TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

कृष्णभक्तिरत्नप्रकाशः - चतुर्थः प्रकाशः

भगवान श्रीकृष्ण का लीलामय जीवन अनके प्रेरणाओं व मार्गदर्शन से भरा हुआ है।

चतुर्थः प्रकाशः
तदत्र नित्यो निरन्तरस्वप्रकाशो नित्यविभवः परिपूर्णा नन्दमयः समस्तकालातीत इत्यादि ।

अथ प्रवक्ष्ये सर्वेशं श्रीकृष्णं नन्दनन्दनम् ।
परमानन्दसन्दोहं वृन्दावनविनोदनम् ॥१॥

अथ परिपूर्णानन्दो नित्यप्रकाशः श्रीकृष्णचन्द्रो यदीरितस्तदेव ज्ञातम् । श्रीमन्नन्दनन्दनः क एष इति सन्देहः । यथा आदियामले—

कृष्णोऽन्यो यदुसम्भूतो यः पूर्णः सोऽस्त्यतः परः ।
वृन्दावनं परित्यज्य स क्वचिन्नेव गच्छति ॥२॥
सर्वदा द्विभुजः सोऽपि न कदाचिच्चतुर्भुजः ॥३॥

इत्येवं यदुवंशसम्भूतः कृष्णः क इत्युच्यताम् । तस्मिन्भागवता वदन्ति यः पूर्वः प्रसिद्धः श्रीकृष्णचन्द्रः स एव नन्दनन्दन इत्यसन्देहः । यथा ब्रह्माह—
वसुदेवगृहे साक्षाद्भगवान्पुरुषः परः ।
जनिष्यते तत्प्रियार्थं सम्भवन्तु सुरस्त्रियः ॥४॥

तथा रासे—
न्èणां निःश्रेयसार्थाय व्यक्तिर्भगवतो नृप ।
अव्ययस्याप्रमेयस्य निर्गुणस्य गुणात्मनः ॥५॥

तथा—
अनुग्रहाय भक्तानां मानुषं देहमाश्रितः ।
भजते तादृशीः क्रीडा याः श्रुत्वा तत्परो भवेत॥६॥

अतो यः पूर्णः पूर्णतमः स एव नन्दकिशोर इत्यसन्देहः । यथा श्रीभागवते
एते चांशकलाः पुंसः कृष्णस्तु भगवान्स्वयम् ॥७॥

तथा ब्रह्मसंहितायाम्—
कृष्णः स्वयं समभवन्परमः पुमान्यो
गोविन्दमादिपुरुषं तमहं भजामि ॥८॥

तथा ब्रह्मवैवर्ते द्वितीयाध्याये नारदं प्रति ब्रह्मोवाच—
शृणु पुत्र प्रवक्ष्यामि चरितं परमाद्भुतम् ।
योगेश्वरस्य कृष्णस्य भक्तानुग्रहकारिणः ॥९॥
सतां निःश्रेयसार्थाय दुष्टानां निग्रहाय च ।
व्यक्तिर्भगवतस्तस्य नित्यस्य परमात्मनः ॥१०॥
वसुदेवस्य भार्यायां देवक्यां स जनिष्यति ॥११॥ इति ।

अथैतत्श्रुत्वा वादिनो वदन्ति—अहो महदाश्चर्यम्, य एव नित्यवृन्दावनस्थः स्वप्रकाशो नित्यानन्दो नित्यपूर्णो निरीहस्तस्य जन्म इति किं ? तत्र भागवता वदन्ति – स्वप्रकाशस्य जन्मावतारासम्भव इति यदुक्त, तत्सत्यम् । स्वप्रकाशत्वात। यथानन्दयशोदां च प्रति मदुद्धववाक्यं

न माता न पिता तस्य न भार्या न सुतादयः ।
नात्मीयो न परश्चापि न देहो जन्म एव च ॥१२॥
न चास्य कर्म वा लोके सदसन्मिश्रयोनिषु ।
क्रीडार्थं सो ऽपि साधूनां परित्राणाय कल्पते ॥१३॥
सत्त्वं रजस्तम इति भजते निर्गुणो गुणान।
क्रीडन्नतीतो ऽपि गुणैः सृजत्यवति हन्त्यजः ॥१४॥

अथावतारकारणमुच्यते । यथा बृहद्वामनपुराणे वृन्दावनरजोमाहात्म्ये तदेव श्रुतिप्रार्थितमवधार्य तासां स्तुतिवशो भूत्वा सदयस्ताभ्यः सन्दर्शनं ददौ, तत्श्रुतय ऊचुः—
कन्दर्पकोटिलावण्ये त्वयि दृष्टे मनांसि नः ।
कामिनीभावमासाद्य स्मरक्षुब्धान्यसंशयः ॥१५॥
यथा त्वल्लोकवासिन्यः कामतत्त्वेन गोपिकाः ।
भजन्ति रमणं मत्वा चिकीर्षाजनिनस्तथा ॥१६॥
श्रीभगवानुवाच—
दुर्लभो दुर्घटश्चैव युष्माकं सुमनोरथः ।
मयानुमोदितः सम्यक्सत्यो भवितुमर्हति ॥१७॥
आगामिनि विरिञ्चौ तु याते सृष्ट्यर्थमुद्यते ।
कल्पं सारस्वतं प्राप्य व्रजो गोप्यो भविष्यथ ॥१८॥
पृथिव्यां भारते क्षेत्रे माथुरे मम मण्डले ।
वृन्दावने भविष्यामि प्रेयान्वो रासमण्डले ॥१९॥
जारधर्मेण सुस्नेहं सुदृढं सर्वतो ऽधिकम् ।
मयि सम्प्राप्य सर्वे ऽपि कृतकृत्या भविष्यथ ॥२०॥

एवं श्रुतो नामभिमतसिद्ध्यर्थं वृन्दावने स्वप्रकाशस्तदत्र प्रमाणमधिगम्यतां
तद्दर्शनाह्लादविधूतहृद्रुजो
मनोरथान्तं श्रुतयो यथा ययुः । इति ।

तदेव श्रुतयो गोप्यो भूत्वा श्रीकृष्णचन्द्रं प्रापुः । तत्र गोप्यो यथा अङ्गजा नित्याः श्रुतिरूपा देवकन्या इति । पञ्चधा अतः स एव श्रीकृष्णचन्द्रः स्वप्रकाशः, न तु गर्भवासः । तत्र वादिनो वदन्ति यदि गर्भसम्भवो नैव, तदा कथम्—
वसुदेवगृहे साक्षाद्भगवान्पुरुषः परः ।
जनिष्यते तत्प्रियार्थं सम्भवन्तु सुरस्त्रियः ॥२१॥ इति ।
वसुदेवस्य भार्यायां देवक्यां स जनिष्यति ॥ इति ब्रह्मवैवर्ते पाठः ।

अतः सन्देहः । तदत्र श्रूयतां – स्वायम्भुवमनौ पृष्णिसुतपा दम्पतीभ्यां तपसा श्रीभगवानाराधितः । पुत्रत्वे वरो याचितः । श्रीभगवता चैवं स्वीकृतः । ततस्तद्वरसिद्धये स्वांशविष्णो रूपं दर्शितम् । यथातमद्भुतं बालकमम्बुजेक्षणं; चतुर्भुजं शङ्खगदाद्युदायुधमित्यादि । तथा पितरौ एवं रूपं दर्शयित्वा श्रीभगवानुवाच—
एतद्वां दर्शितं रूपं प्राग्जन्मस्मरणाय मे ।
नान्यथा मद्भवं ज्ञानं मर्त्यलिङ्गेन जायते ॥२२॥

इति तदेव स्वांशविष्णो रूपं दर्शितम्, न तु स्वरूपमेवेति ज्ञातव्यम् । यथा सर्वदा द्विभुजः सोऽपि न कदाचिच्चतुर्भुजः इति यामलप्रमाणम् । तथैव जयति जननिवासो देवकीजन्मवादः इति जन्मवादमात्रम्, न तु श्रीभगवतो जन्म इत्येव ज्ञातव्यम् ॥

अथ केचिद्वादिनो वदन्ति । विष्णुपुराणे ब्रह्मणा प्रार्थितः श्रीभगवान्क्षीरोदशायी विष्णुर्ब्रह्मणे स्वकेशौ दत्तवान्, तौ रामकृष्णौ बभुवतुरिति —
एवं संस्तूयमानस्तु भगवान्परमेश्वरः ।
उज्जहारात्मनः केशौ सितकृष्णौ महामुनेः ॥२३॥
उवाच च सुरानेतौ मत्केशौ वस्तुधातले ।
अवतीर्य भुवो भारं क्लेशहानिं करिष्यतः ॥२४॥

इत्यत्रापि सन्देहः । तत्र कार्ष्णा वदन्ति एतदेव सामान्यवचनम् । विशेषोऽत्र श्रूयताम् । एवं श्रीकृष्णं प्रति नोक्तम् । यतः स एव सर्वबीजस्वरूपः स्वप्रकाशः, तस्यांशाः सर्वे, स कस्यांशः ? अत एतन्नैवम् । तदंशो विष्णुबलभद्रौ भविष्यत इत्युक्तौ यथा मत्केशौ भुवो भारक्लेशहानिं करिष्यतः । एतेनैतद्व्यक्तीकृतम्—यथा स्थितिकारको विष्णुरसुरादीन्हत्वा पृथिवीभारहरणं कृतवान। श्रीकृष्णचन्द्रस्य नैष प्रभावः । यथा—न तस्य कश्चिद्दयितः सुहृत्तमो न चाप्रियो द्वेष्य उपेक्ष्य एव वा [भ्P १०.३८.२२] इत्यादि । यतः स एव कृष्णचन्द्रो निर्गुणः प्रकृतेः परः । केवलपरमानन्दस्वरूपः । तत्र मत्केशौ द्विवचनाद्विष्णुर्बलभद्रश्च । बलरामो यथा—रामेति लोकरमणाद्बलभद्रं बलोच्छ्रयाद्बलः इति नाशकस्वभावात्तमोगुणः । यथा गोविन्दवृन्दावने (२.७), भगवन्तं प्रति बलराम उवाच—
अहं तमोगुणमयश्चोदितस्तव मायया ।
न जाने तव तत्त्वं हि कीदृशं च जगत्प्रभो ॥

अतएव बलोच्छ्रयत्वादनन्तांशः । बलभद्रस्तु दुष्टनिग्रहार्थमवतीर्णः । अतो द्वौ केशौ दत्तौ । किन्तु कृष्णचन्द्रः स्वप्रकाशः परमपुरुषः, यथा ब्रह्मोवाच—वसुदेवगृहे साक्षाद्भगवान्पुरुषः परः इत्यादि । वसुदेवगृहे इत्यौपचारत्वात्पुरा प्रोक्तम् । तत्र भगवता क्षीरोदशायिना शिरोरुहव्याजेनेति सूचितम् । पृथिव्यां परमपुरुषो मम शिरोमणिस्वरूपो दिव्यवृन्दावनेश्वरः श्रीकृष्णः स्वप्रकाशो भविष्यतीति । तदंशौ विष्णुबलरामौ जातौ । यथोक्तं—अवतीर्णौ हि भगवानंशेन जगदीश्वरः इति । किन्तु, स भगवानेक एव, यथा गोविन्दवृन्दावने—स्वयं ज्योतिः स्वयं कर्ता स्वयं हर्ता स्वयं प्रभुः । अतोऽंशेन कथमवतीर्णोऽपि कार्यार्थेन । यथा संस्थापनाय धर्मस्य प्रशमायेतरस्य च इति । अतो विष्णुबलरामस्वरूपांशेनेति । अथांशेनैकवचनम् । द्वौ कथमुक्तौ ? तदेवमंशे प्रोक्ते—एको द्वौ बहवः इति मन्तव्यम् । अंशजातिस्वभावत्वात। तथा श्रीकृष्णयामले—एवं चतुःषष्ठिभागैरवताराः परात्मनः इति ।

केनचिदुक्तं—यदि जन्म औपचारत्वात। तदा कथं बाल्यादिलीला प्रकटिता ? तदेव भक्तानुरोधेन, यथा देवकीवसुदेवनन्दयशोदादीनामनुग्रहाय वात्सल्यप्रेमामृतपानार्थम् । परं च संमोहनतन्त्रे—
मुनिः शुचिश्रवा नाम सुरर्चा नाम चापरः ।
कुशध्वजस्य ब्रह्मर्षेः पुत्रौ तौ वेदपारगौ ॥२६॥
ऊर्ध्वपादौ तपो घोरं चेरतुस्त्र्यक्षरं मनुम् ।
ओं हंस इति कृत्वैवं जपन्तौ यतमानसौ ॥२७॥
ध्यायन्तौ गोकुले कृष्णं बालकं दशमासिकम् ।
कन्दर्पसमरूपेण तारुण्यतरुणेन च ॥२८॥
पश्यन्तीर्व्रजबिम्बौष्ठीर्मोहनतमनारतम् ।
तौ कल्पान्ते तनुं त्यक्त्वा लब्धवन्तौ जनिं व्रजे ॥२९॥
सुधीरनाम्नो गोपस्य सुते परमशोभने ।
ययोर्हस्ते च दृश्येते शारिकाशुकवादिनी ॥३०॥ इति ।

एवं भक्तभावानुरोधेन बाल्यरूपं दर्शितम् । यमलार्जुनयोर्मोक्षणार्थं स्वसेवकनारदवचनप्रतिपालनाय । यथा—
ऋषेर्भागवतमुख्यस्य सत्यं कर्तुं वचो हरिः ।
जगाम शनकैस्तत्र यत्रास्तां यमलार्जुनौ ॥
देवर्षिर्मे प्रियतमो यदिमौ धनदात्मजौ ।
तत्तथा साधयिष्यामि यद्गीतं तन्महात्मना ॥इति ।

अथ सेवकानुरोधेन बाल्यकौमारपौगण्डादिवयसा परिक्रीडमानः । अन्यच्च नन्दयशोदयोर्वात्सल्यभावपूरणार्थम् । यथा—अहो भाग्यवती देवी यशोदा नन्दगेहिनी इत्यादि कारणेन बाल्यम् । नन्दस्तु सर्वेषां व्रजवासिनां नायकः श्रेष्ठश्च । तस्य प्रियतनयो भूत्वा गोरक्षनादिकं कृतम् । किं तस्य किङ्करा न सन्ति ? तदा कथमेवं कृतं ? तदेव भजते तादृशीः क्रीडा याः श्रुत्वा तत्परो भवेद्इति । एतत्कारणमिति मन्तव्यम् ।

अथ केनचिदुक्तम्—अये ! यदि श्रीभगवान्कृष्णचन्द्रः स्वप्रकाशः सर्वात्मा निरीहः—न तस्य कश्चिद्दयितः सुहृत्तमो न चाप्रियो द्वेष्य उपेक्ष्य एव वा इत्यादि, तदा कथं पूतनाशकटतृणावर्ताघबकादीन्जघान ? किमेतत्? अथैतत्कारणं मत्तः श्रूयताम् । भगवान्कृष्णचन्द्रः सर्वत्र समदर्शनः । निरीहः परमरसमयः, केषांचिद्वधाय सङ्गत इति नैव । यथा श्रीशुक उवाच—

कामं क्रोधं भयं स्नेहमैक्यं सौहृदमेव च  ।
नित्यं हरौ विदधतो यान्ति तन्मयतां हि ते  ॥

आगत्य येन एतादृग्भावेन श्रीकृष्णचन्द्रः स्पृष्टस्तमेवात्मसात्करोतीति । न तु केषांचित्मारणाय समुद्यतः स एव ।

असुरवधाय सुसज्जः स एव तदंशो विष्णुः पृथिवीपालनाय ? प्रत्युत्तरम्—अहो ! एतत्सत्यम् । किन्तु त्वरितमागत्य विषोदे कालीयफणिदमनं कृतं कथमिति ? तत्राह—स्वांशो विष्णुस्तस्य सेवकः गरुडः । कालीयस्तु निरन्तरं गरुडस्य भयाद्गरुडमयं समस्तं ददर्श, ततो गरुडो वैष्णवः । तदेव—
श्रीमत्पङ्कजतार्क्ष्यफाल्गुनशुकप्रह्लादभीष्मोद्धव
व्यासाक्रूरपराशरध्रुवमुखान्वन्दे मुकुन्दप्रियान।
यैस्तीर्थैरिव पावितं त्रिभुवनं रत्नैरिवालङ्कृतं
सद्वैद्यैरिव रक्षितं सुखकरैश्चन्द्रैरिवाप्यायितम् ॥ इति ।

अतो गरुडो विष्णुरथो वैष्णवः । वैष्णवो विष्णुर्यथा—वैष्णवाल्लभते भक्तिं भक्त्या मां लभते नरः । तस्माद्वै वैष्णवो विष्णुः इत्यादि । विष्णुरपि श्रीकृष्णस्य स्वांशः । तन्मयत्वात्कालीयायानुग्रहः कृतः । तेनाभयं ददौ सः । न तं निहतवानिति । अतएव बाल्यलीलया यत्कृतं तत्परोपकाराय । यथा—नृणां निःश्रेयसार्थाय व्यक्तिर्भगवतो नृप [भ्P १०.२९.१४] इत्यादि । परं तु भक्तप्रेमवशो भूत्वा तदनुरोधेन च, यथा—
न चान्तर्न बहिर्यस्य न पूर्वं नापि चापरम् ।
पूर्वापरं बहिश्चान्तर्जगतो यो जगच्च यः ॥
तं मत्वात्मजमव्यक्तं मर्त्यलिङ्गमधोक्षजम् ।
गोपिकोलूखले दाम्ना बबन्ध प्राकृतं यथा ॥

एवं भक्तभक्तिवशेन बन्धनमपि स्वीकृतम् । तदेव श्रीभगवानुवाच—
नित्यमुक्तोऽपि बद्धोऽहं भक्तस्य स्नेहरज्जुभिः ।
अजितोऽपि जितोऽहं तैरवश्योऽपि वशीकृतः ॥

अतएव च बाल्यलीलया यद्यत्कृतं तत्सर्वं मायया विहितम् । श्रीभगवता बाल्यरूपं यत्प्रकटितम् । तत्सर्वं मायिकम् । न स्वभावेन । यतः श्रीकृष्णचन्द्रस्य कैशोरवयः स्वभावः । कैशोरवयो विना यद्यद्रूपं तदेव मायिकमिति वेदादिसर्वशास्त्रसम्मतम् । केचिद्बाल्यरूपं स्वभावं मत्वा तदेव प्रशंसन्ति—बाल्यरूपं प्रशंसन्ति श्रीकृष्णस्य क्वचित्क्वचितिति । तदेव संमोहनतन्त्रे—
सन्ति तस्य महाभागा अवताराः सहस्रशः ।
तेषां मध्येऽवताराणां बालत्वमतिदुर्लभम् ॥३८॥

तदत्र शास्त्रान्तरे कैशोरस्वभावः—
बाल्यं मायामयं रूपं सर्वशास्त्रे प्रतिष्ठितम् ।
तस्माद्वृन्दावनान्तःस्थं कैशोरं च सुदुर्लभम् ॥३९॥

तथा रुद्रयामले—कुचकलसपिबन्तं मायिनं कृष्णमीडे ।

तथैव वत्सहरणे—
अम्भोजन्मजनिस्तदन्तरगतो मायार्भकस्येशितुर्
द्रष्टुं मञ्जु महित्वमन्यदपि तद्वत्सानितो वत्सपान।
नीत्वान्यत्र कुरूद्वहान्तरदधात्खे ऽवस्थितो यः पुरा
दृष्ट्वाघासुरमोक्षणं प्रभवतः प्राप्तः परं विस्मयम् ॥

अतो बाल्यवयो मायामयम् । सर्वोपरि कैशोरवयः स्वभावः । तथा—
कृष्णचन्द्रविहारस्य स्थानं बहुतरं स्मृतम् ।
तत्रैव गोकुलं वृन्दावनं परमदुर्लभम् ॥४१॥
सर्वेषामुपरिस्थानं वृन्दावनमितीरितम् ।
यत्र कैशोररूपेण स्वप्रकाशः स्वयं हरिः ॥४२॥
गोकुले बाल्यभावस्तु वृन्दारण्ये किशोरकः ।
नानारूपधरोऽन्यत्र सर्वशास्त्रमतं यथा ॥४३॥
सर्वस्माद्गोकुलं श्रेष्ठं तस्माद्वृन्दावनं वरम् ।
वृन्दावनात्परं स्थानं न कृष्णस्य प्रियं क्वचित॥४४॥
वृन्दावने च कैशोररूपः स्वाभाविकः स्मृतः ।
गोगोपगोपीवंशीभिर्यत्र क्रीडति सर्वदा ॥४५॥

तथा वराहसंहितायां (२.२०)—
वृन्दावनविहारेषु कृष्णः कैशोरविग्रहः ।
अन्यारण्येषु स्थानेषु बाल्यपौगण्डयौवनम् ॥४६॥

तथा संमोहनतन्त्रे—
देहेषु यौवनं रम्यं कैशोरं तत्र दुर्लभम् ।
किशोरं यत्नतः कृष्णं ध्यायेदानन्दविग्रहम् ॥४७॥

तथा वराहसंहितायां श्रीकृष्णस्वरूपनिरूपणे—
व्रजेन्द्रनियतैश्वर्यो व्रजप्राणैकवल्लभः ।
यौवनोद्भिन्नकैशोरवयः स्वाकृतिविग्रहः ॥४८॥

यथा पद्यावल्यां
श्याममेव परं रूपं पुरी मधुपुरी वरा ।
वयः कैशोरकं ध्येयमाद्य एव परो रसः ॥४९॥

तथा बृहद्वामनपुराणे परोक्षे श्रीभगवन्तं संस्तुत्य श्रुत्य ऊचुः—
आनन्दमात्रमिति यद्वदन्तीह पुराविदः ।
तद्रूपं दर्शयास्माकं यदि देयो वरो हि नः ॥५०॥

ततः श्रुत्यभिमतमवधार्य स्वरूपं दर्शयति—
नानारासरसोन्मत्तो यत्र गोपीकदम्बकम् ।
तत्कदम्बकमध्यस्थः किशोराकृतिरच्युतः ॥५१॥
दर्शयित्वेति च प्राह ब्रूत किं करवाणि वः ।
दृष्टो मदीयो लोकोऽयं यतो नास्ति परं पदम् ॥५२॥

ततो वराहसंहितायां श्रीकृष्णस्वरूपनिरूपणे—
सर्वदेवस्य मन्त्राणां विष्णुमन्त्रस्तु जीवनम् ।
श्रीविष्णोः सर्वमन्त्राणां कृष्णमन्त्रस्तु कारणम् ॥५३॥
सर्वेषां कृष्णमन्त्राणां कैशोरमतिहैतुकम् ।
कैशोरं सर्वमन्त्राणां हेतुश्चूरामणिर्मनुः ॥५४॥

अतो वृन्दावनं नित्यम् । श्रीकृष्णः कैशोरविग्रहो नित्य इति ज्ञापनीयम् । अथैतत्सर्वं नित्यमित्यसन्देहः । कैशोरविग्रहो नित्यमिति किमभिप्राय इति तदाह—श्रीकृष्णचन्द्रः परिपूर्णानन्दरसमयो लीलया रूपवान्सप्रकृतिरिति आदिरसविस्तारणाय, यथा नारदपञ्चरात्रे—तयातिरसया रेमे प्रियया चैकरूपया इति । आदिरसः प्रधानमेव । आदिरसोपभोगे बाल्यवयो न सम्भाव्यम् । यौवने तु रसाधिकक्षणप्रमाणेन रसस्य न्यूनत्वम् । अतः कैशोरवय इति पूर्णमुज्ज्वलरसे प्रशस्तम् । यतः क्षणे क्षणे रसस्य वर्धिष्णुता भवति । अत आदिरसे कैशोरवयः पूर्णरसमयं वर्दमानमिति ज्ञातव्यम् ॥

अथ केनचिदुक्तम्—अहो ! यदि वृन्दावने नित्यकिशोरवयाः श्रीकृष्णस्तदा कथमन्यत्र मथुरादिषु गतवान्स्थितिर्वैभवश्च प्रकटितः ? वृन्दावनं परित्यज्य स क्वचिन्नैव गच्छति इति यामलप्रमाणम् । तदत्र सन्देहः । तत्र भागवता वन्दन्ति—अहो ! वृन्दावने कैशोरवयसा श्रीकृष्णो नित्यमस्तीति सत्यम् । नात्र सन्देहः । तदिति—
वृन्दावनाद्यदि गतो भगवान्मुकुन्दो
गुञ्जाप्रवालशिखिशिखण्डकिशोरनीपाः ।
वंशीवरव्रजवधूजनधेनुसङ्घा
एषां न कोऽप्यनुगतो वद कोऽत्र हेतुः ॥५५॥

अतएव श्री.राधाकान्तोऽंशेनान्यत्र गतवान्, स्वरूपेण वृन्दावनेऽवस्थितः । अथ केचिद्वदन्ति—अथैतैर्वेशभूषाभिर्न गतवान्, तेन किं स एव गतवान्? यथा संमोहनतन्त्रे—ध्यानस्य संस्थितिर्नास्ति हरेरिच्छानुरूपतः ।

तत्र प्रत्युत्तरम्—तदेव वृन्दावनान्तर्विनान्यत्र बोद्धव्यम् । वृन्दावनेऽप्येतैर्वेशभूषादिभिस्तिष्ठन्नित्यसन्देहः । किन्तु ये यद्रूपं श्रीकृष्णं ध्यायन्ति । तेषु तद्रूपं दर्शयति, यथा भगवद्गीतासूपनिषत्सु श्रीभगवानुवाच—ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहं इति । तत्र स्वप्रकाशो वंशी मयूरपुच्छगुञ्जापीतांशुकादिभिर्भूषित एव यैर्यैर्वृन्दावनचन्द्र आराध्य दृष्टः । तैस्तैरेतैर्वेशभूषादिभिरेव । यथा नारदपञ्चरात्रे विजयं प्रति दुर्गोवाच—

कोटिचन्द्रमुखं कोटिमन्मथाद्भुतविग्रहम् ।
कोटिसूर्यप्रतीकाशं श्यामं परमसुन्दरम् ॥५६॥
वृन्दावनमहाहेममणिमन्दिरमध्यगम् ।
वंशीविनोदिनं गोपसुन्दरीप्राणनायकम् ॥५७॥
नानारससुधोद्गारप्रेमरङ्गतरङ्गिणम् ।
गूढमर्मरसानन्दमहाम्भोधिमहाविधुम् ॥५८॥
राधिकाहृदयाकूतरसलाम्पट्यविभ्रमम् ।
सुधातरङ्गिणीलीलालोहिताम्बुजलोचनम् ॥५९॥
द्विभुजं कौस्तुभानन्दिवनमालाविभूषितम् ।
पीताम्बरमहारत्नहाराभरणभूषितम् ॥६०॥
रत्नकुण्डलभादीप्यन्नासाग्रमणिमौक्तिकम् ।
बिम्बमाणिक्यबन्धूकसुन्दरद्विजसुन्दरम् ॥६१॥
चतुःसममहागन्धमोहितानेकमानसम् ।
बर्हापीडमहाकान्तरसप्रेममुखाम्बुजम् ॥६२॥
कन्दर्पलोककन्दर्पं रमणीप्रेमवल्लभम् ।
किङ्किणीस्वनमञ्जीरमणिलिप्तपदाम्बुजम् ॥६३॥
भावयेदात्मभावेन परमात्मानमच्युतम् ।
कृष्णमन्त्रजपेनैव कृष्णप्रेम लभेन्नरः ॥६४॥ इति ।

अथ ब्रह्मवैवर्ते पूर्वजन्मनि नन्दयशोदयोस्तपोवशो भूत्वा श्रीभगवानाविर्बभूव । तदा भगवन्तं वसुर्ददर्श, यथा—
ततो वसुर्हृष्टमना दृष्ट्वा तं पीतवाससम् ।
महामरकतश्यामं शिखण्डाबद्धकुन्तलम् ॥६५॥
किशोरं हारमञ्जीरवलयाङ्गदभूषणम् ।
जितचन्द्रमुखं देवं सुन्दरं सुभ्रुनासिकम् ॥६६॥
बिम्बाधरपुटद्वन्द्वशोभिदन्तावलिद्वयम् ।
स्मितावलोकितं धीरं द्विभुजं सर्वसुन्दरम् ॥६७॥
निपत्य दण्डवद्भूमौ स ननाम जनार्दनम् ।
हृष्यत्तनुरुहो भक्त्या कृष्णं प्रति वदिष्यति ॥६८॥ इति ।

तथा ब्रह्मसंहितायां
वेणुं क्वणन्तमरविन्ददलायताक्षम्
बर्हावतंसमसिताम्बुदसुन्दराङ्गम् ।
कन्दर्पकोटिकमनीयविशेषशोभं
गोविन्दमादिपुरुषं तमहं भजामि ॥६९॥

तथा गोविन्दवृन्दावने बलरामं प्रति श्रीकृष्ण उवाच—
शब्दब्रह्ममयी वंशी वदनो रससागरः ।
वनमाली पीतवासः सुकुञ्चितशिरोरुहः ॥७०॥
बर्हिबर्हकृतोत्तंसः पारिजातावतंसकः ।
प्रेमानन्दमयः शुद्धः सर्वदा नवयौवनः ।
एवं रूपः सदैवाहं तिष्ठाम्यत्रैव सर्वथा ॥७१॥

अत्र केनचिदुक्तम्—एवंरूपेण वृन्दावने नित्यं तिष्ठतीति तदा कथं मथुरां गत इति सर्वैर्दृश्यते । अनन्तरं वृन्दावने कथं दृग्गोचरो नैवेति सन्देहः । अहो एतत्कारणं मत्तः श्रूयताम् । आविर्भावतिरोभावावीश्वरस्य बोधव्यौ । तदेव भक्ताभक्तरूपेण । यथा ब्रह्माण्डपुराणे—
अनादेयमहेयं च रूपं भगवतो हरेः ।
आविर्भावतिरोभावावयोक्ते ग्रहमोचने ॥७२॥

तथा गोविन्दवृन्दावने तृतीयपटले नारदप्रश्ने श्रीकृष्ण उवाच—
इदं वृन्दावनं रम्यं मम धामैव केवलम् ।
अत्र मे पशवः पक्षिमृगाः कीटा नरामराः ॥७३॥
अत्र देवाश्च भूतानि वर्तन्ते सूक्ष्मरूपतः ।
सर्वदेवमयश्चाहं न त्यजामि वनं क्वचित॥७४॥
आविर्भावस्तिरोभावो भवेन्मेऽत्र युगे युगे ।
तेजोमयमिदं रम्यमदृश्यं चर्मचक्षुषा ।
ब्रह्मादीनां सुराणां च न भवेद्दृष्टिगोचरः ॥७५॥ इति ।

अथ यदि केषांचिद्दृग्गोचरो नैव, तदा कथमुदारलीलया समस्तलोकगोचरो भूत्वा गोपगोपीभिर्नानाक्रीडारसो विस्तारितः ? अथ तदेव श्रूयताम्—ग्राम्यलोकेन सह यत्कृतं तत्स्वमाययाच्छादितो भूत्वा, किन्तु वृन्दावने रासक्रीडादि यत्कृतं, तदङ्गजा नित्या श्रुतिमुनिजादेवकन्यादिगोप्यस्तासां गोचरो भूत्वा रासक्रीडादिकं कृतवान। स्वमायया स्वप्रकाशः स्वयमेव नान्येषां गोचरः कथमभूत। तदैव सङ्गजा राधा अङ्गवन्नित्या नित्यं सन्ति ईश्वरवत। श्रुतिर्वेदास्त एव भगवदङ्गमेव । एकसप्ततिसहस्रमुनीनां शतकल्पावधि अग्निशाय्याग्निभुक्कठोरतपसा वशो भूत्वा तेषामभिमतसिद्ध्यर्थं तानेवात्मसात्कृतवान। देवकन्या ब्रह्माज्ञया गोप्यो बभूवुः । एतासां नित्यगोचरः श्रीकृष्णचन्द्रो नित्यवृन्दावनस्थ इत्यसन्देहः । तत्र प्रमाणमधिगम्यताम्—यदेव भगवान्श्रीकृष्णचन्द्रो मथुरागमनसमये गोपीः प्रत्यवदत्तदेव—

तास्तथा तप्यतीर्वीक्ष्य स्वप्रस्थाने यदूत्तमः ।
सान्त्वयामास सप्रेमैरायास्य इति दौत्यकैः ॥७६॥

तथा ब्रह्मवैवर्ते—
माधिं कुरुध्वं सुभगां समेष्ये
तूर्णं विलम्बो न ममेति कृष्णः ।
इत्थं समाश्वास्य जनं समुत्सुकं
चचाल तूर्णं सह गोपवृन्दैः ॥७७॥

इत्येवं स्वनिगमः आयास्यामीति । तदेव कथं व्यक्तं नाभूत। तदाह श्रीभगवान्कुत्र वा गच्छति ? कुत्र वा आगच्छति ? यथादियामले—वृन्दावनं परित्यज्य स क्वचिन्नैव गच्छति इति । आयाय्सामीत्युक्तमौपचारिकत्वात्, वास्तवं नैव । दौत्यकैरिति वचनादेतद्व्यक्तीकृतम् । इत्येवं नित्यवृन्दावनस्थः श्रीराधाकान्तोऽशेन श्रीविष्णुस्वरूपवासुदेवेनैव गतवान्स्यात। यदि वृन्दावनत्यागो भवेत्तदा पुनरागमनं च न भविष्यत्येवेत्यादि ज्ञातव्यम् ॥

अथ केचिद्वादिनो वदन्ति—एतासां चेन्नित्यगोचरः श्रीकृष्णचन्द्रस्तदा कथमुद्धवं प्रस्थाप्य गोपीनां विरहनिवारणं कृतवानिति । यथा—
गच्छोद्धव व्रजं सौम्य पित्रोर्नौ प्रीतिमावह ।
गोपीनां मद्वियोगाधिं मत्सन्देशैर्विमोचय ॥७८॥

अथाङ्गजानित्याश्रुतिमुनिरूपाः प्रति नैवम् । देवकन्या प्रति ज्ञातव्यम् । कथमेवं ? ता एव ब्रह्माज्ञया देवकन्या भुवि समागत्य गोप्यो भूत्वा भगवत्प्रीतिं चक्रुः । न तु प्रेमभक्त्या तपसा वा आराधितः प्रभुर्नैवं ब्रह्माज्ञयापि, यथा
वसुदेवगृहे साक्षाद्भगवान्पुरुषः परः ।
जनिष्यते तत्प्रियार्थं सम्भवन्त्वमरस्त्रियः ॥७९॥ इति ।

अतएव देवकन्याः प्रत्येवम् । यथा देवकन्याभिर्ज्ञातः श्रीकृष्णचन्द्रो मथुरां गत एव । अन्यासां भगवतो विच्छेदोऽस्ति नैवम् । यथादियामले—
प्रोक्तेयं विरहावस्था स्पष्टलीलानुसारतः ।
कृष्णेन विप्रयोगः स्यान्न जातु व्रजवासिनाम् ॥८०॥

तथा स्कान्दे मथुराखण्डे –
वत्सैर्वत्सतरीभिश्च सदा क्रीडति माधवः ।
वृन्दावनान्तरगतः सरामो बालकैर्वृतः ॥८१॥

तथा ब्रह्माण्डे—
कैरपि प्रेमवैराग्यभाग्भिर्भागवतोत्तमैः ।
अद्यापि दृश्यते कृष्णः क्रीडन्वृन्दावनान्तरे ॥८२॥

तथैव ब्रह्मवैवर्ते नारदं प्रति ब्रह्माह—
नित्यं क्रीडति विश्वात्मा गोपैर्गोपीभिरेव च ।
पीतवासा जगत्स्वामी वनमाली स्मितेक्षणा ॥ इत्यादि ।

अतएव नित्यवृन्दावनस्थः श्रीकृष्णचन्द्र इति ज्ञातव्यम् । कल्पकोटिमहातपसा प्रेमभक्त्या महासाधनेन भक्तदृग्गोचरो भवति । अन्यथा क एव द्रष्टुं समर्थाः ? नित्यं वृन्दावने स्वप्रकाश इति ज्ञातव्यम् । यथा हस्तामलके (१०)—घनच्छन्नदृष्टिर्घनच्छन्नमर्कं यथा निष्प्रभं मन्यते चातिमूढः इत्यादि । तथैवं निरन्तरं वृन्दावने स्वप्रकाशः साधनव्यतिरेकेण श्रीभगवन्तं राधाकान्तं द्रष्टुं कथं योग्यः । एवमज्ञात्वा मूढैः कथ्यते—श्रीभगवतः श्रीकृष्णचन्द्रस्य वृन्दावनत्याग इत्यादि ।

वृन्दारण्ये निरवधि भगवान्कृष्ण आत्मस्वरूपो
गोगोपीभिर्विलसति परमानन्दपूर्णप्रकाशः ।
एवं ब्रह्मादिभिरपि निगमैः स्तूयते तत्परत्वं
माणिक्यं तत्कुरु हृदाभरणं राघवेणेहितं यत॥८४॥

इति श्रीश्रीकृष्णभक्तिरत्नप्रकाशे
श्रीकृष्णस्य वृन्दावनान्तर्नित्यप्रकाशनिरूपणं नाम
चतुर्थं रत्नं

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:35.0670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

शिलक (शालावत्य)

  • n. एक आचार्य, जो चैकितायन दालभ्य, एवं प्रवाहरण जैवलि नामक आचार्यों का समकालीन था [छां. उ. १.८.१] । ‘शलावति’ का वंशज होने के कारण, इसे शालावत्य पैतृक नाम प्राप्त हुआ था । 
RANDOM WORD

Did you know?

गणपतीचे प्रकार किती व कोणते?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.