संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः|
श्रवणामान्नविधिः

अथान्त्येष्टिप्रयोगः - श्रवणामान्नविधिः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


पवित्रपाणिः कर्ता आचम्य देशकालौ स्मृत्वा ‘ अमुकगोत्रस्यामुकवर्मणः ( गुप्तस्य दासस्य वा ) मम पित्रादिना जन्मादारभ्य मरणपर्यंतं आचरिते पुण्यापुण्ये कथयितृणां श्रवणाख्यानां द्वादशब्राह्मणानां श्रोतुः ( श्रवणकर्तुः ) धर्मराजस्य चित्रगुप्तादेश्च प्रीत्यर्थं द्वादशामान्नानि तथा समस्तपापक्षयद्वारापापापहर्तृ - महाविष्णोः प्रीतये तत्प्रसादसिद्धये चैकमामान्नमिति त्रयोदशामामान्नानि सोदकुंभानि उपानच्छत्र - वस्त्र - दक्षिणा - ताम्बूलसहितानि नानानामगोत्रेभ्यः सुपूजितेभ्यो ब्राह्मणेभ्यो दातुमहमुत्सृजे ’ इति संकल्प्य ब्राह्मणान् संपूज्य ‘ विप्राय वेदविदुषे० ’ इति मंत्रमुच्चार्य पृथक्पृथग्युगपद्वा दद्यात् ॥ ॥ इति श्रवणामान्नविधिः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP