TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

मल्लपुराणम् - प्रथमोऽध्याय: ।

१३व्या ’ शतकातील ’ मल्लपुराण ’ ग्रंथात मल्लयुद्धाविषयी विस्तृत वर्णन आहे. या ग्रंथात पहिलवानांसाठी विविध ऋतुतील आवश्यक खुराकांची माहिती दिलेली आहे.


प्रथमोऽध्याय: ।
एकस्मिन्‍ कमला कटाक्षविवरे सानन्दगाधार्यते
क्षीराव्धेरपरत्र दीर्घधवलै: कल्लोललोलोत्करै: ।
व्यग्रस्यापि समार्थितप्रामथनव्यापारलव्ध्योदया
श्चत्वारो वितरन्तु वाच्छितफलं वन्द्या हरेबीहव: ॥१॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्‍ ।
देवीं सरस्वती व्यासं ततो जयमुदीरयेत्‍ ॥२॥
नारद उवाच ।
धर्माधर्माविधि: प्रोक्तो ब्रह्मन्‍ सम्यक्‍ श्रुतो मया ।
विद्याश्च विविधा: स्वामिन्‍  वर्णभेदास्त्वनेकधा ॥३॥
मल्लविद्या त्वया प्रोक्ता मम संक्षेपत: पुरा ।
विस्तरेण मम ब्रूहि तस्यां कौतूहलं हि मे ॥४॥
ब्रह्मोवाच ।
शृणु पुत्र शुभां विद्यां कथ्यमानां मयानघ ॥
यदभ्यासान्नर: सम्यक्‍ शत्रून्‍ जयति सत्वर: ॥५॥
पुरा कंसे हते देत्ये चाणूरे च निपातिते ।
संप्राप्ते मथुराराज्ये भोगान्‍ भुक्त्वा बहुँस्तर्था ॥६॥
कृष्णश्च बलभद्रश्च परमात्मदयान्यितो ।
स्वीकर्तृ व्दारकां रम्यां चालितो हर्पसंयुतो ॥७॥
मुखप्रयाणकैदेंशान्‍ पश्यन्तौ विविधान्‍ बहून ।
प्राप्तो मयूरवं बालं नाम्ना नगरमुतमम्‍ ॥८॥
त्रेतायां रामाचन्द्रेण सीतामुत्सृज्य वाल्मिकी ( जानकीम्‍) ।
पश्चाद्‍ गुरुं समानीय प्रायश्चितं समाचरत्‍ ॥९॥
अहो ब्रह्मन्‍ त्व (म) या प्राप्तो रावणो ब्रह्मराक्षस:
तस्य पापस्य शुद्‍ध्यर्थमुपायं मे व्दिजोत्तम ॥१०॥
अश्वमेधस्य यज्ञस्य फलेन शुभमिच्छसि ।
हे राम सीतया सार्ध यज्ञश्चा क्रियते त्वया ॥११॥
सुवर्णमूर्ति कृत्वा हि यज्ञजं  (ज्ञ) प्रारभ्यते त्वया ।
जाते यज्ञे च संपूर्णे ब्राह्मणांश्च प्रदापयेत्‍ ॥१२॥
ज्येष्ठांश्च कुण्डले दत्वा चातुर्वेदे च मुद्रिकाम्‍ ।
व्दिवेदिने स्त्री दातव्या चतुर्थ निष्क्रयस्तथा ॥१३॥
आसनान्यडवसाणि तंदुला: (तण्डुला:) षट्‍कमेव च ।
एवं च रामचन्द्रेण मोहेरे स्थापिता पुरा ॥१४॥
सर्वेषां चैवा विप्राणां वृतिं दत्वा विसर्जयेत्‍ ।
कति वर्षाणि जातानि  अन्योन्यं  युध्दमेव च ॥१५॥
तत: कुण्डलमुत्पाते यत्रस्थे तत्र जायते ।
किश्चित्कालं तु निर्वृत्य पश्चाद्राममयाचत ॥१६॥
वय सर्वेऽपि दुप्प्राप्य अप्रे किश्च करिप्यसे ।
वरं कृष्णावतारे च व्दापरान्ते प्रदीयते ॥१७॥
प्रदत्तं ब्राह्मणान्‍ पूर्व रामेण स्थितिहेतवे ।
जपयज्ञाग्रिहोत्रादिक्रियासंवादचेत्तसाम्‍ ॥१८॥
नारद उवाच ।
किं तन्‍ मयूरवं बालं नाम्ना नगरमुत्तमम्‍ ।
कस्मिन्‍  देशेऽभवव्दिव्दन्‍ किं पुण्यं तद्‍ वद  प्रभो ॥१९॥
धर्मारण्यस्य मध्येऽभूत्‍ शृणु नारद  सादरम्‍ ।
लोहासुरस्य पूर्वे च मोहेरस्य समीपत: ॥२०॥
मयेदां स्थापित पूर्व विद्यास्थानं महाद्भुतम्‍ ।
युतं व्दिजगणै: शुध्दं सर्वरत्नसमन्वितम्‍ ॥२१॥
स्वच्छोदके: सुविस्तीर्णै: सरोभिपशोभितम्‍ ।
आरामै रमणीयं च नानावृक्षसमाकुलै: ॥२२॥
अनुलिप्त (प्तं) सुधामिश्च संगतं सुरमन्दिरै: ।
संकीर्णं पुण्यलभ्यं च रम्यं स्वर्गामिवापारम्‍ ॥२३॥
वातेरितपताकाभि: सेवितं च दिवानिशम्‍ ।
युक्तमक्षय्यमानर्थेर्ब्राह्मणैरुपशोभितम्‍ ॥२४॥
यज्ञाभिधूमपटलेर्यन्त्रान्तरितमण्डलम्‍ ।
न पीडयति तीक्ष्णाशुग्रीप्मेऽपिइ च तपस्विन: ॥२५॥
सुन्दरीगणसंपूर्ण वेदध्वनिसमाकुलग्‍ ।
पवित्रं तीर्थभूतं च धर्मारण्यप्रदेशतम्‍ ॥२६॥
कृते तु नामा चेशानं त्रेताया च श्रीमालकम्‍ ।
व्दापरे मयूरवं बालं कलौ देवालयं  स्मतम्‍ ॥२७॥
अधिश्रितं सुरै: सर्वे: पालितं पुण्यसंपदो ।
विद्याधरै: सिध्दगणैरप्सरोभि: समन्वितम्‍ ॥२८॥
वापीकगुणपूर्ण  च पुण्यं जननिपेव्रितम्‍ ॥२९॥
तत्पूर्वेऽस्ति वृध्दसर: पूर्ण पुण्यजलै: सदा ।
मयैव निर्मितं पूर्वे लोकपापानुत्तये ॥३०॥
संचित सारसैह्हसैनानापक्षिगणैस्तथा ।
देवामुरमनुष्यैश्च तापसैर्योगसाधकै:  ॥३१॥
याज्ञिकैर्व्दिजवर्यैश्च यक्षगन्धर्बासिध्दकै:  ।
तत्‍ प्रतीच्यां महादेवी पालिनीति च नामत: ॥३२॥
स्थापिता लोकरक्षार्थ तत्पूर्वे मातर: स्मृता: ।
तदन्तरालतीर्थानि सन्ति पुण्यान्यनेकश: ॥३३॥
अस्मिन्‍ सरोजले स्नात्वा देही पश्यति पालिनीम्‍ ।
सर्वापापविनिर्मुक्तो लभते भोगस्सव्ययम्‍ ॥३४॥
दृढाडों रोगमुक्तश्च सर्वविद्याविचक्षण: ।
धनधान्यसमायुक्तो रिपुजेता महाबली ॥३५॥
त्रेतायां रामचन्द्रेण कृतं स्नानं फलाप्तये ।
कृता यज्ञाश्च दानानि लोकसंग्रहणाय वै ॥३६॥
किं वर्ण्यातेऽस्य  श्रेष्ठस्य तडागस्य फलश्रुतिम्‍ (ति:) ।
संक्षेपात्‍ कथितं तात वृध्दस्य सरस: फलम्‍ ॥३७॥
एतन्नगरपार्श्चे तु परितश्च प्रदक्षिणे ।
बहुदेवालया:  सन्ति तेन देवालयं स्मृतम्‍ ॥३८॥
ख्यातं चतुर्पु लोकेषु विद्यास्थानं परं सदा ।
सप्तपुरीसमं होतन्नराणां कामदायकम्‍ ॥३९॥
एवं मयूरवं बालं  शोभां स्मृत्वा यदूत्तम:: ।
प्रविष्टो बलभद्रेण सहित: कार्याचिकीर्पया ॥४०॥
प्रविशन्तौ पुरे तस्मिन्‍  ब्राह्मणैरभिनन्दितौ ।
कृष्णोऽयमागत: पुण्यैर्विव्दद्भिरिति सादरम्‍ ॥४१॥
अहो पुण्यं महद्भाग्यमस्माकं जन्म सार्थकम्‍ ।
यो दुर्निरीक्ष्यो योगीन्द्रै:  सोऽयं कृष्ण: समागत: ॥४२॥
रम्यवृक्षदलै: पुप्पैस्तोरणे: प्रतिमन्दिरम्‍ ।
गीतवाद्यप्रकाराद्यरेन्येश्च विबिधोत्सवै: ॥४३॥
ऋग्यजु: साममन्त्रोक्तेराशीर्वादैरनेकश: ।
वर्धापितौ व्दिजश्रेष्ठै: सानन्दामतिसोवितौ ॥४४॥
स्त्रीभि: संमानितौ तत्र दूराश्चलनिबन्धनै: ।
लाजाविकर्णे (किरणै) श्चैव दूर्वाकुशसमन्वितै: ॥४५॥
देवासुरमनुप्यैश्च दुर्लभोऽयं श्रिय: प्रिय: ।
सौभाग्यसाधन: कृष्णो युवतीभिर्निरीक्षित: ॥४६॥
ध्यानगम्य: प्रिय: साक्षाद्‍ बहुपुण्यैकसंचयात्‍ ।
अतीब दृष्टो वृध्दाभि: प्रहष्टाभि: कृतादरम्‍ ॥४७॥
वाला अप्युद्भुतानेककौतूहलबिलोभिता: ।
धाविता: सभ्रमात्‍ कृष्णमवलोकयि (कि) तुमुत्सुका: ॥४८॥
भार्गावसरमप्राप्य कृष्णदर्शनलालसा: ।
आरोहन्ति गृहाट्टालताराग्रमभित. स्त्रिय: ॥४९॥
अहमहमतिगच्छन्नुपर्युपरि संपतन्‍ ।
इतस्ततो अमन्‍ लोक स्वं परं नावगच्छति ॥५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-12-15T20:46:49.7730000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

डल्ला मारणे

  • वि. अपहार करणे , लुबाडणे ; 
  • वि. ताव मारणे , हात मारणे ( दुसर्‍याच्या पैशावर ). 
RANDOM WORD

Did you know?

Why the marriages are prohibited within same Gotra?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.