मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|उमासहस्रम्|
प्रथमः स्तबकः

उमासहस्रम् - प्रथमः स्तबकः

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


व्योमशरीरा। स्त्रीरूपा च (आर्यावृत्तम्)

अखिलजगन्मातोमा तमसा तापेन चाकुलानस्मान् ।
अनुगृह्णात्वनुकम्पासुधार्द्रया हसितचन्द्रिकया ॥१॥

निखिलेषु प्रवहन्तीं निरुपाधिविमर्शयोगदृश्योर्मिम् ।
अजरामजाममेयां कामपि वन्दे महाशक्तिम् ॥२॥

सा तत्त्वतः समन्तात्सत्यस्य विभोस्तता तपश्शक्तिः ।
लीलामहिलावपुषा हैमवती तनुषु कुण्डलिनी ॥३॥

परमः पुरुषो नाभिर्लोकानां सत्य उच्यते लोकः ।
परितस्ततः सरन्ती सूक्ष्मा शक्तिस्तपो लोकः ॥४॥

अन्तर्गूढार्थानां पुरुषाग्नेर्धूमकल्प उद्गारः ।
शक्तिज्वालाः परितः प्रान्तेष्वभवज्जनो लोकः ॥५॥

अतिसूक्ष्मधूमकल्पं लोकं ततमाKययाऽन्यया नाकम् ।
एतं ततोऽपि सूक्ष्मा व्याप्ताऽन्तरतः परा शक्तिः ॥६॥

धूमान्तरोष्मकल्पा शुद्धज्वालोपमा च या शक्तिः ।
तां दिवमाहुः केचन परमं व्योमापरे प्राहुः ॥७॥

उद्गीर्णधूमकल्पो योऽयमपारो महाञ्जनो लोकः ।
व्योमान्तरिक्षगगनप्रभृतिभिरभिधाभिराहुस्तम् ॥८॥

प्रान्तेषु कोऽपि शक्तेः पृथगात्मा वियदुपाधिसङ्गेन ।
परमात्मनो विभक्तः स्वयमभिमन्ता विनिष्पेदे ॥९॥

दक्षः परोक्षमुदितः पन्था एष त्विषां जनो लोकः ।
तद्गर्भे लब्धात्मा कथिता दाक्षायणी शक्तिः ॥१०॥

सत्याः प्रागपि शक्तेः प्रादुर्भावः स कीर्त्यते प्रथमः ।
ईशाभिमानमय्याः पृथगभिमानित्वनिष्पत्त्या ॥११॥

आकाशस्य सुतैवं लक्षणया वस्तुतः प्रसूः शक्तिः ।
अदितेर्दक्षो दक्षाददितिरिति श्रुतिरबाधैवम् ॥१२॥

जगतां मातापितरौ सतीभवौ केऽपि पण्डिताः प्राहुः ।
अदितिप्रजापती तावपरेषां भाषया विदुषाम् ॥१३॥

दिव्यपुमाकृतिमीशे बिभ्रति लीलार्थमस्य रमणाय ।
दिव्यवनिताकृतिं सा बभार माता च भुवनानाम् ॥१४॥

भासुरहेमाभरणां बहुशोभामीश्वरप्रमोदकलाम् ।
मूर्तिं पावनकीर्तिं तां हैमवतीमुमामाहुः ॥१५॥

तस्य प्रथमः साक्षी भुवनजुषां नयनशालिनां मध्ये ।
वपुषः कीलादिसुदृशो निरुपमपुण्यो निलिम्पपतिः ॥१६॥

पल्लवमृदु वेदिगतज्वलनपवित्रं महार्घमणिकान्तम् ।
नवचन्द्रखण्डसौम्यं शिवसुदृशस्तत्स्मरामि वपुः ॥१७॥

केचन गौरीं देवीं शीताद्रेर्देवतात्मनो जाताम् ।
कथयन्ति स्त्रियमुत्तमलावण्यास्वादितो गण्याम् ॥१८॥

सत्यैव भवतु सेयं कथा तथाऽपि प्रभाषितां भक्तैः ।
तां मूर्तिमादिसुदृशो जानीयात्कमपि तेजोंशम् ॥१९॥

मन्यन्ते केऽपि घनं पर्वतमुक्तं निगूढया वाचा ।
प्रादुर्भवति गभीरध्वनिरविषह्या यतः शक्तिः ॥२०॥

आकाशो गोलेभ्यो यद्वितरति निजरजश्चयादन्नम् ।
नेशाय कीर्त्यते सा संसारे दक्षयागकथा ॥२१॥

व्याप्ताऽपि यन्निगूढा बहिरीक्षकबुद्ध्यपेक्षया नष्टा ।
शक्तिर्यागे तस्मिन्नवसानं तदुदितं सत्याः ॥२२॥

पर्वतनाम्नो वैदिकभाषायां यदियमतिबला शक्तिः ।
घनतो भवति व्यक्ता तदभिहितं पार्वतीजननम् ॥२३॥

तेजोंशतः शिवाविह हिमाचलेऽनुग्रहाय भूमिजुषाम् ।
दत्तो यत्सान्निध्यं लीलाचारित्रमन्यदिदम् ॥२४॥

एतासामार्याणां जानन्तः शास्त्रसम्मतं भावम् ।
जानीयुर्भवमहिषीं भुवनानामम्बिकां देवीम् ॥२५॥

N/A

References : N/A
Last Updated : January 07, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP