TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

सूत्रस्थान - भाग ६

चरक संहिता आयुर्वेदासंबंधी एक प्रसिद्ध ग्रन्थ आहे. हा ग्रंथ संस्कृत भाषेत आहे. या ग्रंथाचे उपदेशक अत्रिपुत्र पुनर्वसु, ग्रंथकर्ता अग्निवेश आणि प्रतिसंस्कारक चरक हे होत.

Charaka Sanhita is believed to be the oldest Ayurvedic text on internal medicine.


विविधाशितपीतीय
अथातो विविधाशितपीतीयमध्यायं व्याख्यास्यामः ॥२८.१॥

इति ह स्माह भगवानात्रेयः ॥२८.२॥

आयुर्वेददीपिका


पूर्वाध्याये अन्नं प्राणाः इत्युक्तं तद्येन प्रकारेणान्नं प्राणहेतुर् भवति तदभिधानार्थं विविधाशितपीतीयो ऽभिधीयते ॥१॥

इयम् अप्यर्थपरा संज्ञा ॥२॥


विविधम् अशितं पीतं लीढं खादितं जन्तोर्हितम् अन्तरग्निसंधुक्षितबलेन यथास्वेनोष्मणा सम्यग्विपच्यमानं कालवद् अनवस्थितसर्वधातुपाकम् अनुपहतसर्वधातूष्ममारुतस्रोतः केवलं शरीरमुपचयबलवर्णसुखायुषा योजयति शरीरधातून् ऊर्जयति च ।
धातवो हि धात्वाहाराः प्रकृतिमनुवर्तन्ते ॥२८.३॥

आयुर्वेददीपिका


विविधमित्यादि ॥१॥

विविधमिति अनेनाशितादीनामवान्तरभेदं दर्शयति अशितादिषु यो यः प्राय उपयुज्यते स पूर्वम् उक्तः ॥२॥

जन्तोर् हितम् इति वचनम् अहितस्याशितादेर् बलवर्णादिकर्तृत्वाभावात् ॥३॥

अन्तरग्निना जाठरेण वह्निना संधुक्षितं बलं यस्य तेनान्तरग्निसंधुक्षितबलेन ॥४॥

यथास्वेनोष्मणेति पृथिव्यादिरूपाशितादेयस्य य ऊष्मा पार्थिवाग्न्यादिरूपस्तेन वचनं हि भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनाभसाः ॥५॥

पञ्चाहारगुणान् स्वान् स्वान् पार्थिवादीन् पचन्ति हि इति ॥६॥

सम्यग्विपच्यमानम् इति अशितादि ॥७॥

किंवा यथास्वेनोष्मणेति यस्य रुधिरादेर् य ऊष्मा धात्वग्निरूपस्तेन सम्यग्विपच्यमानमशितादि रसताम् आपन्नं यदा रक्तादिधातून् प्रतिपद्यते तदा रक्ताद्यूष्मणैव पच्यते एवं विपच्यमानमशितादि शरीरमुपचयादिना योजयत्यूर्जयति वर्धयतीति योजना ॥८॥

किंविशिष्टं शरीरम् इत्याह कालवद् इत्यादि ॥९॥

यथा कालो नित्यगत्वेनानवस्थितः तथानवस्थितः अविश्रान्तः सर्वधातूनां पाको यस्मिन् शरीरे तत्तथा एतेन सर्वदा स्वाग्निपाकक्षीयमाणधातोः शरीरस्याशितादिनोपचयादियोजनम् उपपन्नमिति दर्शयति यदि हि पाकक्षीयमाणं शरीरं न स्यात्तदा स्वतः सिद्धे उपचयादौ किमशितादि कुर्याद् इति भावः ॥१०॥

किंवा कालवदित्यशितादिविशेषणं तेन यथोक्तकालकृतम् अशितादीत्यर्थः अकालभोजनस्योपचयाद्यकारकत्वात् ॥११॥

तथा अनवस्थितसर्वधातुपाकमित्येतदपि अशितादिविशेषणं तेन अनवस्थितः सर्वधातुषु पाको यस्याशितादेस्तत्तथा एतेन क्वचिदपि धातौ स्थगितस्याशितादे रसरूपस्य पाकविगमनान् नोपचयादिर् भवतीति दर्शयति ॥१२॥

एतच्च व्याख्यानं नातिसुन्दरम् अस्यार्थस्य अनुपहतेत्यादिशरीरविशेषणेनैव लब्धत्वात् पुनः शरीरविशेषणम् अनुपपन्नम् ॥१३॥

अनुपहतेत्यादि अनुपहतानि सर्वधातूनाम् ऊष्ममारुतस्रोतांसि यस्य तत्तथा यदा हि एको ऽपि धातुपाचकोऽग्निरुपहतः मारुतो वा धातुपोषकरसवाही व्यानरूपः क्वचिद् उपहतो भवति तथा स्रोतो वा धातुपोषकरसवहम् उपहतं स्यात् तदा अशितादिकं धातूनाम् अवर्धकत्वान्नोपचयादिकारकम् इति भावः ॥१४॥

केवलमिति कृत्स्नं शरीरं किंवा केवलमिति अधर्मरहितम् अधर्मयुक्ते हि शरीरे विफलमशितादि भवतीति ॥१५॥

ननु शरीरधातूनां प्रकृतिस्थितानां स्वत एवोपचयाद्यस्ति तत् किमशितादिना क्रियत इत्याह धातवो हीत्यादि ॥१६॥

धातुराहारो येषां ते धात्वाहाराः धातवो रसादयो नित्यं क्षीयमाणा अशितादिजनितधात्वाहारा एव सन्तः परं स्वास्थ्यमनुवर्तन्ते नान्यथेत्यर्थः ॥१७॥


तत्राहारप्रसादाख्यो रसः किट्टं च मलाख्यम् अभिनिर्वर्तते ।
किट्टात् स्वेदपुरीषवातपित्तश्लेष्माणः कर्णाक्षिनासिकास्यलोमकूपप्रजननमलाः केशश्मश्रुलोमनखादयश् चावयवाः पुष्यन्ति ।
पुष्यन्ति त्व् आहाररसाद् रसरुधिरमांसमेदोऽस्थिमज्जशुक्रौजांसि पञ्चेन्द्रियद्रव्याणि धातुप्रसादसंज्ञकानि शरीरसंधिबन्धपिच्छादयश् चावयवाः ।
ते सर्व एव धातवो मलाख्याः प्रसादाख्याश्च रसमलाभ्यां पुष्यन्तः स्वं मानमनुवर्तन्ते यथावयःशरीरम् ।
एवं रसमलौ स्वप्रमाणावस्थिताव् आश्रयस्य समधातोर्धातुसाम्यम् अनुवर्तयतः ।
निमित्ततस्तु क्षीणवृद्धानां प्रसादाख्यानां धातूनां वृद्धिक्षयाभ्याम् आहारमूलाभ्यां रसः साम्यम् उत्पादयत्यारोग्याय किट्टं च मलानामेवमेव ।
स्वमानातिरिक्ताः पुनरुत्सर्गिणः शीतोष्णपर्यायगुणैश् चोपचर्यमाणा मलाः शरीरधातुसाम्यकराः समुपलभ्यन्ते ॥२८.४॥

आयुर्वेददीपिका


यो ऽसौ धातूनामाहारस्तमाह तत्रेत्यादि ॥१॥

तत्रेति अशितादौ ॥२॥

रसः किट्टं चाभिनिवर्तत इत्यन्वयः ॥३॥

आहारप्रसाद इत्याख्या यस्य स तथा प्रसादः सारः ॥४॥

किट्टम् असारभागः ॥५॥

किट्टाद् इति किट्टांशात् तेन अन्नाद्यः किट्टांशस् ततो मूत्रपुरीषे भवतो वायुश्च रसात् पच्यमानान्मलः कफः एवमादि ग्रहण्यध्याये वक्ष्यमाणम् अनुसर्तव्यं वक्ष्यति हि ।
किट्टमन्नस्य विण्मूत्रं रसस्य तु कफो ऽसृजः ।
पित्तं मांसस्य स्वमलो मलः स्वेदस्तु मेदसः ॥६॥

स्यात् किट्टं केशलोमास्थ्नो मज्ज्ञः स्नेहोऽक्षिविट् त्वचाम् ।
इति ॥७॥

आदिग्रहणाद् अक्षिस्नेहादि ग्राह्यम् ॥८॥

यद्यपि च वातोऽनशनाद् अप्युपलभ्यते तथापि रूक्षकिट्टादिभोजनमलांशाद् अप्युत्पद्यत एवेति किट्टाद्वातोत्पत्तिर्युक्तैव न चायं नियमो यन्मलादेवोत्पद्यत इति व्यायामादवगाहादेरपि च वातादिसद्भावात् ॥९॥

प्रजननं लिङ्गम् ॥१०॥

रसपोष्यम् आह पुष्यन्ति त्व् इत्यादि ॥११॥

पञ्चेन्द्रियद्रव्याणीति पृथिव्यादीनि घ्राणादीनीन्द्रियकारणानि ॥१२॥

धातुप्रसादसंज्ञकाणीति अत्यर्थशुद्धेनैव धातुप्रसादेनेन्द्रियाण्यारभ्यन्त इति दर्शयति ॥१३॥

शरीरं बध्नातीति शरीरबन्धः स्नायुसिरादिभिः ॥१४॥

आदिग्रहणाद् आर्तवस्तन्यादिग्रहणम् ॥१५॥

अत्राहाररसाद् रक्तादिपोषणे केचिद् ब्रुवते यत् रसो रक्तरूपतया परिणमति रक्तं च मांसरूपतया एवं मांसादयो ऽप्युत्तरोत्तरधातुरूपतया परिणमन्ति ॥१६॥

अत्रापि च पक्षे केचिद् ब्रुवते क्षीराद् यथा सर्वात्मना दधि भवति तथा कृत्स्नो रसो रक्तं भवति एवं रक्तादयोऽपि मांसादिरूपा भवन्ति ॥१७॥

अन्ये त्व् आहुः केदारीकुल्यान्यायेन रसस्य धातुपोषणं तत्रान्नादुत्पन्नो रसो धातुरूपं रसमधिगम्य कियताप्यंशेन तं रसं वर्धयति अपरश्च रसराशिस्तत्र गतः सन् शोणितगन्धवर्णयुक्तत्वाच्छोणितम् इव भूत्वा कियतापि शोणितसमानेनांशेन धातुरूपं शोणितं पुष्णाति शेषश्च भागो मांसं याति तत्रापि शोणितवद्व्यवस्था तथा मेदःप्रभृतिष्वपीति ॥१८॥

अत एव च मुख्यार्थो ऽयं ग्रन्थो भवति यथा ।
रसाद् रक्तं ततो मांसं मांसान्मेदस्ततोऽस्थि च ।
अस्थ्नो मज्जा ततः शुक्रं शुक्राद्गर्भः प्रसादजः ॥१९॥

इति तथा हारीतेऽप्युक्तं रसः सप्ताहादर्वाक् परिवर्तमानः श्वेतकपोतहरितहारिद्रपद्मकिंशुकालक्तकरसप्रख्यश् चायं यथाक्रमं दिवसपरिवर्ताद् वर्णपरिवर्तम् आपद्यमानः पित्तोष्मोपरागाच्छोणितत्वम् आपद्यते इति तथा सुश्रुते ऽप्युक्तं स खल्वाप्यो रस एकैकस्मिन् धातौ त्रीणि त्रीणि कलासहस्राणि पञ्चदश च कला अवतिष्ठते एवं मासेन रसः शुक्रीभवति इति ॥२०॥

अन्ये त्व् आहुः खलेकपोतन्यायेनायम् अन्नरसः पृथक् पृथग् धातुमार्गे गतः सन् रसादीन् पोषयति न त्व् अस्य धातुपोषको रसभागो धात्वन्तरेण समं सम्बन्धम् अप्यनुभवति रसादिपोषकानि स्रोतांस्युत्तरोत्तरं सूक्ष्ममुखानि दीर्घाणि च तेनैव रसपोषकरसभागो रसमार्गचारित्वाद् रसं पोषयति एवं रसपोषणकालाद् उत्तरकालं रक्तपोषको रसभागो रक्तं पोषयति तथा शोणितपोषणकालाद् उत्तरकालं मांसपोषको रसभागो मांसं पोषयति विदूरसूक्ष्ममार्गचारित्वात् एवं मेदःप्रभृतिपोषणेऽपि ज्ञेयम् ॥२१॥

तेन रसाद् रक्तं ततो मांसम् इत्यादेर् अयम् अर्थो यत्र रसपुष्टिकालाद् उत्तरकालं रक्तं जायते तथा रक्तपुष्टिकालाद् उत्तरकालं मांसं प्रजायते इत्यादि ॥२२॥

एवं सुश्रुतहरीतवचने अपि व्याख्येये ॥२३॥

यच्च रक्तं विबद्धमार्गत्वान् मांसादीन्न प्रपद्यते इति राजयक्ष्मणि वक्ष्यति तद्धृदयचारिशोणिताभिप्रायेण न तु पोषकशोणिताभिप्रायेण ॥२४॥

किंच परिणामपक्षे वृष्यप्रयोगस्य रक्तादिरूपतापत्तिक्रमेणातिचिरेण शुक्रं भवतीति क्षीरादयश्च सद्य एव वृष्या दृश्यन्ते खलेकपोतपक्षे तु वृष्योत्पन्नो रसः प्रभावाच्छीघ्रमेव शुक्रेण सम्बद्धः सन् तत्पुष्टिं करोतीति युक्तं तथा रसदुष्टौ सत्यां परिणामपक्षे तज्जन्मनां शोणितादीनां सर्वेषामेव दुष्टिः स्यात् दुष्टकारणजातत्वात् ॥२५॥

खलेकपोतपक्षे तु यद्धातुपोषको रसभागो दुष्टः स एव दुष्यति न सर्वे तदितरेषामदुष्टकारणत्वात् तथा मेदोवृद्धौ सत्यां भूरिकारणत्वेनास्थ्नापि भूयसा भवितव्यं दृश्यते च भूरिमेदस इतरधातुपरिक्षयः वचनं च मेदस्विनो मेद एवोपचीयते न तथेतरे धातवः इति एवमादि परिणामवादे दूषणम् ॥२६॥

एषु च पक्षेषु सर्वात्मपरिणामवादो विरुद्ध एव येन सर्वात्मपरिणामे त्रिचतुरोपवासेनैव नीरसत्वाच्छरीरस्य मरणं स्यात् मासोपवासे केवलं शुक्रमयं शरीरं स्यात् ॥२७॥

केदारीकुल्यान्यायस् तु तुल्यबल एव खलेकपोतन्यायेन यतो यद् उक्तं वृष्यप्रभावं प्रति तत् केदारीकुल्यापक्षेऽपि प्रभावादेव शीघ्रं रक्तादिधातूनभिगम्य शुक्रं जनयिष्यति वृष्यं यथा खलेकपोतपक्षेऽपि प्रभवादिति ॥२८॥

यत्तु रसदुष्टौ शोणितदूषणं तन्न भवति धातुभूतशोणितांशपोषकस्य रसभागस्यादुष्टत्वात् इति समानं पूर्वेण ॥२९॥

अत्रापि हि पक्षे न सर्वो रसो धातुरूपशोणितताम् आपद्यते किं तर्हि कश्चिदेव शोणितसमानो भागः शेषस्तु शोणितस्थानगतत्वेन किंचिच्छोणितसमानवर्णादित्वाच्च शोणितम् उच्यते अनेन न्यायेन मेदोवृद्धौ सत्यामस्थिवृद्धिर् अपि निरस्ता यतो न मेदसा अस्थि पोष्यते अपि तर्हि मेदःस्थानगतेनैव रसेन मेदोऽनुकारिणा ॥३०॥

एवमनयोः पक्षयोर्महाजनादृतत्वेन तुल्यन्यायत्वेन च नैकमपि निश्चितं बुद्धिविभवान्न पक्षबलाबलम् अत्र न कश्चित् कार्यविरोध इत्युपरम्यते ॥३१॥

नन्वाहाररसादयः पुष्यन्तीति वदता धातुरसादाहाररसोत्पादः पृथक् स्वीक्रियते ततश्च तस्य किं स्थानं किंवा प्रमाणम् इति किमिति नोक्तम् उच्यते न तस्याहारोत्कर्षापकर्षाव् एवंविधौ उत्कर्षापकर्षस्य निश्चितप्रमाणत्वाभावात् स्थानं तु धमन्य एव ॥३२॥

पोषकाहाररसस्य तस्य च पृथग्रसादिधातुभ्यः प्रदेशान्तरग्रहणं न क्रियते रसादिकारणरूपतया रसादिग्रहणेनैव ग्रहणात् ॥३३॥

अत्र यद्यप्योजः सप्तधातुसाररूपं तेन धातुग्रहणेनैव लभ्यते तथापि प्राणधारणकर्तृत्वेन पृथक् पठितं ये तु शुक्रजन्यमोज इच्छन्ति तेषामष्टमो धातुरोजः स्यादिति पक्षे चातिदेशं कृत्वा वक्ष्यति रसादीनां शुक्रान्तानां यत् परं तेजः तत् खल्वोजः इति ॥३४॥

उपपादितपोषणानां धातुमलानां प्रकृत्यनुविधानम् उपसंहरति ते सर्व इत्यादि ॥३५॥

मलाख्या अपि स्वेदमूत्रादयः स्वमानावस्थिता देहधारणाद्धातवो भवन्तीत्युक्तं धातवो मलाख्या इति ॥३६॥

यथावयःशरीरम् इति यस्मिन् वयसि बाल्यादौ यादृशं मानं धातूनां तादृशं पुष्यन्तः तथा यस्मिन् शरीरे प्रकृत्या दीर्घे ह्रस्वे कृशे वा स्थूले वा यादृशं मानं धातूनां तादृशं पुष्यन्त इति योजना ॥३७॥

एवम् इत्यादौ स्वप्रमाणावस्थिताव् इति अनतिरिक्ताव् अन्यूनौ च ॥३८॥

आश्रयस्येति शरीरस्य यथावत्पक्वौ सर्वाश्रयं पश्चाद्धमनीभिः प्रपद्येते सर्वशरीरम् इत्यर्थः ॥३९॥

समधातोर् इति समरसादेः समस्वेदमूत्रादेश् च ॥४०॥

निमित्तत इत्यादि ॥४१॥

निमित्तत इत्यनेनानिमित्ते अरिष्टरूपे क्षयवृद्धी निराकरोति ॥४२॥

वृद्धिक्षयाभ्याम् आहारमूलाभ्याम् इति यथासंख्यं वृद्धक्षीणाहारकृताभ्याम् एतेनाहारविशेषकृतवृद्धिक्षयो रसः साम्यं करोतीत्यर्थः ॥४३॥

धातुसाम्यस्यारोग्यत्वे सिद्धेऽपि यदारोग्यायेति ब्रूते तेन प्राकृतधातूनां क्षयेण वातिवृद्ध्या वा साम्यं निराकरोति अस्य साम्यस्य रोगकर्तृत्वाद् एव ॥४४॥

किट्टं च मलानामेवम् एवेति यथा रसस्तथा किट्टमप्यारोग्याय मलानां साम्यं प्रतिपादितरसक्रमेण करोति ॥४५॥

वृद्धमलानां चिकित्सान्तरम् आह स्वमानेत्यादि ॥४६॥

उत्सर्गो बहिर्निःसरणं संशोधनरूपमेषां शास्त्रोक्तमस्ति उत्सर्गं वा वहन्तीत्युत्सर्गिणः ॥४७॥

वृद्धानां मलानां चिकित्सान्तरम् आह शीतोष्णेत्यादि ॥४८॥

पर्ययः विपर्ययः तेन शीतोष्णविपरीतगुणैर् इत्यर्थः तेन शीतसमुत्थे मले उष्णं तथोष्णसमुत्थे शीतमुपचारो भवति ॥४९॥

आदिशब्दश् चात्र लुप्तनिर्दिष्टः तेन स्निग्धरूक्षादीनामपि विपरीतगुणानां ग्रहणम् ॥५०॥

किंवा पर्ययगुणा द्वंद्वगुणाः स्निग्धरूक्षमृदुतीक्ष्णादयः तैश्च यथायोग्यतयोपचर्यमाणा इति ज्ञेयम् ॥५१॥

एतेन वृद्धमलानां त्रिविधो ऽप्युपक्रमो निदानवर्जनशोधनशमनरूप उक्तो भवति तत्र निदानवर्जनं वृद्धमले मलवृद्धिहेत्वाहारपरित्यागाद् अल्पमलाहारोपयोगाद् वा बोद्धव्यं संशोधनं च उत्सर्गिण इत्यनेनोक्तं शमनं च शीतोष्णेत्यादि ग्रन्थेनोक्तम् ॥५२॥


तेषां तु मलप्रसादाख्यानां धातूनां स्रोतांस्ययनमुखानि ।
तानि यथाविभागेन यथास्वं धातूनापूरयन्ति ।
एवमिदं शरीरमशितपीतलीढखादितप्रभवम् ।
अशितपीतलीढखादितप्रभवाश्चास्मिञ्शरीरे व्याधयो भवन्ति ।
हिताहितोपयोगविशेषास्त्वत्र शुभाशुभविशेषकरा भवन्तीति ॥२८.५॥

आयुर्वेददीपिका


अयनानि च तानि मुखानि चेत्ययनमुखानि अत्र आयान्त्यनेनेत्ययनानि मार्गाणि मुखानि तु यैः प्रविशन्ति एतेन मलानां धातूनां च यदेवायनं तदेव प्रवेशमुखमिति नान्येन प्रवेशो नान्येन च गमनम् इत्युक्तं भवति ॥१॥

रसादीनां यथास्वनाम स्रोतोमुखं चायनं च ॥२॥

किंवा अयनस्य गमनस्य मुखानि मार्गाणि तेन अयनमुखानि गतिमार्गाणीत्यर्थः ॥३॥

तानि च स्रोतांसि मलप्रसादपूरितानि धातून् यथास्वमिति यद्यस्य पोष्यं तच्च तत् पूरयति ॥४॥

यथाविभागेनेति यस्य धातोर्यो विभागः प्रमाणं तेनैव प्रमाणेन पूरयति तादृक्प्रमाणान्येव पुष्यन्ति नाधिकन्यूनानीत्यर्थः ॥५॥

एतच्च प्रकृतिस्थानां कर्म विकृतानां तु न्यूनातिरिक्तधातुकरणम् अस्त्येवेति बोद्धव्यम् ॥६॥

उक्तं चान्यत्र स्रोतसा च यथास्वेन धातुः पुष्यति धातुना इति ॥७॥

उपसंहरत्येवम् इत्यादि ॥८॥

कथमशितादेर्विरुद्धयोः शरीरतदुपघातकरोगयोर् उत्पाद इत्याह हिताहितेत्यादि ॥९॥

हितरूपोऽशितादिविशेषः शुभरूपविशेषकारकः अहितरूपस्त्वशितादिविशेषो ऽशुभरूपविशेषकरो भवति तेन नैकरूपात् कारणाद् विरुद्धकार्योदय इति भावः ॥१०॥


एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच दृश्यन्ते हि भगवन् हितसमाख्यातम् अप्याहारमुपयुञ्जाना व्याधिमन्तश् चागदाश् च तथैवाहितसमाख्यातम् एवं दृष्टे कथं हिताहितोपयोगविशेषात्मकं शुभाशुभविशेषम् उपलभामह इति ॥२८.६॥

आयुर्वेददीपिका


दृश्यन्ते हि भगवन्नित्यादौ तथैवाहितसमाख्यातम् उपयुञ्जाना व्याधिमन्तश् चागदाश्चेति सम्बन्धः ॥१॥

विशेषात्मकमिति विशेषोद्भवम् ॥२॥


तमुवाच भगवानात्रेयो न हिताहारोपयोगिनाम् अग्निवेश तन्निमित्ता व्याधयो जायन्ते न च केवलं हिताहारोपयोगादेव सर्वव्याधिभयम् अतिक्रान्तं भवति सन्ति ह्य् ऋते ऽप्यहिताहारोपयोगाद् अन्या रोगप्रकृतयः तद्यथा कालविपर्ययः प्रज्ञापराधः शब्दस्पर्शरूपरसगन्धाश्चासात्म्या इति ।
ताश्च रोगप्रकृतयो रसान् सम्यगुपयुञ्जानमपि पुरुषम् अशुभेनोपपादयन्ति तस्माद्धिताहारोपयोगिनोऽपि दृश्यन्ते व्याधिमन्तः ।
अहिताहारोपयोगिनां पुनः कारणतो न सद्यो दोषवान् भवत्यपचारः ।
न हि सर्वाण्यपथ्यानि तुल्यदोषाणि न च सर्वे दोषास्तुल्यबला न च सर्वाणि शरीराणि व्याधिक्षमत्वे समर्थानि भवन्ति ।
तदेव ह्य् अपथ्यं देशकालसंयोगवीर्यप्रमाणातियोगाद् भूयस्तरम् अपथ्यं सम्पद्यते ।
स एव दोष संसृष्टयोनिर्विरुद्धोपक्रमो गम्भीरानुगतश् चिरस्थितः प्राणायतनसमुत्थो मर्मोपघाती कष्टतमः क्षिप्रकारितमश्च सम्पद्यते ।
शरीराणि चातिस्थूलान्यतिकृशान्य् अनिविष्टमांसशोणितास्थीनि दुर्बलान्य् असात्म्याहारोपचितान्य् अल्पाहाराण्य् अल्पसत्त्वानि च भवन्त्यव्याधिसहानि विपरीतानि पुनर्व्याधिसहानि ।
एभ्यश् चैवापथ्याहारदोषशरीरविशेषेभ्यो व्याधयो मृदवो दारुणाः क्षिप्रसमुत्थाश्चिरकारिणश्च भवन्ति ।
एव वातपित्तश्लेष्माणः स्थानविशेषे प्रकुपिता व्याधिविशेषान् अभिनिवर्तयन्त्यग्निवेश ॥२८.७॥

आयुर्वेददीपिका


तन्निमित्ता इति हिताहारनिमित्ताः ॥१॥

न केवलमिति परम् ॥२॥

रोगप्रकृतय इति रोगकारणानि ॥३॥

अहिताहारोपयोगिन इत्यादि ॥४॥

कारणत इति निमित्तान्तरात् प्रतिबन्धात् तच्च कारणं तदेव ह्य् अपथ्यम् इत्यादिवक्ष्यमाणग्रन्थविपरीतं बोद्धव्यम् ॥५॥

सद्य इति तत्कालम् ॥६॥

अनेनापथ्यस्य रोगजननं प्रति कालान्तरविकारकर्तृत्वं प्रायो भवतीति दर्शयति अन्यथा सद्य इत्यनर्थकं स्यात् कालान्तरे ऽपि दोषाकर्तृत्वात् ॥७॥

दोषवानिति व्याधिजनकः ॥८॥

अपचार इति अहिताहारोपयोगः उक्ते कारणमाह नहीत्यादि ।
तुल्यदोषाणीति तुल्यदोषकराणि ॥९॥

व्याधिक्षमत्वं व्याधिबलविरोधित्वं व्याध्युत्पादप्रतिबन्धकत्वमिति यावत् ॥१०॥

तद् एवापथ्यतुल्यदोषतादि विवृणोति तदेवेत्यादि ॥११॥

अत्र यद्यपि प्रस्तुतत्वाद् अपथ्यप्रतिबन्धकानि कारणानि वक्तव्यानि तथापि समानन्यायतयापथ्यशक्तिवर्धकान्युच्यन्ते ॥१२॥

तत्र देशादीनां योगादिति अनुगुणदेशादियोगात् यथा व्रीहिः पित्तकर्तृत्वेनापथ्यः स चानूपदेशयोगाद्भूयस्तरम् अपथ्यो भवति धन्वदेशे तु हीनबलो भवति तथा शरत्कालस्यानुगुणस्य योगाद्बलवान्भवति हेमन्ते दुर्बलः संयोगाद् यथा स व्रीहिर् दधिफाणितादियुक्तो बलवान् मध्वादियुक्तश्च दुर्बलः वीर्याद् यथा स एवोष्णीकृतो बलवान् शीतस्तु दुर्बलः स एव च प्रमाणातियोगाद् बली हीनमात्रस्त्वबलः इत्याद्यनुसर्तव्यम् ॥१३॥

दोषतुल्यबलतामाह स एव दोष इत्यादि ॥१४॥

संसृष्टा मिलिता बहवो योनयः कारणानि यस्य स तथा किंवा संसृष्टयोनिर् इति अनुगुणदूष्यः यथा पित्तस्य रक्तं दूष्यम् आसाद्य कष्टत्वं क्षिप्रकारित्वं च भवति ॥१५॥

विरुद्धोपक्रमो यथा पित्तं मेहारम्भकं वचनं हि पित्तमेहाः सर्व एव याप्याः विरुद्धोपक्रमत्वात् इति विरुद्धता चोपक्रमस्यात्र यत् पित्तहरं मधुरादि तन्मेहप्रधानदूष्यमेदसो विरुद्धं मेदोऽनुगुणं तु कट्वादि पित्ते विरुद्धम् इति ॥१६॥

गम्भीरानुगत इति गम्भीरमज्जादिधातुगतः वचनं हि त्वङ्मांसाश्रयमुत्तानं गम्भीरं त्व् अन्तराश्रयम् इति ॥१७॥

चिरस्थित इति देहे चिरकालावस्थानेन कृतमूलत्वात् कष्टसाध्यः ॥१८॥

प्राणायतनसमुत्थ इति अग्रे ऽध्याये वक्ष्यमाणशङ्खादिदशप्राणायतनाश्रयी ॥१९॥

मर्मोपघातीति प्राणायतनव्यतिरिक्तक्षिप्रतलहृदयादिमर्मोपघातकारी ॥२०॥

मर्मघातित्वेनैव मर्मविशेषप्राणायतनसमुत्थत्वे लब्धे पुनस्तद्वचनं प्राणायतनमर्माश्रयिणो विशेषेण कष्टत्वप्रतिपादनार्थम् ॥२१॥

कष्टतम इति बहुदुःखकर्तृत्वेनासाध्यत्वेन च ॥२२॥

क्षिप्रकारितम इति आशुविकारकारितमः ॥२३॥

चकारात् संसृष्टयोनित्वादिहेतूनाम् अल्पत्वेन कष्टकष्टतरक्षिप्रकारिक्षिप्रकारितरादिविशेषाश् च भवन्तीति दर्शयति यथोक्तसर्वहेतुमेलके कष्टतमः क्षिप्रकारितमश् च भवतीति ज्ञेयं कष्टतमत्वादि च यथायोग्यतया ज्ञेयं विरुद्धोपक्रमो दोषः कष्ट एव भवति न क्षिप्रकारी ॥२४॥

व्याध्यक्षमशरीराण्याह शरीराणि चेत्यादि ॥२५॥

अनिविष्टानि श्लथानि मांसादीनि येषां शरीरिणां तानि तथा किंवा अनिविष्टानीति विषमाणि ॥२६॥

उपचितानीति संवर्धितानि असात्म्यपुष्टं हि शरीरं भूरिदोषभावितमेव भवतीति भावः ॥२७॥

विपरीतानीति अनतिस्थूलत्वादियुक्तानि ॥२८॥

व्याधिसहानीति व्याध्युत्पादकप्रतिबन्धकानि ॥२९॥

एतच्च शरीरमधिकृत्य वैपरीत्यं व्याधिसहत्वे उदाहरणार्थम् उपन्यस्तं तेन यथोक्तापथ्यबलवैपरीत्यं दोषबलवैपरीत्यं च न सद्यो व्याधिकारकं भवतीत्येतद् अप्युक्तं बोद्धव्यम् ॥३०॥

एतद् एवापथ्याहारदोषशरीराणाम् एवाबलवत्त्वबलवत्त्वाभ्यां लक्षणविशेषं यथायोग्यतया मृद्वादिव्याधिकारणत्वेनोपसंहरन्न् आह एभ्यश् चैवेत्यादि ॥३१॥

विशेषा यथोक्ता उक्तविपरीताश्च तत्रोक्तविपरीतविशेषान् मृदवस्तथा चिरकारिणश्च भवन्ति यथोक्तापथ्यादिविशेषात्तु दारुणाः क्षिप्रकारिणश्च भवन्तीति मन्तव्यम् ॥३२॥

अनेन प्रसङ्गेन वातादीनां रसादिस्थानविशेषेषु कुपितानां ये व्याधयो भवन्ति तान् दर्शयितुम् आह त एवेत्यादि ॥३३॥


तत्र रसादिषु स्थानेषु प्रकुपितानां दोषाणां यस्मिन् स्थाने ये ये व्याधयः सम्भवन्ति तांस् तान् यथावद् अनुव्याख्यास्यामः ॥२८.८॥

आयुर्वेददीपिका


तत्र रसेत्यादौ प्रकुपितानां दोषाणामिति अनियमेन रसे कुपितो वायुर् वा पित्तं वा श्लेष्मा वा संसृष्टा वा अश्रद्धादीनि कुर्वन्ति ॥१॥

सत्यपि दोषभेदे ऽत्राश्रयस्याभेदाद् आश्रयप्रभावेणैवाश्रद्धादयो भवन्ति परं दोषभेदे अश्रद्धादाव् एव वातादिलिङ्गं विशिष्टं भवति ॥२॥

किंवा यथायोग्यतया रसाश्रयिणा वातादिना अश्रद्धादिकरणं बोद्धव्यं यतो न गौरवं वातदुष्टरसे भवितुमर्हति एतच्च नातिसुन्दरं तेन पूर्व एव पक्षो ज्यायान् ॥३॥


अश्रद्धा चारुचिश् चास्यवैरस्यम् अरसज्ञता ।
हृल्लासो गौरवं तन्द्रा साङ्गमर्दो ज्वरस् तमः ॥२८.९॥

पाण्डुत्वं स्रोतसां रोधः क्लैब्यं सादः कृशाङ्गता ।
नाशोऽग्नेरयथाकालं वलयः पलितानि च ॥२८.१०॥



आयुर्वेददीपिका


अश्रद्धायां मुखप्रविष्टस्याहारस्याभ्यवहरणं भवत्येव परं त्व् अनिच्छा अरुचौ तु मुखप्रविष्टं नाभ्यवहरतीति भेदः ॥१॥

आस्यवैरस्यम् उचितादास्यरसादन्यथात्वम् ॥२॥

अरसज्ञता रसाप्रतिपत्तिः ॥३॥

सादः अङ्गावसादः ॥४॥


रसप्रदोषजा रोगा वक्ष्यन्ते रक्तदोषजाः ।
कुष्ठवीसर्पपिडका रक्तपित्तमसृग्दरः ॥२८.११॥

गुदमेढ्रास्यपाकश्च प्लीहा गुल्मोऽथ विद्रधिः ।
नीलिका कामला व्यङ्गः पिप्प्लवस् तिलकालकाः ॥२८.१२॥

दद्रुश्चर्मदलं श्वित्रं पामा कोठास्रमण्डलम् ।


आयुर्वेददीपिका


रक्तप्रदोषजेषु कुष्ठग्रहणादेव दद्र्वादिलाभे सिद्धे पुनस्तद्वचनं विशेषप्रादुर्भावप्रदर्शनार्थम् ॥१॥

तिलकालकाः तिलाकृतयः ॥२॥

अस्रमण्डलं लोहितमण्डलम् ॥३॥


रक्तप्रदोषाज्जायन्ते शृणु मांसप्रदोषजान् ॥२८.१३॥

अधिमांसार्बुदं कलिं गलशालूकशुण्डिके ।
पूतिमांसालजीगण्डगण्डमालोपजिह्विकाः ॥२८.१४॥



आयुर्वेददीपिका


कीलशब्देनात्रार्श उच्यते ॥१॥


वेद्यान्मांसाश्रयान् मेदःसंश्रयांस्तु प्रचक्ष्महे ।
निन्दितानि प्रमेहाणां पूर्वरूपाणि यानि च ॥२८.१५॥

आयुर्वेददीपिका


निन्दितानि प्रमेहपूर्वरूपाणीति केशजटिलत्वादीनि तेषामेव निन्दितत्वात् न त्व् आस्यवैरस्यमधुरत्वादीनि ॥१॥

किंवा निन्दितानीति अतिस्थूलगतान्य् आयुर्ह्रासादीन्य् अष्टौनिन्दितीयोक्तानि तेषां च निन्दितत्वं निन्दितातिस्थूलसम्बद्धत्वेन ॥२॥

एवं पूर्वस्मिन्व्याख्याने यानि च इति चकारो नियमे उत्तरव्याख्याने तु समुच्चये ॥३॥


अध्यस्थिदन्तौ दन्तास्थिभेदशूलं विवर्णता ।
केशलोमनखश्मश्रुदोषाश्चास्थिप्रदोषजाः ॥२८.१६॥

आयुर्वेददीपिका


अध्यस्थिदन्तशब्देन अध्यस्थ्यधिदन्तयोर्ग्रहणम् ।
शूलम् इति अस्थिशूलमेव बोद्धव्यम् ॥१॥


रुक् पर्वणां भ्रमो मूर्छा दर्शनं तमसस्तथा ।
अरुषां स्थूलमूलानां पर्वजानां च दर्शनम् ॥२८.१७॥



आयुर्वेददीपिका


रुगित्यादि मज्जदोषाज्ज्ञेयम् ॥१॥

अरूंषीति व्रणानि ॥२॥


मज्जप्रदोषात् शुक्रस्य दोषात् क्लैब्यम् अहर्षणम् ।
रोगि वा क्लीबमल्पायुर् विरूपं वा प्रजायते ॥२८.१८॥

न चास्य जायते गर्भः पतति प्रस्रवत्यपि ।
शुक्रं हि दुष्टं सापत्यं सदारं बाधते नरम् ॥२८.१९॥

आयुर्वेददीपिका


क्लैब्यम् इति ध्वजानुच्छ्रायः ॥१॥

अहर्षणं च सत्यपि ध्वजोत्थाने मैथुनाशक्तिः ॥२॥

शुक्रं हि दुष्टं सापत्यं सदारं बाधते नरमिति अत्रापत्यबाधा रोगिक्लीबाद्यपत्यजनकत्वेन दारबाधा तु स्राविगर्भादिजनकत्वेन ॥३॥


इन्द्रियाणि समाश्रित्य प्रकुप्यन्ति यदा मलाः ।
उपघातोपतापाभ्यां योजयन्तीन्द्रियाणि ते ॥२८.२०॥

आयुर्वेददीपिका


उपघातेत्यादौ उपघातो विनाशः उपतापस्तु किंचिद् वैकल्यम् ॥१॥


स्नायौ सिराकण्डराभ्यो दुष्टाः क्लिश्नन्ति मानवम् ।
स्तम्भसंकोचखल्लीभिर्ग्रन्थिस्फुरणसुप्तिभिः ॥२८.२१॥

आयुर्वेददीपिका


कण्डराभ्य इति सप्तम्यर्थे पञ्चमी ॥१॥

खल्ली करपदावमोटनम् ॥२॥

ग्रन्थिः स्नाय्वादिग्रन्थिरेव ॥३॥


मलानाश्रित्य कुपिता भेदशोषप्रदूषणम् ।
दोषा मलानां कुर्वन्ति सङ्गोत्सर्गाव् अतीव च ॥२८.२२॥

आयुर्वेददीपिका


मलानित्यादौ भेदशोषप्रदूषणम् इति यथासम्भवं ज्ञेयं तत्र भेदः पुरीषस्य शोषस्तु विशेषेण सर्वमलेषु सम्भवति प्रदूषणं तु प्रदुष्टवर्णादियुक्तत्वेन प्राकृतवर्णाद्युपघातः ॥१॥

संगोत्सर्गाव् अतीव चेति अतीव सङ्गः अप्रवृत्तिः अत्युत्सर्गस्तु अतिप्रवृत्तिः ॥२॥


विविधाद् अशितात् पीताद् अहिताल्लीढखादितात् ।
भवन्त्येते मनुष्याणां विकारा य उदाहृताः ॥२८.२३॥

तेषामिच्छन्ननुत्पत्तिं सेवेत मतिमान् सदा ।
हितान्येवाशितादीनि न स्युस् तज्जास् तथामयाः ॥२८.२४॥

रसजानां विकाराणां सर्वं लङ्घनम् औषधम् ।
विधिशोणितिके ऽध्याये रक्तजानां भिषग्जितम् ॥२८.२५॥

मांसजानां तु संशुद्धिः शस्त्रक्षाराग्निकर्म च ।
अष्टौनिन्दितिके ऽध्याये मेदोजानां चिकित्सितम् ॥२८.२६॥

अस्थ्याश्रयाणां व्याधीनां पञ्चकर्माणि भेषजम् ।
वस्तयः क्षीरसर्पींषि तिक्तकोपहितानि च ॥२८.२७॥

मज्जशुक्रसमुत्थानामौषधं स्वादुतिक्तकम् ।
अन्नं व्यवायव्यायामौ शुद्धिः काले च मात्रया ॥२८.२८॥

शान्तिरिन्द्रियजानां तु त्रिमर्मीये प्रवक्ष्यते ।
स्नाय्वादिजानां प्रशमो वक्ष्यते वातरोगिके ॥२८.२९॥

नवेगान्धारणे ऽध्याये चिकित्सितसंग्रहः कृतः ।
मलजानां विकाराणां सिद्धिश् चोक्ता क्वचित्क्वचित् ॥२८.३०॥

आयुर्वेददीपिका


सम्प्रत्यहिताहारजनितान् दोषान् दर्शयन् यथाकर्तव्यम् उपदिशति विविधादित्यादि ॥१॥

भिषग्जितम् उक्तम् इति शेषः ॥२॥

पञ्चकर्माणीत्यभिधायापि वस्तय इति वचनं तिक्तोपहितवस्तेर् विशेषेण हितत्वोपदर्शनार्थम् ॥३॥

शुद्धिरिति वमनादिना ॥४॥

सिद्धिः प्रोक्ता क्वचिदिति अतीसारग्रहण्यादौ ॥५॥


व्यायामाद् ऊष्मणस् तैक्ष्ण्याद्धितस्यानवचारणात् ।
कोष्ठाच्छाखा मला यान्ति द्रुतत्वान्मरुतस्य च ॥२८.३१॥

तत्रस्थाश्च विलम्बन्ते कदाचिन् न समीरिताः ।
नादेशकाले कुप्यन्ति भूयो हेतुप्रतीक्षिणः ॥२८.३२॥

आयुर्वेददीपिका


सम्प्रति रसादीनां शाखारूपत्वात् कोष्ठाश्रयिणो दोषा यथा शाखां यान्ति तद् आह व्यायामेत्यादि ॥१॥

तत्र व्यायामक्षोभात् कोष्ठं परित्यज्य शाखां मला यान्ति ऊष्मणो वह्नेस्तीक्ष्णत्वाद् विलायिता दोषाः शाखां यान्ति हितस्यानवचारणयाहितसेवयातिसेवयातिमात्रवृद्धो दोषो जलापूरवद् वृद्धः स्वस्थानमाप्लाव्य स्थानान्तरं यातीति युक्तम् ॥२॥

द्रुतत्वान्मारुतस्येति चलत्वाद् वायोर् वायुना क्षिप्तो यातीत्यर्थः वाय्वन्तरेण च वायोर् आक्षेपणमुपपन्नम् एवेति अन्यथा मला इति बहुवचनम् असाधु ॥३॥

अथ शाखागताः किं कुर्वन्तीत्याह तत्रस्थाश्चेत्यादि ॥४॥

विलम्बन्ते कदाचिद् इति कदाचिद्व्याधिकरणे विलम्बं कुर्वन्ति ॥५॥

कुतो विलम्बन्त इत्याह न समीरिताः ॥६॥

ये दोषा अल्पत्वेनाबलवन्तस्ते हेत्वन्तरेण समीरिताः सन्तः कुप्यन्ति तथा त एव नादेश इत्यननुगुणदेशे तथा नाकाल इत्यननुगुणकाले कुप्यन्तीति योजना ॥७॥

अत्रैव हेतुमाह भूय इत्यादि ॥८॥

यस्माद्भूयो हेतुप्रतीक्षिणस् ते ऽल्पबला दोषास्तस्मादीरणाद्यपेक्षन्ते एतेन भूयो ये ऽहेतुप्रतीक्षिणो भवन्ति बलवत्त्वान्न ते ईरणाद्यपेक्षन्ते अत एवोक्तं कदाचिदिति ॥९॥


वृद्ध्या विष्यन्दनात् पाकात् स्रोतोमुखविशोधनात् ।
शाखा मुक्त्वा मलाः कोष्ठं यान्ति वायोश्च निग्रहात् ॥२८.३३॥

आयुर्वेददीपिका


सम्प्रति शाखाभ्यः कोष्ठागमनहेतुं दोषाणाम् आह वृद्ध्येत्यादि ॥१॥

विष्यन्दनादिति विलयनात् विलीनश्च द्रवत्वादेव कोष्ठे निम्नं याति ॥२॥

पाकादिति पक्वो दोषो ऽबद्धत्वेनैव निम्नं कोष्ठं याति ॥३॥

स्रोतोमुखविशोधनादिति अवरोधकापगमात् ॥४॥

वायोर्निग्रहादिति क्षेप्तुर्वायोर्निग्रहात् प्राकृतं स्थानं कोष्ठं याति ॥५॥


अजातानामनुत्पत्तौ जातानां विनिवृत्तये ।
रोगाणां यो विधिर्दृष्टः सुखार्थी तं समाचरेत् ॥२८.३४॥

सुखार्थाः सर्वभूतानां मताः सर्वाः प्रवृत्तयः ।
ज्ञानाज्ञानविशेषात्तु मार्गामार्गप्रवृत्तयः ॥२८.३५॥

आयुर्वेददीपिका


इदानीं संक्षेपेणाखिलव्याधिप्रतीकारं सूत्रयति अजातानामित्यादि ॥१॥

यो विधिर्दृष्ट इति कृत्स्ने तन्त्रे ॥२॥

ननु यदि सुखार्था सर्वप्राणिनां प्रवृत्तिस्तत्कथं को ऽपि अमार्गे प्रवर्तत इत्याह ज्ञानेत्यादि ॥३॥

अज्ञानाद् एव सुखसाधनमिदम् इति कृत्वा अपरीक्षकाः प्रवर्तन्ते न तु दुःखकर्तृतासंधानाद् इति भावः ॥४॥


हितमेवानुरुध्यन्ते प्रपरीक्ष्य परीक्षकाः ।
रजोमोहावृतात्मानः प्रियमेव तु लौकिकाः ॥२८.३६॥

श्रुतं बुद्धिः स्मृतिर्दाक्ष्यं धृतिर् हितनिषेवणम् ।
वाग्विशुद्धिः शमो धैर्यम् आश्रयन्ति परीक्षकम् ॥२८.३७॥

लौकिकं नाश्रयन्त्येते गुणा मोहरजःश्रितम् ।
तन्मूला बहवो यन्ति रोगाः शारीरमानसाः ॥२८.३८॥

आयुर्वेददीपिका


हितमेवेति आयतिविशुद्धम् एव तदात्वे दुःखकरम् अपि ॥१॥

प्रियमेवेति तदात्वे सुखकरम् आयतिविरुद्धम् ॥२॥

लौकिका अपरीक्षकाः ॥३॥

परीक्षकं स्तौति श्रुतम् इत्यादि ॥४॥

परीक्षकमाश्रयन्तीति परीक्षके भवन्ति किंवा बुद्ध्यादिदेवताः परीक्षकमाश्रयन्ते यद् उक्तं विविशुर् ज्ञानदेवताः इति ॥५॥

तन्मूला इति रजस्तमोमूलाः ॥६॥


प्रज्ञापराधाद्ध्यहितानर्थान् पञ्च निषेवते ।
संधारयति वेगांश्च सेवते साहसानि च ॥२८.३९॥

तदात्वसुखसंज्ञेषु भावेष्वज्ञोऽनुरज्यते ।
रज्यते न तु विज्ञाता विज्ञाने ह्य् अमलीकृते ॥२८.४०॥

आयुर्वेददीपिका


यथा अपरीक्षके रजस्तमोमूला रोगा भवन्ति तदाह प्रज्ञापराधाद् इत्यादि ॥१॥

अहितार्थसेवादि च रोगं करोतीति भावः ॥२॥

तदात्वसुखेष्विति वक्तव्ये यत् सुखसंज्ञेषु इति करोति तत्तदात्वसुखस्यापथ्यस्य दुःखानुबन्धसुखकर्तृतया परमार्थतस् तदात्वे ऽप्यसुखत्वं दर्शयति यथा सुखसंज्ञकम् आरोग्यम् इत्यत्रोक्तम् ॥३॥

विज्ञातेति परीक्षकः ॥४॥


न रागान्नाप्यविज्ञानाद् आहारान् उपयोजयेत् ।
परीक्ष्य हितमश्नीयाद्देहो ह्य् आहारसंभवः ॥२८.४१॥

आयुर्वेददीपिका


न रागाद् इत्यादि ॥१॥

अहितत्वेन जानन्न् अपि रागादेव कश्चिद् दुष्टः प्रवर्तते अज्ञानाच्चाहितत्वाज्ञानाद् एव कश्चिद्धिताध्यवसायेन प्रवर्तते एतद्द्वयमपि निषिध्यते ॥२॥


आहरस्य विधाव् अष्टौ विशेषा हेतुसंज्ञकाः ।
शुभाशुभसमुत्पत्तौ तान् परीक्ष्य प्रयोजयेत् ॥२८.४२॥

आयुर्वेददीपिका


कथमाहारः परीक्ष्य इत्याह आहारस्येत्यादि ॥१॥

आहारस्य विधौ विधानेऽष्टौ विशेषाः प्रकृतिकरणसंयोगादयो रसविमाने वक्तव्या हेतुसंज्ञकाः क्व हेतुसंज्ञका इत्याह शुभेत्यादि ॥२॥

शुभाशुभसमुत्पत्तौ इति ते च प्रकृत्यादयः शुभाः शुभकराः अशुभा अशुभकराः इति ज्ञेयम् ॥३॥


परिहार्याण्यपथ्यानि सदा परिहरन्नरः ।
भवत्यनृणतां प्राप्तः साधूनाम् इह पण्डितः ॥२८.४३॥

यत्तु रोगसमुत्थानमशक्यमिह केनचित् ।
परिहर्तुं न तत्प्राप्य शोचितव्यं मनीषिभिः ॥२८.४४॥

आयुर्वेददीपिका


ननु पथ्यसेवायां क्रियमाणायाम् अपि बलवत्प्राक्तनाधर्मवशादपि व्याधयो भवन्ति तत् किम् अनेन पथ्यसेवनेनेत्याह परिहार्याणीत्यादि ॥१॥

अनृणताम् इव प्राप्तोऽनृणतां प्राप्तः एतेन परिहार्यपरिहारेण पुरुषकारेऽनपराधः पुरुषो भवतीति दर्शयति ॥२॥

यस्तु दैवागतस्तस्य व्याधिस्तत्र साधवो नैवं पथ्यसेविनं गर्हयन्ति एतदेवाह यत्त्वित्यादि ॥३॥

अशक्यं परिहर्तुम् इति बलवत्कर्मजन्यत्वाद् इत्यर्थः ॥४॥

न शोचितव्यम् इति पुरुषकारस्य दैवजन्ये ऽवश्यम्भाविनि व्याधाव् अकिंचित्करत्वाद् इत्यर्थः ॥५॥


आहारसंभवं यस्तु रोगाश्चाहारसंभवाः ।
हिताहितविशेषांश् च विशेषः सुखदुःखयोः ॥२८.४५॥

सहत्वे चासहत्वे च दुःखानां देहसत्त्वयोः ।
विशेषो रोगसंघाश् च धातुजा ये पृथक्पृथक् ॥२८.४६॥

तेषां चैव प्रशमनं कोष्ठाच्छाखा उपेत्य च ।
दोषा यथा प्रकुप्यन्ति शाखाभ्यः कोष्ठमेत्य च ॥२८.४७॥

प्राज्ञाज्ञयोर्विशेषश्च स्वस्थातुरहितं च यत् ।
विविधाशितपीतीये तत् सर्वं संप्रकाशितम् ॥२८.४८॥

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते सूत्रस्थाने विविधाशितपीतीयो नामाष्टाविंशोऽध्यायः ॥२८.४९॥

आयुर्वेददीपिका


संग्रहे वस्त्विति शरीरम् ॥१॥

सहत्वे चासहत्वे चेत्यादिना शरीराणि चातिस्थूलानि इत्यादि विपरीतानि पुनर् व्याधिसहानि इत्यन्तं ग्रन्थं ज्ञापयति ॥२॥


Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:28.5600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

root of tongue

  • जिवामूल 
RANDOM WORD

Did you know?

How do I contact you?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site