संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः|
विषमश्राद्धम्

अथान्त्येष्टिप्रयोगः - विषमश्राद्धम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


तच्च प्रथमतृतीयपंचमसप्तमनवमदिनेषु कुर्यात् । प्रथमदिने आचम्य देशकालौ स्मृत्वा अमुकगोत्रस्य अमुकप्रेतस्य प्रेतत्वनिवृत्त्योत्तमलोकप्राप्त्यर्थं अद्य मृताहे विषमश्राद्धं करिष्ये । एवं तृतीयेऽहनि पंचमेहनीत्याद्यूहः कार्यः । तूष्णीं तिलोदकं कृत्वा अमुकगोत्र अमुकप्रेत विषमश्राद्धे अयं ते क्षण उपतिष्ठतां इतिक्षणं दत्वा अमुकगोत्र अमुकप्रेत इदं ते आसनमुपतिष्ठतां अमुकगोत्रस्य अ० प्रेतस्य विषमश्राद्धे पाद्यमुप० ॥ अमुकगोत्र अमुकप्रेत विषमश्राद्धे इदमर्घ्यं तवोपतिष्ठतां अमुकगोत्रेत्यादि० अर्चनार्थे० तिलांस्तुलसीपत्रं चोप० अमुकेत्युक्त्वा आच्छादनार्थे दर्भपत्रमुप० अमुकगोत्राय अमुकप्रेताय० विषमश्राद्धे दास्यमानं यथाशक्तिसोपस्करं सोदकुंभं सदक्षिणमामं सूतकांते दत्तमुप० इति सकुशतिलोदकं दद्यात् । ततः अद्येत्यादि० अमुकविषमश्राद्धे पिंडदानं करिष्ये पिंडस्थाने दर्भासनमुप० तदुपरि तिलोदकमुप० अमुकगोत्राय अमुकप्रेताय आद्येहनि विषमश्राद्धे अयं सक्तुपिंड उप० एतत् पिंडोपरि तिलोदकमुपति० । घृताभ्यंगमुपति० अंजनमुप० सूत्रमुप० अर्चनार्थे तिलास्तुलसीभृंगराजं चोपति० इति दत्वा - अनादिनिधनो देवः शंखचक्र गदाधरः । अक्षय्यः पुंडरीकाक्षः प्रेतमुक्तिप्रदो भव ॥ इतिश्लोकं पठित्वा इदं पिंडदानं सतिलोदकं प्रेताप्यायनमस्त्विति भवंतोब्रुवंत्विति मंत्रेण सतिलोदकमुत्तरीयदशानिष्पीडनं पिंडोपरि कृत्वा - अस्तु प्रेताप्यायनमिति प्रतिवचनम् । अभिरम्यतामिति पिंडं विसृज्य प्रवाह्य स्नायात् ॥ इति नवापरपर्यायं विषमश्राद्धम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP