मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|उमासहस्रम्|
त्रयोविंशः स्तबकः

उमासहस्रम् - त्रयोविंशः स्तबकः

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


प्रकीर्णकम् (नरमनोरमावृत्तम्)

(अस्मिन् स्तबके तत्सवितुरिति गायत्रीमन्त्रस्य
चतुर्विंशतिवर्णाः क्रमशः पद्यानां
तृतीयपादस्य चतुर्थवर्णे दृश्यन्ते ) ।

किरदिवामृतं किरणमालया ।
जयति तत्सितं शिववधूस्मितम् ॥१॥

तव पदं परे मम गुहान्तरे ।
स्फुरतु सर्वदा विकसितं मुदा ॥२॥

पदमधोऽम्बुजान्न किल भिद्यते ।
मदनविद्विषः सदनराज्ञि ते ॥३॥

विभुतयोररीकृतबहूद्भवौ ।
विदधतुर्जगत्त्रयमिदं शिवौ ॥४॥

तव तु खेलने नलिनजाण्डकम् ।
गिरिशवल्लभे भवति कन्दुकम् ॥५॥

सकलमस्त्युमे सदभयङ्करे ।
तव करे परे किमपि नो नरे ॥६॥

किमिव वर्ण्यतां कशशिकुण्डला ।
उडुमणिस्रजाप्रविलसद्गला ॥७॥

भण निरन्तरं बहुगुणामुमाम् ।
गतभयं विधेह्यमलवाणि माम् ॥८॥

अव जहीहि वा ननु भजाम्यहम् ।
भुवनभर्त्रि ते चरणमन्वहम् ॥९॥

गणपतेः शिरःकमलचुम्बिनी ।
भवतु गोपतिध्वजकुटुम्बिनी ॥१०॥

दहरमज्जनं विदधतं जनम् ।
परमदेवते नयसि धाम ते ॥११॥

जननि विज्ञता भवतु धीमताम् ।
अनुभवस्तु ते करुणया सताम् ॥१२॥

अचलया धिया हृदि गवेषणम् ।
वृषहयप्रियानगरशोधनम् ॥१३॥

न विजहामि ते चरणनीरजम् ।
अवनि धीमतामव न वा निजम् ॥१४॥

पदमुमेऽम्ब ते हृदि विचिन्वते ।
पलितमस्तकाः परमदेवते ॥१५॥

स्वयमनामये सकलधात्र्यसि ।
निजमहिम्नि सा त्वमयि तिष्ठसि ॥१६॥

स्थितिमसादयंस्तव पदाम्बुजे ।
विधिमधिक्षिपत्यलसनीरजे ॥१७॥

स्यतु मदापदं शिववधूपदम् ।
यदृषयो विधुस्त्रिभुवनास्पदम् ॥१८॥

गुणगणं गृणंस्तव शिवे शिवम् ।
गतभयोऽभवं मदमितो नवम् ॥१९॥

तवकृपावशात् तदिदमव्यये ।
जननि नः प्लुतिस्तव यदङ्घ्रये ॥२०॥

नयनदृश्ययोरयि यदन्तरम् ।
तदमरस्तुते तव वपुः परम् ॥२१॥

अहमिति स्मृतिः क्व नु विभासते ।
इति विचोदयन् महति लीयते ॥२२॥

अमृतसंज्ञके सुखचिदात्मके ।
मतिमदर्थिते जननि धाम्नि ते ॥२३॥

अयि मुदास्पदं स्पृशति ते पदम् ।
श्वसितयात्रया सततदृष्टया ॥२४॥

दधतु सत्कवेर्गणपतेरिमाः ।
नगभुवो मुदं नरमनोरमाः ॥२५॥

N/A

References : N/A
Last Updated : January 07, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP