कृष्णभक्तिरत्नप्रकाशः - पञ्चमः प्रकाशः

भगवान श्रीकृष्ण का लीलामय जीवन अनके प्रेरणाओं व मार्गदर्शन से भरा हुआ है।

तस्य नन्दात्मजस्यापि ब्रह्मणः परमात्मनः ।
अंशांशावताराणां प्रवक्ष्ये परमोत्सुकम् ॥१॥

अथ वृन्दावनान्मथुरां गतः क एषः ? तदुच्यताम् । तदत्र स एव श्रीकृष्णचन्द्रः सर्वसम्पूर्णप्रकाशस्तथाल्पप्रकाश इति भेदत्वात्पृथङ्मन्यते, यथा—

हरिः पूर्णतमः पूर्णतरः पूर्ण इति त्रिधा ।
श्रेष्ठमध्यादिभिः शब्दैर्नाट्ये यः परिपठ्यते ॥२॥
प्रकाशिताखिलगुणः स्मृतः पूर्णतमो बुधैः ।
असर्वव्यञ्जकः पूर्णतरः पूर्णोऽल्पदर्शकः ॥३॥

इत्येवं वृन्दावने पूर्णतमः श्रीभगवान्कृष्णचन्द्रःस्वप्रकाशः । अन्यत्राल्पप्रकाशः । तदेव पूर्णतरत्वेन द्वारकानाथो वासुदेवो बलरामश्च पूर्णोऽपि सहप्रद्युम्नानिरुद्धादिः । तदन्यच्च पूर्णकल्पत्वेन ब्रह्मविष्णुशिवमहाविषःवादयः । तत्र विष्णुर्वासुदेवो यथा मथुरां गतवन्तं श्रीभगवन्तं सहस्रशिरसोऽनन्तस्य क्रोडे अक्रूरोऽपश्यद्यथा—

तस्योत्सङ्गे घनश्यामं पीतकौशेयवाससम् ।
पुरुषं चतुर्भुजं शान्तं पद्मपत्रारुणेक्षणम् ॥४॥ इत्यादि ।

तथात्रैव रुक्मिणिरभसे श्रीभगवन्तं वासुदेवं प्रति रुक्मिण्युवाच— यत्कर्णमूलमरिकर्षण नोपयायाद्युष्मत्कथा मृडविरिञ्चसभासु गीता ॥ इत्यत्र विष्णोरुल्लेखो न कृतः । यदेव तत्श्रीवासुदेवः विष्णुरिति सूचितम् । तद्गुणो यथा बृहन्नारदीये—
अग्रत्वादथ पूर्णत्वात्स्वयम्भुरिति कथ्यते ।
हरः संसारहरणाद्विभुत्वाद्विष्णुरुच्यते ॥५॥

श्रीवासुदेवस्वरूपविष्णोर्वैभवं यथामथुरायां कंसवधाय गत्वा स्ववैभवं दर्शितम् । तदेव श्रीभागवते मल्लानामशनिर्नृणां नरवरः स्त्रीणां स्मरो मूर्तिमान् इत्यादि । तथैव द्वारकायां षोडशसहस्रस्त्रीणां गृहे षोडशसहस्राणि पुमांसो भूत्वा रराम । महामुनिनारदेन दृष्टः । तदनु अर्जुनं प्रति विश्वरूपं दर्शितम् । तथा रुक्मिणीहरणपारिजातहरणादिमहामहायुद्धे चतुर्भुजत्वं प्रकटितम् । गरुडवाहनश्च शङ्खचक्रगदापद्मधारी च । अतः श्रीरुद्र उवाच—

यः परं रंहसः साक्षात्त्रिगुणाज्जीवसंज्ञितात।
भगवन्तं वासुदेवं प्रपन्नः स प्रियो हि मे ॥६॥

इत्यादि प्रमाणेन ज्ञातव्यं विष्णोर्वासुदेवस्य परः श्रीकृष्णचन्द्रः । विष्णुरपि वैकुण्ठेश्वरः । अतएव महाविष्णुः । तथात्र प्रमाणमाह – यदा वैकुण्ठद्वारि जयविजययोर्ब्रह्मशापो बभूव तदा भगवता श्रीविष्णुना आज्ञप्तम्—यदि मयि शत्रुभावं कृत्वा पतथः, तदा जन्मत्रयानन्तरं युवामहं मोचयिष्यामि इति । अतो जयविजयौ हिरण्याक्षहिरण्यकशिपुरूपौ भूत्वा जातौ । विष्णुरपि वराहनृसिंहरूपौ भूत्वा तौ जघान । युगान्तरे पुनस्तौ रावणकुम्भकर्णौ भूत्वा जातौ । विष्णुरपि श्रीरामलक्ष्मणरूपौ भूत्वा तौ जघान । जन्मान्तरे पुनस्तौ शिशुपालदन्तवक्ररूपौ भूत्वा जातौ । विष्णुरपि श्रीवासुदेवबलभद्रौ भूत्वा तौ जघान । एवं जन्मत्रयानन्तरं जयविजयौ मुक्तो बभूवतुः । अत एतत्सर्वं विष्णोर्वैभवमेव । वृन्दावनचन्द्रस्य नैतत्, यतः सर्वेषां परः श्रीकृष्णचन्द्रस्य वैभवः । अतो नारदपञ्चरात्रे रामादयोऽवताराश्च कार्यार्थे सम्भवन्ति च इति ।

अत एते सर्वे श्रीकृष्णस्यांशा विष्णुस्वरूपावतारा इति ज्ञापनीयम् । यतो दिव्यवृन्दावनस्थो भगवान्श्रिकृष्णचन्द्रः । यथा श्रीगोलोकसंहितायां—

ज्योतिर्मयं ब्रह्म यत्र तत्र वृन्दावनं महत।
तत्रैव राधिका देवी सर्वशक्तिनमस्कृता ।
तत्रैव भगवान्कृष्णः सर्वदेवशिरोमणिः ॥७॥

अत एव महाविष्णुवैभवमेव । तत्र केचिद्वदन्ति—सर्वमेतदस्य श्रीवृन्दावनचन्द्रस्य वैभवमेव। स एव किं न विभुः ? अहो भद्रमुक्तम् । तस्यांशवैभवा विष्णुर्वासुदेवादयः । अहो यदि नैवम्, तदा कथं वासुदेवो ब्रह्मादिभिः प्रार्थितो वैकुण्ठं गन्तुं ? यथा श्रीब्रह्मोवाच—
भूमेर्भारावताराय पुरा विज्ञापितः प्रभो ।
त्वमस्माभिरशेषात्मन्तत्तथैवोपपादितम् ॥
शरच्छतं व्यतीयाय पञ्चविंशाधिकं प्रभो ।
नाधुना ते ऽखिलाधार देवकार्यावशेषितम् ।
कुलं च विप्रशापेन नष्टप्रायमभूदिदम् ॥ इति ।

अतः सर्वोपाधिरहितस्य श्रीकृष्णचन्द्रस्य नैतत। स एवं दिव्यवृन्दावनेशः पूर्णरसमयः । अनन्तवैकुण्ठनाथास्तस्य किङ्कराः । यथा ब्रह्मसंहितायां

गोलोकनाम्नि निजधाम्नि तले च तस्य
देवि महेशहरिधामसु तेषु तेषु ।
ते ते प्रभावनिचया विहिताश्च येन
गोविन्दमादिपुरुषं तमहं भजामि ॥११॥

अहमात्मा परं ब्रह्म सच्चिदानन्दविग्रहः ।
सदाशिवमहाविष्णुब्रह्मरुद्रादिकारकः ।
नराकृतिर्नित्यरूपी वंशीवाद्यप्रियः सदा ॥१२॥

अतएव तेषां सर्वेषां परः श्रीकृष्णचन्द्र एव । यथा ब्रह्मसंहितायां ब्रह्मणः स्तुतिः—
माया हि यस्य जगदण्डशतानि सूते
त्रैगुण्यतद्विषयवेदवितायमाना ।
सत्त्वावलम्बिपरसत्त्वं विशुद्धसत्त्वम्
गोविन्दमादिपुरुषं तमहं भजामि ॥१३॥

तत्र सत्त्वावलम्बी महाविष्णुः । परसत्त्वो वासुदेवः । विशुद्धसत्त्वो गोविन्दः । स एव श्रीकृष्णचन्द्रः । तदिति । तमोरजोभ्यां संवलितं सत्त्वमस्मिन्नस्तीइत्सत्त्वावलम्बी विष्णुर्वासुदेव एव । विष्णुना यथा सृष्टिं कर्तुं माया विस्तारिता । अतो विष्णुमायारुद्धा सृष्टिः । लक्ष्मीसरस्वत्यादिपरिवार इति रजोगुणः । तमसा नानादैत्यसंहारः कृतः । यथा दैत्यारिर्जनार्दनो मधुसूदन इति नाम्ना ज्ञातव्यम् । तदेव वासुदेवश्च रजसा कृतपुर्यां द्वारकायां षोडशसहस्रमहिषीषु षट्पञ्चाशत्कोटिस्ववंशो विस्तारितः । तमसा कंसनरकाद्यसुरवधः कृतः । सत्त्वेन पृथिवीं पालयति । अतः सत्त्वगुणो विष्णुः । एवं सत्त्वावलम्बी महाविष्णुर्यथा ब्रह्मसंहितायां—

हैमान्यण्डानि जातानि महाभूतावृतानि तु ।
प्रत्यण्डमेवमेकांशादेकांशाद्विशति स्वयम् ।
सहस्रमूर्धा विश्वात्मा महाविष्णुः सनातनः ॥१४॥
वामाङ्गादसृजद्विष्णुं दक्षिणाङ्गात्प्रजापतिम् ।
ज्योतिर्लिङ्गमयं शम्भुं कूर्चदेशादवासृजत॥१५॥
अहङ्कारात्मकं विश्वं तस्मादेतद्व्यजायत ॥१६॥

इति रजोगुणः । सत्त्वेन सर्वमेतद्वहत्येव । अतो रजोगुणसंवलितसत्त्वो महाविष्णुः । अतएव विशुद्धसत्त्वः श्रीकृष्णचन्द्रः । तथा हि ब्रह्मसंहितायां यः कारणार्णवजले भजति इत्यादि, यस्यैकनिश्वसितकालमथावलम्ब्य इत्यादि ।

परसत्त्वो वासुदेवो यथा नारदपञ्चरात्रे—
दिव्यातिदिव्यश्रीदेहं कालमायाद्यगोचरम् ।
श्वेतद्वीपेश्वरं पूर्णं वासुदेवं चतुर्भुजम् ॥१७॥ इति ।

विशुद्धसत्त्वो गोविन्दो, यथा शक्रस्तुतिः—
विशुद्धसत्त्वं तव धाम शान्तं
तपोमयं ध्वस्तरजस्तमस्कम् ।
मायामयो ऽयं गुणसम्प्रवाहो
न विद्यते ते ऽग्रहणानुबन्धः ॥१८॥

तथा वासुदेवोपनिषदि—
यद्रूपमद्वयं ब्रह्म मध्याद्यन्तविवर्जितम् ।
स्वप्रभं सच्चिदानन्दं भक्त्या जानाति चाव्ययम् ॥१९॥

तथा ब्रह्मसंहितायां—
माया हि यस्य जगदण्डशतानि सूते
त्रैगुण्यतद्विषयवेदवितायमाना ।
सत्त्वावलम्बिपरसत्त्वं विशुद्धसत्त्वम्
गोविन्दमादिपुरुषं तमहं भजामि ॥२०॥

तथा नारदपञ्चरात्रे—
द्विभुजं तु घनश्यामं किशोरं वनमालिनम् ।
दिव्याभरणदिव्याङ्गं गोपकन्यागणावृतम् ॥२१॥
दयितं प्रेमभक्तानामद्वैतं ब्रह्मवादिनाम् ।
मीनकूर्मादयो यस्य स्वांशांशाः सर्वदेवताः ॥२२॥

ततः सच्चिदानन्दस्वरूपो विशुद्धसत्त्वो गोविन्दः । स एव श्रीकृष्णचन्द्रः स्वप्रकाशो दिव्यवृन्दावनेशो नित्यवृन्दावने प्रकाशोऽभूदिति वेदवेदान्तादिभिर्निर्दिष्टम् । तथा हि ब्रह्मसंहितायां

ईश्वरः परमः कृष्णः सच्चिदानन्दविग्रहः ।
अनादिरादिर्गोविन्दः सर्वकारणकारणम् ॥२३॥ इति ।

किन्त्वेवं श्रुतं तल्लक्षणम् । यद्यङ्गचिह्नेन जनदृग्गोचरीभवति । तदा प्रतीयते । तत्र श्रवणाद्दर्शनं श्रेष्ठम् । दर्शनात्स्पर्शनमित्यादि । तदेव पादचिह्नेन ज्ञायते । यथा पद्मपुराणे नारदं प्रति ब्रह्मोवाच—

शृणु नारद वक्ष्यामि पादयोश्चिह्नलक्षणम् ।
भगवत्कृष्णरूपस्य ह्यानन्दैकघनस्य च ॥२४॥
अवतारा ह्यसङ्ख्येयाः कथिता मे तवानघ ।
परं सम्यक्प्रवक्ष्यामि कृष्णस्तु भगवान्स्वयम् ॥२५॥
देवानां कार्यसिद्ध्यर्थं ऋषीणां च तथैव च ।
आविर्भूतस्तु भगवान्स्वानां प्रियचिकीर्षया ॥२६॥
यैरेव ज्ञायते देवो भगवान्भक्तवत्सलः ।
तान्यहं वेद नान्योऽस्ति सत्यमेतन्मयोदितम् ॥२७॥
षोडशैव तु चिह्नानि मया दृष्टानि तत्पदे ।
दक्षिणेनाष्टचिह्नानि इतरे सप्त एव च ॥२८॥
ध्वजाः पद्मं तथा वज्रमङ्कुशो यव एव च ।
स्वस्तिकं चोर्ध्वरेखा च अष्टकोणस्तथैव च ॥२९॥
सप्तान्यानि प्रवक्ष्यामि साम्प्रतं वैष्णवोत्तम ।
इन्द्रचापं त्रिकोणं च कलसं चार्धचन्द्रकम् ॥३०॥
अम्बरं मत्स्यचिह्नं च गोष्पदं सप्तमं स्मृतम् ।
जम्बूफलसमाकारं दृश्यते यत्र कुत्रचित॥३१॥
अङ्कान्येतानि भो विद्वन्दृश्यन्ते तु यदा कदा ।
कृष्णाख्यं तु परं ब्रह्म भुवि जातं न संशयः ॥३२॥
एतानि वत्स चिह्नानि दृष्टानि च श्रुतानि च ।
वेदाग्रकथितान्येव पुनः किं कथयाम्यहम् ॥३३॥

पुराणान्तरे शङ्खचक्रातपत्रादिचिह्नत्रयं च । यथा चादिवाराहे मथुरामण्डलमाहात्म्ये—
यत्र कृष्णेन सञ्चरितं क्रीडितं च यथासुखम् ।
चक्राङ्कितपदा तेन स्थाने ब्रह्ममये शुभे ॥३४॥

यथा क्रमदीपिकायां [३.१५] मत्स्याङ्कुशारदरकेतुयवाब्जवज्रसंलक्षितारुणकराङ्घ्रितलाभिरामम् । अरिदरं चक्रशङ्खम् । इति मत्स्यध्वजातपत्रं चेति रूपेण चिह्नितं चरणद्वयमिति । एतच्चिह्नत्रयेणोनविंशतिचिह्नानि श्रीभगवच्चरणकमले निर्दिष्टानीति ।
द्वयं वाथ त्रयं वाथ चत्वारि पञ्च एव च ।
दृश्यते वैष्णवश्रेष्ठ अवतारे कथञ्चन ॥३५॥

अथापरं च वत्सहरणे महाश्चर्यं दृष्ट्वा ब्रह्मादि—
अद्यैव त्वदृतेऽस्य किं मम न ते मायात्वमादर्शितं
एकोऽसि प्रथमं ततो व्रजसुहृद्वत्साः समस्ता अपि ।
तावन्तोऽसि चतुर्भुजास्तदखिलैः साकं मयोपासितास्
तावन्त्येव जगन्त्यभूस्तदमितं ब्रह्माद्वयं शिष्यते ॥३६॥

अथ वासुदेवादयो ब्रह्मादयो मत्स्यकूर्मादयः क इत्युच्यताम् । तदेव भागांशकलाशक्त्यावेशत्वेन निरूपिताः । यथ श्रीकृष्णयामले—
भागस्त्वर्धं तदर्धं च अंश इत्यभिधीयते ।
तदर्धं कुलमाख्यातं कला तस्यार्धमुच्यते ॥३७॥
तदर्धं शक्तिराख्याता आवेशः स्यात्तदर्धकः ।
एवं चतुःषष्टिभागैरवताराः परात्मनः ॥३८॥

तन्निरूपणमाह—तदर्धभागो राधा । तद्यथा पद्मपुराणे—
आद्या शक्तिः स्वयं राधा मुकुन्दार्धाङ्गसङ्गता ।
सुशीला सुगतिः साध्वी वृन्दावनविलासिनी ॥३९॥

तथा संमोहनतन्त्रे प्रथमपटले—
पूर्णानन्दस्वरूपं यत्तन्नित्यं नेतरत्पुनः ।
तदानन्दमयी राधा तदानन्दमयो हरिः ॥४०॥
न भौतिको देहबन्धस्तयोरानन्दरूपयोः ।
एकं ब्रह्म द्विधाभूतं योगिनां ज्ञानहेतवे ॥४१॥
दाहकेन यथा वह्नौ वह्निं प्राप्य विजृम्भते ।
शक्तिशक्तिमतोरैख्यं यथा ज्ञेयं मनीषिभिः ॥४२॥

तथार्धाङ्गात्समुत्पन्ना अर्धाङ्गस्वरूपा राधा । यथा गोविन्दवृन्दावने बलरामं प्रति श्रीकृष्ण उवाच—
शृणुष्व कथयिष्यामि बलराम यथा मम ।
त्रिभङ्गत्वं च तां वंशीं गृहीत्वा हृष्टमानसः ॥४३॥
दिव्यनीपाङ्घ्रिपतले मणिबद्धे महाप्रभे ।
सुवर्णवेदिकामध्ये निर्मले प्रतिनिर्मले ॥४४॥
सम्पश्यन्नात्मनात्मानं स्वयमेव विमोहितः ।
एतस्मिन्नेव समये यातो मे हृदये रसः ॥४५॥
शृङ्गाराख्यः सुखमयः सर्वलोकैकमोहनः ।
आत्मानं रन्तुमिच्छामि नारीत्वं मनसेप्सितम् ॥४६॥
इति सञ्चिन्तिते चित्ते मनस्तत्र स्वतां गतम् ।
रसादानन्द आनन्दादनुभावविबोधिनी ।
स्वयमात्मा द्विधाभूता परमानन्दरूपिणी ॥४७॥
रसस्वरूपिणी देवी वामांशेन विनिर्गता ।
विद्युत्पुञ्जनिभा गौरी दिव्याभरणभूषिता ।
कृष्णार्धस्वरूपा राधा सर्वशक्तिमयी स्मृता ॥४८॥ इत्यादि ।

तथा श्रीकृष्णयामले चतुर्दशाधिकशततमपटले श्रीवासुदेवं प्रति त्रिपुरोवाच—
आकारेणोच्यते कृष्ण उकारेणैव राधिका ।
कलयात्मा कलाभिज्ञा वासनावरविग्रहात।
बिन्दुवत्त्वं परं तत्त्वमनयोः पादचारणे ॥४९॥

तथा गोविन्दवृन्दावने द्वितीयपटले बलभद्रं प्रति श्रीकृष्ण उवाच—
त्रितत्त्वरूपिणी सा तु राधिका मम वल्लभा ।
प्रकृतेः पर एवाहं सापि शक्तिस्वरूपिणी ॥५०॥
प्रकाशत्रयरूपेण निर्गुणाकारचित्परः ।
एवं सर्वत्र सर्वेशः सापि सर्वेश्वरेश्वरी ।
क्रियारूपेण सा प्रोक्ता द्वयोः समरसात्मिका ॥५१॥

इत्येवं श्रीकृष्णार्धभागो राधा सर्वशक्तिस्वरूपा च । तथा संमोहनतन्त्रे नारदस्तुतिः—
का त्वमाश्चर्यविभवे ब्रह्मरुद्रादिदुर्गमे ।
योगीन्द्राणां ध्यानपथं न त्वं स्पृशसि कुत्रचित॥५२॥
इच्छाशक्तिर्ज्ञानशक्तिः क्रियाशक्तिस्तथेशितुः ।
तवांशमात्रमित्येवमणीयांशः प्रवर्तते ॥५३॥
या या विभूतयोऽचिन्त्याः शक्तयश्चारुमायिनः ।
परेशस्य महाविष्णोस्ताः सर्वास्ते कलाकलाः ॥५४॥

इति सर्वाः शक्तयः श्रीराधायां विद्यन्ते ।

अथ केनचिदुक्तम्—आद्याशक्तिर्भगवतो दुर्गेति सर्वत्र ख्यातिः । कथमन्या ? तदत्रावधीयतां वराहसंहितायां (२.३१२, ७८९) सप्तावरणविवरणे वृन्दावनस्थाननिरूपणे—
तत्रोपरि च माणिक्यस्वर्णसिंहासने स्थितम् ।
अष्टादलारूणाम्भोजं तत्रैव सुखनिर्मितम् ॥५५॥
गोविन्दस्य प्रियं स्थानं किमस्य महिमोच्यते ।
श्रीगोविन्दं तु तत्रस्थं वल्लवीवृन्दवल्लभम् ॥५६॥
तत्स्पर्शगन्धपुष्पादिनानासौरभसन्निभम् ॥५७॥
तत्प्रिया प्रकृतिस्त्वाद्या राधिका तस्य वल्लभा ।
तत्कलाकोटिकोट्यंशा दुर्गाद्या त्रिगुणात्मिका ॥५८॥

सर्वशक्तिः श्रीभगवता कृष्णेन राधायामारोपिता, अभेदत्वात। स्वयं निर्विण्णः परमरसमयः परमानन्दस्वरूपः । निर्गुणः प्रकृतेः परो नित्यप्रकाशस्तथापि राधायाश्चाभेदत्वात। तस्मिन्भगवति सर्वशक्तित्वं सगुणत्वं प्राकृतत्वं निरूपितम् ॥

सर्वशक्तिर्यथा—क्रियाशक्तिरिच्छाशक्तिर्ज्ञानशक्तिरिति त्रिधा । तत्र क्रियाशक्तिर्यथा—ब्रह्मविष्णुमहेशमहाविष्णुनारायणादयः । यथा—

सत्त्वं रजस्तम इति निर्गुणस्य गुणास्त्रयः ।
स्थितिसर्गनिरोधेषु गृहीता मायया विभोः ॥५९॥

तथा ब्रह्मवैवर्ते—
एवं प्रत्यण्डकं ब्रह्मा कोऽहं जानामि किं विभो ।
रजोगुणप्रभावोऽहं सृजाम्येतत्पुनः पुनः ॥६०॥
सत्त्वस्थो भगवान्विष्णुः पाति सर्वं चराचरम् ।
रुद्ररूपी च कल्पान्ते संहरत्येतदेव हि ॥६१॥
एवं प्रवर्तितं चक्रं नित्यं चानित्यवन्मुने ॥६२॥

महाविष्णुर्यथा ब्रह्मसंहितायां
सहस्रमूर्धा विश्वात्मा महाविष्णुः सनातनः ।
वामाङ्गादसृजद्विष्णुं दक्षिणाङ्गात्प्रजापतिम् ॥६३॥
ज्योतिर्लिङ्गमयं शम्भुं कूर्चदेशादवासृजत।
अहङ्कारात्मकं विश्वं तस्मादेतद्व्यजायत ॥६४॥

नारायणो, यथा द्रुमिल उवाच—
भूतैर्यदा पञ्चभिरात्मसृष्टैः
पुरं विराजं विरचय्य तस्मिन।
स्वांशेन विष्टः पुरुषाभिधानम्
अवाप नारायण आदिदेवः ॥६५॥

अयमेव महाविष्णुः श्रीकृष्णस्य कलाः, यथा—
विष्णुर्महान्स इह यस्य कलाविशेषो
गोविन्दमादिपुरुषं तमहं भजामि ॥ इति ।

आदिदेवो गोविन्दः । इति क्रियाशक्तिः । अथेच्छाशक्तिर्यथा ब्रह्मसंहितायां
सृष्टिस्थितिप्रलयसाधनशक्तिरेका
छायेव यस्य भुवनानि बिभर्ति दुर्गा ।
इच्छानुरूपमपि यस्य च चेष्टते सा
गोविन्दमादिपुरुषं तमहं भजामि ॥६६॥

अथ श्रीभगवद्गीतासूपनिषत्सु श्रीभगवानुवाच मयाध्यक्षेण प्रकृतिः सूयते सचराचरमिति इच्छाशक्तिः श्रीभगवती दुर्गा । अथ ज्ञानशक्तिर्यथा श्रीभगवदवधानमात्रेण सृष्टेरुद्भवः प्रभवः प्रलयश्च भवति, यथा श्रुतेर्वाक्यवृत्तौ अनापन्नविकारः सन्नयस्कान्तवदेव यः । बुद्ध्यादींश्चालयन्प्रत्यकित्यादि । अयस्कान्तसन्निधाने लौहं च चलति यथा अयस्कान्तो न किञ्चित्करोति, न किञ्चित्पालयति । न किञ्चित्संहरति च इत्येवं ज्ञानशत्किः ॥

अथांशभागो यथा वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धादयः । यथा वराहसंहितायां श्रीभगवान्वराह उवाच—
राधया सह गोविन्दं स्वर्णं सिंहासनस्थितम् ।
पूर्वोक्तरूपलावण्यं दिव्यभूषास्रगम्बरम् ॥६७॥

एवं भगवतः सप्तावरणस्य पञ्चमावरणं, यथा
तद्बाह्ये स्वर्णप्राचीरे कोटिसूर्यसमुज्ज्वले ।
चतुर्दिक्षु महोद्यानमञ्जुसौरभमोहिते ॥६८॥
पश्चिमे सम्मुखे श्रीमत्पारिजातद्रुमाश्रये ।
तत्राधस्तु स्वर्णपीठे स्वर्णमन्दिरमण्डिते ॥६९॥
तन्मध्ये मणिमाणिक्यरत्नसिंहासनोज्ज्वले ।
तत्रोपरि परानन्दं वासुदेवं जगद्गुरुम् ॥७०॥
शङ्खचक्रगदापद्मधारिणं वनमालिनम् ॥७१॥
रुक्मिणी सत्यभामा च नाग्निजित्या सुलक्षणा ॥७२॥
मित्रविन्दा सुनन्दा च तथा जाम्बवती प्रिया ।
सुशीला चाष्ट महिषी वासुदेवाग्रतः स्थिताः ॥७३॥
उद्धवाद्याः पारिषदा वृतास्तद्भक्तितत्पराः ।
उत्तरे दिव्य उद्याने हरिचन्दनसंस्थिते ।
सुविस्तीर्णे स्वर्णपीठे मणिमण्डपमण्डिते ॥७४॥

श्रीसङ्कर्षणावरणं, यथा
तन्मध्ये मणिमाणिक्यदिव्यसिंहासनोज्ज्वले ।
प्रद्युम्नं सरतिं देवं तत्रोपरि समास्थितम् ॥७५॥
जगन्मोहनसौन्दर्यसारश्रेणीरसात्मकम् ।
असिताम्बुजपुञ्जाभमरविन्ददलेक्षणम् ।
पूर्वोद्याने महारण्ये सुरद्रुमसमाश्रये ॥७६॥
तस्याधस्तु महापीठे हेममण्डपमण्डिते ।
तस्य मध्यस्थिते राजद्दिव्यसिंहासनोज्ज्वले ॥७७॥
श्रीमत्या ऊसया श्रीमदनिरुद्धं जगत्पतिम् ।
सान्द्रानन्दं घनश्यामं सुस्निग्धनीलकुन्तलम् ।
नीलोत्पलदलस्निग्धं चारुचञ्चललोचनम् ॥७८॥
प्रियभृत्यगणाराध्यं यन्त्रसङ्गीतकप्रियम् ।
पूर्णब्रह्मरसानन्दं शुद्धसत्त्वस्वरूपिणम् ॥७९॥ इति ।

एवं श्रीवासुदेवादयः श्रीराधाकृष्णस्यावरणेनेत्यंशभागाः । तथा श्रीकृष्णयामले—
तुरीयातीत एवासौ श्रीकृष्णः प्रेमनायकः ।
पञ्चभेदै रसत्यत्र सर्वतेजोमयः प्रभुः ।
तुरीयातीत एवासौ तुरीयत्वं निगद्यते ॥८०॥ इति ।

अथ ब्रह्मादयः के ? इति यदुक्तं तदेवांशभागः । तथा बृहन्नारदीये प्रथमश्लोकः—
वृन्दे वृन्दावनासीनमिन्दिरानन्दमन्दिरम् ।
उपेन्द्रं सान्द्रकारुण्यं परानन्दं परात्परम् ॥८१॥
ब्रह्मविष्णुमहेशाख्या यस्यांशा लोकसाधकाः ।
तमादिदेवं चिद्रूपं विशुद्धं परमं भजे ॥८२॥

तदत्र इन्दिरानन्दविग्रहमिति विशेषणं कथं ? तत्राह—श्रीकृष्णं प्राप्तुं लक्ष्मीस्तपति । यथा श्रीसंक्षेपभागवतामृते
सदा वक्षःस्थलस्थापि वैकुण्टेशितुरिन्दिरा ।
कृष्णोरःस्पृहयास्यैव रूपं विवृणुतेऽधिकम् ॥८३॥
पौराणिकमुपाख्यानमत्र सङ्क्षिप्य लिख्यते ॥८४॥
श्रीः प्रेक्ष्य कृष्णसौन्दर्यं तत्र लुब्धा ततस्तपः ।
कुर्वतीं प्राह तां कृष्णः किं ते तपसि कारणम् ॥८५॥
विजिहीर्षे त्वया गोष्ठे गोपीरूपेति साब्रवीत।
तद्दुर्लभमिति प्रोक्ता लक्ष्मीस्तं पुनरब्रवीत॥८६॥
स्वर्णरेखेव ते नाथ वस्तुमिच्छामि वक्षसि ।
एवमस्त्विति सा तस्य तद्रूपा वक्षसि स्थिता ॥८७॥

यथोक्तं श्रीदशमे नागपत्नीभिः
कस्यानुभावोऽस्य न देव विद्महे
तवाङ्घ्रिरेणुस्पर्शाधिकारः ।
यद्वाञ्छया श्रीर्ललनाचरत्तपो
विहाय कामान्सुचिरं धृतव्रता ॥८८॥ इति ।

श्रीसंक्षेपभागवतामृते
नाम्नोऽपि महिमेतस्य सर्वतोऽधिक ईर्यते ॥८९॥
अतः स्वयंपदादिभ्यो भगवान्कृष्ण एव हि ।
स्वयंरूप इति व्यक्तं श्रीमद्भागवतादिषु ॥९०॥

यथा ब्रह्मसंहितायां लक्ष्मीसहस्रशतसम्भ्रमसेव्यमानं गोविन्दमादिपुरुषं तमहं भजामि इत्येवमिन्दिरानन्दमन्दिरमिति विशेषणं च ।

अथ विष्णुमहाविष्णुब्रह्मशिवमत्स्यकूर्मादय इति भगवतः श्रीराधाकान्तस्यांशकुलकलाशक्त्यावेशादिषु वर्तन्ते । एतेषामंशादीनां निर्णयं कर्तुं कर्ता श्रीभगवानेव नान्यः । पुराणादिषु यद्दृश्यते, तदत्र लिख्यते । यथा ब्रह्मसंहितायां [५.४८]—
यस्यैकनिश्वसितकालमथावलम्ब्य
जीवन्ति लोमविलजा जगदण्डनाथाः ।
विष्णुर्महान्स इह यस्य कलाविशेषो
गोविन्दमादिपुरुषं तमहं भजामि ॥९१॥

तथा वराहसंहितायां श्रीकृष्णस्वरूपविवरणे
ध्वजवज्राङ्कुशाम्भोजकराङ्घ्रितलशोभितम् ।
नखेन्दुकिरणश्रेणीपूर्णब्रह्मैककारणम् ॥९२॥
केचिद्वदन्ति तद्रश्मिब्रह्मचिद्रूपमव्ययम् ।
तदंशांशं महाविष्णुं प्रवदन्ति मनीषिणः ॥९३॥

तथा तत्रैव श्रीकृष्णस्य माहात्म्यकथनप्रसङ्गे पृथिवीं प्रति श्रीभगवान्वराह उवाच
यदङ्घ्रिनखचन्द्रांशुमहिमान्तो न विद्यते ।
तन्माहात्म्यं कियद्देवि प्रोच्यते त्वं तदा शृणु ॥९४॥ इति ।

आद्यन्तरहितः सूक्ष्मस्थूलातीतः परात्परः ।
स्वयंज्योतिः स्वयं कर्ता स्वयं हर्ता स्वयं प्रभुः ॥९५॥
कटाक्षमात्रब्रह्माण्डकोटिसृष्टिविनाशकृत।
सदाशिवमहाविष्णुरुद्रब्रह्मादिकारकः ।
नराकृतिर्नित्यरूपी वंशीवाद्यप्रियः सदा ॥९६॥

तथा नारदपञ्चरात्रे नारदानन्तसंवादे भक्तिरहस्ये—
ताम्रपर्णी नदीतीरे द्राविडेऽस्ति किमद्भुतम् ।
भक्तिर्मूर्तिमती जाता मलयध्वजमन्दिरे ॥९७॥
नाम्ना प्रेम्णा सदानन्दा ध्यायन्ती पुरुषोत्तमम् ।
तल्लोकवासिनं देवं वृन्दारण्यपुरन्दरम् ॥९८॥
दिव्यातिदिव्यं श्रीदेहं कालमायाद्यगोचरम् ।
दयितं प्रेमभक्तानामद्वैतं ब्रह्मवादिनाम् ।
मीनकूर्मादयो यस्या अंशांशाः सर्वदेवताः ॥९९॥

तथैवात्र प्रेमतत्त्वनिरूपणे—
साङ्ख्यतत्त्वं प्रवक्ष्यामि आत्मतत्त्वं विशेषतः ।
भक्तिं मुक्तिं वदिष्यामि प्रेमतत्त्वं वदाम्यहम् ॥१००॥
गुप्तमद्वयनिर्लेपं सच्चिदानन्दविग्रहम् ।
ब्रह्माण्डकोटिकोटीनां स्रष्टारं पालकं विभुम् ॥१०१॥
ब्रह्मविष्णुमहेशानां नाथानां नाथमद्वयम् ।
अनन्तफणामाणिक्यसेवितं चरणाम्बुजम् ॥१०२॥

अतो यावदेवावतारस्वरूपास्ते सर्वे श्रीकृष्णचन्द्रस्यांशकलादयः । यथा—
रामादिमूर्तिषु कलानियमेन तिष्ठन्
नानावतारमकरोद्भुवनेषु किन्तु
कृष्णः स्वयं समभवत्परमः पुमान्यो
गोविन्दमादिपुरुषं तमहं भजामि ॥१०३॥इति ।

अथ यदि श्रीकृष्णः परमपुमान्निरीहः । तस्यावताराः कथं ? तदाह, यथा नारदपञ्चरात्रे गृह्योपनिषदि—
रामादयोऽवताराश्च कार्यार्थे सकला भुवि ।
भारावतारा भूम्याश्च महाभारविनाशनाः ॥१०४॥

तदेव श्रीवासुदेवादयः पृथ्वीभारहरणाय । ब्रह्मादयः सृजनपालनसंहरणाय, मत्स्यस्तु वेदोद्धरणाय, कूर्मस्तु मन्दरधारणाय, वराहस्तु पृथिव्युद्धाराय हिरण्याक्षवधाय च, नृसिंहस्तु हिरण्यकशिपुवधाय, वामनस्तु बलिच्छ्लनाय, परशुरामस्तु पृथ्वीनिःक्षत्रीकरणाय, श्रीरामस्तु रावणादिराक्षसवधाय, बलरामस्तु प्रलम्बादिमहामहादैत्यवधाय, बुद्धस्तु भूतदयाविस्तारणाय, कल्की च म्लेच्छसंहरणाय । परेशत्वं कल्किनोऽपि विष्णुधर्मे विलोक्यते । तथा व्यासस्तु वेदधर्मप्रकाशनाय । एवं श्रीभगवतोऽवतारा असङ्ख्याः प्रयोजनापेक्षकाः । तथ श्रीभगवद्गीतोपनिषत्सु श्रीभगवानुवाच—

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥१०५॥

अतः सर्वेऽवताराः सनिमित्ताः । अथ एतेऽवताराः किंस्वरूपाः ? तदाह ब्रह्माण्डपुराणे—
एतस्यैवापरेऽनन्ता अवतारा मनोहराः ।
महाग्नेरिह यद्वत्स्युरुल्काः शतसहस्रशः ॥१०६॥

तथैव—
वन्याजलं प्रायमशेषनिस्तृतं
विष्वक्क्षितिं व्याप्य विवर्धते भृशम् ।
यस्मात्समुद्भूतमहो ततः पुनः
काले भूयः प्रविशेत्तथैवम् ॥१०७॥

श्रीसङ्क्षेपभागवतामृते
अत एव पुराणादौ केचिन्नरसख्यात्मताम् ।
महेन्द्रानुजतां केचित्केचित्क्षीराब्धिशायिताम् ॥१०८॥
सहस्रशीर्षतां केचित्केचिद्वैकुण्ठनाथताम् ।
ब्रूयुः कृष्णस्य मुनयस्तत्तद्वृत्तान्तगामिनः ॥१०९॥

तथा नारदपञ्चरात्रे—
तदाज्ञाकारिणः सर्वे ब्रह्माण्डेश्वररूपिणः ।
लीलासुखमयात्मानस्तत्प्रेमरूपभावनाः ॥११०॥

तथा—
नस्योतगाव इव यस्य वशे भवन्ति
ब्रह्मादयस्तनुभृतो मिथुरर्द्यमानाः ।
कालस्य ते प्रकृतिपूरुषयोः परस्य
शं नस्तनोतु चरणः पुरुषोत्तमस्य ॥१११॥

तथा गोकुलसंहितायां श्रीभगवतो जिह्वामूलात्सरस्वत्युद्भूय श्रीकृष्णं प्रति साकाङ्क्षं कटाक्षमकरोतिति दृष्ट्वा श्रीभगवान्सरस्वतीं प्रति शशाप । भवति तरुरूपा भव । अन्ते ब्रह्मा स्यात्समुद्भूय ब्रह्मणः पत्नीत्वमायास्यतीति शापद्वयं श्रुत्वा सरस्वती चुकोप । सरस्वत्यपि श्रीभगवन्तं श्रीकृष्णं प्रतिशप्तवती । सरस्वत्युवाच—हे भगवन्! एकापराधे शापद्वयं दत्तं यथा, तथा अहमपि शपामि—भगवन्! अङ्गजया सह रमिष्यसि इति । तदनु सापराधैव सरस्वती स्तुतिं चकार—
जगत्सर्वं त्वयि न्यस्तं न्यस्ताः प्रकृतयस्तथा ।
पुरुषाश्च तथा कृष्ण त्वयि सर्वं प्रतिष्ठितम् ॥११२॥
त्वय्येव विलयं यान्ति उत्पत्स्यन्ति रमन्ति च ।
दोष एष कृतोऽज्ञानात्क्षमस्व परमेश्वर ।
इत्युक्त्वा सा महादेवी विरराम सरस्वती ॥११३॥

तथा ब्रह्मसंहितायां
अग्निर्महि गगनमम्बु मरुद्दिशश्च
कालस्तथात्ममनसीति जगत्त्रयाणि ।
यस्माद्भवन्ति विभवन्ति विशन्ति यं च
गोविन्दमादिपुरुषं तमहं भजामि ॥११४॥ इति ।

अथ श्रीकृष्णस्यावताराणां स्वरूपमाह पद्मपुराणे निर्वाणखण्डे रहस्याध्याये श्रीभगवानुवाच व्यासं प्रति—
यदिदं मे त्वया पृष्टं रूपं दिव्यं सनातनम् ।
निष्कलं निष्क्रियं शान्तं सच्चिदानन्दविग्रहम् ॥११५॥
पूर्णं पद्मपलाशाक्षं नातः परतरं मम ।
सत्यं व्यापि परानन्दं चिद्घनं शाश्वतं परम् ।
ममावतारो नित्योऽयमत्र मा संशयं कृथाः ॥११६॥

अतः सर्वोपरिवैभवः सर्वेषामाधारस्वरूपः श्रीकृष्णचन्द्रः सर्वेषामात्मस्वरूपः । अथैतस्य समं तन्माययाच्छन्नाः केचिदन्यं कुर्वन्तीति तत्राह—

यस्यैवाङ्घ्रिकलांशसम्भवमहाविष्णुस्त्वनेकस्ततस्
तस्यैकस्य च रोमकूपजठरे ब्रह्माण्डकोऽनेकशः ।
तस्यैकाण्डकमध्यतो भगवतोऽनेकावताराः स्थिताः
श्रीकृष्णस्य च तस्य साम्यमकरोदन्यं त्वहोऽस्याज्ञता ॥११७॥

तच्च—
यथा कोटीश्वरो राजा तत्तुल्यः किं शताधिपः ।
पलं पलार्धं कर्षं वा तुल्यं मूल्यं किमिष्यते ॥११८॥
सुवर्णस्य च रत्नस्य वस्तु चैकं न चान्यथा ।
गङ्गायाः कुम्भसंस्थाप्यं जलं गङ्गाजलं स्मृतम् ।
गङ्गायां च विनिक्षिप्तं पुनर्गङ्गेव तद्यथा ॥११९॥

तदेव सम्पूर्णानन्दविग्रहः श्रीकृष्णचन्द्रः । तस्यांशकलात्वेनान्ये निरूपिताः । इत्यादि सर्वं पूर्वमुक्तं तस्मिंश्च ज्ञातव्यमेव । इत्यादि श्रीभगवतोऽनन्तमहिम्नो गुणप्रकाशादि यत्किञ्चित्पुराणदिषु दृष्टं तदुक्तम् । सम्यग्ब्रह्मादयो वक्तुं न समर्थाः । यथा श्रीभागवते—
को वेत्ति भूमन्भगवन्परात्मन्
योगेश्वरोतीर्भवतस्त्रिलोक्याम् ।
क्व वा कथं वा कति वा कदेति
विस्तारयन्क्रीडसि योगमायाम् ॥१२०॥

नारायणस्त्वं न हि सर्वदेहिनाम्
आत्मास्यधीशाखिललोकसाक्षी ।
नारायणोऽङ्गं नरभूजलायनात्
तच्चापि सत्यं न तवैव माया ॥१२१॥

तथा—
यस्यैव योऽनुगुणभुक्बहुधैक एव
शुद्धोऽप्यशुद्ध इव मूर्तिविभागभेदैः ।
ज्ञानान्वितः सकलसत्त्वविभूतिकर्ता
तस्मै नतोऽस्मि पुरुषाय सदाव्ययाय ॥१२२॥

तथा—
आस्थाय योगं निपुणं समाहितस्
तं नाध्यगच्छं यत आत्मसम्भवः ।
नतो ऽस्म्यहं तच्चरणं समीयुषां
भवच्छिदं स्वस्त्ययनं सुमङ्गलम् ॥१२३॥

इत्येवं—
श्रीकृष्णः परमः पुमांश्च परमानन्दस्वरूपो विभू
राधाप्रेमसमन्वितो रसमयः श्यामो जगन्मोहनः ।
एवं तद्गुणवर्णनं मरकतं रत्नं किरीटं कुरु
क्षिप्रं राघवकृन्निवेदनमिदं श्रुत्वान्यचित्तं त्यज ॥

इति श्रीकृष्णभक्तिरत्नप्रकाशे
श्रीमन्नन्दकिशोरस्वरूपकृष्णचन्द्रप्रकाशनिरूपणं नाम
पञ्चमं रत्नम्

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP