TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

कृष्णभक्तिरत्नप्रकाशः - द्वितीयः प्रकाशः

भगवान श्रीकृष्ण का लीलामय जीवन अनके प्रेरणाओं व मार्गदर्शन से भरा हुआ है।

द्वितीयः प्रकाशः
अथ प्रवक्ष्ये श्रीकृष्णपादाम्बुजनिषेवणम् ।
समस्तशास्त्रविहितं सर्वेषामुत्तमोत्तमम् ॥१॥

अथ इत्याकर्ण्य केचिद्वदन्ति—अहो एवं नानादेवताः सन्ति, नानातीर्थानि सन्ति, नानासत्कर्मादीनि सन्ति, सर्वेषामुत्तमं ब्रह्मोपासनमस्ति, एतेषामेकोपासनेन श्रेयो भवति । किमनेन ? तत्र कृष्णचरणपरायणा वदन्ति—सर्वभोगिनो देवा यदेव तत्श्रूयतां ते सर्वे नश्वराः किं तेषामुपासनेन ? यथा—

तावत्स मोदते स्वर्गे यावत्पुण्यं समाप्यते ।
क्षीणपुण्यः पतत्यर्वागनिच्छन्कालचालितः ॥२॥

तथा गीतायां श्री भगवानुवाच—
त्रैविद्या मां सोमपाः पूतपापा
यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
ते पुण्यमासाद्य सुरेन्द्रलोकम्
अश्नन्ति दिव्यान्दिवि देवभोगान॥३॥
ते तं भुक्त्वा स्वर्गलोकं विशालं
क्षीणे पुण्ये मर्त्यलोकं विशन्ति ॥४॥

अतो देवसेवनेन किं ? तथा ब्रह्मादीनामप्येवं, किमन्येषां ? यथा श्रीभगवानुवाच—
लोकानां लोकपालानां मद्भयं कल्पजीविनाम् ।
ब्रह्मणो ऽपि भयं मत्तो द्विपरार्धपरायुषः ॥५॥

एवं नानातीर्थानि, यथा भागवते शुक उवाच—
विद्यातपःप्राणनिरोधमैत्री
तीर्थाभिषेकव्रतदानजप्यैः ।
नात्यन्तशुद्धिं लभते ऽन्तरात्मा
यथा हृदिस्थे भगवत्यनन्ते ॥६॥

तथा
किं वेदैः किमु वा शास्त्रैः किं वा तीर्थाभिषेचनैः ।
कृष्णभक्तिविहीनानां किं तपोभिः किमध्वरैः ॥७॥

अथ नानाधर्मकथा, यथा -
धर्मः सत्यदयोपेतो विद्या वा तपसान्विता ।
मद्भक्त्यापेतमात्मानं न सम्यक्प्रपुनाति हि ॥८॥

तथा श्रीशुक उवाच
दानव्राततपोहोम जपस्वाध्यायसंयमैः ।
श्रेयोभिर्विविधैश्चान्यैः कृष्णे भक्तिर्हि साध्यते ॥९॥

तथा
धर्मः स्वनुष्ठितः पुंसां विष्वक्सेनकथासु यः ।
नोत्पादयेद्यदि रतिं श्रम एव हि केवलम् ॥१०॥

अतएव श्रीकृष्णचरणसेवनं विना न किमपि । यथा ब्रह्मादयः सर्वे नश्वराः, नश्वरोपासनेन नश्वरो भवतीति तदुद्देशेन तपस्यया वा किं ? स्वयं नश्वरा ये, ते किं शाश्वतत्वं दास्यन्ति ? नानाधर्मकर्मणा वा किं ? कर्म बन्धाय कल्पते, यथा मुचुकुन्दस्तुतिः—

न कामये ऽन्यं तव पादसेवनाद्
अकिञ्चनप्रार्थ्यतमाद्वरं विभो ।
आराध्य कस्त्वां ह्यपवर्गदं हरे
वृणीत आर्यो वरमात्मबन्धनम् ॥११॥

तथैव ब्रह्मोपासनेन किं ? ब्रह्मापि शून्यम् । शून्योपासनेन शून्यत्वं प्राप्नोति । यथा श्रुतिः—यादृशी भावना यस्य सिद्धिर्भवति तादृशी इति शून्योपासनेन किं ? नित्याक्षयपरमानन्दसुखस्वरूपश्रीकृष्णचन्द्रचरणारविन्दप्रेमामृतमधुपानेन वञ्चितः स्यात।

अथ मुमुक्षोक्तं नैतत्तदा किं ? यदि देहादेर्मुक्तिर्भवति, तदा किं न भूतं ? तत्प्रत्युत्तरमेव, यथा—सोऽहमिति ज्ञाननिश्चयेन निर्वाणमुक्तिर्भवति, तेन किं ? मुक्तिः किं ? इति यथा श्रीभागवते—
भक्तिर्भगवतः सेवा मुक्तिस्तत्पदलङ्घनम् ।
स मूढः सेवकादन्यो मुक्तिं निर्वाणमिच्छति ॥१२॥

तथा वाल्मीकीये रामचन्द्रं प्रति हनूमतोक्तम्—
भवबन्धच्छिदे तस्यै स्पृहयामि न मुक्तये ।
भवान्प्रभुरहं दास इति यत्र विलुप्यते ॥१३॥

तथा भावार्थदीपिकायां ब्रह्मोवाच—
त्वत्कथामृतपाथोधौ विहरन्तो महामुदः ।
कुर्वन्ति कृतिनः केचिच्चतुर्वर्गं तृणोपमम् ॥१४॥

अत एव श्रीकृष्णे भक्तिः साध्या, यथा श्रीभागवते
चतुर्षु पुरुषार्थेषु गूढोऽयं भक्तिसंज्ञकः ।
द्विजा एव हि जानन्ति मुनयो नारदादयः ॥१५॥

तथा मुक्तेर्भक्तिर्गरीयसी, यथा श्रीभागवते—
अनिमित्ता भागवती भक्तिः सिद्धेर्गरीयसी ।
जरयत्याशु या कोशं निगीर्णमनलो यथा ॥१६॥ इति ।

तत्र मुक्तेर्भक्तिः सुदुर्लभा । यथा श्रीभागवते—
राजन्पतिर्गुरुरलं भवतां यदूनां
दैवं प्रियः कुलपतिः क्व च किङ्करो वः ।
अस्त्वेवमङ्ग भगवान्भजतां मुकुन्दो
मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् ॥१७॥

किन्तु साधवोऽपि मुक्तिं न वाञ्छन्ति, यथा—
न किञ्चित्साधवो धीरा भक्ता ह्येकान्तिनो मम ।
वाञ्छन्त्यपि मया दत्तं कैवल्यमपुनर्भवम् ॥१८॥

अथात्र केचिदाध्यात्मिका वदन्ति—अहो कृष्णं यद्वदसि । स एव शरीरी रूपवान्परिच्छिन्नावयवश्चाक्षुष्यः । अतः स एव भौतिकः । भौतिकत्वात्स्थूलः । स्थूलत्वान्नश्वरः । नश्वरोपासनेन किमिति । एकं कृष्ण एव उपासनीय इति यदुक्तं तदत्यन्तासम्भावनीयोपदेशः । एष वेदान्तशास्त्रैरनभिधेयः । यथा वशिष्ठरामायणे श्रीरामचन्द्रं प्रति वशिष्ठेनोक्तम्—

यदि ददृश्यते सर्वं जगत्स्थावरजङ्गमम् ।
तत्सुषुप्ताविव स्वप्नः कल्पान्ते प्रविनश्यति ॥१९॥

तथोद्धवं प्रति श्रीभगवान्वासुदेव उवाच—
यदिदं मनसा वाचा चक्षुर्भ्यां श्रवणादिभिः ।
नश्वरं गृह्यमाणं च विद्धि मायामनोमयम् ॥२०॥

अतएव सर्वं मायामयमिति मत्वा नित्यं निराकारं निरञ्जनं निर्लेपं च ब्रह्मोपास्यमिति तथैवोक्तं वाशिष्ठे वशिष्ठेन—
आस्तेऽनस्तमित भास्वान्यो देवो हि निरामयः ।
सर्वदा सर्वकृतः सर्वः परमात्मा महेश्वरः ॥२१॥
अन्तःकरणतद्वृत्तिसाक्षी चैतन्यविग्रहः ।
आनन्दरूपः सत्यः सन्किं स्वात्मानं प्रपद्यसे ॥२२॥

तथाष्टावक्रसंहितायाम्—
अहो निरञ्जनः शान्तो बोधोऽयं प्रकृतेः परः ।
एतावन्तमहं कालं हा मोहेन विडम्बितः ॥२३॥

तत्र कार्ष्णा वदन्ति—य एव रूपगुणवर्जितः । अचलस्त्वकर्ता । कायमनोवाक्यैरग्राह्यः स एव न किंचित। तत्र ब्रह्मज्ञानी वदति एवं नेति । यथा श्रुतौ—
अपाणिपादो जवनो ग्रहीता
पश्यत्यचक्षुः स शृणोत्यकर्णः ।
स वेत्ति वेद्यं न च तस्यास्ति वेत्ता
तमाहुरग्र्यं पुरुषं महान्तम् ॥२४॥

तत्र भागवता वदन्ति—अहो वैचित्र्यम् । सोऽस्तीति पण्डिता वदन्ति । तस्य वेत्ता नातीत्यपि वदन्ति च । अतएव अस्ति नास्तीति सन्देहः । यत्र सन्देहस्तस्यान्वेषणेन किमिति ?

ततो ब्रह्मवादी वदति—अहो अस्ति नास्तीति सन्देहो ज्ञानरहितानाम्, अस्तीति निःसन्देहः । तत्श्रूयतां यथा श्रुतौ (ब्रह्मबिन्दूपनिषत्)—
घृतमिव पयसि निगूढभूते भूते वसति च विधानम् ।
सततं मन्थयितव्यं मन्थनभूते प्रकाशते आत्मा ॥२५॥

दृश्यश्च—
राहुरदृश्योऽपि यथा शशिबिम्बस्थः प्रकाशते जगति ।
तथा सर्वगतोऽपि आत्मा बुद्धिस्थो दृश्यतामेति ॥२६॥

कर्ता च—
सवितरि उदिते यद्वत्करोति कर्माणि लोकोऽयम् ।
न च तानि करोति रविर्न कारयति वा तद्वदात्मा ॥२७॥

तथा हस्तामलके (१)
निमित्तं मनश्चक्षुरादि प्रवृत्तौ
निरस्ताखिलोपाधि प्रकाशकल्पः ।
रविर्लोकचेष्टानिमित्तं यथायः
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥२८॥

तत्प्राप्तावुपायो, यथा श्रुतौ चित्प्रकाशे—
अगमन्मे मनोऽन्यत्र साम्प्रतं च स्थिरीकृतम् ।
एवं यो वेत्ति धीवृत्तिं सोऽहमित्यधारयेत॥२९॥

एवमात्मज्ञानदृष्ट्या दृश्यते प्राप्यते च वाशिष्ठे—
मृगैर्यथा मृगाणां च गजानां च गजैर्यथा ।
पक्षिणां पक्षिभिर्यद्वत्ज्ञेयं ज्ञानेन गृह्यते ॥३०॥ इति ।

तदेवं ज्ञानेन ज्ञायते अज्ञानानां न किमपि । अथैतत्श्रुत्वा श्रीकृष्णचन्द्रस्य चरणपरायणा वदन्ति भवता यदुक्तं तत्किं ? श्रीकृष्णचन्द्रस्य चरणवैभवं येन जानन्ति, त एव एवं वदन्ति । तेऽतिक्षुद्राः क्षुद्रमतयः सूक्ष्मं न पश्यन्ति । तत्र—
ये कृष्णचरणाम्भोजमकरन्दमधुव्रताः ।
न भवन्ति परं क्षुब्धास्ते नानापथगामिनः ॥३१॥

यथा ब्रह्मादिस्तुतिः—
त्वमेक एवास्य सतः प्रसूतिस्
त्वं सन्निधानं त्वमनुग्रहश्च ।
त्वन्मायया संवृतचेतसस्त्वां
पश्यन्ति नाना न विपश्चितो ये ॥३२॥

अतः सर्वोपरि श्रीकृष्णचन्द्र एक एव ज्ञानिभिर्ज्ञायते । यथा—
कृष्णस्योपरि कश्चिद्वा तुल्यो भिन्नोऽस्ति यो वदेत।
न तस्य माययाच्छनो नालपेत्तं कदाचन ॥३३॥

इत्येवं यत्किञ्चित्सर्वं श्रीकृष्णवैभवमिति मन्तव्यम् ।

अथ भगवतः श्रीकृष्णस्य भौतिकं प्राकृतं सगुणं देहमिति यदज्ञानादुक्तं, तदिति श्रूयताम् । यथा संमोहनतन्त्रे प्रथमपटले नारदं प्रति सनक उवाच—
तदानन्दमयी राधा तदानन्दमयो हरिः ।
न भौतिको देहबन्धस्तयोरानन्दरूपयोः ॥३४॥

तथा वत्सहरणे ब्रह्मस्तुतिः—
अस्यापि देव वपुषो मदनुग्रहाय
स्वेच्छामयस्य न तु भूतमयस्य कोऽपि ।
नेशे महि त्ववसितुं मनसाऽन्तरेण
साक्षात्तवैव किमुतात्मसुखानुभूतेः ॥३५॥

किन्तु श्रीकृष्णस्य विग्रहं भौतिकं यो वदति, तत्राह बृहद्वामनपुराणे—
यो वेत्ति भौतिकं देहं कृष्णस्य परमात्मनः ।
स सर्वस्माद्बहिष्कार्यः श्रौतस्मार्तविधानतः ॥३६॥
मुखं तस्यावलोक्याथ स चेलो जलमाविशेत।
पश्येत्सूर्यं स्पृशेद्वारिं घृतं प्राश्यो विशुद्धति ॥३७॥

स्थूलत्वं यदुक्तं तदिति यथा महाकौर्मे—
अस्थूलश्चानणुश्चैव स्थूलोऽणुश्चैव सर्वतः ।
अवर्णः सर्वतः प्रोक्तः सवर्णश्च प्रकीर्तितः ॥३८॥

तथा शुकोक्तिः—
ध्वजवज्राङ्कुशाम्भोजकराङ्घ्रितलशोभितम् ।
नखेन्दुकिरणश्रेणी पूर्णब्रह्मैककारणम् ॥३९॥

अतः स्थूलरूपं यत्र भगवन्मायास्पृष्टम् । एतयोः परं श्रीकृष्णचन्द्रः । यथा गोविन्दवृन्दावने भगवति श्रीकृष्णे बलरामप्रश्ने—
परमात्मा परं ब्रह्म सच्चिदानन्दविग्रहः ।
शब्दब्रह्ममयः साक्षात्स्वयं प्रकृतिरीश्वरः ।
आद्यन्तरहितः सूक्ष्मस्थूलातीतः परात्परः ॥४०॥

अथ परं ब्रह्मोपासनमिति यदुक्तं तद्ब्रह्म यत्तत्श्रूयताम् । यथा वराहसंहितायां श्रीभगवान्वराह उवाच (श्रीकृष्णचन्द्रस्य यथा रूपम्)—
ध्वजवज्राङ्कुशाम्भोजकराङ्घ्रितलशोभितम् ।
नखेन्दुकिरणश्रेणी पूर्णब्रह्मैककारणम् ॥४१॥
केचिद्वदन्ति तद्रश्मि ब्रह्मा चिद्रूपमव्ययम् ।
तदंशांशं महाविष्णुं प्रवदन्ति मनीषिणः ॥४२॥

तथा श्रीकृष्णयामले द्वादशाधिकशततमपटले श्रीवासुदेवं प्रति त्रिपुरोवाच—
सूचनात्सूत्रमित्याहुः कृष्णानुभवसूचकम् ।
ज्योतिर्वृन्दावनात्मकं ख्यातं ब्रह्मेति जगदुज्ज्वलम् ॥४३॥
तद्ब्रह्म कृष्णविगुणं यतो भाति चराचरम् ।
यस्य भासा भाति विश्वं यथार्थं श्रुतयो जगुः ॥४४॥

अतएव श्रीकृष्णपादाब्जलाभेऽपि सर्वं प्राप्तम् । कश्च्चिदवशेषोऽस्ति नैवम् । यथा—
वृक्षलभे न वृक्षस्य किञ्चिद्भवति दुर्लभम् ।
कृष्णपादाब्जलाभेऽपि दुर्लभं नास्ति किञ्चन ॥४५॥

या निर्वृतिस्तनुभृतां तव पादपद्म
ध्यानाद्भवज्जनकथाश्रवणेन वा स्यात।
सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत्
किं त्वन्तकासिलुलितात्पततां विमानात॥४६॥ इति

अतो यदि श्रीकृष्णपदारविन्दं प्राप्तं, तदा सर्वं प्राप्तमेव । किन्तु श्रीकृष्णपादाम्बुजं विना नान्यत्र सिद्धिः, यथा नैष्कर्म्यमप्यच्युतभाववर्जितं न शोभते ज्ञानमलं निरञ्जनमित्यादि । तथा त्रैलोक्यसंमोहनतन्त्रे ब्रह्मविद्योपासनीयं श्रीकृष्णपादपद्मं, यथा—

ब्रह्मवादी मुनिः कश्चिद्जाबलिरिति विश्रुतः ।
सोऽध्यात्मनिरतो योगी विचरन्पृथिवीमिमाम् ॥४७॥
अपश्यत्तापसीं कांचिच्चरन्तीं दारुणं तपः ।
तारुण्यवयसा युक्तां रूपेणातिमनोहराम् ॥४८॥
चन्द्रांशुसदृशाभासां सर्वावयवशोभनाम् ।
कृत्वा कटितटे चैव कृष्णाजिनसुकोमलाम् ॥४९॥
ज्ञानमुद्रां च बिभ्राणामनिमिषायतेक्षणाम् ।
त्यक्ताहारविहारं च मुनिर्निश्चलतां स्थिताम् ॥५०॥
जिज्ञासुस्तां मुनिवरस्तस्थौ तत्र शतं समाः ।
ततस्त्वेवं समुत्थाय मुनिना प्रार्थिता च सा ॥५१॥
अतोऽहं ज्ञातुमिच्छामि तपसः कारणं तव ।
यदि योग्यं भवेत्तर्हि कृपया वक्तुमर्हसि ॥५२॥
अथाब्रवीच्छनैर्बाला तपसा तीव्रकर्शिता ।
ब्रह्मविद्याहमतुला या योगीन्द्रैर्विमृग्यते ॥५३॥
जितेन्द्रिया जिताहारा काम्यया दुश्चरं तपः ।
चराम्यहं वने घोरे ध्यायन्ती पुरुषोत्तमम् ॥५४॥
ब्रह्मानन्देन पूर्णाहं ज्ञानविज्ञानतृप्तधीः ।
तथापिइ शून्यमात्मानं मन्ये कृष्णरतिं विना ॥५५॥
इदानीमतिनिर्विण्णा देहस्यास्य विसर्जनम् ।
कर्तुं गच्छामि पुण्यायां वापिकायामिहैव तु ॥५६॥
तच्छ्रुत्वा वचनं तस्या मुनिरत्यन्त विस्मितः ।
पतित्वाचरणे तस्याः कृष्णोपासा विधिं शुभम् ॥५७॥
पप्रच्छ परमप्रीतस्त्यक्त्वाध्यात्मविवेचनम् ।
तयोक्तं मन्त्रामादाय जगाम मानसं सरः ॥५८॥
स एवं बहुदेहेषु समुपास्य जगत्पतिम् ।
नवकल्पान्तरे जाता गोकुले दिव्यरूपिणी ॥५९॥

अतएव श्रीकृष्णपादपद्मसेवनं विना ब्रह्मोपासनं किमिति । तथा ब्रह्माद्स्तुतिः—
येऽन्येऽरविन्दाक्ष विमुक्तमानिनस्
त्वय्यस्तभावादविशुद्धबुद्धयः ।
आरुह्य कृच्छ्रेण परं पदं ततः
पतन्त्यधोऽनादृतयुष्मदङ्घ्रयः ॥६०॥इति ।

तथा—
श्रेयःसृतिं भक्तिमुदस्य ते विभो
क्लिश्यन्ति ये केवेलबोधलब्धये ।
तेषामसौ क्लेशल एव शिष्यते
नान्यद्यथा स्थूलतुषावघातिनाम् ॥६१॥ इत्यादि च ।

अतः सर्वं विहाय श्रीराधाकान्तचरणसेवनं कर्तव्यं नान्यत्शाश्वतमिति शेषः ।

अथात्र मुमुक्षवो वदन्ति—श्रीकृष्णब्रह्मपरः पूर्णानन्दस्वरूपः नित्यो नित्यप्रकाशः लीलाविग्रहः । इति यदुक्तं तस्य किं रूपं, किं प्रमाणं, किं वा गुणः । किमस्य प्रभावः ? किं वा स्थानं ? तदुच्यते । ततः श्रीकृष्णचरणपरायणा वदन्ति – अहो ! अज्ञानादेवं वदथ । अस्यानन्तमहिम्नो रूपगुणादीन्वक्तुं के समर्थाः ? यथा ब्रह्मस्तुतिः—
गुणात्मनस्ते ऽपि गुणान्विमातुं
हितावतीर्णस्य क ईशिरे ऽस्य ।
कालेन यैर्वा विमिताः सुकल्पैर्
भूपांशवः खे मिहिका द्युभासः ॥६२॥

तथा एकादशस्कन्धे
यो वा अनन्तस्य गुणाननन्तान्
अनुक्रमिष्यन्स तु बालबुद्धिः ।
रजांसि भूमेर्गणयेत्कथञ्चित्
कालेन नैवाखिलशक्तिधाम्नः ॥६३॥

जानन्त एव जानन्तु किं बहूक्त्या न मे प्रभो ।
मनसो वपुषो वाचो वैभवं तव गोचरः ॥६४॥

यत्त ब्रह्मैव तत्रान्ये के वराकाः ? तस्मिन्नहमपि किं क्षुद्रातिक्षुद्रः ? तदेव—

श्रीकृष्णचन्द्रचरणाब्जगुणप्रवाहं
वक्तुं यथा द्रुहिणविद्रुतबुद्धिशक्तिः ।
तस्मिन्ममाभिलषिता मतिरल्पकस्य
बालो यथा विधुमभीप्सति खेलनार्थम् ॥६५॥

यदवधि ममावगता । तदिति शास्त्रानुसारेणोच्यते तत्रादौ । अथार्वोपनिषदि गोपालतापनीये
ओं नमो विश्वरूपाय विश्वस्थित्यन्तहेतवे ।
विश्वेश्वराय विश्वाय गोविन्दाय नमो नमः ॥६६॥
नमो विज्ञानरूपाय परमानन्दरूपिणे ।
कृष्णाय गोपीनाथाय गोविन्दाय नमो नमम् ॥६७॥
निष्कलाय विमोहाय शुद्धायाशुद्धवैरिणे ।
अद्वितीयाय महते श्रीकृष्णाय नमो नमः ॥६८॥

तथा ब्रह्मसंहितायां ब्रह्मस्तुतिः—
अद्वैतमच्युतमनादिमनन्तरूपम्
आद्यं पुराणपुरुषं नवयौवनं च ।
वेदेषु दुर्लभमदुर्लभमात्मभक्तौ
गोविन्दमादिपुरुषं तमहं भजामि ॥६९॥

तथा—
इदं हि पुंसस्तपसः श्रुतस्य वा
स्विष्टस्य सूक्तस्य च बुद्धिदत्तयोः ।
अविच्युतो ऽर्थः कविभिर्निरूपितो
यदुत्तमश्लोकगुणानुवर्णनम् ॥७०॥

अतएव श्रीकृष्णचन्द्रचरणभजनमेव कर्तव्यमिति नान्यत।

दृष्ट्वा श्रुत्वावगम्याथ पुरानादौ तु सर्वतः ।
परमानन्दसन्दोहकृष्णपादाम्बुजं भज ॥७१॥

श्रीमत्कृष्णपादारविन्दयुगले भक्तिर्विधेया सदा
नानोपासनवर्जनाभिधमिदं रत्नं परं मौक्तिकम् ।
कण्ठस्याभरणं कुरुष्व सततं ह्यन्याभिलाषं त्यज
सारं श्रीकविराजराघववचः सानन्दमाकर्णय ॥७२॥

इति श्रीकृष्णभक्तिरत्नप्रकाशे नानोपासनवर्जनं नाम
द्वितीयं रत्नम्

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:34.6000000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

पाटफुगडी

  • स्त्री. एक मुलींचा खेळ . - मखेपु . २२१ . 
RANDOM WORD

Did you know?

ADHYAY 43 OF GURUCHARITRA IS WRONGLY PRINTED AND ADHYAY 47 AND 48 ARE SAME KINDLY CHANGE or make correction for it
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site