय स्वाहा । चन्द्रमसे स्वाहा ।
नक्षत्रेभ्यस्स्वाहा ।इन्द्राय स्वाहा ।
बृहस्पतये स्वाहा । प्रजापतये स्वाहा ।ब्रह्मणे स्वाहा ।
स्वधा पितृभ्य-स्स्वाहा ।नमो रुद्राय पशुपतये स्वाहा ।
देवेभ्य-स्स्वाहा । पितृभ्य-स्स्वधाऽस्तु ।
भूतेभ्यो नमः । मनुष्येभ्यो हन्ता ।
प्रजापतये स्वाहा । परमेष्ठिने स्वाहा ।
यथा कूप-श्शतधार-स्सहस्रधारो अक्षितः ।
एवं मे अस्तु धान्यँ सहस्रधारमक्षितम् ।
धनधान्यै स्वाहा । ये भूताः प्रचरन्ति दिवानक्तं बलि-मिच्छन्तो
वितुदस्य प्रेष्याः ।
तेभ्यो बलिं पुष्टिकामो हरामि मयि पुष्टिं पुष्टिपति-र्दधातु स्वाहा ।
ओं तद्ब्रह्म ।ओं तद्वायुः ।ओं तदात्मा । ओं तथ्सत्यम् ।
ॐ तथ्सर्वम् । ओं तत्पुरो-र्नमः ।
अन्तश्चरति भूतेषु गुहायां विश्वमूर्तिषु ।
त्वं यज्ञस्त्वं वषट्कार-स्त्वमिन्द्र-स्त्वँ रुद्र-स्त्वं विष्णु-स्त्वं ब्रह्म त्वं प्रजापतिः ।
त्वं तदाप आपो ज्योती रसोऽमृतं ब्रह्म भू-र्भुव-स्सुवरोम् ॥

N/A

References : N/A
Last Updated : January 08, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP