TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः|
ततोऽन्यापदेशव्रज्या

सुभाषितरत्नकोशः - ततोऽन्यापदेशव्रज्या

विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे.


ततोऽन्यापदेशव्रज्या
अये मुक्तारत्न प्रसर बहिर् उद्द्योतय गृहान् अपि क्षोणीन्द्राणां कुरु फलवतः स्वान् अपि गुणान् ।
किम् अत्रैवात्मानं जरयसि मुधा शुक्तिकुहरे महागम्भीरो ऽयं जलधिर् इह कस् त्वां गणयति ३३.१ ॥१०१९॥
मुरारेः

अप्रत्याकलितप्रभावविभवे सर्वाश्रयाम्भोनिधौ वासो नाल्पतपःफलं यद् अपरं दोषो ऽयम् एको महान् ।
शम्बूको ऽपि यद् अत्र दुर्लभतरई रत्नैर् अनर्घैः सह स्पर्धाम् एकनिवासकारणवशाद् एकान्ततो वाञ्छति ३३.२ ॥१०२०॥

पद्माकरः परिमितो ऽपि वरं स एव यस्य स्वकामवशतः परिभुज्यते श्रीः ।
किं तेन नीरनिधिना महता तटे ऽपि यस्योर्मयः प्रकुपिता गलहस्तयन्ति ३३.३ ॥१०२१॥
दामोदरस्य

नीरे ऽस्मिन्न् अमृतांशुम् उत्सुकतया कर्तुं करे कौतुकिन् मा निम्ने ऽवतरार्जवाद् इयम् अधस् तस्य प्रतिच्छायिका ।
मर्त्ये ऽस्य ग्रहणं क्व दर्शनसुधाप्य् उन्मुक्तनेत्रश्रियां स्वर्लोके ऽपि लवः शवेश्वरजटाजूटैकचूडामणिः ३३.४ ॥१०२२॥
वल्लणस्य

केनासीनः सुखम् अकरुणेनाकराद् उद्धृतस् त्वं विक्रेतुं वा त्वम् अभिलषितः केन देशान्तरे ऽस्मिन् ।
यस्मिन् वित्तव्ययभरसहो ग्राहकस् तावद् आस्तां नास्ति भ्रातर् मरकतमणे त्वत्परीक्षाक्षमो ऽपि ३३.५ ॥१०२३॥

मूर्धारोपणसत्कृतैर् दिऽसि दिशि क्षुद्रैर् विहङ्गैर् गतं छायादाननिराकृतश्रमभ्रैर् नष्टं मृगैर् भीरुभिः ।
हा कष्टं फललोलुपैर् अपसृतं शाखामृगैश् चञ्वलैर् एकेनैव दवानलव्यतिकरः सोढः परं शाखिना ३३.६ ॥१०२४॥

अयं वाराम् एको निलय इति रत्नाकर इति श्रितो ऽस्माभिस् तृष्णातरलितमनोभिर् जलनिधिः ।
क एवं जानीते निजकरपुटीकोटरगतं क्षणाद् एनं ताम्यत्तिमिमकरम् आपास्यति मुनिः ३३.७ ॥१०२५॥
कविनन्दस्य

जन्म व्योमसरःसरोजकुहरे मित्राणि कल्पद्रुमाः क्रीडा स्वर्गपुरन्ध्रिभिः परिचिताः सौवर्णवल्लीस्रजः ।
अप्य् अस्माद् अवतार एव भवतो नोन्मादभेरीरवः सम्यङ् मूर्छितिकेलयः पुनर् इमे भृङ्ग द्विर् अभ्याहतिः ३३.८ ॥१०२६॥

अङ्गेनाङ्गम् अनुप्रविश्य मिलतो हस्तावलेपादिभिः का वार्ता युधि गन्धसिन्धुरपतेर् गन्धो ऽपि चेत् के द्विपाः ।
जेतव्यो ऽस्ति हरेः स लाञ्छनम् अतो वन्दामहे ताम् अभूद् यद्गर्भे शरभः स्वयंजय इति श्रुत्वापि यो नाङ्कितः ३३.९ ॥१०२७॥
वल्लणस्यैतौ

आजन्मस्थितयो महीरुह इमे कूले समुन्मूलिताः कल्लोलाः क्षणभङ्गुराः पुनर् अमी नीताः पराम् उन्नतिम् ।
अन्तः प्रस्तरसंग्रहो बहिर् अपि भ्रश्यन्ति गन्धद्रुमा भ्रातः शोण न सो ऽस्ति यो न हसति त्वत्सम्पदां विप्लवे ३३.१० ॥१०२८॥

अमुं कालक्षेपं त्यज लजद गम्भीरमधुरैः किम् एभिर् निर्घोषैः सृज झटिति झाट्कारि सलिलम् ।
अये पश्यावस्थाम् अकरुणसमीरव्यतिकर- स्फुरद्दावज्वालावलिजटिलमूर्तेर् विटपिनः ३३.११ ॥१०२९॥

युक्तं त्यजन्ति मधुपाः सुमनोविनाश- काले यद् एनम् अवनीरुहम् एतद् अस्तु ।
एतत् त्व् अदृष्टचरम् अश्रुतवार्तम् एताः शाखात्वचो ऽपि तनुकाण्डसमास् त्यजन्ति ३३.१२ ॥१०३०॥

स वन्द्यः पाथोदः स खलु नयनानन्दजननः परार्थे नीचे ऽपि व्रजति लघुतां यो ऽर्थिसुभगाम् ।
कथापि श्रोतव्या भवति हतकेतोर् न च पुनर् जनानां ध्वंसाय प्रभवति हि यस्योद्गतिर् अपि ३३.१३ ॥१०३१॥

उदञ्चद्धर्मांशुद्युतिपरिचयोन्निद्रबिसिनी- घनामोदाहूतभ्रमरभरझङ्कारमधुराम् ।
अपश्यत् कासारश्रियम् अमृतवर्तिप्रणयिनीं सुखं जीवत्य् अन्धूदरविवरवर्ति प्लवकुलम् ३३.१४ ॥१०३२॥
मैत्रीश्रियः

सुवर्णकार श्रवणोचितानि वस्तूनि विक्रेतुम् इहागतस् त्वम् ।
कुतो ऽपि नाश्रावि यद् अत्र पल्ल्यां पल्लीपतिर् यावद् अविद्धकर्णः ३३.१५ ॥१०३३॥

यस्यावन्ध्यरुषः प्रतापवसतेर् नादेन धैर्यद्रुहां शुष्यन्ति स्म मदप्रवाहसरितः सद्यो ऽपि दिग्दन्तिनाम् ।
दैवात् कष्टदशावशं गतवतः सिंहस्य तस्याधुना कर्षत्य् एष करेण केशरसटाभारं जरत्कुञ्जरः ३३.१६ ॥१०३४॥

उत्क्रान्तं गिरिकूटलङ्घनसहं ते वज्रसारा नखास् तत् तेजश् च तद् ऊर्जितं स च नगोन्माथी निनादो महान् ।
आलस्याद् अविमुञ्चता गिरिगुहां सिंहेन निद्रालुना सर्वं विश्वजयैकसाधनम् इदं लब्धं न किंचित् कृतम् ३३.१७ ॥१०३५॥

हंहो जनाः प्रतिपथं प्रतिकाननं च तिष्ठन्तु नाम तरवः फलिता नताश् च ।
अन्यैव सा स्थितिर् अहो मलयद्रुमस्य यद् गन्धमात्रम् अपि तापम् अपाकरोति ३३.१८ ॥१०३६॥

यन् नीडप्रभवो यद् अञ्जनरुचिर् यत् खेचरो यद् द्विजस् तेन त्वं स्वजनः किलेति करटैर् यत् तैर् उपब्रूयसे ।
तत्रातीन्द्रियमोदिमांसलरसोद्गारस् तवैष ध्वनिर् दोषो ऽभूत् कलकण्ठनायक निजस् तेषां स्वभावो हि स ३३.१९ ॥१०३७॥
वल्लणस्य

किं ते नम्रतया किम् उन्नततया किं ते घनच्छायया किं ते पल्लवलीलया इम् अनया चाशोक पुष्पश्रिया ।
यत् त्वन्मूलनिषण्णखिन्नपथिकस्तोमः स्तुवन् नन्व् अहो न स्वादूनि मृदूनि खादति फलान्य् आकण्ठम् उत्कण्ठितः ३३.२० ॥१०३८॥

कल्याणं नः किम् अधिकम् इतो जीवनार्थं यद् अस्माल् लूत्वा वृक्षान् अहह दहसि भ्रातर् अङ्गारकार ।
किं त्व् एतस्मिन्न् अशनिपिशुनैर् आतपैर् आकुलानाम् अध्वन्यानाम् अशरणमरुप्रान्तरे को ऽभ्युपायः ३३.२१ ॥१०३९॥

रज्ज्वा दिशः प्रवितताः सलिलं विषेण पाशैर् मही हुतवहज्वलिता वनान्ताः ।
व्याधाः पदान्य् अनुसरन्ति गृहीतचापाः कं देशम् आश्रयतु यूथपतिर् मृगाणाम् ३३.२२ ॥१०४०॥

आदाय वारि परितः सरितां शतेभ्यः किं नाम साधितम् अनेन महार्णवेन ।
क्षारीकृतं च वडवादहने हुतं च पातालकुक्षिकुहरे विनिवेशितं च ३३.२३ ॥१०४१॥

सोढप्रौढहिमक्लमानि शनकैः पत्राण्य् अधः कुर्वते सम्भाव्यच्छदवाञ्छयैव तरवः केचित् कृतघ्नव्रताः ।
नामन्यन्त तदातनीम् अपि निजच्छायाक्षतिं तैः पुनस् तेषाम् एव तले कृतज्ञचरितैः शुष्यद्भिर् अप्य् आस्यते ३३.२४ ॥१०४२॥

मदोष्मासंतापाद् वनकरिघटा यत्र विमले ममज्जुर् निःशेषं तटनिकट एवोन्नतकराः ।
गते दैवाच् छोषं वरसरसि तत्रैव तरला बलग्रासत्रासाद् विशति शफरी पङ्कमधुना ३३.२५ ॥१०४३॥

यद् वीचिभिः स्पृशसि गगनं यच् च पातालमूलं रत्नैर् उद्द्योतयसि पयसा यद् धरित्रीं पिधत्से ।
धिक् तत् सर्वं तव जलनिधे यद् विमुच्याश्रुधारास् तीरे नीरग्रहणरभसैर् अध्वगैर् उज्झितो ऽसि ३३.२६ ॥१०४४॥

लोला श्रीः शशभृत्कलङ्कमलिनः क्रूरो मणिग्रामणीर् माद्यत्य् अभ्रमुवल्लभो ऽपि सततं तत् कालकूटं विषम् ।
इत्य् अन्तः स्वकुटुम्बदुर्णयपरामर्शाग्निना दह्यते बाढं वाडवनामधेयदहनव्याजेन वारांनिधिः ३३.२७ ॥१०४५॥

भ्रमु
त्रभ्रमु

यन्मार्गोद्धुरगन्धवातकणिकातङ्कार्तिनानादरी- कोणाकुञ्चदुरोनिगूहितशिरःपुच्छा हरीणां गणाः ।
दृप्यद्दुर्दमगन्धसिन्धुरजयोत्खाते ऽपि कामं स्तुतः स्मेरो ऽयं शरभः परां हृदि घृणाम् आयाति जातिस्मरः ३३.२८ ॥१०४६॥

एकेनापि पयोधिना जलमुचस् ते पूरिताः कोटिशो जातो नास्य कुशाग्रलीनतुहिनश्लक्ष्णो ऽपि तोयव्ययः ।
आहो शुष्यति दैवदृष्टिवलनाद् अम्भोभिर् अम्भोमुचः सम्भूयापि विधातुम् अस्य रजसि स्तैमित्यम् अप्य् अक्षमाः ३३.२९ ॥१०४७॥

मर्यादाभङ्गभीतेर् अमितरसतया धैर्यगाम्भीर्ययोगान् न क्षोभ्यन्त्य् एव तावन् नियमितसलिलाः सर्वैते समुद्राः ।
आहो क्षोभं व्रजेयुः क्वचिद् अपि समये दैवयोगात् तदानीं न क्षोणी नाद्रिवर्गा न च रविशशिनौ सर्वम् एकार्णवं स्यात् ३३.३० ॥१०४८॥

श्रुतं दूरे रत्नाकर इति परं नाम जलधेर् न चास्माभिर् दृष्टा नयनपथगम्यस्य मणयः ।
पुरो नः सम्प्राप्तास् तटभुवि सलिप्सं तु वसताम् उदग्राः कल्लोलाः स्फुटविकटदंष्ट्राश् च मकराः ३३.३१ ॥१०४९॥

सुच्छायं फलभारनम्रशिखरं सर्वार्तिशान्तिप्रदं त्वाम् आलोक्य महीरुहं वयम् अमी मार्गं विहायागताः ।
अन्तस् ते यदि कोठरोदरचलद्व्यालावलीविस्फुरद्- वक्त्रोद्वान्तविषानलातिभयदं वन्द्यस् तदानीं भवान् ३३.३२ ॥१०५०॥

परभृतशिशो मौनं तावद् विधेहि नभस्तलोत्- पतनविषये पक्षौ स्यातां न यावद् इमौ क्षमौ ।
ध्रुवम् इतरथा द्रष्टव्यो ऽसि स्वजातिविलक्षण- ध्वनितकुपितध्वाङ्क्षत्रोटीपुटाहतिजर्जरः ३३.३३ ॥१०५१॥

मज्जत्कोठरनखरक्षतकृत्तिकृत्त- रक्तच्छटाछुरितकेसरभारकायः ।
सिंहो ऽप्य् अलङ्घ्यमहिमा हरिनामधेयं धत्ते जरत्कपिर् अपीति किम् अत्र वाच्यम् ३३.३४ ॥१०५२॥

क्व मलयतटीजन्मस्थानं क्व ते च वनेचराः क्व खलु परशुच्छेदः क्वासौ दिगन्तरसंगतिः ।
क्व च खरशिलापट्टे धृष्टिः क्व पङ्कसुरूपता मलयज सखे मा गाः खेदं गुणास् तव दूषणम् ३३.३५ ॥१०५३॥

वदत विदितजम्बूद्वीपसंवृत्तवार्तां कथम् अपि यदि दृष्टं वारिवाहं विहाय ।
सरिति सरसि सिन्धौ चातकेनार्पितो ऽसाव् अपि बहलपिपासापांशुलः कण्ठनालः ३३.३६ ॥१०५४॥
लक्ष्मीधरस्य

उच्चैर् उन्मथितस्य तेन बलिना दैवेन धिक् कर्मणा लक्ष्मीम् अस्य निरस्यतो जलनिधेर् जातं किम् एतावता ।
गाम्भीर्यं किम् अयं जहाति किम् अयं पुष्णाति नाम्भोधरान् मर्यादां किम् अयं भिनत्ति किम् अयं न त्रायते वाडवम् ३३.३७ ॥१०५५॥

उन्मुक्तक्रमहारिभेरुशिखरात् क्रामन्तम् अन्यो धरः को ऽत्र त्वां शरभिकिशोरपरिषद्धौरेय धर्तुं क्षमः ।
तस्माद् दुर्गम् अशृङ्गलङ्घनकलादुर्लालितात्मन् व्रज त्वद्वासाय स एव कीर्णकनकज्योत्स्नो गिरीणां पतिः ३३.३८ ॥१०५६॥
वल्लणस्य

दुर्दिनानि प्रशान्तानि दृष्टस् त्वं तेजसां निधिः ।
अथाशाः पूरयन्न् एव किं मेघैर् व्यवधीयते ३३.३९ ॥१०५७॥

व्याप्याशाः शयितस्य वीचिशिखरैर् उल्लिख्य खं प्रेङ्खतः सिन्धोर् लोचनगोचरस्य महिमा तेषां तनोत्य् अद्भुतम् ।
संश्लिष्टाङ्गुलिरन्ध्रलीनमकरग्राहावलनिर् नीरवो यैर् नायं करकुण्डिकोदरलघुर् दृष्टो मुनेर् अञ्जलौ ३३.४० ॥१०५८॥
अभिनन्दस्य

भेकैः कोठरशायिभिर् मृतम् इव क्ष्मान्तर्गतं कच्छपैः पाठीनैः पृथुपङ्कपीठलुठनाद् अस्मिन् मुहुर् मूर्छितम् ।
तस्मिन्न् एव सरस्य् अकालजलदेनागत्य तच्चेष्टितं येनाकुम्भनिमग्नवन्यकरिणां यूथैः पयः पीयते ३३.४१ ॥१०५९॥
द्वन्दूकस्य

हंहो सिंहकिशोरक त्यजसि चेत् कोपं वदामस् तदा हत्वैनं करिणां सहस्रम् अखिलं किं लब्धम् आयुष्मता ।
एवं कर्तुम् अहं समर्थ इति चेद् धिङ् मूर्ख किं सर्वतो नालं प्लावयितुं जगज् जलन्हिधिर् धैर्यं यद् आलम्बते ३३.४२ ॥१०६०॥

सत्यं पिप्पल पादपोत्तम घनच्छायोन्नतेन त्वया सन्मार्गो ऽयम् अलंकृतः किम् अपरं त्वं मूर्तिभेदो हरेः ।
किं चान्यत् फलभोगहृष्टमुखरास् त्वाम् आश्रिताः पत्रिणो यत् पुंस्कोकिलकूजितं विदधते तन् नानुरूपं परम् ३३.४३ ॥१०६१॥

न्यग्रोधे फलशालिनि स्फुटरसं किंचित् फलं पच्यते । बीजान्य् अङ्कुरगोचराणि कतिचित् सिध्यन्ति तस्मिन्न् अपि ।
एकस् तेष्व् अपि कश्चिद् अङ्कुरवरो बध्नाति ताम् उन्नतिं याम् अध्वन्यजनः स्वमातरम् इव क्लान्तच्छिदे धावति ३३.४४ ॥१०६२॥
शालिकस्य

एतस्मिन् कुसुमे स्वभावमहति प्रायो महीयः फलं रम्यं स्वादु सुगन्धि शीतलम् अलं प्राप्तव्यम् इत्य् आशया ।
शाल्मल्याः परिपाककालकलनाबोधेन कीरः स्थितो यावत् तत्पुटसंधिनिर्गतपतत्तूलं फलात् पश्यति ३३.४५ ॥१०६३॥

माधुर्याद् अतिशैत्यतः शुचितया संतापशान्त्या द्वयोः स्थाने मैत्र्यम् इदं पयः पय इति क्षीरस्य नीरस्य च ।
तत्राप्य् अर्णसि वर्णना स्फुरति मे यत्संगतौ वर्धते दुग्धं येन पुरैव चास्य सुहृदः क्वाथे स्वयं क्षीयते ३३.४६ ॥१०६४॥

दारैः क्रीडितम् उन्मदैः सुरगुरोस् तेनैव नैवामुना भग्नं भूरि सुरासुरव्यतिकरे तेनैव नैवामुना ।
नैवायं स इमं नृजः स इव वा नैवैष दोषाकरः को ऽयं भोः शशिनीव लोचनवताम् अर्के कलङ्कः समः ३३.४७ ॥१०६५॥
मधुकूटस्य

आयान्ति यान्ति सततं नीरं शिशिरं खरं न गणयन्ति ।
विद्मो न हन्त दिवसाः कस्य किम् एते करिष्यन्ति ३३.४८ ॥१०६६॥

उपालभ्यो नायं सकलभुवनाश्चर्यमहिमा हरेर् नाभीपद्मः प्रभवति हि सर्वत्र नियतिः ।
यद् अत्रैव ब्रह्मा पिबति निजम् आयुर् मधु पुनर् विलुम्पन्ति स्वेदाधिकम् अमृतहृद्यं मधुलिहः ३३.४९ ॥१०६७॥

यदा हत्वा कृत्स्नां तिमिरपटलीं जातमहिमा जगन्नेत्रं मित्रः प्रभवति गतो ऽसाव् अवसरः ।
इदानीम् अस्ताद्रिं श्रयति गलितालोकविभवः पिशाचा वल्गन्तु स्थगयतु तमिस्रं च ककुभः ३३.५० ॥१०६८॥
कुशलनाथस्य

उपाध्वं तत्पान्थाः पुनर् अपि सरो मार्गतिलकं यद् आसाद्य स्वच्छं विलसथ विनीतक्लमभराः ।
इतस् तु क्षाराब्धेर् जरठमकरक्षुण्णपयसो निवृत्तिः कल्याणी न पुनर् अवतारः कथम् अपि ३३.५१ ॥१०६९॥
यंप्याकस्य

सलीलं हंसानां पिबति निवहो यत्र विमलं जलं तस्मिन् मोहात् सरसि रुचिरे चातकयुवा ।
स्वभावाद् गर्वाद् वा न पिबति पयस् तस्य शकुनेः किम् एतेनोच्चैस् त्वं भवति लघिमा वापि सरसः ३३.५२ ॥१०७०॥

प्रसीर प्रारम्भाद् विरम विनयेथाः क्रुधम् इमां हरे जीमूतानां ध्वनिर् अयम् उदीर्णो न करिणाम् ।
असंज्ञाः खल्व् एते जलशिखरमरुद्धूमनिचयाः प्रकृत्या गर्जन्ति त्वयि तु भुवनं निर्मदम् इदम् ३३.५३ ॥१०७१॥
अमरसिंहस्य

अकस्माद् उन्मत्त प्रहरसि किम् अध्वक्षितिरुहं ह्रदं हस्ताघातैर् विदलसि किम् उत्फुल्लनलिनम् ।
तदा जानीमस् ते करिवर बलोद्गारम् असमं सटां सुप्तस्यापि स्पृशसि यदि पञ्चाननशिशोः ३३.५४ ॥१०७२॥

समुद्रेणान्तःस्थतटभुवि तरङ्गैर् अकरुणैः समुत्क्षिप्तो ऽस्मीति त्वम् इह परितापं त्यज मणे ।
अवश्यं को ऽपि त्वद्गुणपरिचयाकृष्टहृदयो नरेन्द्रस् त्वां कुर्यान् मुकुटमकरीचुम्बितरुचिम् ३३.५५ ॥१०७३॥

अशोके शोकार्तः किम् असि बकुले ऽप्य् आकुलमना निरानन्दः कुन्दे सह च सहकारैर् न रमसे ।
कुसुम्भे विश्रम्भं यद् इह भजसे कण्टकशतैर् असंदिग्धं दग्धभ्रमर भवितासि क्षतवपुः ३३.५६ ॥१०७४॥

पातः पूष्णो भवति महते नैव खेदाय यस्मात् कालेनास्तं क इह न गता यान्ति यास्यन्ति चान्ये ।
एतावत् तु व्यथयति यदालोकबाह्यैस् तमोभिस् तस्मिन्न् एव प्रकृतिमहति व्योम्नि लब्धो ऽवकाशः ३३.५७ ॥१०७५॥

कश्चित् कष्टं किरति करकाजालम् एको ऽतिमात्रं गर्जत्य् एव क्षिपति विषमं वैद्युतं वह्निम् अन्यः ।
सूते वातं जवनम् अपरस् तेन जानीहि तावत् किं व्यादत्से विहग वदनं तत्र तत्राम्बुवाहे ३३.५८ ॥१०७६॥

मा संचैषीः फलसमुदयं मा च पत्रैः पिधास् त्वं रोधःशाखिन् वितर तद् इदं दानम् एवानुकूलम् ।
नूनं प्रावृत्समयकलुषैर् ऊर्मिभिस् तालतुङ्गैर् अद्य श्वो वा सरिद् अकरुणा त्वां श्रिया पातयित्री ३३.५९ ॥१०७७॥

आमोदैस् ते दिशि दिशि गतैर् दूरम् आकृष्यमाणाः साक्षाल् लक्ष्म्या तव मलयज द्रष्टुम् अभ्यागताः स्मः ।
किं पश्यामः सुभग भवतः क्रीडति क्रोड एव व्याडस् तुभ्यं भवतु कुशलं मुञ्च नः साधु यामः ३३.६० ॥१०७८॥

अणुर् अपि ननु नैव क्रोडभूषास्य काचित् परिभजसि यद् एतत् तद्विभूतिस् तथैव ।
इह सरसि मनोज्ञे संततं पातुम् अम्भः श्रमपरिभवमग्नाः के न मग्नाः करीन्द्राः ३३.६१ ॥१०७९॥
श्रीधर्मकरस्य

नभसि निरवलम्बे सीदता दीर्घकालं त्वदभिमुखनिसृष्टोत्तानचञ्चपुटेन ।
जलधर जलधारा दूरतस् तावद् आस्तां ध्वनिर् अपि मधुरस् ते न श्रुतश् चातकेन ३३.६२ ॥१०८०॥

श्रमपरिगतैर् विस्तीर्णश्रीर् असीति पयः परं कतिपयम् अपि त्वत्तो ऽस्माभिः समुद्र समीहितम् ।
किम् असि नितराम् उत्क्षुब्धोर्मिः प्रसीद नमो ऽस्तु ते दिशि दिशि शिवाः सन्त्य् अस्माकं शतं कमलाकराः ३३.६३ ॥१०८१॥
अचलस्यैतौ

ककुभि ककुभि भ्रान्त्वा भ्रान्त्वा विलोक्य विलोकितं मलयजसमो दृष्टो ऽस्माभिर् न को ऽपि महीरुहः ।
उपचितरसो दाहे च्छेदे शिलातलघर्षणे ऽप्य् अधिकम् अधिकं यत् सौरभ्यं तनोति मनोहरम् ३३.६४ ॥१०८२॥
तरणिनन्दिनः

अभिपतति घनं शृणोति गर्जाः सहति शिलाः सहते तडित्तरङ्गान् ।
विधुवति गरुतं रुतं विधत्ते जलपृषते कियते ऽपि चातको ऽयम् ३३.६५ ॥१०८३॥
अचलस्य

बद्धो ऽसि विद्धि तावन् मधुरसन व्यसनम् ईदृग् एतद् इति ।
अनवहितकमलमीलन मधुकर किं विफलम् उत्फलसि ३३.६६ ॥१०८४॥
तस्यैव

हृत्वापि वसुसर्वस्वम् अमी ते जलदाः सखि ।
मित्राप्य् अपकुर्वन्ति विप्रियाणां तु का कथा ३३.६७ ॥१०८५॥

श्रीफलेनामुनैवायं कुरुते किं न वानरः ।
हसत्य् उल्लसति प्रेङ्खत्य् अधस्ताद् ईक्षते जनम् ३३.६८ ॥१०८६॥
तरणिनन्दिनः

अन्यो ऽपि चन्दनतरोर् महनीयमूर्तेः सेकार्थम् उत्सहति तद्गुणबद्धतृष्णः ।
शाखोटकस्य पुनर् अस्य महाशयो ऽयम् अम्भोद एव शरणं यदि निर्गुणस्य ३३.६९ ॥१०८७॥

त्वं गर्ज नाम विसृजाम्बुद नाम्बु नाम विद्युल्लताभिर् अभितर्जय नाम भूयः ।
प्राचीनकर्मपरतन्त्रनिजप्रवृत्तेर् एतस्य पश्य विहगस्य गतिस् त्वम् एव ३३.७० ॥१०८८॥

आमन्थिनीकलश एष सदुग्धसिन्धुर् वेत्रं च वासुकिर् अयं गिरिर् एष मन्थः ।
सम्प्रत्य् उपोढमदमन्थरबाहुदण्ड- कण्डूयनावसर एव सुरासुराणाम् ३३.७१ ॥१०८९॥
भट्टगणपतेः

व्याकुर्महे बहु किम् अस्य तरोः सदैव नैसर्गिको ऽयम् उपकाररसः परेषु ।
उन्मूलितो ऽपि मरुता बत वारिदुर्ग- मार्गे यद् अत्र जनसंक्रमताम् उपेतः ३३.७२ ॥१०९०॥

विस्रं वपुः परवधप्रवणं च कर्म तिर्यक्तयैव कथितः सदसद्विवेकः ।
इत्थं न किंचिद् अपि चारु मृगाधिपस्य तेजस् तु तत् किम् अपि येन जगद् वराकम् ३३.७३ ॥१०९१॥

कस्य तृषं न क्षपयसि न पयसि तव कथय के निमज्जन्ति ।
यदि सन्मार्गजलाशय नक्रो न क्रोडम् अधिवसति ३३.७४ ॥१०९२॥
वीरस्य

न स्फूर्जति न च गर्जति न च करकाः किरति सृजति न च तडितः ।
न च विनिमुञ्चति वात्यां वर्षति निभृतं महामेघः ३३.७५ ॥१०९३॥

न भवतु कथं कदम्बः प्रतिप्रतीकप्ररूढघनपुलकः ।
विश्वं धिनोति जलदः प्रत्युपकारस्पृहारहितः ३३.७६ ॥१०९४॥
अचलसिंहस्य

करं प्रसार्य सूर्येण दक्षिणाशावलम्बिना ।
न केवलम् अनेनात्मा दिवसो ऽपि लघूकृतः ३३.७७ ॥१०९५॥

न शक्यं स्नेहपात्राणां वितानं च विरूक्षणम् ।
दह्यमानान्य् अपि स्नेह- व्यक्तिं कृत्वा स्फुटन्ति यत् ३३.७८ ॥१०९६॥

नालम्बनाय धरणिर् न तृषार्तिशान्त्यै सप्तापि वारिनिधयो न धनाय मेरुः ।
पूर्वार्जिताशुभवशीकृतपौरुषस्य कल्पद्रुमो ऽपि न समीहितम् आतनोति ३३.७९ ॥१०९७॥

आश्वास्य पर्वतकुलं तपनोष्मतप्तं निर्वाप्य दावविधुराणि च काननानि ।
नानानदीनदशतानि च पूरयित्वा रिक्तो ऽसि यज् जलद सैव तवोन्नतश्रीः ३३.८० ॥१०९८॥

ये पूर्वं परिपालिताः फलदलच्छायादिभिः प्राणिनो विश्रामद्रुम कथ्यतां तव विपत्काले क्व ते साम्प्रतम् ।
एताः संनिधिमात्रकल्पितपुरस्कारास् तु धन्यास् त्वचो यासां छेदनम् अन्तरेण पतितो नायं कुठारस् त्वयि ३३.८१ ॥१०९९॥
वित्तोकस्य

दूरं यदि क्षिपसि भीमजवैर् मरुद्भिः संचूर्णयस्य् अपि दृढं यदि वा शिलाभिः ।
सौदामिनीभिर् असकृद् यदि हंसि चक्षुर् नान्या गतिस् तद् अपि वारिद चातकस्य ३३.८२ ॥११००॥

यस्योदये बहुमनोरथमन्थरेण संचिन्तितं किम् अपि चेतसि चातकेन ।
हा कष्टम् इष्टफलदानविधानहेतोर् अम्भोधरात् पतति सम्प्रति वज्रघातः ३३.८३ ॥११०१॥
लडहचन्द्रस्य

देवे कालवशं गते सवितरि प्राप्यान्तरासंगतिं हन्त ध्वान्त किम् एधसे दिशि दिशि व्योम्नः प्रतिस्पर्धया ।
तस्यैवास्तम् उपेयुषः करशतान्य् आदाय विध्वंसयन्न् एष त्वां कलितः कलाभिर् उदयत्य् अग्रे शशी पार्वणः ३३.८४ ॥११०२॥

धन्यस् त्वं सहकार सम्प्रति फलैः काकाञ् शुकान् पूरयन् पूर्वं तु त्वयि मुक्तमञ्जरिभरोन्निद्रे य इन्दिन्दिरः ।
अक्रीडन् निमिषं स नैति फलिनं यत् त्वां विकाशैकमुत् तद्धर्मो ऽस्य फलाशया परिचयः कल्पद्रुमे ऽप्य् अस्ति किम् ३३.८५ ॥११०३॥

यः पूर्वस्फुटदस्थिसम्पुटमुखे दृष्टः प्रवालाङ्कुरः प्रायः स द्विदलादिकक्रमवशाद् आरब्धशाखासनः ।
स्निग्धं पल्लवितो घनं मुकुलितः स्फारच्छटं पुष्पितः सोत्कर्षं फलितो भृशं च विनतः को ऽप्य् एष चूतद्रुमः ३३.८६ ॥११०४॥

जायन्ते बहवो ऽत्र कच्छपकुले किं तु क्वचित् कच्छपी नैकाप्य् एकम् असूत नापि च पुनः सूते न वा सोष्यते ।
आकल्पं धरणीभरोद्वहनतः संकोचखिन्नात्मनो यः कूर्मस्य दिनानि नाम कतिचिद् विश्रामदानक्षमः ३३.८७ ॥११०५॥
हनूमतः

भवकाष्ठमयी नाम नौके हृदयवत्य् असि ।
परकीयैर् अपरथा कथम् आकृष्यसे गुणैः ३३.८८ ॥११०६॥

भगवति यामिनि वन्दे त्वयि भुवि दृष्टः पतिव्रताधर्मः ।
गतवति रजनीनाथे कज्जलमलिनं वपुर् वहसि ३३.८९ ॥११०७॥

धिग् एतद् गाम्भीर्यं धिग् अमृतमयत्वं च जलधेर् धिग् एतां द्राघीयः प्रचलतरकल्लोलभुजताम् ।
यद् एतस्यैवाग्रे कवलिततनुर् दावदहनैर् न तीरारण्यानी सलिलचुकुलेनाप्य् उपकृता ३३.९० ॥११०८॥
कणिकाकारस्य

अम्भोनिधेर् अनवगीतगुणैकराशेर् उच्चैःश्रवप्रभृतिषु प्रसभं हृतेषु ।
आश्वासनं यद् अवकृष्टम् अभून् महर्षे तोयं त्वया तद् अपि निष्करुणेन पीतम् ३३.९१ ॥११०९॥
वनारोहस्य

कतिपयदिवसस्थायी पूरो दूरोन्नतो ऽपि भविता ते ।
तटिनि तटद्रुमपातनपातकम् एकं चिरस्थायि ३३.९२ ॥१११०॥

प्रशान्ताः कल्लोलाः स्तिमितमसृणं वारि विमलं विनीतो ऽयं वेशः शमम् इव नदीनां कथयति ।
तथाप्य् आसां तैस् तैस् तरुभिर् अभितस् तीरपतितैः स एवाग्रे बुद्धौ परिणमति रुद्धो ऽप्य् अविनयः ३३.९३ ॥११११॥

सततं या मध्यस्था प्रथयति यष्टिः प्रतिष्ठितासीति ।
पुष्करिणि किम् इदम् उचितं तां चेदानीम् अधो नयसि ३३.९४ ॥१११२॥
कुशलनाथस्य

कृतम् इदम् असाधु हरिणैः शिरसि तरूणां दवानले ज्वलति ।
आजन्म केलिभवनं यद् भीतैर् उज्झितं विपिनम् ३३.९५ ॥१११३॥
खदिरस्य

विध्वस्ता मृगपक्षिणो विधुरतां नीताः स्थलीदेवता धूमैर् अन्तरिताः स्वभावमलिनैर् आशा मही तापिता ।
भस्मीकृत्य सपुष्पपल्लवदलांस् तांस् तान् महापादपान् दुर्वृत्तेन दवानलेन विहितं वल्मीकशेषं वनम् ३३.९६ ॥१११४॥

न्तरिताः

कर्णाहतिव्यतिकरं करिणां विपक्ष- दानं व्यवस्यति मधुव्रत एष तिक्तम् ।
स्मर्तव्यताम् उपगतेषु सरोरुहेषु धिग् जीवितव्यसनम् अस्य मलीमसस्य ३३.९७ ॥१११५॥

चित्रं तद् एव महद् अश्मसु तापनेषु यन् नोद्गिरन्त्य् अनलम् इन्दुकराभिमृष्टाः ।
सम्भाव्यते ऽपि किम् इदं नु यथेन्दुकान्तास् ते पावनं च शिशिरं च रसं सृजन्ति ३३.९८ ॥१११६॥

दाहच्छेदनिकाषैर् अतिपरिशुद्धस्य ते वृथा गरिमा ।
यद् असि तुलाम् अधिरूढं काञ्चन गुञ्जाफलैः सार्धम् ३३.९९ ॥१११७॥
सुरभेः

सिन्धोर् उच्चैः पवनचलनाद् उत्सलद्भिस् तरङ्गैः कूलं नीतो हतविधिवशाद् दक्षिणावर्तशङ्खः ।
दग्धः किं वा न भवति मसी चेति संदेहनीभिः शम्बूकाभिः सह परिचितो नीयते पामरीभिः ३३.१०० ॥१११८॥
सुचरितस्य

छिद्रं मणेर् गुणार्थं नायकपदहेतुर् अस्य तारल्यम् ।
कथम् अन्यथेश्वराणां विलुठति हृदये च मौलौ च ३३.१०१ ॥१११९॥

परिणतिसुकुमार स्वादुमाकन्द निन्दां कथम् इव तव भृष्टो राजकीरः करोतु ।
अनवधिकठिनत्वं नारिकेरस्य यस्मिन् वशिकहृदयवृत्तेर् लुप्तसारश्रियश् च ३३.१०२ ॥११२०॥

किंपाक पाके बहिर् एव रक्त तिक्तासितान्तर् दृशि कान्तिम् एषि ।
एतावता काकम् अपास्य कस्य हृत्प्रीतिभित्तिस् त्वम् इदं न जाने ३३.१०३ ॥११२१॥
बुद्धाकरगुप्तस्य

विगर्जाम् उन्मुञ्च त्यज तरलताम् अर्णव मनाग् अहंकारः को ऽयं कतिपयमणिग्रावगुडकैः ।
दृशं मेरौ दद्याः स हि मणिमयप्रस्थमहितो महामौनः स्थैर्याद् अथ भुवनम् एव स्थिरयति ३३.१०४ ॥११२२॥

आज्ञाम् एव मुनेर् निधाय शिरसा विन्ध्याचल स्थीयताम् अत्युच्चैः पदम् इच्छता पुनर् इयं नो लङ्घनीया त्वया ।
मैनाकादिमहीध्रलब्धवसतिं यः पीतवान् अम्बुधिं तस्य त्वां गिलतः कपोलमिलनक्लेशो ऽपि किं जायते ३३.१०५ ॥११२३॥

अभ्युद्यत्कवलग्रहप्रणयिनस् ते शल्लकीपल्लवास् तच् चास्फालसहं सरः क्षितिभृताम् इत्य् अस्ति को निह्नुते ।
दन्तस्तम्भनिषण्णनिःसहकरः श्वासैर् अतिप्रांशुभिर् येनायं विरही तु वारणपतिः स्वामिन् स विन्ध्यो भवान् ३३.१०६ ॥११२४॥

इत्य् अन्यापदेशव्रज्या

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:05.4270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Gas Cutter

  • गॅस कटर 
RANDOM WORD

Did you know?

आषाढी एकादशीला "देवशयनी एकादशी" का म्हणतात?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.