TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

कृष्णभक्तिरत्नप्रकाशः - तृतीयः प्रकाशः

भगवान श्रीकृष्ण का लीलामय जीवन अनके प्रेरणाओं व मार्गदर्शन से भरा हुआ है।

तृतीयः प्रकाशः
पूर्णं सर्वपरं वक्ष्ये कृष्णमानन्दविग्रहम् ।
नित्यवृन्दावनासीनं राधिकाप्राणवल्लभम् ॥१॥

अथ भगवद्भावका वदन्ति – अहो यच्छ्रीकृष्णस्य गुणनुवादं श्रोतुं प्रश्नं कृतवन्तो भवन्तः । तदेव सर्वोपरि नित्यानन्दमयपरमात्मस्वरूपश्रीकृष्णचन्द्रस्य लीलाविग्रहस्य रूपगुणप्रकाशं नानाशास्त्रानुसारेणाहं विवृणोमि । तदेव सावधानं श्रूयताम् । सम्यग्ब्रह्मादिभिर्न ज्ञायते यत। यथा ब्रह्मसंहितायाम्—

ईश्वरः परमः कृष्णः सच्चिदानन्दविग्रहः ।
अनादिरादिर्गोविन्दः सर्वकारणकारणम् ॥२॥

पन्थास्तु कोटिशतवत्सरसम्प्रगम्यो
वायोरथापि मनसो मुनिपुङ्गवानाम् ।
सो ऽप्यस्ति यत्प्रपदसीम्न्यविचिन्त्यतत्त्वे
गोविन्दमादिपुरुषं तमहं भजामि ॥३॥

कृष्णो यः कथ्यते वेदैः पूर्णः सर्वेश्वरः पुमान।
स एव निखिलाधारो निर्गुणः प्रकृतेः परः ॥४॥

निर्गुणो यथा विष्णुपुराणे—
सत्त्वादयो न सन्तीशे
यत्र च प्राकृता गुणाः ।
स शुद्धः सर्वशुद्धेभ्यः
पुमानाद्यः प्रसीदतु ॥५॥ इति ।

तथा पाद्मे—
योऽसौ निर्गुण इत्युक्तः शास्त्रेषु जगदीश्वरः ।
प्राकृतैर्हेयसंयुक्तैर्गुणैर्हीनत्वमुच्यते ॥६॥ इति ।

अतः प्राकृतगुणैर्वर्जितो लीलया सगुणः । श्रि भागवते रासे अव्ययस्याप्रमेयस्य निर्गुणस्य गुणात्मनः इत्यादि । अथ—

अथापि ते देव पदाम्बुजद्वय
प्रसादलेशानुगृहीत एव हि ।
जानाति तत्त्वं भगवन्महिम्नो
न चान्य एकोऽपि चिरं विचिन्वन॥७॥

विष्णुपुराने भगवान्यथा

ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः ।
भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ॥८॥ इति ।

अथ यत्र भौतिकदेहस्तत्र माया, यत्र माया तत्र गुणाः, यत्र गुणास्तत्र प्रलयो ध्रुव एव । एवं भौतिकदेहदेहदेहिभेदो वर्तते । अतः स एव नश्वरः । ईश्वरस्य श्रीवृन्दवनचन्द्रस्य न बहुतिको देहः । यथा संमोहनतन्त्रे सनक उवाच—

तदानन्दमयी राधा तदानन्दमयो हरिः ।
न भौतिको देहबन्धस्तयोरानन्दस्वरूपयोः ॥९॥

तथैवेश्वरस्य देहदेहिभेदो नास्ति, यथा कौर्मे—
देहदेहिविभेदस्तु नेश्वरे विद्यते क्वचित।
अतो लीलामयो देहः कृष्णस्य परमात्मनः ॥१०॥

तथा आदियामले—
सर्वेषां नश्वरो देहो देहदेहिविभेदतः ।
सर्वात्मकानन्दमये प्रलयः किमु जायते ॥११॥

तथा—
सृष्टिं स्थितिं च प्रलयं यः करोति स ईश्वरः ।
तस्मिन्सर्वाणि लीयन्ते स कुत्र परिलीयते ॥१२॥

अथ श्रीकृष्णचन्द्रस्य देहो नित्यो न भौतिकः । तस्मिन्देहदेहिभेदो नास्ति, तत्किमिति तदत्र श्रूयताम्—
उदयते बहिर्योऽसौ स्थूलसूक्ष्मपरः पुमान।
लीलया सतनुर्भाति नित्यानन्दः सनातनः ॥१३॥

अहो यद्येवं तदा कथं प्रकृतिसङ्गः ? न तु तदेव द्वयोरेकत्वादेक एव, यथा श्रीकृष्णयामले ऊनविंशाधिकशततम्पटले स्त्रीरूपमाश्रित्य श्रीभगवता वासुदेवेन दिव्यवृन्दावने राधया श्रीकृष्णो दृष्टोऽभेदेन—
अन्योन्याश्लेषिताङ्गौ तौ राधाकृष्णौ ददर्श सा ।
राधां स्फुरद्रसां कृष्णसर्वाङ्गस्वाङ्गगोपिताम् ॥१४॥
चुम्बन्तीं कृष्णचन्द्रस्याधरदिव्यसुधाश्रयाम् ।
कृष्णो राधाङ्गरागेण कुङ्कुमीकृतविग्रहः ॥१५॥ इत्यादि ।

तदिति विष्णुधर्मोत्तरे—
सच्चिदानन्दसान्द्रत्वाद्द्वयोरेवाविशेषतः ।
औपचारिक एवात्र भेदोऽयं देहयोर्द्वयोः ॥१६॥

एवं राधाङ्गजाङ्गवतः । तदा कथं द्विधारूपः ? तथा नारदपञ्चरात्रे—
स्वयं हि बहवो भूत्वा रमणार्थं महारसः ।
तयातिरसया रेमे प्रियया चैकरूपया ॥१७॥

प्रियया राधया सह । तथा गोविन्दवृन्दावने अर्धाङ्गात्राधासमुत्पन्ना इत्यग्रे वक्ष्यामि । तत्र व्यक्तीभविष्यति ।

अथ कैश्चिदुक्तं – यदि स्वप्रकाशो लीलारसमयः परमात्मस्वरूपस्तस्मिन्कथं श्यामवर्णत्वं सर्वत्र प्रसिद्धं ? यथा श्रुतौ—रूपं न वेद्यं न च बिन्दुनादः इत्यादि । तदाह—
श्यामाभत्वं विधत्ते यत्सर्ववर्णोऽत्र लीयते ।
नित्यं च प्रभवत्येव कालोऽस्मिन्नैव विद्यते ॥१८॥

अथ कैश्चिदुक्तं – नित्यत्वं कथमुक्तं ? महाप्रलयेऽपि सर्वं नश्यत्येव, यथा न केऽपि स्थातारः सुरगिरि प्रभृतयः इति वेदान्तप्रमाणम् । तत्प्रत्युत्तरमाह—
भूर्लोकादूर्ध्वतः स्थानं लक्षयोजनमानतः ।
सूर्यस्यैव सुधांशोश्च तदूर्ध्वं लक्षयोजनम् ॥१९॥

तद्वशात्कालनियमो न तत्र चकासति । यत्र दिव्यवृन्दावनम् । तत्र चन्द्रसूर्ययोः प्रकाशो नास्ति । यत्र कालो नास्ति तत्र कथं प्रलयः ? यतः कालनियमात्प्रलयः । यथा गोलोकसंहितायाम्—
पादगम्यं तु यत्किंचित्स भूर्लोक इति स्मृतः ।
आसूर्यं तु भुवर्लोक आध्रुवं स्वर्ग उच्यते ॥२०॥
महर्लोकः क्षितेरर्धमेककोटिस्तु मानतः ।
कोटिद्वयेन विख्यातो जनो लोकस्तु योजने ॥२१॥
चतुष्कोटिप्रमाणस्तु तपो लोकस्तु भूतलात।
उपरिष्टात्ततः सत्यं कोटिरष्टौ प्रमाणतः ॥२२॥
सत्यादुपरि वैकुण्ठः कोटिरष्टौ प्रमाणतः ।
तस्योपरिष्टात्कौमार उमालोकस्ततः परः ॥२३॥
शिवलोकस्तदुपरि गोलोकस्तदुपरि स्मृतः ।
ज्योतिर्मयं तत्र ब्रह्म तत्र वृन्दावनं महत॥२४॥
तत्रैव राधिका देवी सर्वशक्तिनमस्कृता ।
तत्रैव भगवान्कृष्णः सर्वदेवशिरोमणिः ॥२५॥

तत्र श्रीभगवान्, यथा
आयतिं नियतिं चैव भूतानामगतिं गतिम् ।
वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥२६॥

अतएव भगवतः कथं प्रलयः ? तच्च श्रीभगवदङ्गज्योतिषा सर्वमुद्दीपितम् । तस्मिन्कथं कालः ? अतएव भगवतः कथं प्रलयः ? तच्च श्रीभगवदङ्गज्योतिषा सर्वमुद्दीपितम् । तस्मिन्कथं कालः ? अथ वादिनो वदन्ति यदि चन्द्रसूर्यगतिवशान्न कालनियमोऽभूत। तत्किं निमेषादिभिः कालो मन्तव्यः ? तेन प्रलयमहाप्रलयादिर्विधातव्यः । यथा निमेषादिरयं कालस्तदेव अमरकोषः—

अष्टादशनिमेषास्तु काष्ठास्त्रिंशत्तु ताः कलाः ।
तास्तु त्रिंशत्क्षणस्ते तु मुहूर्तो द्वादशस्त्रियाम् ॥२७॥ इति ।

तत्र विहस्य भागवता वदन्ति—उदीरितार्थोऽपि भवद्भिर्न ज्ञायते तदेव यत्र च न भौतिको देहः । तत्र कथं निमेषो वर्तते ? निमेषादिरिति वायोः स्वभावः । अतएव भौतिके देहो निमेषादिः । यथा पृथिव्यापस्तथा तेजो वायुराकाश एव च इति । वायुर्यथा गोरक्षसंहितायां योगवशिष्ठे च—

प्राणोऽपानः समानश्च उदानो व्यान एव च ।
नागः कूर्मोऽथ कृकारो देवदत्तो धनञ्जयः ॥२८॥

तत्र कूर्मवायोर्निमेषोन्मेषादिगुणः । तथा तत्रैव नागो गृह्णाति चैतन्यं कूर्मश्चैव निमीलति वाशिष्ठे—निमीलनादि कूर्मस्य क्षुत्तृष्णा कृकरस्य च इत्येवं श्रीकृष्णचन्द्रे कालो नास्तीति । यथा गोविन्दवृन्दावने बलरामं प्रति श्रीभगवानुवाच—

प्रेमानन्दमयः शुद्धः सर्वदा नवयौवनः ।
कालः कालस्वरूपोऽहं कालात्मा कालगोचरः ॥२९॥
समस्तकालरहितः सर्वकारणकारणम् ।
चित्स्वरूपो ज्ञानरूपोऽद्वितीयः समदृक्परः ॥३०॥

एवं रूपः सदैवाहं तिष्ठाम्यत्रैव सर्वदा । अत एव कृष्णचन्द्रो नित्यमहारसमयः समस्तकालरहित इति ज्ञातव्यम् । तिष्ठाम्यत्रैव इति वृन्दावने इत्युक्तम् ।

अथ यथा श्रीभगवान्तथा वृन्दावनमेव, यथा पद्मपुराणे निर्वाणखण्डे रहस्याध्याये श्रीभगवानुवाच—

नित्यां मे मथुरां विद्धि वनं वृन्दावनं तथा ।
ममावतारो नित्योऽयमत्र मा संशयं कृथाः ॥३१॥

तदत्र वृन्दावनं, यथा—
वृन्दावनं च द्विविधं नित्यं दिव्यमितीरितम् ।
नित्यं भुवि तथा दिव्यं सर्वोपरि विराजते ॥३२॥

तदेव नित्यवृन्दावनं यथा श्रीकृष्णयामले त्रयोदशाधिकशततमपटले—

नित्या वेदैः प्रगीयन्ते सिद्धिदाः सिद्धिकाङ्क्षिभिः ।
नित्यवृन्दावनं स्थानं पूर्णातिपूर्णमुच्यते ॥३३॥
लीलाः पूर्णातिपूर्णाश्च तुरीयास्तत्र कीर्तिताः ॥३४॥

दिव्यवृन्दावनं, यथा—
येन विलासयत्येव श्रीकृष्णं दिव्यनायकम् ।
दिव्यं च यद्यथा देव्या राधया अङ्गसौभगम् ॥३५॥
क्रीडनीयं परेशस्य दिव्यं तेनैव कथ्यते ।
तुरीयादित्रयं स्थानं दिव्यवृन्दावनं वयम् ॥३६॥
पूर्णातिपूर्णपूर्णं यत्स्वरूपं राधिकापतेः ।
यस्यांशांशप्रणिहिता लीलास्तेषु प्रतिष्ठिताः ॥३७॥
दिव्यवृन्दावने कृष्णः श्रीराधावल्लभस्तथा ।
गोपीजनवल्लभस्तु नित्यवृन्दावने सदा ॥३८॥

वृन्दावनमिति श्रीभगवदङ्गविशेषः । अतः तदेव कालादिरहितम् । अथ यत्र श्रीकृष्णचन्द्रस्तदङ्गज्योतिषा वृन्दावनादिसमस्तं प्रदीप्तम् । यथा गोलोकसंहितायां बलभद्रं प्रति श्रीभगवानाह—

एकोऽनेकस्वरूपोऽहं सर्वशक्तिमयः पुमान।
मद्देहान्निर्गतं ज्योतिः सर्वभूतमयं परम् ॥३९॥

तथैव गोविन्दवृन्दावने बलरामप्रश्ने—
अन्यत्तु सूर्यचन्द्रादिप्रकाशसदृशं तव ।
तनुपादनखाज्ज्योतिः किमिदं तद्वदस्व मे ॥४०॥
श्रीभगवानुवाच—
ज्योतिर्ब्रह्ममयं तेजो मच्छरीराद्विनिर्गतम् ।
ममानेन न भेदोऽस्ति ब्रह्मज्योतिरहंपरम् ॥४१॥
पृथिव्यापोवह्निरूपैर्वायुरूपैस्तथैव च ।
आकाशरूपैः सदा पश्य जलभाण्डे यथा रविः ॥४२॥
दुर्लभं दुर्लभं ज्योतिर्दुर्दशं सर्वगं शुचि ।
सुखदं मोक्षदं मह्यं पादाङ्गुष्ठाद्विनिर्गतम् ।
एतद्ध्यात्वा योगिनोऽपि यान्ति निर्वाणमुत्तमम् ॥४३॥

तथा अथर्वोपनिषदि गोपालतापनीये ब्रह्माणं प्रति श्रीभगवानुवाच—

चित्स्वरूपं परं ज्योतिः स्वरूपं रूपवर्जितम् ।
हृदा मां संस्मरन्ब्रह्मन्तत्पदं याति निश्चितम् ॥४४॥

अथ वराहसंहितायां श्रीवराह उवाच—
तच्छ्यामदेहकिरणैः परानन्दरसामृतैः ।
तदंशकोटिकोट्यंशा जीवास्तत्किरणात्मकाः ॥४५॥

एवं श्रीकृष्णचन्द्रतनुपादनखज्योतिषामुज्ज्वलं वृन्दावनादिसमस्तस्थलमिति मन्तव्यम् । तत्र कालादिप्रवेशो नैव, यत्र श्रीकृष्णचन्द्रः स्वप्रकाशो नित्यकिशोरः समस्तकालादिरहितः । तथा हि, गोविन्दवृन्दावने श्रीकृष्णं प्रति बलराम उवाच—
राधाकान्त जगन्नाथ श्रीमद्गोकुलनागर ।
श्यामसुन्दर गोपीश गोकुलानन्दचन्द्रमः ॥४६॥
वृन्दावनसुखानन्द पीतवासः प्रिय प्रभो ।
पादाम्बुज नखज्योतिराप्तलोकत्रय प्रभो ॥४७॥
शब्दब्रह्ममयी वंशीप्रिय पद्मदलेक्षण ।
प्रेमभक्तिपुष्पमयीवनमाला प्रियोत्तम ॥४८॥
गोविन्द गोगणार्तिघ्न गोपते गोगणार्चित ।
यत्त्वया कथितं तत्त्वमात्मनस्तु समासतः ॥४९॥
किंस्वरूपोऽसि भगवन्किमीहः किंस्वरूपकः ।
विस्तरेण पुनस्तस्मै श्रोतुमिच्छामि तद्वत॥५०॥
श्रीभगवानुवाच—
अहमात्मा परं ब्रह्म सच्चिदानन्दविग्रहः ।
शब्दब्रह्ममयः साक्षात्स्वयं प्रकृतिरीश्वरः ॥५१॥
आद्यन्तरहितः स्थूलातीतः परात्परः ।
स्वयं ज्योतिः स्वयं कर्ता स्वयं हर्ता स्वयं प्रभुः ॥५२॥
कटाक्षमात्रब्रह्माण्डकोटिसृष्टिविनाशकृत।
सदाशिवमहाविष्णुरुद्रब्रह्मादिकारकः ॥५३॥
नराकृतिनित्यरूपी वंशीवाद्यप्रियः सदा ।
इन्द्रनीलमणिश्यामस्त्रिभङ्गी मधुराकृतिः ॥५४॥
पूर्णेन्दुकोटिसदृशो नानालावण्यवारिधिः ।
पुण्डरीकदलाकारनयनः प्रेमसागरः ।
जितकामधनुर्दिव्यभ्रूलताललितोत्सवः ॥५५॥
त्रिभङ्गललितश्रीमत्तीर्यग्ग्रीवातिसुन्दरः ।
शब्दब्रह्ममयीवंशीवादनोत्सवसागरः ॥५६॥
वनमाली पीतवासाः सुकुञ्चितशिरोरुहः ।
बर्हिबर्हकृतोत्तंसः पारिजातावतंसकः ॥५७॥
प्रेमानन्दमयः शुद्धः सर्वदा नवयौवनः ।
कालः कालस्वरूपोऽहं कालात्मा कालगोचरः ॥५८॥
समस्तकालरहितः सर्वकारणकारणम् ।
चित्स्वरूपो ज्ञानरूपोऽद्वितीयः समदृक्परः ।
एवं रूपः सदैवाहं तिष्ठाम्यत्रैव सर्वदा ॥५९॥

तथा ब्रह्मसंहितायाम्—
अद्वैतमच्युतमनादिमनन्तरूपम्
आद्यं पुराणपुरुषं नवयौवनं च ।
वेदेषु दुर्लभमदुर्लभमात्मभक्तौ
गोविन्दमादिपुरुषं तमहं भजामि ॥६०॥ इति ।

अथ सर्वेश्वरत्वम् । श्रीभगवन्निरूपणं, यथा ब्रह्मसंहितायां श्रीभगवन्तमालोक्य ब्रह्मा आष्टादशाक्षरमन्त्रं प्राप । तदनु श्रीभगवन्तं स्तौति । यथा श्रीभगवतः समुद्भूय ब्रह्मा सर्वत्र्न्धकारं दृष्ट्वा भगवन्तःं स्तौति । ततो ब्रह्माणं प्रति अष्टादशाक्षरमदात।
अथ तेपे स सुचिरं प्रीणन्गोविन्दमव्ययम् ।
श्वेतद्वीपपतिं कृष्णं गोलोकस्थं परात्परम् ॥६१॥
प्रकृत्या गुणरूपिण्या रूपिण्या पर्युपासितम् ।
सहस्रदलसम्पन्ने कोटिकिञ्जल्कबृंहिते ॥६२॥
भूमिश्चिन्तामणिस्तत्र कर्णिकारे महासने ।
समासीनं चिदानन्दं ज्योतिरूपं सनातनम् ॥६३॥
शब्दब्रह्ममयं वेणुं वादयन्तं मुखाम्बुजे ।
विलासिनीगणवृतं स्वैः स्वैरंशैरभिष्टुतम् ॥६४॥
अथ वेणुनिनादस्य त्रयीमूर्तिमयी गतिः ।
स्फुरन्ती प्रविवेशाशु मुखाब्जानि स्वयम्भुवः ॥६५॥
गायत्रीं गायतस्तस्मादधिगत्य सरोजजः ।
संस्कृतश्चादिगुनुणा द्विजतामगमत्ततः ॥६६॥
त्रय्या प्रबुद्धो ऽथ विधिर्वीज्ञाततत्त्वसागरः ।
तुष्टाव वेदसारेण स्तोत्रेणानेन केशवम् ॥६७॥

चिन्तामणिप्रकरसद्मसु इत्यादि । तथा नारदपञ्चरात्रे नारदानन्तसंवादे भक्तिरहस्ये—
चिदानन्दस्वरूपं च निगुणं प्रकृतेः परम् ।
सुधातोयं लताकल्पलताचिन्तामणिस्थली ॥६८॥
ब्रह्मज्योतिः प्रिया लक्ष्मीरस्त्रं वेणुः पुमान्हरिः ॥६९॥
कथा गानं गतिर्नाट्यं परिखा क्षीरसागरः ।
तल्लोकवासिनां देवं वृन्दावनपुरन्दरम् ॥७०॥
दिव्यातिदिव्यं श्रीदेहं कालमायाद्यगोचरम् ।
द्विभुज मेघश्यामाङ्गं किशोरं वनमालिनम् ॥७१॥
दिव्याभरणभूषाङ्गगोपकन्यासमावृतम् ।
दयितं प्रेमभक्तानामद्वैतं ब्रह्मवादिनाम् ॥७२॥
मीनकूर्मादयो यस्य अंशांशाः सर्वदेवताः ।
यस्य स्मरणमात्रेण नरो नारी भवत्यपि ॥७३॥
पौराणिका यजन्त्येवं वैतानैर्ब्रह्मवादिनः ।
भक्तितन्त्रविधानेन त्रिकाण्डेनैव साधवः ॥७४॥

तथा संमोहनतन्त्रे द्वितीयपटले नारदं प्रति सनक उवाच—
ध्यायेत्कृष्णं च सुश्यामं पूर्णानन्दकलेवरम् ।
कोटिसूर्यप्रभं चैव योगिनामपि दुर्लभम् ॥७५॥
सर्वसौन्दर्यनिलयं राधालिङ्गितविग्रहम् ।
पूर्णानन्दस्वरूपं तं न तु भूतमयं हि तत॥७६॥
यादृशी वेशभूषा च मनसः प्रीतिदायिनी ।
तादृशी च हरेर्ज्ञेया भक्तानुग्राहको हरिः ॥७७॥ इति ।

अथ श्रुतिभिरवलोकितो यथा बृहद्वामनपुराणे वृन्दावनमाहात्म्ये श्रीकृष्णं प्रति श्रुतय ऊचुः, यथा—
प्राकृते प्रलये प्राप्तेऽव्यक्ते व्यक्तिं गते पुरा ।
श्लिष्टे ब्रह्मणि चिन्मात्रे कालमायातिगेऽक्षरे ॥
ब्रह्मानन्दमयो लोको व्यापी वैकुण्ठसंज्ञकः ॥७८॥
निर्गुणोऽनाद्यनन्तश्च वरते केवलेऽक्षरे ।
अक्षरं परमं ब्रह्मवेदानां स्थानमुत्तमम् ॥७९॥
तल्लोकवासितत्रस्थैः स्तुतो वेदैः परात्परः ।
चिरं स्तुत्वा ततस्तुष्टः परोक्षः प्राह तान्गिरा ॥८०॥
श्रुतीः प्रति श्रीभगवानुवाच—
तुष्टोऽस्मि ब्रूत भोः प्राज्ञा वरं यन्मनसीप्सितम् ॥८१॥
श्रुतय ऊचुः—
नारायणादिरूपाणि ज्ञातान्यस्माभिरच्युत ।
सगुणं ब्रह्म सर्वेदं वस्तु बुद्धिर्न तेषु नः ॥८२॥
ब्रह्मेति प्रोच्यतेऽस्माभिर्यद्रूपं निर्गुणं परम् ।
वाङ्मनोगोचरातीतं ततो न ज्ञायते हि तत॥८३॥
आनन्दमात्रमिति यद्वदन्तीह पुराविदः ।
तद्रूपं दर्शयास्माकं यदि देयो वरो हि नः ॥८४॥
श्रुत्वैतद्दर्शयामास स्वं लोकं प्रकृतेः परम् ।
केवलानुभवानन्दमात्रमक्षरमव्ययम् ॥८५॥
यत्र वृन्दावनं नाम वनं कामदुघैर्द्रुमैः ।
मनोरमनिकुञ्जाढ्यं सर्वर्तुसुखसंयुतम् ॥८६॥
यत्र गोवर्धनो नाम सुनिर्झरदरीयुतः ।
रत्नधातुमयः श्रीमान्सुपक्षिगणसङ्कुलः ॥८७॥
यत्र निर्झरपानीया कालिन्दी सरितां वरा ।
रत्नबद्धोभयतटा हंसपद्मादिसङ्कुला ॥८८॥
नानारासरसोन्मत्तं यत्र गोपीकदम्बकम् ।
तत्कदम्बकमध्यस्थः किशोराकृतिरच्युतः ॥८९॥
दर्शयित्वेति यः प्राह ब्रूत किं करवाणि वः ।
दृष्टो मदीयलोकोऽयं यतो नास्ति परं वरम् ॥९०॥

अतः कृष्णचन्द्रोपरि कोऽपि नास्ति । सर्वोपरि श्रीकृष्णचन्द्रो यथा श्रीकृष्णयामले पञ्चाशीतितमपटले श्रीभगवन्तं वासुदेवं प्रति श्रीरुक्मिण्युवाच—
त्वदृते नास्ति यत्किञ्चिज्जगत्स्थावरजङ्गमम् ।
सर्वेषामात्मभूतोऽसि परमात्मेति शब्द्यते ॥९१॥
स त्वं किं ध्यायसि श्रीमान्कामिनां सर्वकामदः ।
किं वा जपसि तत्त्वेन एतत्त्वं वक्तुमर्हसि ॥९२॥
निशम्य वाचं कमलेक्षणाया
यदुत्तमो यत्प्रैय्कृत्प्रियायाः ।
तामङ्कमारोप्य सुखं च सादरं
मुहुर्मुहुः प्राहुर्मुदा मुदान्तहृत॥९३॥
श्रीभगवान्वासुदेव उवाच—
सारात्सारतरं कान्ते यन्मां पृच्छसि साम्प्रतम् ।
रहस्यानां रहस्यं तु तथापि वर्णयामि ते ॥९४॥
त्वं मे प्राणेश्वरी कान्ता यतः परमशोभना ।
अतो वक्तव्यमेतत्स्यात्त्वयि नास्त्यपि मे रहः ॥९५॥

प्रेमारामं ललितवपुषं यत्कर्लाक्रान्तमेतत्
यं वेदाद्यैर्विहितमुनयो नारदाद्या मुनीन्द्राः ।
प्राहुः सत्यं परमपुरुषं राधिकाप्राणरूपम्
तं गोपीनां नयनकुमुदप्रेक्षणीयेन्दुमीहे ॥९६॥

तस्मादुदित प्रोः यस्य विश्वाद्यमाद्यम् ।
यद्भागादः सकलजगतां कारणं धीमहि स्म ॥९७॥

ज्योतिर्यस्य प्रथमवपुषो विश्वमूर्तिर्विराजं
ब्रह्माण्डानां निचयरचना रोमकूपेषु यस्य ।
आवृतास्ते रुचिभिरमलप्रज्ञया दुर्विगाह्या
सा राधा यं प्रणयविषयं सेवते तं स्मरामि ॥९८॥

ब्रह्मण्डानां प्रणयरचना कुक्कुटकीव मूर्ध्नि
यत्शं कालावयवरहितं दिव्यवृन्दावनाख्यम् ।
स्थानं संस्थावरणललितं यत्तुरीयात्परं तत्
प्रेमानन्दप्रथिममनिशं धीमहि ध्यानहर्षात॥९९॥

वंशी यस्य प्रियसहचरी चिद्रसज्ञा सदैषा
कृष्णस्यार्थे यदुदभवना नाद उच्चैः स्वरो यत।
शब्दा वर्णा श्रुतय उदिता बोधयन्ती स्म विश्वं
विश्वानन्दं तमहमनिशं प्रेमधाम प्रपद्ये ॥१००॥

यस्य क्रीडाकलितवपुषः स्थानसंस्थानसंस्था
ध्यानाशक्त्यावयवसहिता नान्यदिच्छामयेषु ।
आत्मानन्दप्रथितजगतां नाककं नान्तमीशं
तं गोपीनां नयनकुमुदप्रेक्षणीयेन्दुमीहे ॥१०१॥

इत्येवं राधा प्रेमानन्दमयं परिपूर्णप्रेमस्वरूपं श्रीकृष्णचन्द्रमहं चिन्तये ॥

परं यथा पद्मपुराणे निर्वाणखण्डे नारदं प्रति सनत्कुमारेण यत्कथितं तद्व्यासोऽम्बरीषं राजानं प्रत्याह—
अतिगोप्यं त्वया पृष्टं यन्मया न शुकं प्रति ।
गदितं स्वसुतं किन्तु त्वां वक्ष्यामि हरिप्रियम् ॥१०२॥
मया कृतं तपः पूर्वं बहुवर्षसहस्रकम् ।
फलमूलपलाशाम्बुवाय्वाहारनिषेविणा ॥१०३॥
ततो मामाह भगवान्स्वाध्यायनिरतं हरिः ।
कस्मिन्नर्थे चिकीर्षा ते विवित्सा वा महामते ॥१०४॥
प्रसन्नोऽस्मि वृणु मुने वरं त्वं वरदर्षभात।
मद्दर्शनान्तः संसार इति सत्यं ब्रवीमि ते ॥१०५॥
अतो ऽहमब्रुवं कृष्णं पुलकोत्फुल्लविग्रहः ।
त्वामहं द्रष्टुमिच्छामि चक्षुर्भ्यां मधुसूदन ॥१०६॥
यत्तत्सत्यं परं ब्रह्म जगज्योनिं जगद्गतिम् ।
वदन्ति वेदशिरसश्चाक्षुषं नाथ मेऽस्तु तत॥१०७॥
श्रीभगवानुवाच—
मामेके प्रकृतिं प्राहुः पुरुषं च तथेश्वरम् ।
धर्ममेके वरं चैके मोक्षमेकेऽकुतोभयम् ॥१०८॥
शून्यमेके भावमेके परमाणुमथापरे ।
दैवमेके देवमेके ग्रहमेके मनः परे ।
बुद्धिमेके कालमेके शिवमेके सदाशिवम् ॥१०९॥
अपरे वेदशिरसि स्थितमेकं सनातनम् ।
यद्भावविक्रियाहीनं सच्चिदानन्दविग्रहम् ॥११०॥
कोऽपि वेद पुमान्लोके मदनुग्रहभाजनम् ।
पश्य त्वं दर्शयिष्यामि स्वरूपं वेदगोपितम् ॥१११॥
वेदव्यास उवाच—
ततोऽपश्यमहं भूप ततः कालाम्बुदप्रभम् ।
गोपकन्यावृतं गोपं हसन्तं गोपबालकैः ॥११२॥
कदम्बमूलमासीनं पीतवाससमद्भुतम् ।
वनं वृन्दावनं नाम नवपल्लवमण्डितम् ।
कोकिलभ्रमरारावं मनोभवमनोहरम् ॥११३॥

बालमिति यथा—
कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि ।
कैशोरमापञ्चदश यौवनं तु ततः परम् ।
बाल्यं यौवनं वार्धक्यमिति वयोऽवस्थात्रयम् ॥११४॥

अथ कैशोरावधि बाल्यम् । एवं बालेऽप्युक्ते किशोरवयःपदेन कैशोरवयः सूचितमिति । तथा बाल्ये गोपकन्या वृतत्वेन उज्ज्वलरस इत्ययोग्यत्वात्, तथा श्रीकृष्णयामले ऊनविंशाधिकशतपटले द्वारकानाथः श्रीवासुदेवोऽपि राधाकृष्णं द्रष्टुं श्रीत्रिपुरासहायेन सत्रिपुरो दिव्यवृन्दावने राधाकृष्णान्तिकं विवेश । श्रीकृष्णाज्ञाया राधाकुण्डे स्नात्वा स्त्रीरूपो भूत्वा श्यामा इति नाम धृत्वा परिपूर्णं प्रेममयं राधा कृष्णं सा श्यामा ददर्श । तद्यथा—

मधुप्रिया नाम सखी राधाकृष्णातिवल्लभा ।
सा श्यामां च करे धृत्वा राधायाः सम्मुखेऽनयत॥११५॥
सापश्यद्राधिकां कृष्णवक्षःस्थलसमाश्रिताम् ।
अनौपम्यरूपलीलाप्रत्यङ्गरमसोज्ज्वलाम् ॥११६॥
अन्योन्यश्लेषिताङ्गौ तौ राधाकृष्णौ ददर्श सा ।
राधां स्फुरद्रसां कृष्णसर्वाङ्गस्वाङ्गगोपिताम् ॥११७॥
चुम्बन्तीं कृष्णचन्द्रस्याधरदिव्यसुधाश्रयाम् ।
कृष्णो राधाङ्गरागेण कुङ्कुमीकृतविग्रहः ॥११८॥
उभयोरन्तरं तं च आस्वाद्यास्वादनै रसैः ।
अन्योन्यभावसम्भारैरन्योन्याश्लिष्टचेतसोः ॥११९॥

इत्येवं नित्यानन्दस्वरूपो नित्यविग्रहः श्रीराधाकृष्ण इति मन्तव्यम् । यथा वराहसंहितायां (२.७३८०) पृथिवीं प्रति श्रीभगवान्वराह उवाच—
तदंशुकोटिकोट्यंशास्तस्य कन्दर्पविग्रहाः ।
जगन्मोहं प्रकुर्वन्ति तदण्डान्तरसंहिताः ॥१२०॥
तत्प्रकाशस्य कोट्यंशारश्मयः सूर्यविग्रहाः ।
तद्देहविलसत्कान्तिकोटिकोट्यंशचन्द्रमाः ।
तच्छ्यामदेहकिरणैः परानन्दरसामृतैः ॥१२१॥
परात्मनित्यचिद्रूपा निर्गुणस्यैककारणम् ।
तदंशुकोटिकोट्यंशा जीवास्तत्किरणात्मकाः ॥१२२॥
तदङ्घ्रिपङ्कजश्रीमन्नखचन्द्रमणिप्रभम् ।
तदंशुपूर्णब्रह्मैव कारणं वेद दुर्गमम् ॥१२३॥
तदङ्गसौरभानन्तकोट्यंशा विश्वमोहनाः ।
तत्स्पर्शपुष्पगन्धादिनानासौरभसन्तमम् ॥१२४॥
तत्प्रियाप्रकृतिस्त्वाद्या राधिका तस्य वल्लभा ।
तत्कलाकोटिकोट्यंशो दुर्गाद्या त्रिगुणात्मिका ।
तस्याङ्घ्रिरजसः स्पर्शात्कोटिविष्णुः प्रजापते ॥१२५॥

तत्र श्रीराधाकृष्णस्यावरणस्वरूपो विष्णुश्च । श्रीवराहसंहितायां श्रीराधाकृष्णस्य सप्तमावरणमाह—
तद्बाह्ये तु प्रवालादिप्राचीरैः सुमनोहरैः ।
पुष्पोद्यानं च नानाभिश्चतुर्दिक्षु समुज्ज्वलैः ॥१२६॥
शुक्लं चतुर्भुजं विष्णुं पश्चिमे द्वारपालकम् ।
शङ्खचक्रगदापद्मकिरीटादिविभूषितम् ॥१२७॥
रक्तं चतुर्भुजं विष्णुं शङ्खचक्रगदाधरम् ।
किरीटकुण्डलाद्यैश्च शोभितं वनमालिनम् ॥१२८॥
गौरं चतुर्भुजं विष्णुं शङ्खचक्राम्बुजायुधम् ।
किरीटकुण्डलाद्यैश्च शोभितं वनमालिनम् ॥१२९॥
पूर्वद्वारे द्वारपालं गौरं विष्णुं प्रकीर्तितम् ।
कृष्णवर्णं चतुर्बाहुं शङ्खचक्रादिभूषितम् ।
दक्षिणद्वारपालं च श्रीविष्णुं कृष्णवर्णकम् ॥१३०॥

अथ दुर्गाद्या यास्तदेव श्रूयताम् । नारदपञ्चरात्रे श्रुतिं विजयोवाच—
अतो दुर्गा मम मता प्रकृतिः परमात्मनः ।
प्रेमकौतुकजौत्कण्ठा रक्ताङ्गी व्यक्ततां गता ॥१३१॥

श्रीकृष्णयामले द्वादशाधिकशततमपटले श्रीवासुदेवं प्रति श्रीभगवती त्रिपुरोवाच—
राधारसप्रवचनैः कृष्णस्यापि तथाविधैः ।
प्रणयातिरसाविष्टौ राधाकृष्णौ निरन्तरौ ॥१३२॥
उभयोरेव सम्पत्तिः पश्यतामेव यद्भवेत।
प्रेमानुभूतिविभवो महानन्दप्रियंवदः ॥१३३॥
ततोऽन्यन्न च जानामि क्वचिद्वस्त्वस्ति किञ्चन ।
अतो दासीत्वमनयोः स्वीकृत्याहं सदानुगा ॥१३४॥

एतज्जगत्कारणमप्यनादि
ब्रह्म प्रयत्नं परितोऽन्ववैहि ।
वेदैरशेषैरुपदिष्टमेतत्
कृष्णस्य दास्यं रहसि प्रशस्यम् ॥१३५॥

त्रैलोयनाथादि नृणां यथावत।
ते मां प्रपद्याभिमतं प्रयान्ती ॥१३६॥ इत्यादि ।

एको नित्यकिशोर एवमनिशं वृन्दावनाभ्यन्तरे
राधाश्लेषपरायणो नवघनश्यामः स वंशीमुखः ।
नित्यं च द्विभुजस्तदङ्घ्रिभजनं रत्नं सुनीलाभिधं
भालोर्ध्वं कुरु भूषणं सुविनयं यद्राघवेणोदितम् ॥१३७॥

इति श्रीश्रीकृष्णभक्तिरत्नप्रकाशे
श्रीकृष्णपरमपूर्णत्वनिरूपणं नाम
तृतीयं रत्नं

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:34.6630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

optic indicatrix

  • प्रकाशीय द्योतिका 
RANDOM WORD

Did you know?

Why the marriages are prohibited within same Gotra?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site