संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः|
अथनवमदिनकृत्यम्

अथान्त्येष्टिप्रयोगः - अथनवमदिनकृत्यम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


आचम्य देशकालौ संकीर्त्य अमुकगोत्रस्य अमुकप्रेतस्य प्रेतत्वनिवृत्त्योत्तमलो० मृताहादद्यनवमेऽहनि नवमदिनविधिं करिष्ये इति संकल्प्य मृत्तिकास्नानादिपिंडासनांतं कृत्वा अमुकगोत्राय अमुकप्रेताय बलवीयादिसर्वावयवनिष्पत्त्यर्थं अयं पिंड उपतिष्ठतां इत्यादिप्रवाहणांतं कृत्वा स्नायात् ॥ ततो विषमश्राद्धम् ॥ आचम्य देशकालौ संकीर्त्य अमुकगोत्रस्य अमुकप्रेतस्य प्रेतत्वनिवृत्त्योत्तमलोक० मृताहात् अद्य नवमेऽहनि विषमश्राद्धं करिष्ये इति संकल्प्य तूष्णीं तिलोदकं कृत्वा क्षणादि पिंडासनांते अमुकगोत्राय अमुकप्रेताय नवमेऽहनि विषमश्राद्धे अयं सक्तुपिंड उपतिष्ठतां इति सर्वं प्राग्वत्कृत्वा स्नायात् ॥ इति नवमदिनविधिः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP