TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

पंचमाष्टक - चतुर्थोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


अथालर्कबोधोपायनिरूपणं नाम पञ्चमाष्टके चतुर्थोsध्याय:
हरि: ॐ ॥ प्रब्रह्मकपरत्वाज्ञ: परिसंख्यामपि भ्रमात् ॥
मेने राट् चोदनां मत्वा रतामिषसुरादिषु ॥१॥
राज्यं कुर्वन्यजन्नीरां यज्ञेश्च बहुदक्षिणै: ॥
षट्षष्ट्यब्दसहस्रं स पशुभोग्यार्थभागभूत् ॥२॥
सुबाहुस्तादृशं विद्वान्बुबोधयिषुरात्मनि ॥
काशिराजसहायार्थी स पुनर्योद्भुमाययौ ॥३॥
ज्येष्ठभ्रात्रे देहि राष्ट्रमिति प्राग्बोधितोsपि स: ॥
काशिराजेन सोsलर्को मत्तोsमंस्त न तद्धितम् ॥४॥
सुबाहु: काशिराजश्च चतुरङ्गबलान्वित: ॥
भित्त्वा दुर्गान्सपालांश्च तद्राष्ट्रं स्ववशेsनयत् ॥५॥
कांश्चिद्दानेन साम्ना च कांश्चिद्भेदेन चापरान् ॥
दण्डेनापि वशं निन्ये सामन्तान्मन्त्रिणोsपि च ॥६॥
भ्रात्रा रुद्धं पुरं क्षीणान्कोशान्परवशांश्च तान् ॥
मन्त्र्यादीन्वीक्ष्य सोsलर्को भीतो दुद्राव पीडित: ॥७॥
एकाकी सोsश्वमारुह्य रात्रौ गत्वा वनं स्थित: ॥
ऋष्याश्रमे स्मरन्मातुरुपदेशं तदा नृप: ॥८॥
प्रात: स्नात्वा स निष्कास्य मुद्रां कृतसमङ्गल: ॥
वाचयामास विप्रेण मात्रा विलिखितं हितम् ॥९॥
त्याज्य: सर्वात्मना सङ्ग: स चेत्त्यक्तुं न शक्यते ॥
स सद्भि: सह कर्तव्य: सन्तो दु:सङ्गभेषजम् ॥१०॥
काम: सर्वात्मना हेयो हातुं चेच्छक्यते न स: ॥
मुमुक्षां प्रति कर्तव्य: सैव कामार्तिभेषजम् ॥११॥
इति श्रुत्वा मातृहार्दं बुध्वा सह्याद्रिसंस्थितम् ॥
ज्ञात्वा सत्तममात्रेयं निर्विप्ण: शरणं ययौ ॥१२॥
प्रणम्याह स भो ब्रह्मन्प्रसादं कुरु मे प्रभो ॥
दैवाद्दु:खं समुत्पन्नं कृपया तदपाकुरु ॥१३॥
भगवांस्तद्वच: श्रुत्वा ज्ञात्वाsलर्कं महामतिम् ॥
मदालसागर्भरत्नं प्रहस्येदमभाषत ॥१४॥
दु:खं नृप किमर्थं ते कस्त्वं दु:खं च कस्य च ॥
विचार्याङ्गानि चात्मानं क्क दु:खं सत्यमिद्वद ॥१५॥
इत्युक्त: स चिरं ध्यात्वा विमृश्य च पुन:पुन: ॥
विहस्याहात्मनात्मानं ज्ञात्वा सर्वाककारणम् ॥१६॥
खं वायुरग्निरम्बु क्ष्मा नाहं तज्जानि चेह तु ॥
संघेsहमिति मन्तुस्तद्भाति दु:खाद्यसद्विभो ॥१७॥
नित्यो मे महिमा नास्य क्षयो वृद्धिश्च यद्यपि ॥
भौतिके तौ सुखाद्यं वा किं पारक्येन तेन मे ॥१८॥
नित्य: सदैकरूपोsहं परिणाम: कुतो मम ॥
सङ्गे देहस्य संत्यक्ते दु:खादि क्कोपलक्ष्यते ॥१९॥
स्थूलेsत्र भौतिके सूक्ष्मे तन्मात्रावस्थितेsपि च ॥
उत्थितं त्रिविधं दु:खं पश्यतो मम तेन किम् ॥२०॥
मनो मतिरहंकारश्चित्तं च न भवाम्यत: ॥
अन्त:करणजैर्दु:खै: संबन्धो न परस्य मे ॥२१॥
राज्यं करोत्वग्रजोsत्र किं मे संघाभिमानत: ॥
स चाहं देहतोsन्योsपि पार्थक्यं न सतो हि मे ॥२२॥
यस्य भूतस्य हस्तादिसंबन्धो नात्मन: पुन: ॥
क्केभश्वकोशराष्ट्राद्यैरसङ्गस्य चिदात्मन: ॥२३॥
तस्मान्नारिर्न मे मित्रं सुखं दु:खं पुरं बलम् ॥
पुरोत्पन्नोsपि मोहोsयं नष्टो भग्वदनुग्रहात् ॥२४॥
यथैकमपि खं भाति बहुधोपाधिभेदत: ॥
तथाहं काशिपो भ्राता न भेद: पारमार्थिक: ॥२५॥
असम्यग्दर्शनाद्दु:खं मतंमे स्वप्नसंनिभम् ॥
निर्ममो निरहंकरस्तन्नेक्षेsद्य सुखाब्धिग: ॥२६॥
यथौतुभक्षिते दु:खं शुकादौ ममतावृते ॥
न तथा ममताहीने वृकादौ तद्वदत्र तु ॥२७॥
न दु:खी न सुखी सोsहं निर्मम: प्रकृते: पर: ॥
यो भूताभिभवो भूतै: सुखदु:खात्मक: स च ॥२८॥
श्रीदत्त: प्राह भूपेन्द्र सम्यग्व्यवसितं त्वया ॥
दु:खमूलं ममेत्यस्य निवृत्तिर्न ममेति च ॥२९॥
ब्रह्मनिष्ठोस्थ मे प्रश्नात्स्वानुभूत्या निराकृता ॥
ममता शाल्मलीतूल इव वातेन तेsधुना ॥३०॥
अज्ञानबीजोsहंकारङ्कुरोsयं ममतालत: ॥
गृहक्षेत्रविशाखो द्रुर्दारपुत्राप्तपल्लव: ॥३१॥
पुण्यापुण्यप्रसूनश्च सुखदु:खफलोsनव: ॥
महान्मोक्षपथव्यापी मूढसत्सङ्गिसेवित: ॥३२॥
विधित्साभ्रमरव्याप्ता: श्रान्ता भ्रान्त्येह संश्रिता:
सौख्यं क्कात्यन्विकं तेषां वृक्षेsस्मिन्मायिकोपमे ॥३३॥
छिन्नोsसङ्गासिना यैयैंर्लब्धामार्गास्ततश्च ते ॥
गत्वा परं पदं शान्तं विश्राम्यन्ति न चेतर ॥३४॥
राज्यं भूतेन्द्रियग्रामो जगदेतच्चराचरम् ॥
गुणात्मकोsयं संघात: क्षेत्रं तज्ज्ञस्य तेन किम् ॥३५॥
मशकोदुम्बरेषीकामुञ्जाब्जापां यथा तथा ॥
क्षेत्रात्मन: पृथग्भावो विज्ञात: सोsधुना त्वया ॥३६॥
अलर्क: प्राह भगवत्प्रसादाज्ज्ञातवाविदम् ॥
अहंकारत्मपार्थक्यं दुर्ज्ञेयं कल्पकोटिभि: ॥३७॥
देवदेव जगन्नाथ दयाब्धे भगवन्प्रभो ॥
वासनाक्रान्ताचित्तवात्कथं तिष्ठेदिदं मयि ॥३८॥
भूयो न भूयां येनेश निर्गुणत्वमियां कथम् ॥
तं योगं ब्रूहि चैकत्वं व्रजेयं ब्रह्मणा यत: ॥३९॥
इदमेव परं कार्यं नरेण हितमिच्छता ॥
कान्तापावृतमुक्तिद्वार्नृजन्मच्युतिरन्यथा ॥४०॥
संपृष्ट इत्यलर्केण भगवानत्रिनन्दन: ॥
तस्मै सत्कृत्य योगीन्द्रो गुह्यं योगमुपादिशत् ॥४१॥
श्रृणुष्वावहितोsलर्क मुक्तये कारणं त्रयम् ॥
तत्त्वज्ञानं मनोभङ्गो वासनाक्षय इत्यद: ॥४२॥
हृच्छुद्धिं प्राप्य सत्कृत्यै: सर्वं संन्यस्य सद्गुरो: ॥
तत्त्वज्ञानमवाप्याथ जह्याद्योगेन तद्द्वयम् ॥४३॥
अन्वयव्यतिरेकाभ्यां देहेsधीशं चिदन्वयात् ॥
ज्ञात्वाsभ्यसेदमुं योगं यतो मुक्तिर्ध्रुवाsचिरात् ॥४४॥
सा मुक्तिर्ब्रह्मणा योगो वियोग: प्राकृतैर्गुणै: ॥
सङ्गत्यागात्स तु प्राप्य: स वैराग्येण नान्यथा ॥४५॥
ज्ञानादेव च वैराग्यं तज्ज्ञानं च विवेकत: ॥
विवेक: सदसद्वस्तुविचारात्सोsत्र कथ्यते ॥४६॥
देहेन्द्रियमन:प्राणाहंकारा भौतिका अमी ॥
साद्यन्ता: सविकाराश्च न सन्तस्तेsन्विता अपि ॥४७॥
अन्योन्याध्यासतोsग्न्यक्तलोहवच्चित्त्वमस्य च ॥
जडत्वं चात्मनो मोहात्साक्षिण: केवलस्य च ॥४८॥
देहाद्यध्यासतोsहंता तत: कर्मास्य बन्धकम् ॥
कर्मणैवावशं शश्वद्भ्रमणं यन्त्रवन्नृणाम् ॥४९॥
तस्माज्ज्ञात्वा विवेकेन स्वात्मानं सुविरक्त इत् ॥
स्वस्थो भवत्यसावेव विमुक्तो मुच्यतेsचिरात् ॥५०॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां वासुदेव्यामुपासनाकाण्डे पञ्चमाष्टके चतुर्थोsध्याय: ॥४॥
॥ इति श्रीदत्त० पञ्चमाष्टके चतुर्थोsध्याय: ॥५।४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-05-07T08:19:37.2900000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

multicolour

  • बहुरंगी 
  • = multicoloured 
RANDOM WORD

Did you know?

विनायकी आणि संकष्टी चतुर्थीबद्दल शास्त्रार्थ सांगावा.
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.