TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः|
विरहिव्रज्या

सुभाषितरत्नकोशः - विरहिव्रज्या

विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे.


विरहिव्रज्या
गमनम् अलसं शून्या दृष्टिः शरीरम् असौष्ठवं श्वसितम् अधिकं किं त्व् एतत् स्यात् किम् अन्यद् अतो ऽथ वा ।
भ्रमति भुवने कन्दर्पाज्ञा विकारि च यौवनं ललितमधुरास् ते ते भावाः क्षिपन्ति च धीरताम् २३.१ ॥७५२॥

वारं वारं तिरयति दृशोर् उद्गमं बाष्पपूरस् तत्संकल्पोपहतिजडिम स्तम्भम् अभ्येति गात्रम् ।
सद्यः स्विद्यन्न् अयम् अविरतोत्कम्पलोलाङ्गुलीकः पाणिर् लेखाविधिषु नितरां वर्तते किं करोमि २३.२ ॥७५३॥

उन्मीलन्मुकुलकरालकुन्दकोष- प्रश्च्योतद्घनमकरन्दगन्धगर्भः ।
ताम् ईषत्प्रचलविलोचनां नताङ्गीम् आलिङ्गन् पवन मम स्पृशाङ्गम् अङ्गम् २३.३ ॥७५४॥

दलति हृदयं गाढोद्वेगं द्विधा न तु भिद्यते वहति विकलः कायो मोहं न मुञ्चते चेतनाम् ।
ज्वलति च तनूम् अन्तर्दाहः करोति न भस्मसात् प्रहरति विधिर् मर्मच्छेदी न कृन्तति जीवितम् २३.४ ॥७५५॥

नादत्से हरिताङ्कुरान् क्वचिद् अपि स्थैर्यं न यद् गाहसे यत् पर्याकुललोचनो ऽसि करुणं कूजन् दिशः पश्यसि ।
दैवेनान्तरितप्रियो ऽसि हरिण त्वं चापि किं यच् चिरं प्रत्यद्रि प्रतिकन्दरं प्रतिनदि प्रत्यूषरं भ्राम्यसि २३.५ ॥७५६॥
मुञ्जस्य

कस्राघातैः सुरभिर् अभितः सत्वरं ताडनीयो गाढाम्रेडं मलयमरुतः शृङ्खलादाम दत्त ।
कारागारे क्षिपत तरसा पञ्चमं रागराजं चन्द्रं चूर्णीकुरुत च शिलापट्टके पिष्टपेषम् २३.६ ॥७५७॥

ह्रिया संसक्ताङ्गं तदनु मदनाज्ञाप्रशिथिलं सनाथं माञ्जिष्ठप्रसरकृशरेखैर् नखपदैः ।
घनोरुप्राग्भारं निधिमुखम् इवामुद्रितम् अहो कदा नु द्रक्ष्यामो विगलितदुकूलं मृगदृशः २३.७ ॥७५८॥

एते चूतमहीरुहो ऽप्य् अविरलैर् धूमायिताः षट्पदैर् एते प्रज्वलिताः स्फुटकिशलयोद्भेदैर् अशोकद्रुमाः ।
एते किंशुकशाखिनो ऽपि मलिनैर् अङ्गारिताः कुड्मलैः कष्टं विश्रमयामि कुत्र नयने सर्वत्र वामो विधिः २३.८ ॥७५९॥
वाक्कूटस्य

सव्याधेः कृशता क्षतस्य रुधिरं दष्टस्य लालास्रवः सर्वं नैतद् इहास्ति केवलम् अयं पान्थस् तपस्वी मृतः ।
आ ज्ञातं मधुलम्पटैर् मधुकरैर् आबद्धकोलाहले नूनं साहसिकेन चूतमुकुले दृष्टिः समारोपिता २३.९ ॥७६०॥

मनसिशय कृशाङ्ग्याः स्वान्तम् अन्तर्निशातैर् इषुभिर् अशनिकल्पैर् मा वधीस् त्वं ममेव ।
अपि ननु शशलक्ष्मन् मा मुचस् त्वं च तस्याम् अकरुणकिरणोल्काः कन्दलीकोमलायाम् २३.१० ॥७६१॥
राजशेखरस्यैतौ

चक्षुश्चुमबविघ्निताधरसुधापानं मुखं शुष्यति द्वेष्टि स्वं च कचग्रहव्यवहितश्रोणीविहारः करः ।
निद्रे किं विरतासि तावद् अघृणे यावन् न तस्याश् चिरात् क्रीडन्ति क्रमशः कृशीकृतरुषः प्रत्यङ्गम् अङ्गानि मे २३.११ ॥७६२॥
अभिनन्दस्य

जाने सा गगनप्रसूनकलिकेवात्यन्तम् एवासती तत्सम्भोगरसाश् च तत्परिमलोल्लासा इवासत्तमाः ।
स्वप्नेन द्विषतेन्द्रजालम् इव मे संदर्शिता केवलं चेतस् तत्परिरम्भणाय तद् अपि स्फीतस्पृहं ताम्यति २३.१२ ॥७६३॥
परमेश्वरस्य

द्यूते पणः प्रणयकेलिषु कण्ठपाशः क्रीडापरिश्रमहरं व्यजनं रतान्ते ।
शय्यानिशीथकलहेषु मृगेक्षणायाः प्राप्तं मया विधिवशाद् इदम् उत्तरीयम् २३.१३ ॥७६४॥
धीरनागस्य

देशैर् अन्तरिता शतैश् च सरिताम् उर्वीभृतां काननैर् यत्नेनापि न याति लोचनपथं कान्तेति जानन्न् अपि ।
उद्ग्रीवश् चरणार्धरुद्धवसुधः कृत्वाश्रुपूर्णां दृशं ताम् आशां पथिकस् तथापि किम् अपि ध्यायंश् चिरं वीक्षते २३.१४ ॥७६५॥
श्रीहर्षस्य

प्रौढानङ्गरसाविलाकुलमनाङ्न्यञ्चत्तिरोघूर्णित- स्निग्धाह्लादि मदान्धम् अध्वनि तया यच् चक्षुर् आन्दोलितम् ।
तेनास्माकम् इयं गतिर् मतिर् इयं संवित्तिर् एवंविधा तापो ऽयं तनुर् ईदृशी स्थितिर् इयं तस्या अपीति श्रुतिः २३.१५ ॥७६६॥
वल्लणस्य

स एवायं देशः सर इव विलूनाम्बुजवनं तनोत्य् अन्तस् तापं नभ इव विलीनामृतरुचि ।
वियोगे तन्वङ्ग्याः कलयति स एवायम् अधुना हिमर्तुर् नैदाघीम् अहह विषमां तापनरुजम् २३.१६ ॥७६७॥

सृष्टा वयं यदि ततः किम् इयं मृगाक्षी सेयं वयं यदि ततः किम् अयं वसन्तः ।
सो ऽप्य् अस्तु नाम जगतः प्रतिपक्षभूतश् चूतद्रुमः किम् इति निर्मित एष धात्रा २३.१७ ॥७६८॥

ते बाणाः किल चूतकुड्मलमयाः पौष्पं धनुस् तत् किल क्रुद्धत्र्यम्बकलोचनाग्निशिखया कामो ऽपि दग्धः किल ।
किं ब्रूमो वयम् अप्य् अनेन हतकेनापुङ्खमग्नैः शरैर् विद्धा एव न चेदृशः परिकरस्यैवंविधा वेदना २३.१८ ॥७६९॥
वीर्यमित्रस्य

रक्तस् त्वं नवपल्लवैर् अहम् अपि श्लाघ्यैः प्रियाया गुणैस् त्वाम् आयान्ति शिलीमुखाः स्मरधनुर्मुक्तास् तथा माम् अपि ।
कान्तापादतलाहतिस् तव मुदे सत्यं ममाप्य् आवयोः सर्वं तुल्यम् अशोक केवलम् अहं धात्रा सशोकः कृतः २३.१९ ॥७७०॥

आपुङ्खाग्रम् अमी शरा मनसि मे मग्नाः समं पञ्च ते निर्दग्धं विरहाग्निना वपुर् इदं तैर् एव सार्धं मम ।
कष्टं काम निरायुधो ऽसि भवता जेतुं न शक्यो जनो दुःखी स्याम् अहम् एक एव सकलो लोकः सुखं जीवतु २३.२० ॥७७१॥
राजशेखरस्य

विलीयेन्दुः साक्षाद् अमृतरसवापी यदि भवेत् कलङ्गस् तत्रत्यो यदि च विकचेन्दीवरवनम् ।
ततः स्नानक्रीडाजनितजडभावैर् अवयवैः कदाचिन् मुञ्चेयं मदनशिखिपीडापरिभवम् २३.२१ ॥७७२॥
राजशेखरस्यैतौ

यदि क्षामा मूर्त्तिः प्रतिदिवसम् अश्रूणि दृशि चेच् छ्रुतौ दूतीवक्त्रं यदि मृगदृशो भूषणधिया ।
इदं चास्मत्कर्णे यदि भवति केनापि कथितं तद् इच्छामः सङ्गाद् विरहभरम् एकत्र वसतौ २३.२२ ॥७७३॥
वल्लणस्य

तव कुसुमशरत्वं शीतरश्मित्वम् इन्दोर् द्वयम् इदम् अयथार्थं दृश्यते मद्विधेषु ।
विसृजति हिमगर्भैर् अग्निम् इन्दुः कराग्रैस् त्वम् अपि कुसुमबाणान् वज्रसारीकरोषि २३.२३ ॥७७४॥
कालिदासस्य

सम्भूयैव सुखानि चेतसि परं भूमानम् आतन्वते यत्रालोकपथावतारिणि रतिं प्रस्तौति नेत्रोत्सवः ।
यद् बालेन्दुकलोदयाद् अवचितैः सारैर् इवोत्पादितं तत् पश्येयम् अनङ्गमङ्गलगृहं भूयो ऽपि तस्या मुखम् २३.२४ ॥७७५॥
भवभूतेः

शरान् मुञ्चत्य् उच्चैर् मनसिजधनुर् मक्षिकरवा रुजन्तीमे भासः किरति दहनाभा हिमरुचिः ।
जितास् तु भ्रूभङ्गार्चनवदनलावण्यरुचिभिः सरोषा नो जाने मृगदृशि विधास्यन्ति किम् अमी २३.२५ ॥७७६॥
शान्ताकरगुप्तस्य

अपि स दिवसः किं स्याद् यत्र प्रियामुखपङ्कजे मधु मधुकरीवास्मद्दृष्टिर् विकासिनि पास्यति ।
तदनु च मृदुस्निग्धालापक्रमाहितनर्मणः सुरतसचिवैर् अङ्गैः सङ्गो ममापि भविष्यति २३.२६ ॥७७७॥
वार्तिककारस्य

सा लम्बालकम् आननं नमयति प्रद्वेष्ट्य् अयं मां शशी नैवोन्मुञ्चति वाचम् अञ्चितकला विघ्नन्ति मां कोकिलाः ।
भूभङ्गं कुरुते न सा धृतधनुर् मथ्नाति मां मन्मथः को वा ताम् अबलां विलोक्य सहसा नात्रोपकृच्छ्रो भवेत् २३.२७ ॥७७८॥
शृङ्गारस्य

बाणान् संहर मुञ्च कार्मुकलतां लक्ष्यं तव त्र्यम्बकः के नामात्र वयं शिरीषकलिकाकल्पं यदीयं मनः ।
तत्कारुण्यपरिग्रहात् कुरु दयाम् अस्मिन् विधेये जने स्वामिन् मन्मथ तादृशं पुनर् अपि स्वप्नाद्भुतं दर्शय २३.२८ ॥७७९॥

विवेकाद् अस्माभिः परमपुरुषाभ्यासरसिकैः कथंचिन् नीयन्ते रतिरमणबाणैर् अपि हतैः ।
प्रियाया बालत्वाद् अभिनववियोगातुरतनोर् न जानीमस् तस्या बत कथम् अमी यान्ति दिवसाः २३.२९ ॥७८०॥

स्खलल्लीलालापं विनिपतितकर्णोत्पलदलं श्रमस्वेदक्लिन्नं सुरतविरतिक्षामनयनम् ।
कचाकर्षक्रीडासरलकुरलश्रेणिसुभगं कदा तद् द्रष्टव्यं वदनम् अवदातं मृगदृशः २३.३० ॥७८१॥

अहम् इव शून्यम् अरण्यं वयम् इव तनुतां गतानि तोयानि ।
अस्माकम् इवोच्छ्वासा दिवसा दीर्घाश् च तप्ताश् च २३.३१ ॥७८२॥

लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च प्रत्युप्तेव च वज्रलेपघटितेवान्तर्निखातेव च ।
सा नश् चेतसि कीलितेव विशिखैश् चेतोभुवः पञ्चभिश् चिन्तासंततितन्तुजालनिबिडस्यूतेव लग्ना प्रिया २३.३२ ॥७८३॥

नेत्रेन्दीवरिणी मुखाम्बुरुहिणी भ्रूवल्लिकल्लोलिनी बाहुद्वन्द्वमृणालिनी यदि वधूर् वापी पुनः सा भवेत् ।
तल्लावण्यजलावगाहनजडैर् अङ्गैर् अनङ्गानल- ज्वालाजालमुचस् त्यजेयम् असमाः प्राणच्छिदो वेदनाः २३.३३ ॥७८४॥

प्रहर्ता क्वानङ्गः स च कुसुमधन्वाल्पविशिखश् चलं सूक्ष्मं लक्ष्यं व्यवहितम् अमूर्तं क्व च मनः ।
इतीमाम् उद्भूतां स्फुटम् अनुपपत्तिं मनसि मे रुजाम् आविर्भावाद् अनुभवविरोधः शमयति २३.३४ ॥७८५॥
वन्द्यतथागतस्य

अन्तर्निबद्धगुरुमन्युपरम्पराभिर् इच्छोचितं किम् अपि वक्तुम् अशक्नुवत्याः ।
अव्यक्तहूंकृतिचलत्कुचमण्डलायास् तस्याः स्मरामि मुहुर् अर्धविलोकितानि २३.३५ ॥७८६॥

भ्रस्यद्विवक्षितम् असम्फलदक्षरार्थम् उत्कम्पमानदशनच्छदम् उच्छ्वसत्या ।
अद्य स्मरामि परिमृज्य पटाञ्चलेन नेत्रे तया किम् अपि यत् पुनरुक्तम् उक्तम् २३.३६ ॥७८७॥
सोन्नोकस्य

दग्धप्ररूढमदनद्रुममञ्जरीति लावण्यपङ्कपटलोद्गतपद्मिनीति ।
शीतांशुबिम्बगलितामृतनिर्मितेति बालाम् अबालहरिणाङ्कमुखीं स्मरामि २३.३७ ॥७८८॥

मधूद्गारस्मेरभ्रमरभरहूंकारमुखरं शरं साक्षान् मीनध्वजविजयचापच्युतम् इव ।
निलीयान्योन्यस्मिन्न् उपरि सहकाराङ्कुरमयी समीक्षन्ते पक्ष्मान्तरतरलतारा विरहिणः २३.३८ ॥७८९॥

सा न चेन् मृगशावाक्षी किम् अन्यासां कथाव्ययः ।
कला न यदि शीतांशोर् अम्बरे कति तारकाः २३.३९ ॥७९०॥

उपरि घनं घनपटलं दूरे कान्ता तद् एतद् आपतितम् ।
हिमवति दिव्यौषधयः क्रोधाविष्टः फणी शिरसि २३.४० ॥७९१॥
स्थगितं नवाम्बुवाहैर् उत्तानास्यो विलोकयन् व्योम ।
संक्रमयतीव पथिकस् तज्जलनिवहं स्वलोचनयोः २३.४१ ॥७९२॥
जयीकस्य

ते जङ्घे जघनं च तत् तद् उदरं तौ च स्तनौ तत् स्मितं सूक्तिः सा च तद् ईक्षणोत्पलयुगं धम्मिल्लभारः स च ।
लावण्यामृतबिन्दुवर्षि वदनं तच् चैवम् एणीदृशस् तस्यास् तद् वयम् एकम् एवम् असकृद् ध्यायन्त एवास्महे २३.४२ ॥७९३॥
नरसिंहस्य

यदि शशधरस् त्वद्वक्त्रेण प्रसह्य तिरस्कृतस् तद् अयम् अदयो मह्यं मुग्धे किम् एवम् असूयति ।
यद् अमृतरसासारस्रुद्भिर् धिनोत्य् अखिलं जगज् ज्वलयति तु माम् एभिर् वह्निच्छटाकटुभिः करैः २३.४३ ॥७९४॥
परमेश्वरस्य

लीलाताण्डवितभ्रुवः स्मितसुधाप्रस्यन्दभाजो दलन्- नीलाब्जद्युतिनिर्भरा दरवलत्पक्ष्मावलीचारवः ।
प्राप्तास् तस्य वियोगिनः स्मृतिपथं खेदं समातन्वते प्रेमार्द्राः सुदृशो विकुञ्चनततिप्रेङ्खत्कटाक्षा दृशः २३.४४ ॥७९५॥

विस्फाराग्रास् तरलतरलैर् अंशुभिर् विस्फुरन्तस् तासां तासां नयनम् असकृन् नैपुणाद् वञ्चयित्वा ।
मुक्तास् तन्व्या मसृणपरुषास् ते कटाक्षक्षुरप्राश् छिन्नं छिन्नं हृदयम् अदयैश् छिद्यते ऽद्यापि यैर् मे २३.४५ ॥७९६॥
परमेश्वरस्य

श्यामां श्यामलिमानम् आनयत भोः सान्द्रैर् मसीकूर्चकैस् तन्त्रं मन्त्रम् अथ प्रयुज्य हरत श्वेतोत्पलानां स्मितम् ।
चन्द्रं चूर्णयत क्षणाच् च कणशः कृत्वा शिलापट्टके येन द्रष्टुम् अहं क्षमे दश दिशस् तद्वक्त्रमुद्राङ्किताः २३.४६ ॥७९७॥

तस्मिन् पञ्चशरे स्मरे भगवता भर्गेण भस्मीकृते जानाम्य् अक्षयसायकं कमलभूः कामान्तरं निर्ममे ।
यस्यामीभिर् इतस् ततश् च विशिखैर् आपुङ्खमग्नात्मभिर् जातं मे विदलत्कदम्बमुकुलस्पष्टोपमानं मनः २३.४७ ॥७९८॥

सूतिर् दुग्धसमुद्रतो भगवतः श्रीकौस्तुभे सोदरे सौहार्दं कुमुदाकरेषु किरणाः पीयूषधाराकिरः ।
स्पर्धा ते वचनाम्बुजैर् मृगदृशां तत् स्थाणुचूडामणे हंहो चन्द्र कथं निषिञ्चसि मयि ज्वालामुचो वेदनाः २३.४८ ॥७९९॥

अयि पिबत चकोराः कृत्स्नम् उन्नामिकण्ठक्रमसरलितचञ्चच्चञ्चवश् चन्द्रिकाम्भः ।
विरहविधुरितानां जीवितत्राणहेतोर् भवति हरिणलक्ष्मा येन तेजोदरिद्रः २३.४९ ॥८००॥
राजशेखरस्यैतौ

शीतांशुर् विषसोदरः फणभृतां लीलास्पदं चन्दनं हाराः क्षारपयोमुचः प्रियसुहृत्पङ्केरुहं भास्वतः ।
इत्य् एषां किम् इवास्तु हन्त मदनज्योतिर्विघाताय यद् बाह्याकारपरिभ्रमेण तु वयं तत्त्वत्यजो वञ्चिताः २३.५० ॥८०१॥

व्यजनमरुतः श्वासश्रेणीम् इमाम् उपचिन्वते मलयजरसो धाराबाष्पं प्रपञ्चयितुं प्रभुः ।
कुसुमशयनं कामास्त्राणां करोति सहायतां द्विगुणहरिमा मारोन्माथः कथं नु विरंस्यति २३.५१ ॥८०२॥
राजशेखरस्यैते

हारो जलार्द्रशयनं नलिनीदलानि प्रालेयशीकरमुचस् तुहिनाद्रिवाताः ।
यस्येन्धनानि सरसान्य् अपि चन्दनानि निर्वाणम् एष्यति कथं स मनोभवाग्निः २३.५२ ॥८०३॥

मन्दादरः कुसुमपत्रिषु पेलवेषु नूनं बिभर्ति मदनः पवनास्त्रम् अद्य ।
हारप्रकाण्डसरलाः कथम् अन्यथामी श्वासाः प्रवर्तितदुकूलदशाः सरन्ति २३.५३ ॥८०४॥

अकृतप्रेमैव वरं न पुनः संजातविघटितप्रेमा ।
उद्धृतनयनस् ताम्यति यथा हि न तथेह जातान्धः २३.५४ ॥८०५॥

स्वप्न प्रसीद भगवन् पुनर् एकवारं संदर्शय प्रियतमां क्षणमात्रम् एव ।
दृष्टा सती निबिडबाहुनिबन्धलग्नं तत्रैव मां नयति सा यदि वा न याति २३.५५ ॥८०६॥

इति विरहिव्रज्या

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:04.8970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

आपले म्हणायला कुणीच उरलें नाहीं

  • एखाद्या असाहाय, निराश्रित, आप्तेष्ट नसलेल्या मनुष्याबद्दल योजतात. 
RANDOM WORD

Did you know?

उगवत्या सूर्याला नमस्कार, मावळत्या का नाही?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site