मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|उमासहस्रम्|
द्वाविंशः स्तबकः

उमासहस्रम् - द्वाविंशः स्तबकः

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


हरकुटुम्बकम् (वियोगिनीवृत्तम्)

अखिलस्य विकासकारणं व्यसनिज्ञानिजनावनेषु नः ।
वितनोतु विशेषतः शिवं शिवराजीवदृशो दरस्मितम् ॥१॥

विकले सकले सुरव्रजे व्रजति श्यामलिमानमच्युते ।
जगतस्सदयो हलाहलं चुलुकीकृत्य भयं नुनोद यः ॥२॥

निगमैस्तुरगी भुवा रथी विधिना सारथिमान् बिभेद यः ।
कनकाद्रिवरेण कार्मुकी कमलाक्षेण शरी पुरत्रयम् ॥३॥

अजितस्य च गाढमत्सरैः कमलाकान्तपुरस्सरैस्सुरैः ।
पदजायुधधारया रयाद्वधमाधत्त जलन्धरस्य यः ॥४॥

कमलासनकञ्जलोचनौ छललिङ्गस्य शिरोङ्घ्रि वीक्षितुम् ।
बत हंसवराहभूमिकौ यतमानावपि यस्य न प्रभू ॥५॥

नयनं निटलान्तरस्थितं विघटय्येषदिवान्वितो रुषा ।
भुवनत्रयनिर्जयोन्नतं मदनं गाढमदं ददाह यः ॥६॥

सकले धवलः कलेबरे हरिनीलोपलमञ्जुलः क्वचित् ।
अमृतांशुरिवादधाति यः परमामक्षिमुदं प्रपश्यताम् ॥७॥

अवतंसतुषारदीधितिद्युतिभिर्यस्य यशोभरैरपि ।
सममच्छतरीकृतो दिशामवकाशस्सुतरां प्रकाशते ॥८॥

गगनानलजीवनानिलक्षितिसोमारुणसोमयाजिभिः ।
महतो बत यस्य मूर्तिभिर्भुवनं क्रान्तमिदं समन्ततः ॥९॥

सह तेन धवेन राजते वसुधाधारिणि काऽपि राजते ।
वनिता भवतापनाशिनी चरणप्रेष्यनिवेदिताशिनी ॥१०॥

वनितापुरुषौ पुरातनौ विमले व्योमनि देवदम्पती ।
भुवनत्रितयस्य तौ विभू रजताद्राविह सिद्धदम्पती ॥११॥

गजचर्मधरः कपालभृद् गृहनाथो गृहिणी तु कालिका ।
रुधिराविलमुण्डमालिनी कथितौ तौ बत पण्डितैः शिवौ ॥१२॥

स किमिन्दुकलाशिरोमणिः किमुताश्लीलकपालभूषणः ।
किमुमे भवती कपालिनी किमु विभ्राजितरत्नमालिनी ॥१३॥

रमसेऽम्ब कपालमालिनी क्वचिदीशेन कपालमालिना ।
अतुलप्रभनिष्कमालिना क्वचिदत्युत्तमरत्नमालिनी ॥१४॥

युवयोर्मरुतस्तनूभुवो बलवन्तो भुवनप्रकम्पनाः ।
शशिदीधितिहारि यद्यशो निगमे पावनमम्ब गीयते ॥१५॥

गुरुमुत्तममभ्रचारिणामसमब्रह्मनिधाननायकम् ।
तव देवि शिवे तनूभुवां मरुतामन्यतमं प्रचक्षते ॥१६॥

द्विरदं वदने महामदं सितदन्तच्छविधौतदिक्तटम् ।
इतरत्र मुखान्नराकृतिं विदुरस्यैव विवर्तमद्भुतम् ॥१७॥

अखिलामरनिर्जयोन्नतः प्रथने तारकदानवो बली ।
हृतवीर्यमदो बभूव यद्घनशक्त्यायुधतेजसाऽञ्जसा ॥१८॥

अमले हृदि निर्मलाशनाच्छिथिले ग्रन्थिचये नराय यः ।
परिपक्वधिये प्रदर्शयेत् तमसः पारमपारवैभवः ॥१९॥

द्रविडेषु शिशुत्वमेत्य यो गिरिशश्लोकविशेषगायिनीम् ।
अमृतद्रवसारहारिणीं निगमाभां निबबन्ध संस्तुतिम् ॥२०॥

भुवि भट्टकुमारिलाख्यया भवमेत्याध्वररक्षणाय यः ।
वरजैमिनिभाषिताशयं बहुलाभिः खलु युक्तिभिर्दधौ ॥२१॥

अधुना विधुनोति यस्तमो विबुधप्रेक्षितमार्गरोधकम् ।
रमणाख्यमहर्षिवेषभृत्श्रितशोणाचलचारुकन्दरः ॥२२॥

स गुहोऽतिमहो महामहास्रिदशानां प्रथितश्चमूपतिः ।
जगतामधिराज्ञि कोऽपि ते सुतरां प्रीतिपदं कुमारकः ॥२३॥

जयति त्रिपुरारिभामिनी गणपत्यादिमरुत्प्रसूरुमा ।
तमसूत सुरारिधूतये त्रिदशानामपि या चमूपतिम् ॥२४॥

स्वकुटुम्बकथाभिधायिनीर्गणनाथस्य वियोगिनीरिमाः ।
अवधारयतु प्रसन्नया नगनाथप्रियनन्दिनी धिया ॥२५॥

N/A

References : N/A
Last Updated : January 07, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP