TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

पंचमाष्टक - पञ्चमोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


योगिराजेनालर्कायाष्टाङ्गयोगकथनं नाम पञ्चमाष्टके पञ्चमोsध्याय:
हरि: ॐ ॥ यदद्य सूर्यधीशेदं कथितं तच्चलात्मना ॥
कथं लभ्यमिति श्रीशो राज्ञा पृष्टोsब्रवीदिदम् ॥१॥
अभ्यासेनापि दुर्जेयो जय्य आत्मा स नान्यथा ॥
अभ्यासोsष्टांगयोगाख्य: सुलभोपाय एष तु ॥२॥
यमदैरात्मयनमासनै: स्थैर्यमात्मना ॥
दोषशोषोsसुयामैश्च प्रत्याहारेण गोजय: ॥३॥
पापनाशो धारणायाssत्मैक्यं ध्यानसमाधित: ॥
दाह्या इत्यात्मगा दोषा धातुदोषा यथानले ॥४॥
प्राणापाननिरोधोsयं प्राणायाम: स तु त्रिधा ॥
लघुपध्योत्तमभिधा स्वेदकम्पस्थितिप्रद: ॥५॥
लघुर्द्वादशमात्र: स द्वित्रिन्घो मध्य उत्तम: ॥
रेचकोsत्र तदर्धेन तदर्धेन च पूरक: ॥६॥
शनैर्वश्यो यथा व्याघ्रो मृगान्हन्ति न मानवान् ॥
साधित: पवनस्तद्वद्दोषान्हन्ति न सुस्तनुम् ॥७॥
शुभासुभक्रियाणां यो जायते फलसंक्षय: ॥
तदा चित्तकषायत्वाद्ध्वस्तिरेषा निरुच्य्ते ॥८॥
लोभमोहात्मकान्कामानैहिकामुष्मिकान्यदा ॥
निरुध्यते प्राप्तिरेषा योगिनोsभीष्टकामदा ॥९॥
रूडयोगो यदा वेत्ति गतैष्यार्थांस्तिलोककजान् ॥
वित्संपत्त्यापि गुप्तान्सा संवित्प्राणजयस्थिति: ॥१०॥
प्रसीदन्तीन्द्रियाण्यर्था धातवो हृच्च स स्मृत: ॥
प्रसाद इत्यवस्था: स्युश्चतस्रो योगसिद्धिजा: ॥११॥
सुखासनसमासीनो यतास्य: समविग्रह: ॥
दन्तैरसंस्पृशेद्दन्तान्यतात्मा नतमस्तक: ॥१२॥
नासाग्रदृष्टी रजसा तमोवृत्तीर्निरुध्य च ॥
सत्त्वेन राजसी: सत्त्वस्थितो युञ्जीत योगवित् ॥१३॥
जिते प्राणे हृदार्थेभ्यो गुणान्प्रत्याहरेद्यथा ॥
कूर्मोsङ्गानि सुखेनैव पश्यन्नात्मानमात्मनि ॥१४॥
नाभ्यादिदेशे चित्तस्य संबन्धो धारणा मता ॥
ततो दोषा: प्रणश्यन्ति स्वस्थता चोपजायते ॥१५॥
ध्यानेनैकाग्र्यमायाति साक्षात्कार: समाधिना ॥
योगीक्षते परं ब्रह्म प्राकृतांश्च गुणान्पृथक् ॥१६॥
सुसूक्ष्मान्परमाणूंश्च परात्मानं च निर्मलम् ॥
न तस्य पुण्यपापादिसंबन्धो मुक्त एव स: ॥१७॥
एवं हितमिताहार: प्राणानायम्य योगवित् ॥
जित्वा शनै: शनैर्भूमिमारुहेदुत्तरोत्तराम् ॥१८॥
ब्रह्मरन्ध्रे प्राणरोध: प्राणायाम इति स्मृत: ॥
काल: स पञ्चविपलद्विपलात्माsस्य कीर्तित: ॥१९॥
येन प्रत्याहियन्तेsक्षा: प्रत्याहार: स उच्यते ॥
तत्त्वसंख्यापलात्माsस्य कालोsत्रार्थग्रहो नहि ॥२०॥
धारणेत्युच्यतेsभीष्टे धार्यते यन्मनोsनया ॥
कालोsत्र पञ्चनाड्योsसौ दोषव्याधिहरा मता ॥२१॥
नाभिहृद्वत्सकण्ठास्यनासादृक्कूर्चमूर्धसु ॥
भूपैवं धारणासिद्धि: प्रदद्यादक्षरात्मताम् ॥२२॥
पीडित: क्षुधित: शान्तो योगी व्याकुलचेतन: ॥
युञ्जीत योगं सिध्द्यर्थं नैव दुर्जनसंनिधौ ॥२३॥
नातिशीतोष्णपवनवृष्टिकाले भयावहे ॥
नदीश्मशानशुष्कद्रुभीतिहेतुस्थलेषु च ॥२४॥
युनक्त्येतेषु मूढश्चेत्ततो विघ्ना भवन्त्यमी ॥
स्मृतिलोपश्च बाधिर्यं मूकत्वं जडतान्धता ॥२५॥
उत्थिता यद्यमी दोषा: कार्याsत्रेयं प्रतिक्रिया ॥
स्निग्धां यवागूमत्युष्णां पीत्वा तत्रैव धारयेत् ॥२६॥
वातादिर्यत्र तच्छान्त्यै कम्पे शैलं च चेतसि ॥
वचोविघाते वचसि बाधिर्ये श्रवणे तथा ॥२७॥
ध्यात्वा स्वेष्टफलं धार्या धारणा यत्र तत्र च ॥
दाहे शीतां शैत्य उष्णां स्मृतिलोपे तु मूर्धनि ॥२८॥
कीलं धृत्वेध्ममिध्मेन ताडनादीशचिन्तनात् ॥
रोदसी धारणातोsपि सर्वविघ्नात्यय: क्षणात् ॥२९॥
वाताग्निधारणा भूताद्यावेशे चेति रक्षणम् ॥
मोक्षद्वारशरीरस्य गोपनीयं प्रयत्नत: ॥३०॥
प्रसादोsस्याल्पविण्मूत्रे सुस्वरो वह्निदीपनम् ॥
सद्गन्धोsलौल्यमारोग्यं सिद्धिचिह्नं त्विदं पुरा ॥३१॥
सादोsप्यङ्गेsन्तरानन्दो द्वितीयं सिद्धिलक्षणम् ॥
शीतोष्णद्यैर्यदात्युग्रैर्बाध्यते न बिभेति च ॥३२॥
कुत्रापि भयहेतुभ्य: सिद्धिलक्षणमुत्तमम् ॥
अत्रोपसर्गा जायन्ते जय्यास्ते योगिना हठात् ॥३३॥
काम्या: क्रिया भोगकामा दिव्यं द्रव्यं तथैहिकम् ॥
श्रियं क्रियादानफलं विद्यां मायां जयं यश: ॥३४॥
राज्यं देवत्वमीशत्वं रसायनरसक्रिया: ॥
खाम्ब्वग्निक्ष्मागतिं स्वैरां तथानशनमर्हताम् ॥३५॥
देवतामन्त्रसिद्धिं च नूत्नकर्मप्रवर्तनम् ॥
इच्छेद्योगी त एते स्युरुपसर्गा महाभया: ॥३६॥
नश्यन्त्यमीशभक्त्यैव पुनश्चामी भवन्त्यथ ॥
वेदशास्त्रार्थकाव्यार्थविद्याशिल्पादिनैपुणम् ॥३७॥
प्रतिभाति भा यदास्यायं प्रातिभो योगिनो न सन् ॥
शब्दार्थान्वेत्त्यशेषेण शब्द्म गृह्णाति दूरत: ॥३८॥
श्रावणोsयं तथा दैवो देवयोनिप्रदर्शक: ॥
निरालम्बेन भ्रमणं भ्रमो विभ्रमहेतुक: ॥३९॥
तोयावर्त इवाज्ञानावर्ते चित्तविनाशक: ॥
आवर्तोsयममी योगविघ्नाय कटुकोदया: ॥४०॥
योगिनं व्याप्तमेतैस्तु देवा अभिभवन्त्यत: ॥
युञ्ज्यादीशाश्रयाद्योगं विघ्ना न प्रभवन्त्यत: ॥४१॥
पृथक्क्ष्माम्ब्वग्निवाताभ्रधृत्यात्मानं स मन्यते ॥
तत्तद्रूपं ततो गन्धादींस्त्यक्त्वा सौक्ष्म्यमेति स: ॥४२॥
मनोधीधारणातोsपि त्यक्त्वा सौक्ष्म्याणि योगिराट् ॥
असंसक्तो वशी भूत्वा प्राप्नुयात्तत्परं पदम् ॥४३॥
सप्तैवं धारणा: सूक्ष्मा वैराग्याय ततोsमृतम् ॥
यो गन्धादिषु संसक्त: पुनरावृत्तिमेति स: ॥४४॥
एताभिर्धारणाभिश्चेत्क्रमादत्येति योगिराट् ॥
शब्दादीन्नैव चाप्नोति सङ्गे कुत्रापि निर्वृत: ॥४५॥
मुक्तसङ्गोsनहंवादी धृत्या सौक्ष्म्यं गतो वशी ॥
ध्यानेनैति परं ब्रह्म नात्र कार्या विचारणा ॥४६॥
जितासनो जितप्राणो यद्यप्येष जितेन्द्रिय: ॥
जितात्माsपि महासिद्धेर्दृष्ट्वा योगी विमुह्यति ॥४७॥
सावधानेन राजेन्द्र योगिना सिद्धिमिच्छता ॥
तस्मात्सर्वप्रयत्नेन त्याज्या दूरेण सिद्धय: ॥४८॥
सिद्धीनां यत्फलं तत्तु मायिकं क्षणभङ्गुरम् ॥
ज्ञानस्य यत्फलं तत्तु सर्वानर्थहरं ध्रुवम् ॥४९॥
अलर्क: प्राह ता: सिद्धी: श्रोतुमिच्छाम्यशेषत: ॥
ज्ञानोत्तरं हि संन्यास: क्रियते विघ्नरूपिण: ॥५०॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां वासुदेव्यामुपासनाकाण्डे पञ्चमाष्टके पञ्चमोsध्याय: ॥५॥
॥ इति श्रीदत्त० योगिराजेनालर्कायाष्टाङ्गयोगकथनं नाम पञ्च० पञ्चमोsध्याय: ॥५।५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-05-07T08:20:53.0000000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

aprotic

  • न. ऍप्रॉटिक 
RANDOM WORD

Did you know?

चतुर्थीला चंद्र पाहूनच उपास का सोडतात?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site