TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

पंचमाष्टक - सप्तमोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


अलर्काय दत्तात्रेयेण मृत्युचिह्नोपदेश: तेन जगद्गुरो: स्तुतिर्नाम पञ्चमे सप्तमोsध्याय:
हरि: ॐ ॥ तिस्रो वाचस्त्वतीता यैस्तेषां मुत्कि: कथं गुरो ॥
वैखर्यापि वदन्मुच्येत्कथं ज्ञोsपि भवान्तरे ॥१॥
मृत्युस्त्वसिद्धयोगेन सिद्धयोगेन वा पुन: ॥
कथं ज्ञेयो यतो ज्ञानादुत्क्रान्तौ नैव सीदति ॥२॥
इत्यलर्केण संपृष्टो भगवान्स त्र्यधीश्वर: ॥
उवाच तं महाबाहो श्रृष्णुवेदं समाहित: ॥३॥
गुरुदेवप्रसादेन तारध्यानाच्च योगिराट् ॥
जीवन्मुक्तोsपि देहेsत्र यावदारब्धमीहते ॥४॥
ततो विदेहकैवल्यं विहाय सकला: कला: ॥
यात्येष मृत्युरित्युक्तो महाप्रलयसंज्ञित: ॥५॥
योगी विज्ञाय तं कालं द्वार: संयम्य सर्वश: ॥
मनो निरुध्य हृदये प्राणांश्चाधाय मूर्धनि ॥६॥
ॐमिति व्याहरन्ब्रह्म परात्मानमनुस्मरन् ॥
य: प्रयाति त्यजन्देहं स याति परमं पदम् ॥७॥
अक्षीणकर्मबन्धोsपि तारोपास्त्या भवान्तरे ॥
मुच्यते नात्र संदेहस्तारशक्तेर्यतोsमृतम् ॥८॥
यद्येकमात्रां ध्यायीत तेन संवेदितो द्रुतम् ॥
भूम्यां संपद्यते ऋक्तं नृजन्मोपनयत्यरम् ॥९॥
स तत्र तपसा ब्रह्मचर्येण श्रद्धयापि च ॥
संपन्नोsनुभवत्येव महिमानमुपास्तित: ॥१०॥
संपद्यते मनस्येष ध्यायते यो द्विमात्रत: ॥
उन्नीयते सोsन्तरिक्षं सोमलोकं स तत्र च ॥११॥
विभूतिमनुभूयेह पुनरावर्तते तत: ॥
त्रिमात्रेणापि ध्यायीत परं पुरुषमव्ययम् ॥१२॥
सूर्ये तेजसि संपन्न: पापमुक्त: स सामभि: ॥
उन्नीयते ब्रह्मलोकं ध्रुवं जीवघनादत: ॥१३॥
परात्परं स पुरुषं वीक्षते नात्र संशय: ॥
एवं विद्वानुपास्त्यास्य मुच्यतेsज्ञोपि बन्धनात् ॥१४॥
देवमार्गं ध्रुवं शुक्रं सोमच्छायामरुन्धतीम् ॥
यो न पश्येन्न जीवेत्स मर्त्य: संवत्सरात्परम् ॥१५॥
सूर्यबिम्बमरश्मिं चाग्निं पश्येदंशुकालिनम् ॥
स त्वेकादशमासोर्ध्वं न जीवति नर: किल ॥१६॥
सुवर्णं रजतं मूत्रं पुरीषं वापि यो वमेत् ॥
स्वप्ने जाग्रति वा जीवेद्दशमासोत्तरं न स: ॥१७॥
पश्येत्प्रेतपिशाचादिगन्धर्वनगराणि च ॥
सुवर्णवर्णवृक्षान्वा नवमासं स जीवति ॥१८॥
कृश: स्थूल: कृश: स्थूल: सहसा यर्हि जायते ॥
प्रकृतेश्च निवर्तेद्यस्तस्यायुश्चाष्टमासिकम् ॥१९॥
खण्डं यस्य पदं पार्ष्णे: पादस्याग्रेsथवा भवेत् ॥
धूलिमध्ये कर्दमादौ सप्तमासं स जीवति ॥२०॥
कपोतगृध्रकाकोलक्रव्यात्काकासिताण्डजा: ॥
एषामन्यतमो मूर्ध्नि स्पृशेच्चेदयनान्मृति: ॥२१॥
हन्यान्मूर्ध्नि यदा काक: पञ्चमासाच्च तन्मृति: ॥
चेत्स्वच्छायान्यथा दृष्टा मृतिर्मासचतुष्टयात् ॥२२॥
दक्षिणाशाश्रिता विद्युदनभ्रे दृश्यते यदि ॥
वारिणीन्द्रधनुश्चापि त्रिमासं तस्य जीवितम् ॥२३॥
य: पश्येदशिरस्कां च तैलादावात्मनस्तनुम् ॥
द्विमासोर्ध्वं न जीवेत रक्षिता यद्यपीश्वर: ॥२४॥
यस्य मिस्तिसमो गन्धो गात्रे शवमयोsपि वा ॥
पक्षमात्रं हि तस्यायुर्निश्चितं योगवित्तमै: ॥२५॥
यस्य हि स्नातमात्रस्य हृत्प्रदेशोsवशुष्यति ॥
पिबतश्च जलं शुष्येद्दशाहं तस्य जीवनम् ॥२६॥
संभिन्नो मारुतो यस्य मर्मस्थानं निकृन्तति ॥
न हृष्यतीन्दुसंस्पर्शात्तस्य मृत्युर्ह्युपस्थित: ॥२७॥
गायन्ती वा हसन्ती वा कृष्णा रत्काम्बरावृता ॥
दक्षिणाशां नयेन्नारी यं स्वप्ने तन्मृतिर्द्रुतम् ॥२८॥
नग्न: क्षणपक: स्वप्ने हसमान: प्रदृश्यते ॥
तैलाभ्यक्तस्तथान्यो वा तस्य मृत्युरुपस्थित: ॥२९॥
पङ्के गोमयगर्ते वा निमग्नं स्वप्न ईक्षते ॥
य आमस्तकमात्मानं स सद्यो म्रियते नर: ॥३०॥
केशाङ्गाराथिभस्मानि क्रुद्धाहिमजलां महीम् ॥
स्वप्ने पश्यति यो मृत्युर्दशाहं सोsत्र जीवति ॥३१॥
करालैर्विकटै: कृष्णै: पुरुषैरुद्यतायुधै: ॥
अश्मभिस्ताडित: स्वप्ने स सद्यो मृत्युमाप्नुयात् ॥३२॥
सूर्योदये यस्य शिवा क्रोशन्ती याति संमुखम् ॥
विपरीतं व्रजेद्वापि स सद्यो मृत्युमृच्छति ॥३३॥
यस्य नुर्भुक्तमात्रस्य क्षुधात्यन्तं प्रजायते ॥
जायते व्रणदन्तश्च तस्य मृत्युरुपागत: ॥३४॥
अन्नादिगन्धं नो वेत्ति विधूमं च तथा निशि ॥
आत्मानं चान्यनेत्रस्थं वीक्षते स न जीवति ॥३५॥
इन्द्रायुधं निशीथे च दिवा च भगणं तथा ॥
यो दृष्टमिति मन्येत स शीघ्रं मृत्युमेष्यति ॥३६॥
नासिका वक्रतामेति कर्णान्तावतिशीतताम् ॥
नेत्रं च वामं स्रवति यस्य तस्यायुरुद्गतम् ॥३७॥
जिह्वैति कृष्णतां यस्य मुखं चारक्ततां तथा ॥
प्रक्षीणेन्द्रियसंघस्य तस्य मृत्युरुपस्थित: ॥३८॥
य: खरोष्ट्रादियानेन प्रयायाद्दक्षिणां दिशम् ॥
स्वप्ने बद्धोपि वा तस्य सद्यो मृत्युर्न संशय: ॥३९॥
पिधाय कर्णौ निर्घोष न श्रृणोत्यान्तरं तु य: ॥
न पश्येच्चक्षुषोर्ज्योतिस्तस्य मृत्युरुपस्थित: ॥४०॥
भ्रान्तोर्ध्वा यस्य दृङ् नाभि: सच्छिद्रो योपि हन्यते ॥
रुष्टैर्भूतैस्तथा स्वप्ने गर्तेsप्स्वग्नौ पतेत्तत: ॥४१॥
नावर्तते जाग्रति य: सुवस्त्रं वीक्ष्यतेsन्यथा ॥
पूर्वं सभ्योsपि सन्व्यस्तस्वभाव: पूज्यनिन्दक: ॥४२॥
सोsप्यासन्नमृतिर्ह्येवं मृत्युलक्ष्माणि वीक्ष्य सन् ॥
त्यक्त्वा भयं सदा योगं युञ्जीत मरणावधि ॥४३॥
प्रतिबन्धत्रये नष्टे गुणातीतो विमुच्यते ॥
योगभ्रष्टोsपि भूत्वेह यतिर्भूयो लभेद्गतिम् ॥४४॥
सूर्यचन्द्रकरावेशात्तत्कान्तौ वह्निवारिणी ॥
शीघ्रं जनयत: सेयमुपमा योगसिद्धये ॥४५॥
सति गेहे वसन्त्येते भङ्गेsन्यत्र व्रजन्ति च ॥
पिपीलिकाखुकीटाद्या: सोपमा योगसिद्धये ॥४६॥
वभ्र्यल्पास्येन मृद्राशिं कुरुते सोपमा यते: ॥
कालेन वर्धतेsल्पोsपि योगो वत्सविषाणवत् ॥४७॥
पिपीलिका सधान्योर्ध्वं शनैर्याति पतन्त्यपि ॥
सिद्धिदा सोपमा च द्रु: कीटाद्यार्तोsपि वर्धते ॥४८॥
यो जाग्रत्स्वप्नयोरात्मा चालको भासकोत्र तम् ॥
अभ्यासात्तत्त्वतो योगी ज्ञात्वैति कृतकृत्यताम् ॥४९॥
करोति कार्यं करणैर्गृही साक्षी यथा पुर: ॥
तथा पारक्यचित्ताद्यैर्योगी स्वार्थं प्रसाधयेत् ॥५०॥
इति श्रुत्वा ततोsलर्क: प्रश्रयावनत: सुधी: ॥
अभिवाद्य प्रभुं प्राह तारितोsस्मि भवाम्बुधे: ॥५१॥
यद्भवान्वन्दनेनैव क्षणान्मामुद्दधार तत् ॥
वर्ते वन्दनभक्त्या ते यावद्देहोsत्र तिष्ठति ॥५२॥
धन्या मे धीमती माता यत्प्रसादाद्भवत्पदम् ॥
दृष्टं समूढपुण्येन योगिनामपि दुर्लभम् ॥५३॥
धन्यो ममाग्रजो येन पशुतुल्यं विलोक्य माम् ॥
त्यक्त्वा ब्राह्मीं स्थितिं स्वीयामुपकारमिमं व्यधात् ॥५४॥
दिष्ट्या स काशिपभ्रात्रा जितोsस्म्युपकृतिर्हि सा ॥
दिष्ट्य़ा कोशो हृतोsन्ये च दिष्ट्या मातृवच: स्मृतम् ॥५५॥
दिष्ट्या वो दर्शनं जातं दिष्ट्या विज्ञानमर्पितम् ॥
कृतकृत्योsस्म्यसंदेहो मातृभ्रातृभवद्दृशा ॥५६॥
गार्हस्थ्यं स्मृतिहृत्त्यक्त्वा विधिनागत्य काननम् ॥
चरिष्ये भवदादिष्टं पुनर्येन न मे भ्रम: ॥५७॥
श्रीदत्त: प्राह राजेन्द्र कृतकृत्योsसि गच्छ भो: ॥
निर्ममो निरहंकारस्तथा चर विमुक्तये ॥५८॥
इत्युक्त: प्रभुणा प्रेम्णा तुष्टाव स कृताञ्जलि: ॥
रोमाञ्चिताङ्ग: स गलत्प्रेमाश्रुर्गद्गदाक्षर: ॥५९॥
वन्दे देवं हेत्वात्मानं सच्चिद्रूपं सर्वात्मानम् ॥
विश्वाधारं मुन्याकारं स्वेच्छाचारं वाघृद्दूरम् ॥६०॥
मायोपाध्या यो ब्रह्मेशोsविद्योपाध्याप्यात्मानीश: ॥
तत्त्वज्ञानान्मायानाशे तर्ह्येकस्त्वं नेशोsनीश: ॥६१॥
रज्ज्वज्ञानात्सर्पस्तत्र भ्रान्त्या भाति शैवं ह्यत्र ॥
जीवभ्रान्तिस्त्वेषा मिथ्या सा मेधारं नष्टाssप्तोक्त्या ॥६२॥
धन्योsस्म्यद्य त्वद्दृक्पूतो जातोsस्म्यद्य ब्रह्मीभूत: ॥
त्वं ब्रह्मैवासीशोsरूपो मायायोगान्नानारूप: ॥६३॥
दत्तात्रेय: प्रज्ञामेयो वेदैर्गेयो योगिध्येय: ॥
त्वं विश्वात्मा कस्त्वामीश स्तोतुं ध्यातुं ज्ञातुं वेश: ॥६४॥
वृद्ध: क्कापि प्रौढ: क्कापि बाल: क्कापि ब्रह्म क्कापि ॥
अङ्गी भोगी रागी क्कापि बाल: क्कापि ब्रह्म क्कापि ॥६५॥
स त्वं बुद्ध: सिद्ध: शुद्ध: श्रद्धावद्धोsप्यन्याविद्ध: ॥
श्रीशो मायाधीशो धीशो विज्ञानेशो निर्वाणेश: ॥६६॥
धर्माधर्मातीतो गीतो वेदैर्भेदैर्हीनोsनून: ॥
त्वां तं सन्तं भक्त्या मुक्त्या ईशं त्रीशं वन्दे वन्दे ॥६७॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाह्स्र्यां संहितायां वासुदेव्यामुपासनाकाण्डे पञ्चमाष्टके सप्तमोsध्याय: ॥७॥
॥ इति श्रीदत्तपुराणे पञ्चमाष्टके सप्तमोsध्याय: ॥५।७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-05-07T08:24:36.4700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

चबढब, चबडब

  • f  Stirring about. Turning and tossing about. Busy scheming and speculating. 
RANDOM WORD

Did you know?

संत ज्ञानेश्वरांनि हे म्हटले आहे का ?
Category : Vedic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site