संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः|
अष्टदानानि

अथान्त्येष्टिप्रयोगः - अष्टदानानि

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


तानि चैकादशेऽहनि आमान्नोदकुम्भ - गो - वस्त्र - भूमि - शय्या - छत्रासनानि कर्त्रा देयानि पवित्रपाणिराचम्य अद्येत्यादि० अमुकवर्मणः ( गुप्तस्य दासस्य वा ) अस्मत्पित्रादेः प्रेतत्वनिवृत्तिपूर्वकोत्तमलोकप्राप्त्यर्थं परलोके तत्तद्दानकल्पोक्तफलावाप्तयेऽष्टदानानि करिष्ये इति संकल्पयेत् । प्रतिदानं ब्राह्मणं सम्पूज्य दानपदार्थे तुलसीपत्रं निदध्यात् - आमान्नदानम् । अन्नमेव यतो लक्ष्मीरन्नमेव जनार्दनः । अन्नं ब्रह्माखिलत्राणमस्तु जन्मनि जन्मनि ॥ इदमामान्नदानं अस्मत्पित्रादेः उत्तमलोकप्राप्त्यर्थं सुपूजिताय ब्राह्मणाय तुभ्यमहं संप्रददे दानसांगतासिद्ध्यर्थं इमां दक्षिणां च तुभ्यमहं संप्रददे तेन श्रीप्रेतपापापहा महाविष्णुः प्रीयताम् ॥ उदकुम्भदानम् - ब्राह्मणं संपूज्य - वारिपूर्णो घटश्चायं देवत्रयमयो यतः । प्रीयतां धर्मराजस्तु दानेनानेन पुण्यदः ॥ ‘ इदमुदकुम्भदानं तुलसीपत्राच्छादितं अस्मत्पित्रादेः ’ इत्युक्त्वा पूर्ववद्दद्यात् ॥ गोदानं तन्निष्क्रयीभूतं द्रव्यं वा - यज्ञसाधनभूता या विश्वस्याघौघनाशिनी । विश्वरुपधरो देवः प्रीयतामनया गवा इति मंत्रेण पूर्ववद्दद्यात् ॥ वस्त्रदानम् - ‘ शीतवातोष्णसंत्राणं लज्जाया रक्षणं परम् । देहालंकरणं वस्त्रमतः शांतिं प्रयच्छ मे ’ इति मंत्रेण ‘ परलोके लज्जानिवारणार्थं ’ इति विशेषोक्त्या वस्त्रदानं दद्यात् ॥ भूमिदानं तन्निष्क्रयीभूतं द्रव्यं वा - ‘ सर्वेषामाश्रया भूमिः० ’ इति मंत्रेण पूर्ववत् ॥ शय्यादानम् - यथा न कृष्णशयनं शून्यं सागरजायया । शय्यैतस्याप्यशून्याऽस्तु तथा जन्मनि जन्मनि । ‘ सुखशय्याप्राप्त्यर्थं ’ इति विशेषोक्त्या ब्राह्मणपूजनादिसर्वं पूर्ववत् । ( बृहच्छय्यादानविधिर्वक्ष्यमाणविषयः १६९ ) ॥ छत्रदानम् - इहामुत्रातपत्राणं कुर्वस्य केशव प्रभो । छत्रं त्वत्प्रीतये दत्तं तस्यास्तु च सदा शुभम् ॥ अत्रापि ‘ परलोके आतपनिवारणार्थं ’ इति विशेषोक्त्याऽऽमान्नदानवदिदं दानं देयम् । ‘ आसनदानम् - त्रिलोकीनाथ देवेश सर्वभूतकृपानिधे । आसनेन च तुष्यस्व प्रयच्छ तस्य वांच्छितम् । इति मंत्रेण ‘ परलोके स्वासनसुस्थितिप्राप्त्यर्थं ’ इति विशेषोक्तिं नियोज्य दद्यात् ॥ इत्यष्टदानानि ॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP