TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः|
युवतिवर्णनव्रज्या

सुभाषितरत्नकोशः - युवतिवर्णनव्रज्या

विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे.


युवतिवर्णनव्रज्या
यासां सत्य् अपि सद्गुणानुसरणे दोषानुरागः सदा याः प्राणान् वरम् अर्पयन्ति न पुनः सम्पूर्णदृष्टिं प्रिये ।
अत्यन्ताभिमते ऽपि वस्तुनि विधिर् यासां निषेधात्मकं तास् त्रैलोक्यविलक्षणप्रकृतयो वामाः प्रसीदन्तु वः १६.१ ॥३८४॥

कण्ठे मौक्तिकमालिकाः स्तनतटे कार्पूरम् अच्छं रजः सान्द्रं चन्दनम् अङ्गके वलयिताः पाणौ मृणालीलताः ।
तन्वी नक्तम् इयं चकास्ति शुचिनी चीनांशुके बिभ्रती शीतांशोर् अधिदेवतेव गलिता व्योमाग्रम् आरोहतः १६.२ ॥३८५॥

लीलास्खलच्चरणचारुगतागतानि तिर्यग्विवर्तितविलोचनवीक्षितानि ।
वामभ्रुवां मृदु च मञ्जु च भाषितानि निर्मायम् आयुधम् इदं मकरध्वजस्य १६.३ ॥३८६॥

दृष्टा काञ्चनयष्टिर् अद्य नगरोपान्ते भ्रमन्ती मया तस्याम् अद्भुतपद्मम् एकम् अनिशं प्रोत्फुल्लम् आलोकितम् ।
तत्रोभौ मधुपौ तथोपरि तयोर् एको ऽष्टमीचन्द्रमास् तस्याग्रे परिपुञ्जितेन तमसा नक्तंदिवं स्थीयते १६.४ ॥३८७॥

मध्येहेमलतं कपित्थयुगलं प्रादुर्बभूव क्रम- प्राप्तौ तालफलद्वयं तदनु तन् निःसन्धिभावस्थितम् ।
पश्चात् तुल्यसमुन्नतिव्यतिकरं सौवर्णकुम्भद्वया- कारेण स्फुटम् एव तत् परिणतं क्वेदं वदामो ऽद्भुतम् १६.५ ॥३८८॥
वित्तोकस्यैतौ

स्मितज्योत्स्नालिप्तं मृगमदमसीपत्रहरिणं मुखं तन्मुग्धाया हरति हरिणाङ्कस्य लडितम् ।
क्व चन्द्रे सौन्दर्यं तदधररुचिः सातिशयिनी क्व बालायास् ते ते क्व चटुलकटाक्षा नयमुषः १६.६ ॥३८९॥
यागोकस्य

आश्चर्यम् ऊर्जितम् इदं किम् उ किं मदीय इत्तभ्रमो यद् अयम् इन्दुर् अनम्बरे ऽपि ।
तत्रापि कापि ननु चित्रपरम्परेयम् उज्जृम्भितं कुवलयद्वितयं यद् अत्र १६.७ ॥३९०॥
श्रीहर्षपालदेवस्य

निजनयनप्रतिबिम्बैर् अम्बुनि बहुशः प्रतारिता कापि ।
नीलोत्पले ऽपि विमृषति करम् अर्पयितुं कुसुमलावी १६.८ ॥३९१॥
धरणीधरस्य

यौवनशिल्पिसुकल्पितनूतनतनुवेश्म विशति रतिनाथे ।
लावण्यपल्लवाङ्गौ मङ्गलकलशौ स्तनाव् अस्याः १६.९ ॥३९२॥

एकम् एव बलिं बद्ध्वा जगाम हरिर् उन्नतिम् ।
अस्यास् त्रिवलिबन्धेन सैव मध्यस्य नम्रता १६.१० ॥३९३॥

रोमावली कनकचम्पकदामगौर्या लक्ष्मीं तनोति नवयौवनसम्भृतश्रीः ।
त्रैलोक्यलब्धविजयस्य मनोभवस्य सौवर्णपट्टलिखितेव जयप्रशस्तिः १६.११ ॥३९४॥

दृशा दग्धं मनसिकं जीवयन्ति दृशैव याः ।
विरूपाक्षस्य जयिनीस् ताः सुत्वे वामलोचनाः १६.१२ ॥३९५॥

सो ऽयम् अभ्युदितः पश्य प्रियाया मुखचन्द्रमाः ।
यस्य पार्वणचन्द्रेण तुल्यतैव हि लाञ्छनम् १६.१३ ॥३९६॥

विधायापूर्वपूर्णेन्दुम् अस्या मुखम् अभूद् ध्रुवम् ।
धाता जिनासनाम्भोज- विनिमीलनदुःस्थितः १६.१४ ॥३९७॥
श्रीहर्षदेवस्य

मैकं तमःस्तबकम् ऊर्ध्वम् अपाकृथास् त्वम् एणं त्यजास्य विमले नयने गृहाण ।
लोलालकं तरलवीक्षितम् आयताक्ष्याः साक्षान् मुखं यदि भवान् अनुकर्तुकामः १६.१५१ ॥३९८॥

एतस्मिन्न् अवदातकान्तिनि कुचद्वन्द्वे कुरङ्गीदृशः संक्रान्तप्रतिबिम्बम् ऐन्दवम् इदं द्वेधा विभक्तं वपुः ।
आनन्दोत्तरलस्य पुष्पधनुषस् तत्कालनृत्योत्सव- प्राप्तिप्रोद्यतकांस्यतालयुगलप्रायं समालोक्यते १६.१६ ॥३९९॥
वसुकल्पस्य

घनऊरू तस्या यदि यदि विदग्धो ऽयम् अधरः स्तनद्वन्द्वं सान्द्रं यदि यदि मुखाब्जं विजयते ।
हतौ रम्भास्तम्भौ हतम् अहह बन्धूककुसुमं हतौ हेम्नः कुम्भाव् अहह विहतः पार्वणशशी १६.१७ ॥४००॥

यद् अपि विबुधैः सिन्धोर् अन्तः कथंचिद् उपार्जितं तद् अपि सकलं चारुस्त्रीणां मुखेषु विभाव्यते ।
सुरसुमनसः श्वासामोदे शशी च कपोलयोर् अमृतम् अधरे तिर्यग्भूते विषं च विलोचने १६.१८ ॥४०१॥
लक्ष्मीधरस्य

तरलनयना तन्वङ्गीयं पयोधरहारिणी रचनपटुना मन्ये धात्रा शशिद्रवनिर्मिता ।
भवतु महिमा लावण्यानाम् अयं कथम् अन्यथा विगलिततनुर् लेखाशेषः कथं च निशाकरः १६.१९ ॥४०२॥
सुवर्णरेखस्य

सो ऽनङ्गः कुसुमानि पञ्च विशिखाः पुष्पाणि बाणासनं स्वच्छन्दच्छिदुरा मधुव्रतमयी पङ्क्तिर् गुणः कार्मुके ।
एवंसादनम् उत्सहेत स जगज् जेतुं कथं मन्मथं तस्यामोघम् अमूर् भवन्ति न हि चेद् अस्त्रं कुरङ्गीदृशः १६.२० ॥४०३॥
अमरसिंहस्य

गुरुतां जघनस्तनयोः स्रष्टुर् मुष्ट्योन्नमय्य तुलितवतः ।
मग्नाङ्गुलिसंधित्रयनिर्गतलावण्यपङ्क्तिला त्रिवली १६.२१ ॥४०४॥

असारं संसारं परिमुषितरत्नं त्रिभुवनं निरालोकं लोकं मरणशरणं बान्धवजनम् ।
अदर्पं कन्दर्पं जननयननिर्माणम् अफलं जगज् जीर्णारण्यं कथम् असि विधातुं व्यवसितः १६.२२ ॥४०५॥
भवभूतेः

त्वद्गण्डस्थलपाण्डु देहि लवलं देहि त्वदोष्ठारुणं बिम्बं देहि नितम्बिनि त्वदलकश्यामं च मे जाम्बवम् ।
इत्य् अक्षुण्णमनोज्ञचाटुजनितव्रीडः पुरन्ध्रीजनो धन्यानां भवनेषु पञ्जरशुकैर् आहारम् अभ्यर्थ्यते १६.२३ ॥४०६॥
वाक्कूटस्य

दूर्वाश्यामो जयति पुलकैर् एष कान्तः कपोलः कस्तूरीभिः किम् इह लिखितो द्राविडः पत्रभङ्गः ।
प्रत्यग्राणि प्रियकररुहक्रीडितान्य् एव मुग्धे शोभाभाञ्जि स्तनकलशयोस् तन्वि हारो ऽपि भारः १६.२४ ॥४०७॥

जनः पुण्यैर् यायाज् जलधिजलभावं जलमुचं तथावस्थं चैनं विदधति शुभैः शुक्तिवदने ।
ततस् तां श्रेयोभिः परिणतिम् असौ विन्दति यया रुचिं तन्वन् पीनस्तनि हृदि तवायं विलसति १६.२५ ॥४०८॥
अचलसिंहस्य

न नीलाब्जं चक्षुः सरसिरुहम् एतन् न वदनं न बन्धूकस्येदं कुसुमम् अधरस् तद्द्युतिधरः ।
ममाप्य् अत्र भ्रान्तिः प्रथमम् अभवद् भृङ्ग किम् उ ते कृतं यत्नैर् एभ्यो विरम विरम श्राम्यसि मुधा १६.२६ ॥४०९॥

मनसिजविजयास्त्रं नेत्रविश्रामपात्रं तव मुखम् अनुकर्तुं तन्वि वाञ्छा द्वयोश् च ।
इति जनितविरोधाद् भूतकोपाद् इवायं हरति तुहिनरश्मिः पङ्कजानां विकाशम् १६.२७ ॥४१०॥
धर्माकरस्य

चेतोभुवो रचितविभ्रमसंविधानं नूनं न गोचरम् अभूद् दयिताननं वः ।
तत्कान्तिसम्पदम् अवाप्स्यत चेच् चकोराः पानोत्सवं किम् अकरिष्यत चन्द्रिकासु १६.२८ ॥४११॥

यद् गीयते जगति शस्त्रहता व्रजन्ति नूनं सुरालयम् इति स्फुटम् एतद् अद्य ।
सूच्यग्रमात्रपरिखण्डितविग्रहेण प्राप्तं यतः स्तनतटं तव कञ्चुकेन १६.२९ ॥४१२॥

अनेन कुम्भद्वयसंनिवेश- संलक्ष्यमाणेन कुचद्वयेन ।
उन्मज्जता यौवनवारणेन वापीव तन्वङ्गि तरङ्गितासि १६.३० ॥४१३॥
भागुरस्य

सत्यं शरैः सुमनसां हृदयं तवैतल् लोलाक्षि निर्भरम् अपूरि मनोभवेन ।
आमोदम् उल्बणम् अकृत्रिमम् उद्वहन्ति श्वासाः स्वभावसुभगं कथम् अन्यथैते १६.३१ ॥४१४॥

सुतनु भवगभीरं गर्तम् उत्पाद्य नाभीम् अध उपरि निधाय स्तम्भिकां रोमराजीम् ।
स्तनयुगभरभङ्गाशङ्कितेनेव धात्रा त्रिवलिवलयबद्धं मध्यम् आलोकयामः १६.३२ ॥४१५॥

मुहुः शस्त्रच्छेदैर् मुहुर् असमपाषाणकषणैर् मुहुर् ज्योतिःक्षेपैः पयसि परितापैः प्रतिमुहुः ।
तद् एवं तन्वङ्ग्याः कथम् अपि नितम्बस्थलम् इदं मया लब्धं पुण्यैर् इति रणति काञ्चीपरिकरः १६.३३ ॥४१६॥

गुणवृद्धिर् वर्णलोपद्वन्द्वनिपातोपसर्गसंकीर्णा ।
दुर्घटपटवाक्यार्था व्याकरणप्रक्रियेवासौ १६.३४ ॥४१७॥

नयनच्छलेन सुतनोर् वदनजिते शशिनि कुलविभौ क्रोधात् ।
नासानालनिबद्धं स्फुटितम् इवेन्दीवरं द्वेधा १६.३५ ॥४१८॥

चक्षुर् मेचकम् अम्बुजं विजयते वक्त्रस्य मित्रं शशी भ्रूसूत्रस्य सनाभि मन्मथधनुर् लावण्यपुण्यं वपुः ।
रेखा कापि रदच्छदे च सुतनोर् गात्रे च तत् कामिनीम् एनां वर्णयिता स्मरो यदि स चेद् वैदर्भ्यम् अभ्यस्यति १६.३६ ॥४१९॥
राजशेखरस्यैतौ

चण्डीशदर्पदलनात् प्रभृति स्मरस्य वामभ्रुवां वदनम् एव हि राजधानी ।
निःशङ्कम् अङ्कुरितपुष्पितकान्तिकाशे तत्राधुना तुहिनधाम्नि मृगाश् चरन्ति १६.३७ ॥४२०॥
सरोकस्य

लावण्यकान्तिपरिपूरितदिङ्मुखे ऽस्मिन् स्मेरे ऽधुना तव मुखे तरलायताक्षि ।
क्षोभं यद् एति न मनाग् अपि तेन मन्ये सुव्यतम् एव जलराशिर् अयं पयोधिः १६.३८ ॥४२१॥
आनन्दवर्धनस्य

अधीराक्ष्याः पीनस्तनकलशम् आस्कन्दसि मुहुः क्रमाद् ऊरुद्वन्द्वं कलयसि च लावण्यललितम् ।
भुजाश्लिष्टो हर्षाद् अनुभवसि हस्ताहतिकलाम् इदं वीणादण्ड प्रकटय फलं कस्य तपसः १६.३९ ॥४२२॥
वाचस्पतेः

न तावद् बिम्बोष्ठि स्फुरितनवरागो ऽयम् अधरो न चामी ते दन्ताः सुदति जितकुन्देन्दुमहसः ।
इमां मन्ये मुद्राम् अतनुतरसिन्दूरसुभगाम् इदं मुक्तारत्नं मदननृपतेर् मुद्रितम् इव १६.४० ॥४२३॥
कमलाधरस्य

इमौ रम्भास्तम्भौ द्विरदपतिकुम्भद्वयम् इदं तद् एतल् लीलाब्जं शरदमृतरश्मिः स्फुटम् अयम् ।
किम् अङ्गे तन्वङ्ग्याः कलयति जगत् कान्तम् अधिकं यद् एतस्यां शश्वत् परवशम् इवोन्मत्तम् इव च १६.४१ ॥४२४॥

जनानन्दश् चन्द्रो भवति न कथं नाम सुकृती प्रयातो ऽवस्थाभिस् तिसृभिर् अपि यः कोटिम् इयतीम् ।
भ्रुवोर् लीलां बालः श्रियम् अलिकपट्टस्य तरुणो मुखेन्दोः सर्वस्वं हरति हरिणाक्ष्याः परिणतः १६.४२ ॥४२५॥
वामदेवस्य

लावण्यसिन्धुर् अपरैव हि केयम् अत्र यत्रोत्पलानि शशिना सह सम्प्लवन्ते ।
उन्मज्जति द्विरदकुम्भतटी च यत्र यत्रापरे कदलकाण्डमृणालदण्डाः १६.४३ ॥४२६॥
श्रीविक्रमादित्यदेवस्य

इयं गेहे लक्ष्मीर् इयम् अमृतवर्तिर् नयनयोर् असाव् अस्याः स्पर्शो वपुषि बलहश् चन्दनरसः ।
अयं कण्ठे बाहुः शिशिरमसृणो मौक्तिकरसः किम् अस्या न प्रेयो यदि परम् असह्यस् तु विरहः १६.४४ ॥४२७॥
भवभूतेः

नितम्बश्रीः कं न स्वगतमितयानं जनयति स्तनाभोगो मुग्धे हृदयम् अपरस्यापि हरति ।
तवाक्ष्णोर् अपभ्रष्टं स्मरजरशरेन्दीवरदलं मुखं तद् यस्येन्दुः प्रथमलिखनप्रोञ्छनपदम् १६.४५ ॥४२८॥
वल्लणस्य

सजन्मानौ तुल्यावभिजनभुवाजन्म च सह- प्रबुद्धौ नाम्ना च स्तन इति समानऊदयिनौ ।
मिथः सीयमात्रे यद् इदम् अनयोर् मण्डलवतोर् अपि स्पर्धायुद्धं तद् इह हि नमस्यः कण्ठिनिमा १६.४६ ॥४२९॥
भावकदेव्याः

शृङ्गारद्रुममञ्जरी सुखसुधासर्वस्वनिक्षेपभूः सर्गाभ्यासफलं विधेर् मधुमयी वर्तिर् जगच्चक्षुषाम् ।
लीलानिर्झरिणी मनोजनृपतेर् लावण्यसिन्धोर् इयं वेला कस्य मृगेक्षणा सुकृतिनः सौन्दर्यसीमास्थली १६.४७ ॥४३०॥
हिमाङ्गस्य

किम् इयम् अमृतवर्तिः किं नु लावण्यसिन्धुः किम् अथ नलिनलक्ष्मीः किं नु शृङ्गारवल्ली ।
इति नवहरिणाक्ष्याः कान्तिम् आलोकयन्तो जगद् अखिलम् असारं भारम् आलोचयामः १६.४८ ॥४३१॥

स्मितज्योत्स्नाधौतं स्फुरदधरपत्रं मृगदृशां मुखाब्जं चेत् पीतं तद् अलम् इह पीयूषकथया ।
अहो मोहः को ऽयं शतमखमुखानां सुमनसां यद् अस्यार्थे ऽत्यर्थं जलधिमथनायासम् अविशन् १६.४९ ॥४३२॥

एतल् लोचनम् उत्पलभ्रमवशात् पद्मभ्रमाद् आननं भ्रान्त्या बिम्बफलस्य चाजनि दधद् वामाधरो वेधसा ।
तस्याः सत्यम् अनङ्गविभ्रमभुवः प्रत्यङ्गम् आसङ्गिनी भ्रान्तिर् विश्वसृजो ऽपि यत्र कियती तत्रास्मदादेर् मतिः १६.५० ॥४३३॥
वीर्यमित्रस्य

आनीलचूचुकशिलीमुखम् उद्गतैक- रोमावलीविपुलनालम् इदं प्रियायाः ।
उत्तु|न्गसंगतपयोधरपद्मयुग्मं नाभेर् अधः कथयतीव महानिधानम् १६.५१ ॥४३४॥

यन्नामापि सुखाकरोति कलयत्य् उर्वीम् अपि द्याम् इव प्राप्तिर् यस्य यदङ्गसङ्गविधिना किं यन् न निह्नूयते ।
अन्तः किं च सुधासपत्नम् अनिशं जागर्ति यद् रागिणां विश्रम्भास्पदम् अद्भुतं किम् अपि तत् कान्तेति तत्त्वान्तरम् १६.५२ ॥४३५॥

तन्वङ्ग्याः स्तनयुग्मेन मुखं न प्रकटीकृतम् ।
हाराय गुणिने स्थानं न दत्तम् इति लज्जया १६.५३ ॥४३६॥
भोज्यदेवस्य

हन्तु नाम जगत् सर्वम् अविवेकि कुचद्वयम् ।
प्राप्तश्रवणयोर् अक्ष्णोर् न युक्तं जनमारणम् १६.५४ ॥४३७॥
धर्मकीर्तेः
तन्वङ्गीनां स्तनौ दृष्ट्वा शिरः कम्पायते युवा ।
तयोर् अन्तरसंलग्नां दृष्टिम् उत्पाटयन्न् इव १६.५५ ॥४३८॥
पाणिनेः

शिखरिणि क्व नु नाम कियच्चिरं किमभिधानम् असाव् अकरोत् तपः ।
तरुणि येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः १६.५६ ॥४३९॥

याता लोचनगोचरं यदि विधेर् एणेक्षणा सुन्दरी नेयं कुङ्कुमपङ्कपिञ्जरमुखी तेनोज्झिता स्यात् क्षणम् ।
नाप्य् आमीलितलोचनस्य रचनाद् रूपं भवेद् ईदृशं तस्मात् सर्वम् अकर्तृकं जगद् इदं श्रेयो मतं सौगतम् १६.५७ ॥४४०॥
धर्मकीर्तेः

व्यर्थं विलोक्य कुसुमेषुम् असुव्यये ऽपि गौरीपतीक्षणशिखिज्वलितो मनोभूः ।
रोषाद् वशीकरणम् अस्त्रम् उपाददे यां सा सुभ्रुवां विजयते जगति प्रतिष्ठा १६.५८ ॥४४१॥
मनोविनोदकृतः

आरब्धे दयितामुखप्रतिसमे निर्मातुम् अस्मिन्न् अपि व्यक्तं जन्मसमानकालमिलिताम् अंशुच्छटां वर्षति ।
आत्मद्रोहिणि रोहिणीपरिवृढे पर्यङ्कपङ्केरुहः संकोचाद् अतिदुःस्थितस्य न विधेस् तच्छिल्पम् उन्मीलितम् १६.५९ ॥४४२॥

अनेन रम्भोरु भवन्मुखेन तुषारभानोस् तुलया जितस्य ।
ऊनस्य नूनं परिपूरणाय ताराः स्फुरन्ति प्रतिमानखण्डाः १६.६० ॥४४३॥

गोत्रे साक्षाद् अजनि भगवान् एष यत् पद्मयोनिः शय्योत्थायं यद् अखिलमहः प्रीणयन्ति द्विरेफान् ।
एकाग्रां यद् दधति भगवत्य् उष्णभानौ च भक्तिं तत् प्रापुस् ते सुतनु वदनौपम्यम् अम्भोरुहाणि १६.६१ ॥४४४॥
मुरारेर् अमी

कोषः स्फीततरः स्थितानि परितः पत्राणि दुर्गं जलं मैत्रं मण्डलम् उज्ज्वलं चिरम् अधो नीतास् तथा कण्टकाः ।
इत्य् आकृष्टशिलीमुखेन रचनां कृत्वा तद् अत्यद्भुतं यत् पद्मेन जिगीषुणापि न जितं मुग्धे त्वदीयं मुखम् १६.६२ ॥४४५॥

सा रामणीयकनिधेर् अधिदेवता वा सौन्दर्यसारसमुदायनिकेतनं वा ।
तस्याः सखे नियतम् इन्दुसुधामृणाल- ज्योत्स्नादि कारणम् अभून् मदनश् च वेधाः १६.६३ ॥४४६॥
भवभूतेः

उपप्राकाराग्रं प्रहिणु नयने तर्कय मनाग् अनाकाशे को ऽयं गलितहरिणः शीतकिरणः ।
सुधाबद्धग्रासैर् उपवनचकोरैर् अनुसृतां किरञ् ज्योत्स्नाम् अच्छां नवलवलपाकप्रणयिनीम् १६.६४ ॥४४७॥
राजशेखरस्य

चन्द्रो जडः कदलकाण्डम् अकाण्डशीतम् इन्दीवराणि च विसूत्रितविभ्रमाणि ।
येनाक्रियन्त सुतनोः स कथं विधाता किं चन्द्रिकां क्वचिद् अशीतरुचिः प्रसूते १६.६५ ॥४४८॥
अयम् अपि तस्यैव

अलीकव्यामुक्तप्रचुरकबरीबन्धनमिषाद् उदञ्चद्दोर्वल्लीद्वयधृतपरीवेशनिहितः ।
अयं जृम्भारम्भस्फटिकशुचिदन्तांशुनिचयो मुखेन्दुर् गौराङ्ग्या गलितमृगलक्ष्मा विजयते १६.६६ ॥४४९॥

रम्भोरु क्षिप लोचनार्धम् अभितो बाणान् वृथा मन्मथः संधत्तां धनुर् उज्झतु क्षणम् इतो भ्रूवल्लिम् उल्लासय ।
किं चान्तर्निहितानुरागमधुराम् अव्यक्तवर्णक्रमां मुग्धे वाचम् उदीरयास्तु जगतो वीणासु भेदीभ्रमः १६.६७ ॥४५०॥

पाणौ पद्मधिया मधूकमुकुलभ्रान्त्या तथा गण्डयोर् नीलेन्दीवरशङ्कया नयनयोर् बन्धूकबुद्ध्याधरे ।
लीयन्ते कबरीषु बान्धवजनव्यामोहजातस्पृहा दुर्वारा मधुपाः कियन्ति सुतनु स्थानानि रक्षिष्यसि १६.६८ ॥४५१॥

दृष्टाः शैवलमञ्जरीपरिचिताः सिन्धोश् चिरं वीचयो रत्नान्य् अप्य् अवलोकितानि बहुशो युक्तानि मुक्ताफलैः ।
यत् तु प्रोञ्छितलाञ्छने हिमरुचऊन्निद्रम् इन्दीवरं संसक्तं च मिथो रथाङ्गयुगलं तत् केन दृष्टं पुनः १६.६९ ॥४५२॥
विक्रमादित्यस्य

अन्योन्योपमितं युगं निरुपमं ते ऽयुग्मम् अङ्गेषु यत् सो ऽयं सिक्थकम् आस्यकान्तिमधुनस् तन्वङ्गि चन्द्रस् तव ।
त्वद्वाचां स्वरमात्रिकां मदकलः पुष्कोकिलो घोषयत्य् अभ्यासस्य किम् अस्त्य् अगोचरम् इति प्रत्याशया मोहितः १६.७० ॥४५३॥

लावण्यद्रविणव्ययो न गणितः क्लेशो महान् स्वीकृतः स्वच्छन्दं वसतो जनस्य हृदये चिन्ताज्वरो निर्मितः ।
एषापि स्वगुणानुरूपरमणाभावाद् वराकी हता को ऽर्थश् चेतसि वेधसा विनिहितस् तन्व्यास् तनुं तन्वता १६.७१ ॥४५४॥
धर्मकीर्तेः

किं कौमुदीः शशिकलाः सकला विचूर्ण्य संयोज्य चामृतरसेन पुनः प्रयत्नात् ।
कामस्य घोरहरहूंकृतिदग्धमूर्तेः संजीवनौषधिर् इयं विहिता विधात्रा १६.७२ ॥४५५॥
भट्टोद्भटस्य

अस्याः सर्गविधौ प्रजापतिर् अभूच् चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वयं तु मदनो मासः स पुष्पाकरः ।
वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन् मनोहरम् इदं रूपं पुराणो मुनिः १६.७३ ॥४५६॥
कालिदासस्य

तद् वक्त्रं यदि मुद्रिता शशिकथा हा हेम सा चेद् द्युतिस् तच् चक्षुर् यदि हारितं कुवलयैस् तच् चोत्स्मितं का सुधा ।
धिक् कन्दर्पधनुर् भ्रुवौ यदि च ते किं वा बहु ब्रूमहे यत् सत्यं पुनरुक्तवस्तुविमुखः सर्गक्रमो वेधसः १६.७४ ॥४५७॥
राजशेखरस्य

तस्या मुखस्यायतलोचनायाः कर्तुं न शक्तः सदृशं प्रियायाः ।
इतीव शीतद्युतिर् आत्मबिम्बं निर्माय निर्माय पुनर् भिनत्ति १६.७५ ॥४५८॥

तुलितस् त्वन्मुखेनायं यद् उन्नमति चन्द्रमाः ।
अवनम्रमुखि व्यक्तम् एतेनैवास्य लाघवम् १६.७६ ॥४५९॥

तपस्यतीव चन्द्रो ऽयं त्वन्मुखेन्दुजिगीषया ।
कृशः शम्भुजटाजूट- तटिनीतटम् आश्रितः १६.७७ ॥४६०॥

तव तन्वि स्तनाव् एतौ कुर्वाते विग्रहं गुरुम् ।
अन्योन्यमण्डलाक्रान्तौ नष्टसंधी नृपाव् इव १६.७८ ॥४६१॥

प्रायः स्तनतटीभूमिः प्रकामफलदायिनी ।
यस्याम् अग्रे करं दत्त्वा योज्यते नखलाङ्गलम् १६.७९ ॥४६२॥

अमीषां मण्डलाभोगः स्तनानाम् एव शोभते ।
येषाम् उपेत्य सोत्कम्पा राजानो ऽपि करप्रदाः १६.८० ॥४६३॥

लक्ष्मीं वक्षसि कौस्तुभस्तबकिनि प्रेम्णा करोत्य् अच्युतो देहार्धे वहति त्रिपिडपगुरुर् गौरीं स्वयं शंकरः ।
शङ्के पङ्कजसम्भवस् तु भगवान् अद्यापि बाल्यावधिः सर्वाङ्गप्रणयां प्रियां कलयितुं दीर्घं तपस् तप्यते १६.८१ ॥४६४॥

इति युवतिवर्णनव्रज्या

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:04.5200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कारळा

  • पु. खुरासणी ; काळा तीळ . याचें झाड दीड - दोन हात उंच असतें . फुलांचा रंग पिवळा असुन बीचा रंग काळा असतो . याचें तेल जाळण्यास व खाण्यास उपयोगी आहे . पेंड गुरांना घालतात . ( सं . कृष्ण + तिल ; तुल . का . करि = काळा ) 
RANDOM WORD

Did you know?

जानवे म्हणजे नेमके काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.