पंचमाष्टक - द्वितीयोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


हरि: ॐ ॥ जुषस्व बालवाक्यवत्स्तवं ममाम्ब भारति ॥
असत्सदप्यदस्त्वयि भ्रमाद्विभाति केवले ॥१॥
क्षराक्षरात्परं हि यत्त्वमेव तत्पदं ध्रुवम् ॥
जले यथोर्मिबुद्बुदास्तथा त्वयीशजीवधृक् ॥२॥
त्र्यधीश ओंकृतेsखिलं त्वमेव चास्य मङ्गलम् ॥
यदर्धमात्रमूर्जितं क्रियाविकारवर्जितम् ॥३॥
त्रिसप्तयागसाधिके सुभुक्तिमुक्तिदायिके ॥
स्वरार्णकारणे स्तव: स्वयं नु कै: कृतस्तव ॥४॥
प्रकाशकप्रकाशके श्रुतिश्रुतादिधारके ॥
त्वमेव सर्वकारणं त्वमेव सर्वतारणम् ॥५॥
सुशक्तभक्तभावितं हि येन सर्वथा ततम् ॥
तदेव धाम ते वरं यदीक्ष्यते बुधै: परम् ॥६॥
स्थिराश्चराश्च गोचरा: परत्र चात्र वाम्ब ये ॥
त्वदेव तत्समागम: प्रमाणमत्र चागम: ॥७॥
नमोस्तु ते सरस्वति ध्यवित्रि वाजिनीवति ॥
प्रसीद बुद्धिचेतने स्वभक्तहृन्निकेतने ॥८॥
स्तुतैव विष्णुजिह्वा सा प्रसन्ना सूनृतेरका ॥
प्राहाविष्कृत्य चात्मानं तुष्टास्मि वरयेप्सितम् ॥९॥
सकम्बलस्य कुरु मे साहाय्य शंभुगायने ॥
सुस्वरत्वादि यच्छेति ययाचे हि सरस्वतीम् ॥१०॥
वागीशाssहोभयोरस्तु दिव्यनादरहस्यमुत् ॥
स्तोत्रं चास्तु स्खलद्गीष्ट्वधीजाड्यादिहरं त्विदम् ॥११॥
इत्युक्त्वान्तर्दधे सा तौ कैलासं जग्मतुर्द्रुतम् ॥
सुस्वरं चैव सांगाढ्यं माधुर्यं स्वर्णमुत्तमम् ॥१२॥
कलं कालोचितं गीतं ततानद्धघनारयुक् ॥
दिव्यं मनोहरं तन्त्रीलययुक्त: सकम्बल: ॥१३॥
त्रिसंध्यं नियतो हृद्यं जगौ देवीप्रसादत: ॥
मन्दमन्दं हर: श्रुत्वा सुगीतेन तुतोष ह ॥१४॥
हारिणा गीतरागेण हरोपि प्रसभं हृत: ॥
तदग्रेsभ्येत्य तौ प्राह ब्रूतं वां किमभीप्सितम् ॥१५॥
नागोsवदत्कुलवलयाश्वपत्नी या मृता तु सा ॥
तैरेवाकारधीरूपैर्दुहितृत्वं प्रयातु मे ॥१६॥
जातिस्मरा पूर्ववत्सा क्षमाशान्त्यादिभूषिता ॥
पतिव्रता योगिमाता योगिनी ब्रह्मवादिनी ॥१७॥
प्राहेश्वरस्तथैवास्तु प्राश्नीया आत्मनाहिप ॥
श्राद्धकाले मध्यपिण्डमभिध्यायस्व तां तथा ॥१८॥
पत्प्रसादाद्यथापूर्वं नागेन्द्र भवितैव सा ॥
इत्युक्त्वा प्रययावीश: स्वधामाप्यापतुश्च तौ ॥१९॥
स चक्रेsश्वतर: शंभुप्रोक्तवत्तत्प्रसादत: ॥
जज्ञे नि:श्वासतोsथास्य पूर्ववत्सा मदालसा ॥२०॥
तां सावरोधने स्त्रीभिर्गुप्तामास्थाप्य यत्नत: ॥
पुत्रौ प्राहैकदानीतं मित्रं नृपमिहेति स: ॥२१॥
तथेत्युक्त्वापि तौ विप्ररूपिणावेत्य भूतलम् ॥
ऋतध्वजेच्छति द्रष्टुं तातस्तौ त्वेति चोचतु: ॥२२॥
वाढमित्युदितौ तेन सह तौ गोमतीं गतौ ॥
नदीमध्यान्नृपो नीत: पातालं विस्मितोsभवत् ॥२३॥
तावत्कालं नृपो मेने वानप्रस्थात्मजौ तु तौ ॥
तदैव भुजगौ दृष्ट्वा सोsपृच्छत्कौ युवामिति ॥२४॥
तस्मै निवेद्य स्वोदन्तं नागमश्वतरं वरम्॥
दर्शयामासतुर्हृष्टो ननामाहिपतिं नृप: ॥२५॥
प्रेम्णालिङ्ग्य दृढं सोsश्रुपूर्णोsवघ्राय मूर्ध्नि तम् ॥
सम्राड् भव चिरं जीव सुखेनेत्याशिषो ददौ ॥२६॥
राजाsप्याहाद्य धन्योsस्मि दर्शनं व: सुदुर्लभम् ॥
जातं मित्रप्रसादाद्धि कृतकृत्योsस्म्यसंशयम् ॥२७॥
नागोsप्याह चिराज्जातं दर्शनं तेsभिवाञ्छितम् ॥
पुत्राभ्यां ते गुणा: श्लाध्या यथा गीतास्तथैव ते ॥२८॥
यदभीष्टं वृणीष्व त्वं वरदं विद्धि मां नृप ॥
इत्युक्त: सोsब्रवीद्राजा नत्वाश्वतरमादरात् ॥२९॥
प्रसादाद्व: पितू राष्ट्रे सन्त्यर्था मेsखिला: प्रभो ॥
धर्मे मतिर्भवतु मे पितृदेवातिथिष्वपि ॥३०॥
एवमस्त्वन्यदिष्टं चेद्वृणीष्वेत्युक्त एव स: ॥
दृष्ट्वा मित्रसुखं स्वेष्टं वक्तुं ह्रीत ऋतध्वज: ॥३१॥
तदा तदिङ्गितज्ञौ तौ नागपुत्रौ समूचतु: ॥
मदालसां विना नान्यदभीष्टं चास्य भो पित: ॥३२॥
पिताssह योगो भूतानां वियोगो वाsत्र दैवत: ॥
तथापीच्छसि चेद्द्रुष्टुं दर्शयाम्यद्य ते प्रियाम् ॥३३॥
इत्युक्त्वा दर्शयामास गृहे गुप्तां मदालसाम् ॥
दृष्ट्वैव तन्मुखं राजा प्रियेत्युच्चार्य मूर्च्छित: ॥३४॥
विसंज्ञ: पतितो भूमौ चिरमुत्थाय राट् पुन: ॥
आलिङ्गितुमधावत्तां संत्यज्य स्रैणवद्ध्रियम् ॥३५॥
नागो निवार्याह भूपं नीत्या तं परिसांत्वयन् ॥
मयेयं निर्मिता माया मा स्प्राक्षीर्धृतिमावह ॥३६॥
दूरात्पश्य दिदृक्षुश्चेद्द्राङ्नश्ये: स्पर्शनादिना ॥
त्वं सन्विचारशीलोsपि कथं मुह्यसि मायया ॥३७॥
इत्थं स तेन प्रणयाद्वञ्चितोपि निरीक्ष्य ताम् ॥
हा वल्लभे इति प्रोक्त्वा मूर्च्छितो निपपात कौ ॥३८॥
विसंज्ञं पतितं भूपमाश्वास्याश्वतरोsवदत् ॥
सावधानो भवेमां ते प्रियां स्वीकुरु मा शुच: ॥३९॥
तस्मै तां विधिवद्दत्वा सरस्वत्या अनुग्रहम् ॥
श्रीधंकरप्रसादं च शशंसापि स्वचेष्टितम् ॥४०॥
मदालसापि तं कान्तं प्रतिलभ्य ननन्द तम् ॥
मृतामपि पुनर्लब्धां प्राग्वद्राजापि तां तथा ॥४१॥
दिनमेकं नृप: स्थित्वा पीत्वा स्वाद्वमृतं तत: ॥
नागान्नत्वा तदाज्ञप्त: सपत्नीकोsश्वमारुहत् ॥४२॥
तत: शीघ्रं ययौ राजा स्वपुरं समलंकृतम् ॥
सभार्य: पितरौ नत्वा कथयामास सोsखिलम् ॥४३॥
दृष्ट्वा मदालसां तन्वीं अयसा वपुषापि च ॥
पूर्ववच्छ्वशुरौ पौरा अपि जह्लादिरेsखिला: ॥४४॥
राष्ट्रे ध्वजपताकाढ्ये भूषिते च सुतोरणे ॥
सुगीतनृत्यवादित्रे समभूदुत्सवो महान् ॥४५॥
युवा कुवलयाश्वोsसौ मूर्तयेव तया मुदा ॥
चार्वङ्ग्या सुचिरं रेमे मारो रत्येव कान्तया ॥४६॥
ब्रह्मनिष्ठापि सा तन्वी विलासै: सुमनोहरै: ॥
रमयामास भूपालं चिदिव व्यावहारिकम् ॥४७॥
तत: कालेन कियता तत्पिता निधनं गत: ॥
राज्येsभिषिक्तोsमात्याद्यै राजनीत्या जुगोप स: ॥४८॥
पितृवद्राजनि प्रीतिं चक्रु: सर्वे महिष्यथ ॥
भूत्वा गर्भिण्यसूतार्कमिव पुत्रं मदालसा ॥४९॥
सा जातमात्रमपि तं तत्त्वज्ञानमपाययत् ॥
दुग्धं तु प्राणधृतय औदासीन्यात्तत: परम् ॥५०॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रियाहस्र्यां त्रिकाण्डमण्डितायां संहितायां वासुदेव्यामुपासनाकाण्डे पञ्चमाष्टके द्वितीयोsध्याय: ॥२॥
॥ इति पञ्चमाष्टके द्वितीयोsध्याय: ॥५।२॥

N/A

References : N/A
Last Updated : May 07, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP