TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः|
संकीर्णव्रज्या

सुभाषितरत्नकोशः - संकीर्णव्रज्या

विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे.


संकीर्णव्रज्या
तुषारशैलाञ्जनशैलकल्पयोर् अभेदभाग् ईश्वरविश्वरूपयोः ।
शरत्पयोदस्थसितार्धतारका- पथप्रतिस्पार्धि वपुर् धिनोतु वः ४९.१ ॥१६३८॥

यद् बद्धोर्ध्वजटं यद् अस्थिमुकुटं यच् चन्द्रमन्दारयोर् धत्ते धाम च दाम च स्मितलसत्कुन्देन्द्रनीलश्रियोः ।
यत् खट्वाङ्गरथाङ्गसङ्गविकटं श्रीकण्ठवैकुण्ठयोर् वन्दे नन्दिमहोक्षतार्क्ष्यपरिषन्नानाङ्कम् एकं वपुः ४९.२ ॥१६३९॥

मा गर्वम् उद्वह कपोलतले चकास्ति कान्तस्वहस्तलिखिता मम मञ्जरीति ।
अन्यापि किं न सखि भाजनम् ईदृशानां वैरी न चेद् भवति वेपथुर् अन्तरायः ४९.३ ॥१६४०॥

चेतः कातरतां विमुञ्च झटिति स्वास्थ्यं समालम्ब्यतां प्राप्तासौ स्मरमार्गणव्रणपरित्राणौषधिः प्रेयसी ।
यस्याः श्वाससमीरसौरभपतद्भृङ्गावलीवारण- क्रीडापाणिविधूतिकङ्कणझणत्कारो मुहुर् मूर्छति ४९.४ ॥१६४१॥

कथाभिर् देशानां कथम् अपि च कालेन बहुना समायाते कान्ते सखि रजनिर् अर्धं गतवती ।
ततो यावल् लीलाप्रणयकुपितास्मि प्रकुपिता सपत्नीव प्राची दिग् इयम् अभवत् तावद् अरुणा ४९.५ ॥१६४२॥

विततकरे ऽप्य् अनुरागिणि मित्रे कोषं सदैव मुद्रयतः ।
उचितानभिज्ञकैरव कैरवहसितं न ते चरितम् ४९.६ ॥१६४३॥

पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव ।
विलसत्करेणुगहनं सम्प्रति समम् आवयोर् भवनम् ४९.७ ॥१६४४॥

गुरुर् अपि गलति विवेकः स्खलति च चित्तं विनश्यति प्रज्ञा ।
पतति पुरुषस्य धैर्यं विषयविषाघूर्णिते मनसि ४९.८ ॥१६४५॥

राजनि विद्वन्मध्ये वरसुरतसमागमे वरस्त्रीणाम् ।
साध्वसदूषितहृदयो वाक्पटुर् अपि कातरीभवति ४९.९ ॥१६४६॥

किंशुके किं शुकः कुर्यात् फलिते ऽपि बुभुक्षितः ।
अदातरि समृद्धे ऽपि किं कुर्युर् अनुजीविनः ४९.१० ॥१६४७॥

अहम् इह स्थितवत्य् अपि तावकी त्वम् अपि तत्र वसन्न् अपि मामकः ।
हृदयसंगतम् एव सुसंगतं न तनुसंगतम् आर्य सुसंगतम् ४९.११ ॥१६४८॥

द्याम् आलोकयतां कलाः कलयतां छायाः समाचिन्वतां क्लेशः केवलम् अङ्गुलीर् दलयतां मौहूर्तिकानाम् अयम् ।
धन्या सा रजनी तद् एव सुदिनं पुण्यः स एव क्षणो यत्राज्ञातचरश् चिरान् नयनयोः सीमानम् एति प्रियः ४९.१२ ॥१६४९॥

तेषां त्वं निधिर् आगसाम् असहना मानोन्नता साप्य् अतो गन्तव्यं भवया न तद् गृहम् इति त्वं वार्यसे यासि चेत् ।
गाढं मेखलया बलान् नियमितः कर्णोत्पलैस् ताडितः क्षिप्तः पादतले तदेकशरणो मन्ये चिरं स्थास्यसि ४९.१३ ॥१६५०॥

जाने सासहना स चाहम् अपकृन् मय्य् अङ्गणस्थे पुनस् तस्याः सम्भविता स साध्वसभरः को ऽपि प्रकोपापहः ।
यत्रोद्यत्पुलकैः प्रकम्पविकलैर् अङ्गैः क्व कर्णोत्पलं कुत्रात्मा क्व च मेखलेति गलति प्रायः स मानग्रहः ४९.१४ ॥१६५१॥
तुरुष्कराजभोजदेवयोः

जातानन्तरम् एव यस्य मधुरां मूर्तिश्रियं पश्यतः सद्यःपुत्रमहोत्सवागतवधूवर्गस्य शृङ्गारिणः ।
उन्नीयान्ययुवास्यकालिमकरीं तारुण्यरम्याम् इमां धन्यं जन्म सहामुनैकसमयं न प्राप्य तप्तं हृदा ४९.१५ ॥१६५२॥
वल्लणस्य

सीत्कारं शिक्षयति व्रणयत्य् अधरं तनोति रोमाञ्चम् ।
नागरकः किम् उ मिलितो न हि न हि सखि हैमनः पवनः ४९.१६ ॥१६५३॥

सव्रीडार्धनिरीक्षणं यद् उभयोर् यद् दूतिकाप्रेषणं वाद्य श्वो भविता समागम इति प्रीत्या प्रमोदश् च यः ।
प्राप्ते चैव समागमे सरभसं यच् चुम्बनालिङ्गनान्य् एतत् कामफलं तद् एव सुरतं शेषः पशूनाम् इव ४९.१७ ॥१६५४॥

पश्योदञ्चद् अवाञ्चद् अञ्चितवपुः पश्चार्धपूर्वार्धभाक् स्तब्धोत्तानितपृष्ठनिष्ठितमनाग्भुग्नाग्रलाङ्गूलभृत् ।
दंष्ट्राकोटिविसंकटास्यकुहरः कुर्वन् सटाम् उत्कटाम् उत्कर्णः कुरुते क्रमं करिपतौ क्रूराकृतिः केशरी ४९.१८ ॥१६५५॥

एते मेकलकन्यकाप्रणयिनः पातालमूलस्पृशः संत्रासं जनयन्ति विन्ध्यभिदुरा वारां प्रवाहाः पुरः ।
लीलोन्मूलितनर्तितप्रतिहतव्यावर्तितप्रेरित- त्यक्तस्वीकृतनिह्नुतप्रचलितप्रोद्धूततीरद्रुमाः ४९.१९ ॥१६५६॥

वातैः शीकरबन्धुभिः श्रुतिसुखैर् हंसावलीनिस्वनैः प्रोत्फुल्लैः कमलैः पयोभिर् अमलैर् नीत्वा जगन् निर्वृतिम् ।
पश्चात् क्षीणधनां बहिर्निजदशां दृष्ट्वा मृणालच्छलाद् अर्थिभ्यः प्रददौ नवेन्दुविशदान्य् अस्थीनि पद्माकरः ४९.२० ॥१६५७॥

विद्यते स न हि कश्चिद् उपायः सर्वलोकपरितोषकरो यः ।
सर्वथा स्वहितम् आचरणीयं किं करिष्यति जनो बहुजल्पः ४९.२१ ॥१६५८॥

चापस्यैव परं कोटि- विभवत्वं विराजते ।
यस्माल् लभन्ते लक्षाणि निर्गुणा अपि मार्गणाः ४९.२२ ॥१६५९॥

कृत्वापि कोषपानं भ्रमरयुवा पुरत एव कमलिन्याः ।
अभिलषति बकुलकलिकां मधुलिहि मलिने कुतः सत्यम् ४९.२३ ॥१६६०॥

ग्रामे ऽस्मिन् पथिकाय नैव वसतिः पान्थाधुना दीयते रात्राव् अत्र विवाहमण्डपतले पान्थः प्रसुप्तो युवा ।
तेनोद्गीय खलेन गर्जति घने स्मृत्वा प्रियां यत् कृतं तेनाद्यापि करङ्कदण्डपतनाशङ्की जनस् तिष्ठति ४९.२४ ॥१६६१॥

आतपे धृतिमता सह वध्वा यामिनीविरहिणा विहगेन ।
सेहिरे न किरणा हिमरश्मेर् दुःखिते मनसि सर्वम् असह्यम् ४९.२५ ॥१६६२॥

उन्मुद्रीकृतविश्वविस्मयभरैस् तत् तन् महार्घैर् गुणैर् दुर्गाधे हृदयाम्बुधौ तव भवेन् नः सूक्तिगङ्गा यदि ।
विश्वश्वित्रमतङ्गिनीघनरसस्यन्दिन्य् अमन्दध्वनिर् गङ्गासागरसंगमः पुनर् इवापूर्वः समुन्मीलति ४९.२६ ॥१६६३॥

एतन् मन्दविपक्वतिन्दुकफलश्यामोदरापाण्डुर- प्रान्तं हन्त पुलिन्दसुन्दरकरस्पर्शक्षमं लक्ष्यते ।
तत्फलीपतिपुत्रि कुञ्जरकुलं जीवाभयाभ्यर्थना- दीनं त्वाम् अनुनाथते कुचयुगं पत्रांशुकैर् मा पिधाः ४९.२७ ॥१६६४॥

ह्रिया सर्वस्यासौ हरति विदितास्मीति वदनं द्वयोर् दृष्ट्वालापं कलयति कथाम् आत्मविषयाम् ।
सखीषु स्मेरासु प्रकटयति वैलक्ष्यम् अधिकं प्रिया प्रायेणास्ते हृदयनिहितातङ्कविधुरा ४९.२८ ॥१६६५॥

गुणवद् अगुणवद् वा कुर्वता कर्मजातं परिणतिर् अवधार्या यत्नतः पण्डितेन ।
अतिरभसकृतानां कर्मणाम् आ विपत्तेर् भवति हृदयदाही शल्यतुल्यो विपाकः ४९.२९ ॥१६६६॥

वर्षाः कर्दमहेतवः प्रतिदिनं तापस्य मूलं शरद् धेमन्ते जडता तथैव शिशिरे ऽप्य् आयास्यते वायुना ।
चित्तोन्मादकरो वसन्तसमयो ग्रीष्मो ऽपि चण्डातपः कालः काल इति प्रहृष्यति जनः कालस्य का रम्यता ४९.३० ॥१६६७॥

दृष्टिरोधकरं यूनां यौवनप्रभवं तमः ।
अरत्नालोकसंहार्यम् अवार्यं सूर्यरश्मिभिः ४९.३१ ॥१६६८॥

आपातमात्ररसिके सरसीरुहस्य किं बीजम् अर्पयितुम् इच्छसि वापिकायाम् ।
कालः कलिर् जगद् इदं न कृतज्ञम् अज्ञे स्थित्वा हनिष्यति तवैव मुखस्य शोभाम् ४९.३२ ॥१६६९॥

अप्रियाण्य् अपि कुर्वाणो यः प्रियः प्रिय एव स ।
दग्धमन्दिरसारे ऽपि कस्य वह्नाव् अनादरः ४९.३३ ॥१६७०॥

अयं काणः शुक्रो विषमचरणः सूर्यतनयः क्षताङ्गो ऽयं राहुर् विकलमहिमा शीतकिरणः ।
अजानानस् तेषाम् अपि नियतकर्म स्वकफलं ग्रहग्रामग्रस्ता वयम् इति जनो ऽयं प्रलपति ४९.३४ ॥१६७१॥

कनकभूषणसंग्रहणोचितो यदि मणिस् त्रपुणि प्रतिबध्यते ।
न स विरौति न चापि पलायते भवति योजयितुर् वचनीयता ४९.३५ ॥१६७२॥

नमस्यामो देवान् ननु हतविधेस् ते ऽपि वशगा विधिर् वन्द्यः सो ऽपि प्रतिनियतकर्मैकफलदः ।
फलं कर्मायत्तं यदि किम् अपरैः किं च विधिना नमः सत्कर्मभ्यो विधिर् अपि न येभ्यः प्रभवति ४९.३६ ॥१६७३॥

यदा विगृह्णाति तदा हतं यशः करोति मैत्रीम् अथ दूषिता गुणाः ।
स्थितः समीक्ष्योभयता परीक्षकः करोत्य् अवज्ञोपहतं पृथग्जनम् ४९.३७ ॥१६७४॥

तृष्णे देवि नमस् तुभ्यं कृतकृत्यासि साम्प्रतम् ।
अनन्तनाम यद् रूपं तत् त्वया वामनीकृतम् ४९.३८ ॥१६७५॥

पुरा याताः केचित् तदनु चलिताः केचिद् अपरे विषादः को ऽस्माकं न हि न वयम् अप्य् अत्र गमिनः ।
मनःखेदस् त्व् एवं कथम् अकृतसंकेतविधयो महामार्गे ऽस्मिन् नो नयनपथम् एष्यन्ति सुहृदः ४९.३९ ॥१६७६॥

सन्मार्गे तावद् आस्ते प्रभवति पुरुषस् तावद् एवेन्द्रियाणां लज्जां तावद् विधत्ते विनयम् अपि समालम्बते तावद् एव ।
भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते यावल् लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति ४९.४० ॥१६७७॥

अध्वन्यस्य वधूर् वियोगविधुरा भर्तुः स्मरन्ती यदि प्राणान् उज्झति कस्य तन् महद् अहो संजायते किल्बिषम् ।
इत्य् एवं पथिकः करोति हृदये यावत् तरोर् मूर्धनि प्रोद्घुष्टं परपुष्टया तव तवेत्य् उच्चैर् वचो ऽनेकशः ४९.४१ ॥१६७८॥

अद्राक्षीद् अपनिद्रकोरकभरव्यानम्रवल्लीस्खलद्- धूलीदुर्दिनसूदिताम्बरम् असाव् उद्यानम् उर्वीपतिः ।
आस्थानीभवनं वसन्तनृपतेर् देवस्य चेतोभुवः सत्रागारम् अनुत्तरं मधुलिहाम् एकं प्रपामण्डपम् ४९.४२ ॥१६७९॥

मदनज्वरम् अपनेतुं कुरु सम्प्रति सततम् औषधद्वितयम् ।
बालाधरमधुपानं कुचपीडनमुष्टियोगं च ४९.४३ ॥१६८०॥

उपचारविधिज्ञो ऽपि निर्धनः किं करिष्यति ।
निरङ्कुश इवारूढो मत्तद्विरदमूर्धनि ४९.४४ ॥१६८१॥

कस्या नाम किम् अत्र नास्ति विदितं यद् वीक्ष्यमाणो ऽप्य् अयं लोको मूक इवास्ति मां प्रति पुनः सर्वो जनस् तप्यते ।
शक्यं दर्शयितुं न पूगफलवत् कृत्वा द्विधेदं वपुर् यत् सत्यं सखि वीक्षितः खलु मया नूनं चतुर्थ्याः शशी ४९.४५ ॥१६८२॥

खुराघातैः शृङ्गैः प्रतिदिनम् अलं हन्ति पथिकान् भृशं शस्योत्सादैः सकलनगराख्यातपटिमा ।
युगं नैव स्कन्धे वहति नितरां याति धरणीं वरं शून्या शाला न च पुनर् अयं दुष्टवृषभः ४९.४६ ॥१६८३॥

पूरोत्पीडे तडागस्य परीवाहः प्रतिक्रिया ।
शोकक्षोभे च हृदयं प्रलापैर् अवधार्यते ४९.४७ ॥१६८४॥

धिक् चन्दनं कैव सुधा वराकी किम् इन्दुना हारितम् अब्जकन्दैः ।
न वेद्मि तद् वस्तु यद् अत्र लोके सुताङ्गधूलेर् उपमानपात्रम् ४९.४८ ॥१६८५॥

यौवनं चलम् अपायि शरीरं गत्वरं वसु विमृश्य विशिष्टः ।
नान्यजन्मगततिक्तविपाकं दृष्टसौख्यम् अपि कर्म विधत्ते ४९.४९ ॥१६८६॥

अधो ऽधः पश्यतः कस्य महिमा नोपजायते ।
उपर्य् उपरि पश्यन्तः सर्व एव दरिद्रति ४९.५० ॥१६८७॥

तिमिरम् इदम् इन्दुबिम्बात् पूतिर् गन्धो ऽयम् अम्बुरहकोषात् ।
निन्दितम् अभिजातमुखाद् यद् अलीकं वचनम् उच्चरति ४९.५१ ॥१६८८॥

यो नीवारतृणाग्रमुष्टिकबलैः संवर्धितः शैशवे पीतं येन सरोजिनीदलपुटे होमावशिष्टं पयः ।
तद्दानासवपानमत्तमधुपव्यालोलगण्डं गजं सोत्कण्ठं सभयं च पश्यति शनैर् दूरे स्थितस् तापसः ४९.५२ ॥१६८९॥

पाणिप्रेङ्खणतो विशीर्णशिरसः स्वेदावरुग्णश्रियस् ता इत्य् आकृतिलेशतो मनसि नः किंचित् प्रतीतिं गताः ।
वैचित्र्यात् पुनर् उक्तलाञ्छनभृतः खण्डेन वाक्येन वा व्याक्षेपं कथयन्ति पक्ष्मलदृशो लेखाक्षरश्रेणयः ४९.५३ ॥१६९०॥

ताडीदलं यद् अकठोरम् इदं यद् अत्र मुद्रा स्तनाङ्कघनचन्दनपङ्कमूर्तिः ।
यद् बन्धनं बिसलतातनुतन्तवश् च कस्याश्चिद् एषा गलितस् तदनङ्गलेखः ४९.५४ ॥१६९१॥

मृणालम् एतद् वलयीकृतं तया तदीय एवैष वतंसपल्लवः ।
इदं च तस्याः कदलीदलांशुकं यद् अत्र संक्रान्त इव स्मरज्वरः ४९.५५ ॥१६९२॥
राजशेखरस्यामी

मधुर् मासो रम्यो विपिनम् अजनं त्वं च तरुणी स्फुरत्कामावेशे वयसि वयम् अप्य् आहितभराः ।
व्रजत्व् अम्बा मुग्धे क्षणम् इह विलम्बस्व यदि वा स्फुटस् तावज् जातः पिशुनवचसाम् एष विषयः ४९.५६ ॥१६९३॥
वल्लणस्य

मुनीन्दोर् वाग्बिन्दुः प्रविततसुधापूरपरमो न चेच् चिन्तापात्रे मिलति कथम् अप्य् अस्य मनसः ।
कुतः प्राप्य प्रीतिं तुहिनगिरिगर्भस्थितिजुषो ऽप्य् असह्यः सह्येत प्रियविरहदाहव्यतिकरः ४९.५७ ॥१६९४॥
धर्मकीर्तेः

सर्वस्यैव हि लोकस्य बहुमानं यद् आत्मनि ।
विष्णोर् मायासहस्रस्य इयम् एका गरीयसी ४९.५८ ॥१६९५॥

कृशः काणः खञ्जः श्रवणविकलः पुच्छरहितः क्षुधाक्षामो जीर्णः पिठरककपालार्पितगलः ।
व्रणैः पूयक्लिन्नैः क्रिमिकुलचितैर् आचिततनुः शुनीम् अभ्येति श्वा हतम् अपि निहन्त्य् एव मदनः ४९.५९ ॥१६९६॥

तरन्तो दृश्यन्ते बहव इह गम्भीरसरसि स्वसाराभ्याम् आभ्यां हृदि विदधतः कौतुकशतम् ।
प्रविश्यान्तर्लीनं किम् अपि सुविवेच्योद्धरति यश् चिरं रुद्धश्वासः स खलु पुनर् एतेषु विरलः ४९.६० ॥१६९७॥
पण्डितज्ञानश्रियः

इति संकीर्णव्रज्या

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:06.3200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

material assets

  • भौतिक मत्ता 
RANDOM WORD

Did you know?

गणपतीचे प्रकार किती व कोणते?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.