मल्लपुराणम् - पश्चदशोऽध्याय: ।

१३व्या ’ शतकातील ’ मल्लपुराण ’ ग्रंथात मल्लयुद्धाविषयी विस्तृत वर्णन आहे. शिवाय या ग्रंथात पहिलवानांसाठी विविध ऋतुतील आवश्यक खुराकांची माहिती दिलेली आहे.


चतुर्विधं नियुध्दं तु शृणु मतिमतां वर ।
आद्यं धरणिपातं च आसुरं च व्दितीयकम्‍ ॥१॥
तृतीयं नारमित्युक्तं युध्दं पुनश्चतुर्थकम्‍ ।
तेपां धरणिपातस्य भेद: पश्चविधो भवेत्‍ ॥२॥
तलप्रहार: प्रथमा: करप्रहार एव च ।
निपत्य चात्मना भूमौ परं पातयति ध्रवम्‍ ॥३॥
पातितस्य स्फुटं हारनिरुध्दे विजयो भवेत्‍ ।
ज्ञात्वैवं बलबुध्दिभ्यां युध्दमेतत्समाचरेत्‍ ॥४॥
अथैतद्भासुरं युध्दं व्दात्रिंशद्भेदभीपणम्‍ ।
केपाकर्पणपीडा च कर्णस्फोटनमेव च ॥५॥
नासिकास्फोटनं चैव तथा चर्वणमेव च ।
दन्तपातनमेव स्यान्मुखे पाशुनिपातनम्‍ ॥६॥
अथ पांशौ परिक्षेपो नखैरेव विदारणम्‍ ।
नाडिकापीडनं चैव ग्रीवाग्रहणकं तथा ॥७॥
एकाडुलीमोडनं च पादाडुष्ठस्य मोडनम्‍ ।
अडुलीत्रितयस्यापि मोडनं कथितं कचित्‍ ॥८॥
कराडुप्ठमोडनं च पादाडुप्ठस्य मोडनम्‍ ।
समग्राडुलिभडो वा फ्रणग्रहणमेव च ॥९॥
भारेण च प्रहारेण विज्ञानेन पुनस्तथा ।
वालकेन प्रकारेण मारयुध्दमथापि च ॥१०॥
प्राणेन चौजसा चैव तथा वहणीनापि च ।
येन केन प्रकारेण मारयुध्दं समागत: ॥११॥
स एव ममों मल्लानां पातनं च महीतले ।
भारं च भारभग्रं च वितरं समरे त्यजेत्‍ ॥१२॥
येनापाढकमध्ये तु जीवितं च विमुश्चति ।
इदानी धर्मयुध्दस्य व्दात्रिंशत्कथिता गुणा: ॥१३॥
तानहं कथयिप्यामि यथा विक्रमणागता: ।
केशानाकर्पयति च कर्णौ च त्रोटयत्यपि ॥१४॥
अक्षिणी न स्फोटयत्यपि मुखं च स्फोटायत्यपि ।
नासिका च त्रोटायति तन्दाति सर्वयत्यति ॥१५॥
भ दन्तान्‍ पातयति च पांशुक्षेपो न वै मुखे ।
नाक्ष्णो: पाशुपातनं च विदारयति नो नग्वै: ॥१६॥
न नालिका पीडयति ग्रीवा चैव न पीडयेत्‍ ।
न कच्छखोटनं कुर्याद्दण्डं गृहाति नैव हि ॥१७॥
शिरसो घातनं नैव मर्मभडं च वर्जयेत्‍ ।
प्रकाशयन्‍ धर्मयुध्दं यशोहर्पाविवर्धनम्‍ ॥१८॥
धरणीपातिस्याथ मत्सरं परिवर्जयेत्‍ ।
य: कश्चिद्दर्पसंयोगादासुरं युध्दमारयेत्‍ ॥१९॥
गमे वापि मृते तस्मिन्‍ राजा च दोपभाग्भवेत्‍ ।
इत्यडसडरे मल्ले ज्ञात्वा यत्नेन भूपति ॥२०॥
निवारयति यो भूय: संप्राप्नोति परं यश ।
पक्षपातो न कर्तव्य: सर्वत्र सगता वर: ॥२१॥
समेन पालयेद्राजा यश: प्राप्नोति निश्चितम्‍ ।
धर्मयुध्दे कृते मल्लो मल्ल मारयते यदि ॥२२॥
राजा चोपेक्षते चैव तदा दोपो महान्‍ भयेत्‍ ।
प्रमदा (मादान्‍) ध्रियते वापि न दोपो राजमल्लयो: ॥२३॥
घाताश्चैवोपघाताश्च विज्ञाताश्चैव विक्रमा: ।
इत्येते धर्मयुध्दस्य व्दात्रिंशत्कथिता गुणा: ॥२४॥

N/A

References : N/A
Last Updated : December 31, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP