TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः|
अर्थान्तरन्यासव्रज्या

सुभाषितरत्नकोशः - अर्थान्तरन्यासव्रज्या

विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे.


अर्थान्तरन्यासव्रज्या
कालिन्द्या दलितेन्द्रनीलशकलश्यामाम्भसो ऽन्तर्जले मग्नस्याञ्जनपुञ्जसंचयनिभस्याहेः कुतो ऽन्वेषणा ।
ताराभाः फणचक्रवालमणयो न स्युर् यदि द्योतिनो यैर् एवोन्नतिम् आप्नुवन्ति गुणिनस् तैर् एव यान्त्य् आपदम् ४०.१ ॥१३३३॥

भग्नाशस्य करण्डपिण्डिततनोर् म्लानेन्द्रियस्य क्षुधा कृत्वाखुर् विवरं स्वयं निपतितो नक्तं मुखे भोगिनः ।
तृप्तस् तत्पिशितेन सत्वरम् असौ तेनैव यातः पथा स्वस्थास् तिष्ठत दैवम् एव जगतः शान्तौ क्षये चाकुलम् ४०.२ ॥१३३४॥

यस्याः कृते नृपतयस् तृणवत् त्यजन्ति प्राणान् प्रियान् अपि परस्परबद्धवैराः ।
तेषाम् असृक् पिबति सैव मही हतानां श्रीः प्रायशो विकृतिम् एति बहूपभुक्ता ४०.३ ॥१३३५॥

रथस्यैकं चक्रं भुजगयमिताः सप्त तुरगा निरालम्बो मार्गश् चरणरहितः सारथिर् अपि ।
रविर् यात्य् एवान्तं प्रतिदिनम् अपारस्य नभसः क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे ४०.४ ॥१३३६॥
वागीश्वरस्य

पौलस्त्यः कथम् अन्यदारहरणे दोषं न विज्ञातवान् काकुत्स्थेन कथं न हेमहरिणस्यासम्भवो लक्षितः ।
अक्षाणां च युधिष्ठिरेण महता ज्ञातो न दोषः कथं प्रत्यासन्नविपत्तिमूढमनसां प्रायो मतिः क्षीयते ४०.५ ॥१३३७॥

अकार्ये तथ्यो वा भवति वितथः कामम् अथवा तथाप्य् उच्चैर् धाम्नां हरति महिमानं जनरवः ।
तुलोत्तीर्णस्यापि प्रकटनिहताशेषतमसो रवेस् तादृक् तेजो न हि भवति कन्यां गत इति ४०.६ ॥१३३८॥

कृतो यद् अह्नस् तनिमा हिमागमे लघीयसी यच् च निदाघशर्वरी ।
अनेन दृष्टान्तयुगेन गम्यते सदर्थसंकोचसमुद्यतो विधिः ४०.७ ॥१३३९॥

पीताम्बराय तनयां प्रददौ पयोधिस् तत्कालकूटगरलं च दिगम्बराय ।
तत्रानयोर् वदत कस्य गुणातिरेकः प्रायः परिच्छदकृतादर एव लोकः ४०.८ ॥१३४०॥

किं जन्मना जगति कस्यचिद् ईक्षितेन शक्त्यैव याति निजया पुरुषः प्रतिष्ठाम् ।
शक्ता हि कूपम् अपि शोषयितुं न कुम्भाः कुम्भोद्भवेन पुनर् अम्बुधिर् एव पीतः ४०.९ ॥१३४१॥

पुंसः स्वरूपविनिरूपणम् एव कार्यं तज्जन्मभूमिगुणदोषकथा वृथैव ।
कः कालकूटम् अभिनन्दति सागरोत्थं को वारविन्दम् अभिनिन्दति पङ्कजातम् ४०.१० ॥१३४२॥

खल्वाटो दिवसेश्वरस्य किरणैः संतापितो मूर्धनि छायाम् आतपवैरिणीम् अनुसरन् बिल्वस्य मूलं गतः ।
तत्राप्य् आशु कदाचिद् एव पतता बिल्वेन भग्नं शिरः प्रायो गच्छति यत्र भाग्यरहितस् तत्रापदां भाजनम् ४०.११ ॥१३४३॥

अलंकारः शङ्काकरनरकपालः परिकरः प्रशीर्णाङ्गो भृङ्गी वसु च वृष एको बहुवयाः ।
अवस्थेयं स्थाणोर् अपि भवति यत्रामरगुरोर् विधौ वक्रे मूर्ध्नि स्थितवति वयं के पुनर् अमी ४०.१२ ॥१३४४॥

न सम्बन्दोपाधिं दधत इह दाक्षिण्यनिधयः प्रहृष्टप्रेमाणां स हि सहज एषाम् उदयते ।
क एते सम्बन्धान् मलयमरुतश् चूततरवो यद् एतान् आलभ्य प्रतिपरुरुदानं जनयति ४०.१३ ॥१३४५॥

लोकोत्तरं चरितम् अर्पयति प्रतिष्ठां पुंसः कुलं न हि निमित्तम् उदात्ततायाः ।
वातापितापनमुनेः कलशात् प्रसूतिर् लीलायितं पुनर् अमुष्यसमुद्रपानम् ४०.१४ ॥१३४६॥

स्थलीनां दग्धानाम् उपरि मृगतृष्णानुसरणात् तृषार्तः शारङ्गो विरमति न खिन्ने ऽपि वपुषि ।
अजानानस् तत्त्वं न स मृगयते ऽन्यां च सरसीम् अभूमौ प्रत्याशा न हि फलति विघ्नं च कुरुते ४०.१५ ॥१३४७॥

किं कूर्मस्य भरव्यथा न वपुषि क्ष्मां न क्षिपत्य् एष यत् किं वा नास्ति परिश्रमो दिनकरस्यास्ते न यन् निश्चलः ।
किं त्व् अङ्गीकृतम् उत्सृजन् कृपणवच् छ्लाघ्यो जनो लज्जते निर्व्यूढिः प्रतिपन्नवस्तुषु सताम् एकं बताहो व्रतम् ४०.१६ ॥१३४८॥

स्वच्छाशयो भवति को ऽपि जनः प्रकृत्या सङ्गः सताम् अभिजनश् च न हेतुर् अत्र ।
दुग्धाब्धिलब्धजननो हरकन्धरास्थः स्वां कालतां त्यजति जातु न कालकूटः ४०.१७ ॥१३४९॥

वासश् चर्म विभूषणं शवशिरो भिक्षाणतेनाशनं गौर् एकः स च लाङ्गले ऽप्य् अकुशलस् तन्मात्रसारं धनम् ।
शर्वस्येत्य् अवगम्य याति विमुखी रत्नालयं जाह्वनी कष्टं दुर्गतिकस्य जीवितम् अहो दारैर् अपि त्यज्यते ४०.१८ ॥१३५०॥

कैवर्तकर्कशकरग्रहणच्युतो ऽपि जाले पुनर् निपतितः शफरो वराकः ।
दैवात् ततो ऽपि गलितो गिलितो बकेन वामे विधौ वद कथं व्यसनस्य शान्तिः ४०.१९ ॥१३५१॥

खनति न खुरैः क्षोणीपृष्ठं न नर्दति सादरं प्रकृतिपुरुषं दृष्ट्वैवाग्रे न कुप्यति गाम् अपि ।
वहति तु धुरं धुर्यो धैर्याद् अनुद्धतकन्धरो जगति कृतिनः कार्यौदार्यात् परान् अतिशेरते ४०.२० ॥१३५२॥

शिरः शार्वं स्वर्गात् पशुपतिशिरस्तः क्षितिभृतं महीध्राद् उत्तुङ्गाद् अवनितलम् अस्माच् च जलधिम् ।
अधो ऽधो गङ्गावद् वयम् उपगता दूरम् अथवा पदभ्रंशेतानां भवति विनिपातः शतमुखः ४०.२१ ॥१३५३॥

क्वापि कस्य च कुतो ऽपि कारणाच् चित्तवृत्तिर् इह किं गुणागुणैः ।
उन्नतं यद् अवधीर्य भूधरं नीचम् अब्धिम् अभियाति जाह्नवी ४०.२२ ॥१३५४॥

सरसि बहुशस् ताराछायां दशन् परिवञ्चितः कुमुदविटपान्वेषी हंसो निशासु विचक्षणः ।
न दशति पुनस् ताराशङ्की दिवापि सितोत्पलं कुहकचकितो लोकः सत्ये ऽप्य् अपायम् अवेक्षते ४०.२३ ॥१३५५॥

अस्थानाभिनिवेशी प्रायो जड एव भवति नो विद्वान् ।
बालाद् अन्यः को ऽम्भसि जिघृक्षतीन्दोः स्फुरद्बिम्बम् ४०.२४ ॥१३५६॥

निर्गुणम् अप्य् अनुरक्तं प्रायो न समाश्रितं जहति सन्तः ।
सहवृद्धिक्षयभाजं वहति शशाङ्कः कलङ्कम् अपि ४०.२५ ॥१३५७॥

अविकारिणम् अपि सज्जनम् अनिशम् अनार्यः प्रबाधते ऽत्यर्थम् ।
कमलिन्या किम् अपकृतं हिमस्य यस् तां सदा दहति ४०.२६ ॥१३५८॥

भयं यद् धनुरीश्वरस्य शिशिना यज् जामदग्न्यो हतस् त्यक्ता येन गुरोर् गिरा वसुमती बद्धो यद् अम्भोनिधिः ।
एकैकं दशकन्धरक्षयकृतो रामस्य किं वर्ण्यते दैवं वर्णय येन सो ऽपि सहसा नीतः कथाशेषताम् ४०.२७ ॥१३५९॥

शशिनम् उदितं लेखामात्रं नमन्ति न चेतरं गगनसरितं धत्ते मूर्ध्ना हरो न नगात्मजाम् ।
त्रिभुवनपतिर् लक्ष्मीं त्यक्त्वा हरिः प्रियगोपिकः परिचितगुणद्वेषी लोको नवं नवम् इच्छति ४०.२८ ॥१३६०॥

उपशमफलाद् विद्याबीजात् फलं धनम् इच्छतां भवति विफलः प्रारम्भो यत् तद् अत्र किम् अद्भुतम् ।
नियतविषयाः सर्वे भावा न यान्ति हि विक्रियां जनयितुम् अलं शालेर् बीजं न जातु जवाङ्कुरम् ४०.२९ ॥१३६१॥

तृषार्तैः शारङ्गैः प्रति जलधरं भूरि विरुतं घनैर् मुक्ता धाराः सपदि पयसस् तान् प्रति मुहुः ।
खगानां के मेघाः क इव विहगा वा जलमुचाम् अयाच्यो नार्तानाम् अनुपकरणीयो न महताम् ४०.३० ॥१३६२॥
अमरसिंहस्य

पयस् तेजो वायुर् गगनम् अवनिर् विश्वम् अपि वा स्वयं विष्णुस् तस्य त्रिदशजयिनः किं न सुकरम् ।
छलान् नीतो ऽधस्ताद् बलिर् अणुकरूपेण तद् अपि स्वभावाच् चक्री यः प्रगुणम् अपि चक्रेण सृजति ४०.३१ ॥१३६३॥
मुष्टिकरगुहस्य

किं नोज्ज्वलः किम् उ कलाः सकला न धत्ते दत्ते न किं नयनयोर् मुदम् उन्मयूखः ।
राहोस् तु चक्रपतितो ऽस्तमितो ऽयम् इन्दुः सत्यं सताम् अहृदयेषु गुणास् तृणानि ४०.३२ ॥१३६४॥
अतुलस्य

लूनास् तिलास् तदनु शोषम् उपागतास् ते शोषाद् धि शुद्धिम् अथ तापम् उपेतवन्तः ।
तापात् कठोरतरयन्त्रनिपीडनानि स्नेहो निमित्तम् इति दुःखपरंपरायाः ४०.३३ ॥१३६५॥

दुग्ध मुग्धम् अस्ति यस् त्वया धृतः स्नेह एष विपदेककारणम् ।
यत्कृते त्वम् अपवासितं पुनश् छिन्नम् उन्मथितम् अग्निसाकृतम् ४०.३४ ॥१३६६॥

मूर्धेन्दुः परमेश्वरेण विधृतो वक्रो जडात्मा क्षयी कर्णान्ते च परापकारचतुरो न्यस्तो द्विजिह्वाधिपः ।
नन्दी द्वारि बहिःकृतो गुणनिधिः कष्टं किम् अत्रोच्यतां पात्रापात्रविचारणास्व् अनिपुणः प्रायो भवेद् ईश्वरः ४०.३५ ॥१३६७॥

काकुत्स्थस्य दशाननो न कृतवान् दारापहारं यदि क्वाम्भोधिः क्व च सेतुबन्धघटना क्वोत्तीर्य लङ्काजयः ।
पार्थस्यापि पराभवं यदि रिपुर् नादात् क्व तादृक् तपो नीयन्ते रिपुभिः समुन्नतिपदं प्रायः परं मानिनः ४०.३६ ॥१३६८॥

शम्बूकाः किल निर्गता जलनिधेस् तीरेषु दावाग्निना दह्यन्ते मणयो वणिक्करतलैर् आयान्ति राज्ञां शिरः ।
स्थानप्रच्युतिर् अल्पकस्य विपदे सन्तस् तु देशान्तरं यान्तो यान्ति सदा समर्पितगुणाः श्लाघ्याः पराम् उन्नतिम् ४०.३७ ॥१३६९॥

य एको लोकानां परमसुहृद् आनन्दजनकः कलाशाली श्रीमान् निधुवनविधौ मङ्गलघटः ।
सुधासूतिः सो ऽयं त्रिपुरहरचूडामणिर् अहो प्रयात्य् अस्तं हन्त प्रकृतिविषमा दैवगतयः ४०.३८ ॥१३७०॥

अपेताः शत्रुभ्यो वयम् इति विषादो ऽयम् अफलः प्रतीकारस् त्व् एषाम् अनिशम् अनुसंधातुम् उचितः ।
जरासंधाद् भग्नः सह हलभृता दानवरिपुर् जघानैनं पश्चान् न किम् अनिलसूनुः प्रियसखः ४०.३९ ॥१३७१॥

चन्द्रः क्षयी प्रकृतिवक्रतनुर् जडात्मा दोषाकारः स्फुरति मित्रविपत्तिकाले ।
मूर्ध्ना तथापि विधृतः परमेश्वरेण नैवाश्रितेषु महतां गुणदोषचिन्ता ४०.४० ॥१३७२॥

शुक्लीकरोति मलिनानि दिगन्तराणि चन्द्रो न शुक्लयति चात्मगतं कलङ्कम् ।
नित्यं यथार्थघटनाहितमानसानां स्वार्थोद्यमो भवति नो महतां कदाचित् ४०.४१ ॥१३७३॥

गृह्णाति युक्तम् इतरच् च जहाति धीमान् एष स्वभावजनितो महतां विवेकः ।
अन्योन्यमिश्रितम् अपि व्यतिरिच्य शुद्धं दुग्धं पिबत्य् उदकम् उज्झति राजहंसः ४०.४२ ॥१३७४॥

प्रायो भवत्य् अनुचितस्थितिदेशभाजः श्रेयः स्वजीवपरिपालनमात्रम् एव ।
अन्तःप्रतप्तमरुसैकतदह्यमान- मूलस्य चम्पकतरोः क विकाशचिन्ता ४०.४३ ॥१३७५॥
विद्यायाः

ग्रहपरिकवलिततनुर् अपि रविर् इह बोधयति पद्मषण्डानि ।
भवति विपद्य् अपि महताम् अङ्गीकृतवस्तुनिर्वाहः ४०.४४ ॥१३७६॥

प्रणत्या बहुलाभो ऽपि न सुखाय मनीषिणः ।
चातकः स्वल्पम् अप्य् अम्बु गृह्णात्य् अनन्तकन्धरः ४०.४५ ॥१३७७॥

कस्योपयोगमात्रेण धनेन रमते मनः ।
पदप्रमाणम् आधारम् आरूढः को न कम्पते ४०.४६ ॥१३७८॥

उपैति क्षाराब्धिं सहति बहुवातव्यतिकरं पुरो नानाभङ्गान् अनुभवति पश्यैष जलदः ।
कथंचिल् लब्धानि प्रवितरति तोयानि जगते गुणं वा दोषं वा गणयति न दानव्यसनिता ४०.४७ ॥१३७९॥
वल्लणस्यैते

सुधाधाम्नः कान्तिं ग्लपयति विलुम्पत्य् उडुगणं किरत्य् उष्णं तेजः कुमुदवनलक्ष्मीः शमयति ।
रविर् जानात्य् एव प्रतिदिवसम् अस्ताद्रिपतनं तथापि प्रत्यग्राभ्युदयतरलः किं न कुरुते ४०.४८ ॥१३८०॥
कविराजस्य

इत्य् अर्थान्तरन्यासव्रज्या ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:05.8330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

निस्ना

  • a  Mere, bare. 
RANDOM WORD

Did you know?

vastudoshavar udakshant ha paryay ahe ka ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site