TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

कृष्णभक्तिरत्नप्रकाशः - षष्ठः प्रकाशः

भगवान श्रीकृष्ण का लीलामय जीवन अनके प्रेरणाओं व मार्गदर्शन से भरा हुआ है।

षष्ठः प्रकाशः
अथ प्रवक्ष्ये श्रीकृष्णचरणाम्बुजसेवनम् ।
समस्तदुःखदमनं नित्यानन्दसुखप्रदम् ॥१॥

तदेव श्रीभगवतश्चरणलाभस्य किमुपायस्तदाह – अहो ! अनन्यया भक्त्या, यथा श्रीभगवन्नियमः—

भक्त्याहमेकया ग्राह्यः श्रद्धयात्मा प्रियः सताम् ।
भक्तिः पुनाति मन्निष्ठा श्वपाकानपि सम्भवात॥२॥

तथा शुकोक्तिः—
न दानं न तपो नेज्या न शौचं न व्रतानि च ।
प्रीयतेऽमलया भक्त्या हरिरन्यद्विडम्बनम् ॥३॥ इति ।

भक्तिः किमिति तदाह नारदपञ्चरात्रे—
सर्वोपाधिविनिर्मुक्तं तत्परत्वेन निर्मलम् ।
हृषीकेण हृषीकेशसेवनं भक्तिरुच्यते ॥४॥

तस्यां भक्तौ त्रिविधं लक्षणं—साधनी, ज्ञानान्विता, प्रेमलक्षणा च । साधनी यथा—
श्रवणं कीर्तनं चैव स्मरणं पादसेवनम् ।
अर्चनं वन्दनं चेति साधनी षड्विधा मता ॥५॥

एतासामादौ श्रवणभक्तिरिति श्रेष्ठा, यथा—
श्रवणाज्जायते श्रद्धाप्यरतिर्भक्तिरुत्तमा ।
यन्न श्रुतं च तस्यैव कथं सङ्कीर्तनादयः ॥६॥

अत आदौ भक्तिश्रवणम्, यथा—
पिबन्ति ये भगवत आत्मनः सतां
कथामृतं श्रवणपुटेषु सम्भृतम्
पुनन्ति ते विषयविदूषिताशयं
व्रजन्ति तच्चरणसरोरुहान्तिकम् ॥७॥इति ।

संसारसिन्धुमतिदुस्तरमुत्तितीर्षोर्
नान्यः प्लवो भगवतः पुरुषोत्तमस्य ।
लीलाकथारसनिषेवणमन्तरेण
पुंसो भवेद्विविधदुःखदवार्दितस्य ॥८॥

अतः श्रवणात्सङ्कीर्तनभक्तिर्जायते, तथा—
श्रीकृष्णनामगुणसंश्रवणं समस्त
भक्तेर्निदानमपि सद्भिरुदाहृतं तत।
यस्माद्भवेद्रतिरलं क्रमशोऽप्यखण्ड
सङ्कीर्तनस्मरणसेवनवन्दनादौ ॥९॥

तदेव हरेर्नाम्नां गुणानां च गानं कीर्तनमुच्यते । यथा—
एतावतालमघनिर्हरणाय पुंसां
सङ्कीर्तनं भगवतो गुणकर्मनाम्नाम् ॥१०॥ इत्यादि ।

तथैव—
शृण्वन्सुभद्राणि रथाङ्गपाणेर्
जन्मानि कर्माणि च यानि लोके ।
गीतानि नामानि तदर्थकानि
गायन्विलज्जो विचरेदसङ्गः ॥११॥

तथा पद्यावल्यां [२०]—
वेपन्ते दुरितानि मोहमहिमा सम्मोहमालम्बते
सातङ्कं नखरजनीं कलयति श्रीचित्रगुप्तः कृती ।
सानन्दं मधुपर्कसम्भृतिविधौ वेधाः करोत्युद्यमं
वक्तुं नाम्नि तवेश्वराभिलषिते ब्रूमः किमन्यत्परम् ॥१२॥

बृहन्नारदीये [१.३२.४७]—
यन्नामोच्चारणादेव महापातकनाशनम् ।
यं समभ्यर्च्य विप्रर्षे मोक्षभागी भवेन्नरः ॥१३॥

एवं सङ्कीर्तनात्स्मरणं जायते । ब्रह्मवैवर्ते—
स्वस्ति श्रीविष्णुलोकाद्धरिचरणरजःपुञ्जपिञ्जोत्तमाङ्गः
कालारिः संयमन्यां मधुरिपुवचनादादिशत्यर्कपुत्रम् ।
भव्यं चान्यन्मुरारेः स्मरणविघटिताशेषपापान्धकाराः
पूर्णा अप्युद्धवन्तो न कथमपि न वा वारणियास्त्वयैव ॥१४॥

तथैव स्कान्दे—
तदेव पुरुषो मुक्तो जन्मदुःखजरादिभिः ।
भक्त्या तु परया नूनं यदैवं स्मरते हरिम् ॥१५॥

तत्र श्रीकृष्णस्मरणेन न केवलं दुःखहरणम्, भक्तिमुक्तिदमेव । यथा गोविन्दवृन्दावने प्रथमपटले
कृष्ण एव परं ब्रह्म सच्चिदानन्दसुन्दरः ।
स्मृतिमात्रेण येषां वै भक्तिमुक्तिफलप्रदः ॥१६॥ इत्यादि ।

एवं श्रीकृष्णपादाम्बुजस्मरणेन पादसेवनादौ मतिर्जायतेऽन्तर्निर्मलत्वेन, यथा—
प्रविष्टः कर्णरन्ध्रेण स्वानां भावसरोरुहम् ।
धुनोति शमलं कृष्णः सललस्य यथा शरत॥१७॥

अथ पादसेवनम्, यथा—
तं सुखाराध्यं ऋजुभिरनन्यशरणैर्नृभिः ।
कृतज्ञः को न सेवेत दुराराध्यमसाधुभिः ॥१८॥

त्वय्यम्बुजाक्षाखिलसत्त्वधाम्नि
समाधिनावेशितचेतसैके ।
त्वत्पादपोतेन महत्कृतेन
कुर्वन्ति गोवत्सपदं भवाब्धिम् ॥१९॥

अथैवं पादसेवनादर्चने मतिर्जायते । तदर्चनं यथा—
यत्पादयोरशठधीः सलिलं प्रदाय
दूर्वाङ्कुरैरपि विधाय सतीं सपर्याम् ।
अप्युत्तमां गतिमसौ भजते त्रिलोकीं
दाश्वानविक्लवमनाः कथमार्तिं ऋच्छेत॥२०॥

नारदीये—
जलेनापि जगन्नाथः पूजितो क्लेशहा हरिः ।
परितोषं व्रजत्याशु तृष्णार्तः सलिलैर्यथा ॥२१॥
मानुषं दुर्लभं प्राप्य यो हरिं नार्चयेत्सकृत।
मूर्खः परतरस्तस्मात्कोऽन्यस्तस्मादचेतनः ॥२२॥

तथैव
ध्यातः स्मृतः पूजितो वा प्रणतो वा जनार्दनः ।
संसारपाशविच्छेदी कस्तं न प्रतिपूजयेत॥२३॥

अथ प्रणाममाह नारसिंहे—
नमस्कारः स्मृतो यज्ञः सर्वयज्ञेषु चोत्तमः ।
नमस्कारेण चैकेन साष्टाङ्गेन हरिं व्रजेत॥२४॥

पाद्मे देवदूतविकुण्डलसंवादे—
कृत्वापि बहुशः पापं नरो मोहसमन्वितः ।
न याति नरकं गत्वा सर्वपापहरं हरिम् ॥२५॥

तत्र दण्डप्रणामं यथा—
दण्डप्रणामं कुरुते विष्णवे भक्तिभावतः ।
रेणुसङ्ख्यं वसेत्स्वर्गे मन्वन्तरशतं नरः ॥२६॥

तत्र प्रदक्षिणमाहात्म्यं, यथा वाराहे—
एवं कृत्वा तु कृष्णस्य यः कुर्याद्द्विः प्रदक्षिणाम् ।
सप्तद्वीपवतीपुण्यं लभते तु पदे पदे ।
तत्ख्यातं यत्सुधर्मस्य पूर्वस्मिन्गृध्रजन्मनि ।
कृष्णप्रदक्षिणाभ्यासान्महासिद्धिरभूदिति ॥२७॥

तथा—
पतितः स्खलितो वार्तः क्षुद्बाधाविवशो गृणन।
हरये नम इत्युच्चैर्मुच्यते सर्वपातकात॥२८॥

अथ ज्ञानानिविता, यथा दास्यं सख्यं तथा चात्मनिवेदनमिति त्रयम् । तत्र दास्यं, यथा—

यन्नामश्रुतिमात्रेण पुमान्भवति निर्मलः ।
तस्य तीर्थपदः किं वा दासानामवशिष्यते ॥२९॥

श्रीकृष्ण एव सर्वेषां परं सर्वोपासनीय इति निश्चयज्ञानेन सद्भिः श्रीभगवद्दासत्वं स्वीकृतम् । ततस्तदनुसन्धीयते । तदेव—

एताः परं तनुभृतो भुवि गोपवध्वो
गोविन्द एव निखिलात्मनि रूठभावाः ।
वाञ्छन्ति यद्भवभियो मुनयो वयं च
किं ब्रह्मजन्मभिरनन्तकथारसस्य ॥३०॥

तत्र दास्यमेव द्विविधम् । दासत्वं दासीत्वं च । तत्र दासभावः—

अहं हरे तव पादैकमूल
दासानुदासो भवितास्मि भूयः ।
मनः स्मरेतासुपतेर्गुणांस्ते
गृणीत वाक्कर्म करोतु कायः ॥३१॥

विष्णुधर्मोत्तरे—
परमात्ममशेषस्य जगतः प्रभवाप्ययम् ।
शरण्यं शरणं गच्छन्गोविन्दं नावसीदति ॥३२॥

तत्र दासीभावो, यथा संमोहनतन्त्रे—
दासभावः सख्यभावः पुत्रभावस्तथैव च ।
नारीभावो विशेषेण गुह्याद्गुह्यतमं स्मृतः ॥३३॥

तथादिपुराणे—
गोपीभावेन ये भक्ता मामेवं समुपासते ।
तेषु तेष्विव तुष्टोऽहं सत्यं सत्यं वदाम्यहम् ।
भावानुरूपं सर्वत्र पार्थ व्यवहराम्यहम् ॥३४॥

अत्र सख्यभावो, यथा—श्रीकृष्ण एव परमब्रह्म रसमयलीलाविग्रहः । यद्यद्वाञ्छन्ति, तत्तत्प्राप्नुवन्ति इति ज्ञानेन सख्यभावं कुर्वन्ति सन्तः । तद्यथा—

कामं क्रोधं भयं स्नेहमैक्यं सौहृदमेव च ।
नित्यं हरौ विदधतो यान्ति तन्मयतां हि ते ॥३५॥

यथा महाभारते—
अर्जुनस्य सखा कृष्णः कृष्णस्य हि सखार्जुनः ।
उभयोरन्तरं नास्ति पवनाकाशयोरिव ॥३६॥

अथात्मनिवेदनं, यथा—
सर्वभूतेषु यः पश्येद्भगवद्भावमात्मनः ।
भूतानि भगवत्यात्मन्येष भागवतोत्तमः ॥३७॥

इति ज्ञात्वा आत्मसमर्पणं कुर्वन्ति सन्तः ।
आत्मानमर्पयेत्कृष्णे भवेदात्मनिवेदनम् ।
अनन्यभावमाश्रित्य तवाहं च बलिर्यथा ॥३८॥
विक्रीता गौः प्रदत्ता वा स्वयं यत्तन्न विद्यते ।
तदा देहादिकं सर्वं दत्तं कृष्णाय नात्मनः ॥३९॥

तथा कविरुवाच—
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्यात्मना वानुसृतस्वभावात।
करोति यद्यत्सकलं परस्मै
नारायणायेति समर्पयेत्तत॥४०॥

अथैवं ज्ञानभक्त्या प्रेमलक्षणा भक्तिर्जायते, यथा ब्रह्मसंहितायां—
प्रबुद्धे ज्ञानभक्तिभ्यामात्मन्यानन्दचिन्मयी ।
उदेत्यनुत्तमा भक्तिर्भगवत्प्रेमलक्षणा ॥४१॥

तदेवादिपुराणे अर्जुनं प्रति श्रीभगवानुवाच—
न तपोभिर्न वेदैश्च नाचारैर्न च विद्यया ।
वशोऽस्मि केवलं प्रेम्णा प्रमाणं तत्र गोपिकाः ॥४२॥

तथात्र प्रेम यथा—ज्ञानाद्यनपेक्षया ममैवेत्याकारपुरःसरं सहजस्फूर्तिः प्रेम । तदेव—
या दोहने ऽवहनने मथनोपलेप
प्रेङ्खेङ्खनार्भरुदितोक्षणमार्जनादौ ।
गायन्ति चैनमनुरक्तधियो ऽश्रुकण्ठ्यो
धन्या व्रजस्त्रिय उरुक्रमचित्तयानाः ॥४३॥

अथ कीदृक्प्रेम ? तदाह—
प्राणप्रतिमरूपेण दर्शनादर्शनेन च ।
जीवनं मरणं स्याद्यत्तत्प्रेमेति निगद्यते ॥४४॥

पद्मपुराणे—
अव्यलीकेन मनसा प्रेष्ठस्याराधनं प्रति ।
आनन्दऽनुभवाद्भक्तिर्धियो वृत्तिरचञ्चला ॥४५॥
अत्यन्तसुखसम्प्राप्तौ विच्छेदे दुःखसन्ततेः ।
हेतुरेकोऽयमेवेति संश्रयो भक्तिरुच्यते ॥४६॥
द्वाभ्यां संवलितैर्भावैः प्रेमभक्तिरिति स्मृतम् ॥४७॥ इति ।

अथैवं श्रीभगवद्भक्तिः केनोपायेन जायते ? तदुतु सत्सङ्गादेव । श्रीभगवानुवाच—
सतां प्रसङ्गान्मम वीर्यसंविदो
भवन्ति हृत्कर्णरसायनाः कथाः ।
तज्जोषणादाश्वपवर्गवर्त्मनि
श्रद्धा रतिर्भक्तिरनुक्रमिष्यति ॥४८॥

यथा प्रेमसुधासारण्याम्—
सततप्रेमपरायणजनमुखगलितकृष्णकथामाध्वी ।
श्रवणपुटेन निपीता वितरति कृष्णेऽमलं प्रेम ॥४९॥

तथा पद्मपुराणे—
न तपांसि न तीर्थानि न शास्त्राणि यजन्ति नः ।
संसारसागरोत्तारे वैष्णवसेवनं विना ॥५०॥

तदेव—
नो रोधयति मां योगो न साङ्ख्यं धर्म एव च ।
न स्वाध्यायस्तपस्त्यागो नेष्टापूर्तं न दक्षिणा ॥५१॥
व्रतानि यज्ञश्छन्दांसि तीर्थानि नियमा यमाः ।
यथावरुन्धे सत्सङ्गः सर्वसङ्गापहो हि माम् ॥५२॥

तथा अतएव भगवद्भक्तिः क्षिप्रमुत्पद्यते, यथा—
न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः ।
ते पुनन्त्युरुकालेन दर्शनादेव साधवः ॥५३॥

तथा नवसिद्धान्प्रति निमिनृप उवाच—
अत आत्यन्तिको क्षेमं पृच्छामो भवतो ऽनघाः ।
संसारे ऽस्मिन्क्षणार्धो ऽपि सत्सङ्गः शेवधिर्नृणाम् ॥५४॥

अथ सन्तः कीदृशा इत्युच्यताम् । तदेव—
महत्सेवां द्वारमाहुर्विमुक्तेस्
तमोद्वारं योषितां सङ्गिसङ्गम् ।
महान्तस्ते समचित्ताः प्रशान्ता
विमन्यवः सुहृदः साधवो ये ॥५५॥

तथा श्रीभगवानुवाच—
कृपालुरकृतद्रोहस्तितिक्षुः सर्वदेहिनाम् ।
सत्यसारो ऽनवद्यात्मा समः सर्वोपकारकः ॥५६॥
कामैरहतधीर्दान्तो मृदुः शुचिरकिञ्चनः ।
अनीहो मितभुक्शान्तः स्थिरो मच्छरणो मुनिः ॥५७॥
अप्रमत्तो गभीरात्मा धृतिमाञ् जितषड्गुणः ।
अमानी मानदः कल्यो मैत्रः कारुणिकः कविः ॥५८॥
आज्ञायैवं गुणान्दोषान्मयादिष्टानपि स्वकान।
धर्मान्सन्त्यज्य यः सर्वान्मां भजेत स तु सत्तमः ॥५९॥
ज्ञात्वाज्ञात्वाथ ये वै मां यावान्यश्चास्मि यादृशः ।
भजन्त्यनन्यभावेन ते मे भक्ततमा मताः ॥६०॥

एवं भागवतमाराध्य श्रीकृष्णे भक्तिः प्रजायत इत्यसन्देहः । यथा श्रीभगवन्निगमः—
सत्सङ्गेन हि दैतेया यातुधाना मृगाः खगाः ।
गन्धर्वाप्सरसो नागाः सिद्धाश्चारणगुह्यकाः ॥६१॥ इत्यादि ।

अतः सन्तमाराध्य श्रीहरौ भक्तिः करणीया अनन्यभावेन । यथा श्रीभगवद्गीतायामर्जुनं प्रति श्रीभगवानुवाच—
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥६२॥

तथा च ब्रह्मसंहितायां ब्रह्माणं प्रति श्रीभगवानुवाच—
धर्मानन्यान्परित्यज्य मामेकं भज विश्वसन।
यादृशी यादृशी श्रद्धा सिद्धिर्भवति तादृशी ॥६३॥

तथा—
तस्मात्त्वमुद्धवोत्सृज्य चोदनां प्रतिचोदनाम् ।
प्रवृत्तिं च निवृत्तिं च श्रोतव्यं श्रुतमेव च ॥ इति ।

भक्तानां धर्मकर्मादिबाधेन दूषणमस्ति ? नैवम् । तथा—
देवर्षिभूताप्तन्èणां पित्èणां
नायं किङ्करो नायं ऋणी च राजन।
सर्वात्मना यः शरणं शरण्यं
गतो मुकुन्दं परिहृत्य कर्तम् ॥

तथा बृहन्नारदीये—
वासुदेवप्रसङ्गेन क्रियालोपो भवेद्यदि ।
तस्य कर्माणि कुर्वन्ति तिस्रः कोट्यो महर्षयः ॥६५॥

तथैव—
आज्ञायैवं गुणान्दोषान्मयादिष्टानपि स्वकान।
धर्मान्सन्त्यज्य यः सर्वान्मां भजेत स तु सत्तमः ॥६६॥

तथा—
यदा यस्यानुगृह्णाति भगवानात्मभावितः ।
स जहाति मतिं लोके वेदे च परिनिष्ठिताम् ॥६७॥

इत्येवं श्रीभगवद्भक्तानामनुपपतितिर्भयादयः सन्ति, नैवम् । यथा श्रीमद्भागवते समाश्रिता ये पदपल्लवप्लवं महत्पदं पुण्ययशो मुरारेः इत्यादि । तथा

तथा न ते माधव तावकाः क्वचिद्
भ्रश्यन्ति मार्गात्त्वयि बद्धसौहृदाः ॥ इत्यादि ॥

तथा श्रीभगवद्गीतासु—
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥

अतएव श्रीकृष्णचन्द्रपादारविन्दाश्रयणे न किंचिद्दुर्लभम् । जन्ममरणभयातीतपदं च प्राप्यते । नित्यानन्दपदमपि प्राप्यते च । यथा—

मर्त्यो मृत्युव्यालभीतः पलायन्
लोकान्सर्वान्निर्भयं नाध्यगच्छत।
त्वत्पादाब्जं प्राप्य यदृच्छयाद्य
सुस्थः शेते मृत्युरस्मादपैति ॥

तथा श्रीविष्णुसहस्रनामस्तोत्रे—
न वासुदेवभक्तानामशुभं विद्यते क्वचित।
जन्ममृत्युजराव्याधिभयं वाप्युपजायते ॥

तथा—
भगवत उरुविक्रमाङ्घ्रिशाखा
नखमणिचन्द्रिकया निरस्ततापे ।
हृदि कथमुपसीदतां पुनः स
प्रभवति चन्द्र इवोदिते ऽर्कतापः ॥

इत्यादि श्रीभगवद्भक्तेर्महत्त्वम् । अत्रैवाग्रे श्रीभगवद्भजनोद्देशरत्नादौ कतिचिदुक्तम् । तत्रैव ज्ञातव्यमिति ॥

अतः—
नानादेवनिषेवणं परिहर प्राणादिसंरोधनं
धर्मं कर्म च दानतीर्थनियमब्रह्मादिकोपासनम् ।
सर्वेषां परमेश्वरस्य परमानन्दप्रदस्यात्मनः
श्रीकृष्णस्य सदाव्ययस्य चरणद्वन्द्वारविन्दं भज ॥७२॥

तथा—
राधाकृष्णपदारविन्दविगलत्प्रेमप्रवाहामृतं
पायं पायमनारतं परसुखी भूत्वा महानुन्मदः ।
नान्यत्रापि मनो दधाति न वदत्यन्यं स्मरेन्नेतरं
तस्यिवाङ्घ्रियशो विनाप्यत इमं चक्रे कवी राघवः ॥७३॥

स्वर्वापीसविधे महामुनिवरस्याम्रातकस्याश्रमे
नानाशास्त्रविधिज्ञपण्डितयुते स्थानेऽम्बिकाधिष्ठिते ।
ब्रह्मव्यासमहेशगोपितधनं कृष्णप्रकाशाभिधं
रत्नं राघवनामधेयकृतिना वेद्यं कृतं सर्वतः ॥७४॥

ये जानन्ति महान्त एव सुधियस्ते मोदयन्त्युत्तमाः
क्षीणा ये न विदन्ति तत्त्वमिदमे वाध्याययन्त्वाशु ते ।
एतद्ये तु विहाय चान्यविषये कुर्वन्त्यहो मानसे
ते किं कृष्णपदारविन्दसुरसं सम्प्राप्नुवन्त्यज्ञकाः ॥७५॥

परम्—
श्रीकृष्णाङ्घ्रिसरोजयुग्मविगलन्माध्वीकधारामृतं
पीतं यैर्न च चारुचित्तचषकैस्ते वञ्चिता दुःखिताः ।
अन्यं वानुसरन्त्यनित्यविभवं सौख्याशया बालिशा
यास्यन्त्युद्भवमृत्युतीव्रकदनेष्वाजन्मकोटिष्वपि ॥७६॥

अतः सर्वमन्यं विहाय सर्वोपरि श्रीकृष्णचरणारविन्दं ब्रह्मादिभिर्भजनीयं भजत । तदेव क्रुतैतद्दुर्लभसङ्ग्रहानुसारेण । तदेवमिमं सङ्ग्रहं विरुद्धमतिषु न प्रकाशयेत। तदिति—

धूर्तायात्यन्तमूर्खाय तथा पण्डितमानिने ।
पाषण्डमतये चैव अन्यदेवोपसेविने ॥७७॥
अभक्ताय च लोलाय रिक्तोपासापराय च ।
नास्तिकाय तामसाय तथाहङ्कारकारिणे ॥७८॥
न प्रकाश्यो न देयश्च कदाचिन्नैष सङ्ग्रहः ॥७९॥
देयो विशुद्धमतये कृष्णपादाब्जसेविने ।
गुरुभक्ताय शान्ताय सत्यसन्धाय सर्वदा ॥८०॥

तथा श्रीभगवद्गीतासु
इदं ते नातपस्काय नाभक्ताय कदाचन ।
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥८१॥
य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥८२॥ इति ।
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥८३॥
तमेव शरणं गच्छ सर्वभावेन भारत ।
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥८४॥

इत्येवं ज्ञात्वा श्रीकृष्णचरणारविन्दमेव शरणं कर्तव्यमिति शेषः ।

इति श्रीकृष्णप्रकाशरत्ने भक्तिविरचनं नाम
षष्ठप्रकाशरत्नं समाप्तम् ।

श्रीकृष्णभजनोपायचिन्तामणिरयं ग्रन्थः ।
प्रेमभक्तिप्रदो यत्तत्समाश्रयत सत्तमाः ॥

समाप्तश्चायं ग्रन्थः ।

श्रीगुरुदेवाय समर्पणमस्तु ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:35.1930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

डोळा जाणणें

  • समजणें-ताडणें 
  • मनातील गोष्‍ट जाणणें 
  • हेतु ओळखणें 
  • इशारा पटणें. 
RANDOM WORD

Did you know?

जर सर्व प्राण्य़ांचा आत्मा एकच असेल तर प्राणी पक्ष्यांची भुते होतात काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.