TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

सूत्रस्थान - भाग ५

चरक संहिता आयुर्वेदासंबंधी एक प्रसिद्ध ग्रन्थ आहे. हा ग्रंथ संस्कृत भाषेत आहे. या ग्रंथाचे उपदेशक अत्रिपुत्र पुनर्वसु, ग्रंथकर्ता अग्निवेश आणि प्रतिसंस्कारक चरक हे होत.

Charaka Sanhita is believed to be the oldest Ayurvedic text on internal medicine.


आन्नपानविधि
अथातोऽन्नपानविधिम् अध्यायं व्याख्यास्यामः ॥२७.१॥

इति ह स्माह भगवानात्रेयः ॥२७.२॥

आयुर्वेददीपिका


सम्प्रति सामान्येनोक्तानां गुणकर्मभ्यां प्रतिव्यक्त्यनुक्तानां प्रतिव्यक्तिप्राय उपयोगिद्रव्यस्य विशिष्टगुणकर्मकथनार्थम् अन्नपानविधिर् अध्यायोऽभिधीयते ॥१॥

अत्रोत्पन्नस्य छप्रत्ययस्य लुक् ॥२॥

अत्रान्ने काठिन्यसामान्यात् खाद्यं पाने च द्रवत्वसामान्याल्लेह्यम् अवरुद्धं ज्ञेयम् ॥३॥

अन्नपानं विधीयते विशिष्टगुणकर्मयोगितया प्रतिपाद्यते ऽनेनेत्यन्नपानविधिः द्रव्याणां गुणकर्मकथनम् एव चान्नपानविधिः यतस्तद्धि ज्ञात्वान्नपानं विधीयते ॥४॥


इष्टवर्णगन्धरसस्पर्शं विधिविहितमन्नपानं प्राणिनां प्राणिसंज्ञकानां प्राणमाचक्षते कुशलाः प्रत्यक्षफलदर्शनात् तदिन्धना ह्य् अन्तरग्नेः स्थितिः तत् सत्त्वम् ऊर्जयति तच्छरीरधातुव्यूहबलवर्णेन्द्रियप्रसादकरं यथोक्तमुपसेव्यमानं विपरीतमहिताय सम्पद्यते ॥२७.३॥

आयुर्वेददीपिका


किं तदन्नपानं करोतीत्याह इष्टेत्यादि ॥१॥

इष्टमिति अभिमतं हितं च किंवा इष्टं प्रियं हितं तु विधिविहितशब्देनैव प्राप्यते ॥२॥

विधिर् वक्ष्यमाणरसविमाने तदेतदाहारविधानम् इत्यादिग्रन्थवाच्यः तथेन्द्रियोपक्रमणीये नारत्नपाणिः इत्यादिनोक्तं विधानं तेन विधिना विहितं विधिविहितम् ॥३॥

अत्र वर्णादिषु शब्दाग्रहणमन्नपाने प्रायः शब्दस्याविद्यमानत्वात् ॥४॥

वर्णादिषु यद्यत् प्रथमम् अन्नपाने गृह्यते तत्तत् पूर्वम् उक्तम् ॥५॥

रसस्तु स्पर्शस्य पश्चाद्गृह्यमाणोऽपि प्राधान्यख्यापनार्थं स्पर्शस्याग्रे कृतः ॥६॥

प्राणिनाम् इत्यनेनैव लब्धेऽपि प्राणिसंज्ञकानाम् इति वचनं स्थावरप्राणिप्रतिषेधार्थं वृक्षादयो हि वनस्पतिसत्त्वानुकारोपदेशाच्छस्त्रे प्राणिन उक्ताः न तु लोके प्राणिसंज्ञकाः किंतर्हि जङ्गमा एव ॥७॥

इह च मनुष्यस्यैवाधिकृतत्वेऽपि सामान्येन सकलप्राणिप्राणहेतुतयाहारकथनं मनुषव्यतिरिक्तेऽपि प्राणिन्याहारस्य प्राणजनकत्वोपदर्शनार्थम् ॥८॥

प्राणमिति प्राणहेतुत्वात् यथायुर् घृतम् ॥९॥

अथ कथं तत् प्राणमाचक्षत इत्याह प्रत्यक्षफलदर्शनादिति ॥१०॥

प्रत्यक्षेणैव ह्य् आहारं विधिना कुर्वतां प्राणा अनुवर्तन्त इति तथा निराहाराणां प्राणा नह्य् अवतिष्ठन्त इति दृश्यत इत्यर्थः ॥११॥

प्रत्यक्षशब्दश् चेह स्फुटप्रमाणे वर्तते यतः प्राणानाम् अन्नकार्यत्वम् अनुमानगम्यमेव ॥१२॥

आन्नकार्यत्व एव प्राणानां हेतुमाह तदिन्धना हीत्यादिना ॥१३॥

यस्माद् अन्तरग्निस्थितिश् चान्नपानहेतुना अग्निस्थितिश्च प्राणहेतुः ततोऽन्नं प्राणा इति भावः उक्तं हि बलम् आरोग्यमायुश्च प्राणाश्चाग्नौ प्रतिष्ठिताः ॥१४॥

किंवा पूर्वमन्नपानस्य प्राणहेतुत्वमुक्तं तदिन्धना हीत्यादिनाग्निहेतुत्वं वर्ण्यते ॥१५॥

सत्त्वमूर्जयतीति मनोबलं करोति ॥१६॥

धातुव्यूहो धातुसंघातः ॥१७॥

विपरीतम् अविधिसेवितम् ॥१८॥


तस्माद्धिताहितावबोधनार्थम् अन्नपानविधिम् अखिले नोपदेक्ष्यामो ऽग्निवेश ।
तत् स्वभावाद् उदक्तं क्लेदयति लवणं विष्यन्दयति क्षारः पाचयति मधु संदधाति सर्पिः स्नेहयति क्षीरं जीवयति मांसं बृंहयति रसः प्रीणयति सुरा जर्जरीकरोति सीधुर् अवधमति द्राक्षासवो दीपयति फाणितमाचिनोति दधि शोफं जनयति पिण्याकशाकं ग्लपयति प्रभूतान्तर्मलो माषसूपः दृष्टिशुक्रघ्नः क्षारः प्रायः पित्तलम् अम्लम् अन्यत्र दाडिमामलकात् प्रायः श्लेष्मलं मधुरम् अन्यत्र मधुनः पुराणाच्च शालिषष्टिकयवगोधूमात् प्रायस्तिकं वातलमवृष्यं चान्यत्र वेगाग्रामृतापटोलपत्त्रात् प्रायः कटुकं वातलम् अवृष्यं चान्यत्र पिप्पलीविश्वभेषजात् ॥२७.४॥

आयुर्वेददीपिका


अन्नपानं विधीयते येन तं विधिं द्रव्यगुणकर्मरूपं तथा चरशरीरावयवादिरूपं चाखिलेन कार्त्स्न्येनोपदेक्ष्यामः ॥१॥

यद्यपि चेह द्रव्यं प्रति प्रति गुणकर्मभ्यां न निर्देक्ष्यति वक्ष्यति हि अन्नपानैकदेशोऽयमुक्तः प्रायोपयोगिकः इति तथाप्यनुक्तानाम् अपि द्रव्याणां चरशरीरावयवाद्युपदेशेन तथा पूर्वाध्यायोक्तपार्थिवादिद्रव्यगुणकर्मकथनेन च तद्विधानमप्युक्तं भवतीत्यत उक्तमखिलेनेति वक्ष्यति हि यथा नानौषधं किंचिद् देशजानां वचो यथा ॥२॥

द्रव्यं तु तत्तथा वाच्यमनुक्तमिह यद् भवेत् तथा चरः शरीरावयवाः इत्यादि किंवा विधिशब्दो ऽशितपीतलीढखादितप्रकारवाची तेन चाशितादयः सर्व एवाखिलेन वाच्यः तत्कारणभूतानि तु द्रव्याणि रक्तशाल्यादीन्येकदेशेनोक्तानि अतो वक्ष्यति अन्नपानैकदेशोऽयमुक्तः इति ॥३॥

अन्नपाने च वक्तव्ये यद्द्रव्यं प्राय उपयुज्यते तस्य सामान्यगुणमभिधाय वर्गसंग्रहेण गुणमुपदेक्ष्यति ॥४॥

उदकाभिधानं चाग्रे कृतम् उदकस्यान्ने पाने च व्याप्रियमाणत्वात् ॥५॥

तद् इत्युदाहरणं किंवा स स्वभावो यस्य स तत्स्वभावः तस्मात् क्लेदनस्वभावाद् इत्यर्थः ॥६॥

यद्यपि उदकमाश्वासकराणां जलं स्तम्भनानाम् इत्युक्तं तथापीहानुक्तक्लेदनकर्माभिधानार्थं पुनरुच्यते ॥७॥

इह जललवणादीनां यत् कर्मोच्यते तत्तेषामितरकर्मभ्यः प्रधानं ज्ञेयम् अग्र्याधिकारे तु तत्कर्मकर्तृद्रव्यान्तरप्रशस्तता ज्ञेया ॥८॥

क्षारः पचन्तमग्निं पाचयति तेन पाचयतीति हेतौ णिच् ॥९॥

स्नेहयतीत्यादौ तु तत्करोति तदाचष्टे इति णिच् ॥१०॥

संदधातीति विश्लिष्टानि त्वङ्मांसादीनि संश्लेषयति ॥११॥

रसः मांसरसः ॥१२॥

प्रीणयतीति क्षीणान् पुष्णाति न त्व् अतिबृहत्त्वं करोति तेन मांसकर्मणा बृंहणेन समं नैक्यम् ॥१३॥

जर्जरीकरोतीति श्लथमांसाद्युपचयं करोति यद् उक्तं हारीते सुरा जर्जरीकरोत्यसृङ्मेदोबाहुल्यात् इति तथा ह्य् अत्रैवोक्तं सुरा कृशानां पुष्ट्यर्थम् इति ॥१४॥

अवधमयतीति विलिखतीत्यर्थः अनेकार्थत्वाद् धातूनां वचनं हि लेखनः शीतरसिकः इति तथा हारीते ऽप्युक्तं सीधुर् अवधमयति वाय्वग्निप्रबोधनात् इति ॥१५॥

आचिनोति दोषान् इति शेषः तन्त्रान्तरवचनं हि वातपित्तकफांस्तस्मादाचिनोति च फाणितम् इति ॥१६॥

पिण्याकः तिलकल्कः निघण्टुकारस् त्व् आह पिण्याको हरितशिग्रुः ॥१७॥

ग्लपयति हर्षक्षयं करोति ॥१८॥

प्रभूतान्तर्मलस्य पुरीषस्य कर्ता प्रभूतान्तर्मलः यद्यपि माषो बहुमलः इति वक्ष्यति तथापि माषविकृतेः सूपस्येह गुणकथनं तेन न पुनरुक्तं न चावश्यं प्रकृतिधर्मो विकृतिमनुगच्छति यतः सक्तूनां सिद्धपिण्डिका गुर्वी एव भवति तस्मान् माषविकृताव् अपि मलवृद्धिदर्शनार्थम् एतदभिधानम् ॥१९॥

क्षारस्य पाचनत्वं गुणोऽभिहितः इह तु दृष्टिशुक्रघ्नत्वं दोष इति पृथगुच्यते ॥२०॥

प्रायः पित्तलमिति विशेषेणान्येभ्यो लवणकटुकेभ्योऽम्लं पित्तलम् ॥२१॥

एवमन्यत्रापि प्रायःशब्दो विशेषार्थो वाच्यः किंवा प्रायःशब्दोऽम्लेन सम्बध्यते ॥२२॥

अत्र पित्तम् आदाव् अम्लजन्यतयोक्तं दोषप्राधान्यस्यानियतत्वात् उक्तं हि न ते पृथक् पित्तकफानिलेभ्य इति तथा समपित्तानिलकफा इति किंवा पित्तोष्मा वह्निः स चेहान्नपानपचने प्रधानं यदुक्तं यदन्नं देहधात्वोजोबलवर्णादिपोषकम् ॥२३॥

तत्राग्निर् हेतुर् आहारान् नह्य् अपक्वाद् रसादयः इति तेनेह वह्निकारणपित्तजनकम् एवादाव् उच्यते यतश्च पित्तजनकमग्रे वक्तव्यम् अतो रसप्रधानमपि मधुरो नादाव् उक्तः ॥२४॥

मधुन इति विच्छेदपाठेन नवानवस्य मधुनः कफाकर्तृत्वं दर्शयति ॥२५॥

इह च षड्रसस्यैव कथनमेतत्त्रयेणैव अनुक्तानां लवणतिक्तकषायाणाम् अपि पाकद्वारा ग्रहणात् यतो लवणः पाकात् प्रायो मधुरः तिक्तकषायौ कटुकौ पाकतो भवतः ॥२६॥

प्रायः सर्वं तिक्तम् इत्यादिस्तु ग्रन्थो हारीतीयः इह केनापि प्रमादाल् लिखितः ॥२७॥


परमतो वर्गसंग्रहेणाहारद्रव्याण्य् अनुव्याख्यास्यामः ॥२७.५॥

शूकधान्यशमीधान्यमांसशाकफलाश्रयान् ।
वर्गान् हरितमद्याम्बुगोरसेक्षुविकारिकान् ॥२७.६॥

दश द्वौ चापरौ वर्गौ कृतान्नाहारयोगिनाम् ।
रसवीर्यविपाकैश्च प्रभावैश्च प्रचक्ष्महे ॥२७.७॥

आयुर्वेददीपिका


वर्गेण शूकधान्यादीनाम् आहारद्रव्याणां संग्रहो वर्गसंग्रहः ॥१॥

रसवीर्येत्यादौ प्रभावोऽल्पविषयतया पृथक्पठितः ॥२॥

रसादिनिर्देशश्च यथायोग्यतया ज्ञेयः तेन न सर्वद्रव्ये सर्वरसाद्यभिधानं भविष्यति ॥३॥

अत्र शूकधान्यम् आदाव् आहारप्रधानत्वात् शूकवन्ति धान्यानि शूकधान्यानि ॥४॥


रक्तशालिर् महाशालिः कलमः शकुनाहृतः ।
तूर्णको दीर्घशूकश् च गौरः पाण्डुकलाङ्गुलौ ॥२७.८॥

सुगन्धको लोहवालः सारिवाख्यः प्रमोदकः ।
पतंगस् तपनीयश्च ये चान्ये शालयः शुभाः ॥२७.९॥

शीता रसे विपाके च मधुराश्चाल्पमारुताः ।
बद्धाल्पवर्चसः स्निग्धा बृंहणाः शुक्रलाः ॥२७.१०॥

रक्तशालिर्वरस्तेषां तृष्णाघ्नस् त्रिमलापहः ।
महांस्तस्यानु कलमस्तस्याप्यनु ततः परे ॥२७.११॥

यवका हायनाः पांसुवाप्यनैषधकादयः ।
शालीनां शालयः कुर्वन्त्यनुकारं गुणागुणैः ॥२७.१२॥

आयुर्वेददीपिका


इह च द्रव्यनामानि नानादेशप्रसिद्धानि तेन नामज्ञाने सामर्थ्यं तथाभूतं नास्त्येवान्येषाम् अपि टीकाकृतां तेन देशान्तरिभ्यो नाम प्रायशो ज्ञेयं यत्तु प्रचरति गौडे तल् लिखिष्यामो ऽन्यदेशप्रसिद्धं च किंचित् ॥१॥

कलमो वेदाग्रहारेषु स्वनामप्रसिद्धः ॥२॥

शकुनाहृतः श्रावस्त्यां वक्रनाम्ना प्रसिद्धः ॥३॥

रक्तशालिः प्रसिद्ध एव ॥४॥

महाशालिर्मगधे प्रसिद्धः ॥५॥

अत्र च शालिर्हैमन्तिकं धान्यं षष्टिकादयश्च ग्रैष्मिकाः व्रीहयः शारदा इति व्यवस्था ॥६॥

रक्तशाल्यादीनां मधुरपाकित्वेऽपि बद्धवर्चस्त्वं प्रभावादेव ॥७॥

महांस्तस्यान्विति रक्तशालेरनु तेन रक्तशालिगुणा महाशालेर् मनागल्पाः एवं तस्यानु कलम इत्यत्रापि वाच्यम् ॥८॥

तस्येति महाशालेः ॥९॥

ततः परे इति शकुनाहृतादयः उत्तरोत्तरमल्पगुणा इत्यर्थः ॥१०॥

गुणागुणैर् इति शालीनां रक्तशाल्यादीनां ये गुणास् तृष्णाघ्नत्वत्रिमलापहत्वादयः तेषाम् अगुणैस् तद्गुणविपरीतैर् दोषैर् यवकादयो ऽनुकारं कुर्वन्ति ततश्च यवकास् तृष्णात्रिमलादिकरा इति ॥११॥

गुणशब्दश्चेह प्रशंसायाम् ॥१२॥


शीतः स्निग्धोऽगुरुः स्वादुस् त्रिदोषघ्नः स्थिरात्मकः ।
षष्टिकः प्रवरो गौरः कृष्णगौरस्ततोऽनु च ॥२७.१३॥

वरकोद्दालकौ चीनशारदोज्ज्वलदर्दुराः ।
गन्धनाः कुरुविन्दाश्च षष्टिकाल्पान्तरा गुणैः ॥२७.१४॥

मधुरश्चाम्लपाकश्च व्रीहिः पित्तकरो गुरुः ।
बहुपुरीषोष्मा त्रिदोषस् त्व् एव पाटलः ॥२७.१५॥

आयुर्वेददीपिका


षष्टिकगुणे ऽकारप्रश्लेषाद् अगुरुरिति बोद्धव्यं मात्राशितीये षष्टिको लघुः पठितः ॥१॥

ततोऽनु चेति गौरषष्टिकाद् अल्पान्तरगुणः ॥२॥

वरकोद्दालकादयः षष्टिकविशेषाः केचित् कुधान्यानि वरकादीनि वदन्ति ॥३॥

व्रीहिरिति शारदाशुधान्यस्य संज्ञा ॥४॥

पाटलो व्रीहिविशेषः ॥५॥

तन्त्रान्तरेऽपि पठ्यते त्रिदोषस्त्वेव पाटलः इति सुश्रुते पाटलशब्देनैतद्व्यतिरिक्तो धान्यविशेषो ज्ञेयः तेन तद्गुणकथनेन नेह विरोधः ॥६॥


सकोरदूषः श्यामाकः कषायमधुरो लघुः ।
वातलः कफपित्तघ्नः शीतः संग्राहिशोषणः ॥२७.१६॥

हस्तिश्यामाकनीवारतोयपर्णीगवेधुकाः ।
प्रशान्तिकाम्भःस्यामाकलौहित्याणुप्रियङ्गवः ॥२७.१७॥

मुकुन्दो झिण्टिगर्मूटी वरुका वरकास्तथा ।
शिबिरोत्कटजूर्णाह्वाः श्यामाकसदृशा गुणैः ॥२७.१८॥

आयुर्वेददीपिका


कोरदूषादयः कुधान्यविशेषाः ॥१॥

कोरदूषः कोद्रवः कोरदूषस्य केवलस्य श्लेष्मपित्तघ्नत्वं तेन यदुक्तं रक्तपित्तनिदाने यदा जन्तुर्यवकोद्दालककोरदूषप्रायाण्य् अन्नानि भुङ्क्ते इत्यादिना पित्तकर्तृत्वं कोरदूषस्य तत् तत्रैवोक्तनिष्पावकाञ्जिकादियुक्तस्य संयोगमहिम्ना बोद्धव्यम् ॥२॥

श्यामाकादयोऽपि तृणधान्यविशेषाः ॥३॥

हस्तिश्यामाकः श्यामाकभेद एव नीवार उडिका गवेधुको घुलुञ्चः स ग्राम्यारण्यभेदेन द्विविधः ॥४॥

प्रशान्तिका उडिकैव स्थलजा रक्तशूका अम्भःश्यामाका जलजा ओडिका लोके डे इत्युच्यते प्रियङ्गुः काङ्गनी इति प्रसिद्धा ॥५॥

मुकुन्दो वाकसतृण इति वरुकः शणबीजं वरकः श्यामबीजं शिबिरस् तीरभुक्तौ सिद्धक इत्युच्यते जूर्णाह्वो जोनार इति ख्यातः ॥६॥


रूक्षः शीतोऽगुरुः स्वादुर्बहुवातशकृद्यवः ।
स्थैर्यकृत्सकषायश्च बल्यः श्लेष्मविकारनुत् ॥२७.१९॥

रूक्षः कषायानुरसो मधुरः कफपित्तहा ।
मेदःक्रिमिविषघ्नश्च बल्यो वेणुयवो मतः ॥२७.२०॥

आयुर्वेददीपिका


यवस्य गुरोरपि बहुवातत्वं रूक्षत्वात् किंवा सुश्रुते यवो लघुः पठितः तेनात्राप्यगुरुरिति मन्तव्यं बल्यश्च स्रोतःशुद्धिकरत्वात् प्रभावाद्वा ॥१॥

अस्य च शीतमधुरकषायत्वेनानुक्तमपि पित्तहन्तृत्वं लभ्यत एव तेन सुश्रुते कफपित्तहन्ता इत्युक्तमुपपन्नम् ॥२॥


संधानकृद् वातहरो गोधूमः स्वादुशीतलः ।
जीवनो बृंहणो वृष्यः स्निग्धः स्थैर्यकरो गुरुः ॥२७.२१॥

नान्दीमुखी मधूली च मधुरस्निग्धशीतले ।
इत्ययं शूकधान्यानां पूर्वो वर्गः समाप्यते ॥२७.२२॥

आयुर्वेददीपिका


गोधूमस्य स्वादुशीतस्निग्धादिगुणोपयोगाच् छ्लेष्मकर्तृत्वं भवत्येव अत एव सुश्रुते श्लेष्मकर इत्युक्तम् ॥१॥

यत्तु वसन्ते कफप्रधाने यवगोधूमभोजनः इत्युक्तं तत् पुराणगोधूमाभिप्रायेण पुराणश्च गोधूमः कफं न करोतीत्युक्तम् एव प्रायः श्लेष्मलं मधुरम् इत्यादिना ग्रन्थेनात्रैवाध्याये ॥२॥

नन्दीमुखी यविका मधूली गोधूमभेदः ।
इत्ययमत्र ॥३॥

इति प्रकारार्थः ॥४॥

समाप्त इति वक्तव्ये समाप्यत इति यत् करोति तेन ज्ञापयति यत् बहुद्रव्यत्वान् नायं समाप्तो गणः किंतु यथा कथंचित् प्रसिद्धगुणकथनेन समाप्यते ॥५॥

एवमन्यत्रापि षष्ठो वर्गः समाप्यत इत्यादौ व्याख्येयम् ॥६॥


कषायमधुरो रूक्षः शीतः पाके कटुर् लघुः ।
विशदः श्लेष्मपित्तघ्नो मुद्गः सूप्योत्तमो मतः ॥२७.२३॥

वृष्यः परं वातहरः स्निग्धोष्णो मधुरो गुरुः ।
बल्यो बहुमलः पुंस्त्वं माषः शीघ्रं ददाति च ॥२७.२४॥

राजमाषः सरो रुच्यः कफशुक्राम्लपित्तनुत् ।
तत्स्वादुर्वातलो रूक्षः कषायो विशदो गुरुः ॥२७.२५॥

उष्णाः कषायाः पाकेऽम्लाः कफशुक्रानिलापहाः ।
कुलत्था ग्राहिणः कासहिक्काश्वासार्शसां हिताः ॥२७.२६॥

मधुरा मधुराः पाके ग्राहिणो रूक्षशीतलाः ।
मकुष्ठकाः प्रशस्यन्ते रक्तपित्तज्वरादिषु ॥२७.२७॥

चणकाश्च मसूराश्च खण्डिकाः सहरेणवः ।
लघवः शीतमधुराः सकषाया विरूक्षणाः ॥२७.२८॥

पित्तश्लेष्मणि शस्यन्ते सूपेष्वालेपनेषु च ।
तेषां मसूरः संग्राही कलायो वातलः परम् ॥२७.२९॥

स्निग्धोष्णो मधुरस्तिक्तः कषायः कटुकस्तिलः ।
त्वच्यः केश्यश्च बल्यश्च वातघ्नः कफपित्तकृत् ॥२७.३०॥

मधुराः शीतला गुर्व्यो बलघ्न्यो रूक्षणात्मिकाः ।
सस्नेहा बलिभिर् भोज्या विविधाः शिम्बिजातयः ॥२७.३१॥

शिम्बी रूक्षा कषाया च कोष्ठे वातप्रकोपिनी ।
न च वृष्या न चक्षुष्या विष्टभ्य च विपच्यते ॥२७.३२॥

आढकी कफपित्तघ्नी वातला कफवातनुत् ।
अवल्गुजः सैडगजो निष्पावा वातपित्तलाः ॥२७.३३॥

काकाण्डोमात्मगुप्तानां माषवत् फलम् आदिशेत् ।
द्वितीयोऽयं शमीधान्यवर्गः प्रोक्तो महर्षिणा ॥२७.३४॥

आयुर्वेददीपिका


धान्यत्वेन शमीधान्यवर्गेऽभिधातव्ये प्रधानत्वान्मुद्गो निरुच्यते ॥१॥

सूप्यं सूपयोग्यं शमीधान्यं तत्रोत्तमः सूप्योत्तमः ॥२॥

वृष्य इत्यादिमाषगुणे स्निग्धोष्णमधुरत्वादिगुणयोगादेव वातहरत्वे लब्धे पुनस्तदभिधानं विशेषवातहन्तृत्वप्रतिपादनार्थम् एवमन्यत्राप्येवंजातीये व्याख्येयम् ॥३॥

पुंस्त्वं शुक्रम् ॥४॥

शीघ्रमिति वचनेन शुक्रस्रुतिकरत्वलक्षणमपि वृष्यत्वं माषस्य दर्शयति शुक्रस्रुतिकरं च वृष्यशब्देनोच्यत एव वचनं हि शुक्रस्रुतिकरं किंचित् किंचित् शुक्रविवर्धनम् ॥५॥

स्रुतिवृद्धिकरं किंचित्त्रिविधं वृष्यमुच्यते इति तदेवं सम्पूर्णवृष्यत्वं माषे बोद्धव्यम् ॥६॥

राजमाषगुणकथने तत्स्वादुरिति माषवत्स्वादुः किंवा रूक्षश्चेत्यादि पाठान्तरम् ॥७॥

उष्ण इत्यादिना कुलत्थगुणः कुलत्थश्च शुक्लकृष्णचित्रलोहितभेदेन चतुर्विधो भवति तथा ग्राम्यवन्यभेदेन च द्विविधोऽपि अत एव तन्त्रान्तरे वन्यः कुलत्थस्तद्वच्च विशेषान् नेत्ररोगनुत् इत्युक्तम् ॥८॥

मकुष्टको मोठ इति ख्यातः ॥९॥

चणकः प्रसिद्धः ॥१०॥

खण्डिका त्रिपुटकलायः हरेणुः वर्तुलकलायः ॥११॥

कलायो वातल इति त्रिपुटकलायः ॥१२॥

तिलगुणो यद्यपि विशेषेण नोक्तः तथापि प्रधाने कृष्णतिले ज्ञेयः उक्तं हि सुश्रुते तिलेषु सर्वेष्वसितः प्रधानो मध्यः सितो हीनतरास् ततोऽन्ये इति ॥१३॥

विविधाः शिम्बीजातय इति कृष्णपीतरक्तश्वेतकुशिम्बीभेदा इत्यर्थः ।
शिम्बी रूक्षा इत्यादि केचित् पठन्ति ॥१४॥

आढकी तुवरी वातलेति छेदः ॥१५॥

कफवातनुद् अवल्गुजैडगजयोर् बीजस्य गुणः ॥१६॥

निष्पावो वल्लः ॥१७॥

काकाण्डः शूकरशिम्बिः उमा अतसी ऊर्णांपाठपक्षे तस्यैवोर्णा ॥१८॥

शमीधान्यवर्ग इत्यत्र शमी शिम्बिः तदन्तर्गतं धान्यम् ॥१९॥


गोखराश्वतरोष्ट्राश्वद्वीपिसिंहर्क्षवानराः ।
वृको व्याघ्रस्तरक्षुश्च बभ्रुमार्जारमूषिकाः ॥२७.३५॥

लोपाको जम्बुकः श्येनो वान्तादश्चाषवायसौ ।
शशघ्नी मधुहा भासो गृध्रोलूककुलिङ्गकाः ॥२७.३६॥

धूमिका कुररश्चेति प्रसहा मृगपक्षिणः ।

आयुर्वेददीपिका


सूप्यानन्तरं मांसस्य व्यञ्जनत्वेन प्राधान्यान् मांसवर्गाभिधानम् ॥१॥

खरः गर्दभः अश्वतरः वेगसरः स चाश्वायां खराज्जातः द्वीपी चित्रव्याघ्रः ऋक्षः भल्लूकः ॥२॥

वृकः कुक्कुरानुकारी पशुशत्रुः तरक्षुः व्याघ्रभेदः तरच्छ इति ख्यातः बभ्रुः अतिलोमशः कुक्कुरः पर्वतोपकण्ठे भवति केचिद् बृहन्नकुलम् आहुः ॥३॥

लोपाकः स्वल्पशृगालो महालाङ्गूलः ॥४॥

श्येनः पक्षी प्रसिद्धः ॥५॥

वान्तादः कुक्कुरः ॥६॥

चाषः कनकवायस इति ख्यातः ॥७॥

शशघ्नी पाञ्जिः इति ख्याता ॥८॥

भासः भस्मवर्णः पक्षी शिखावान् प्रसहवर्गे ॥९॥

कुलिङ्गः कालचटकः ॥१०॥


श्वेतः श्यामश्चित्रपृष्ठः कालकः काकुलीमृगः ॥२७.३७॥

कूर्चिका चिल्लटो भेको गोधा शल्लकगण्डकौ ।
कदली नकुलः श्वाविदिति भूमिशयाः स्मृताः ॥२७.३८॥

आयुर्वेददीपिका


काकुलीमृगः मालुयासर्प इति ख्यातः तस्य श्वेत इत्यादयश् चत्वारो भेदाः ॥१॥

कूर्चिका संकुचः ॥२॥

चिल्लटः चियारः ॥३॥

शल्लको महाशकली शलक इति ख्यातः गण्डकः गोधाभेदः ॥४॥

कदली कदलीहट्ट इति ख्यातः ॥५॥

श्वावित् सेज्जक इति ख्यातः ॥६॥

भूमिशया बिलेशयाः ॥७॥


सृमरश्चमरः खड्गो महिषो गवयो गजः ।
न्यङ्कुर् वराहश्चानूपा मृगाः सर्वे रुरुस्तथा ॥२७.३९॥

आयुर्वेददीपिका


सृमरः महाशूकरः ॥१॥

चमरः केशमृत्युः ॥२॥

खड्गः गण्डकः ॥३॥

गवयः गवाकारः ॥४॥

न्यङ्कुः न्यङ्कुशो हरिणः ॥५॥

रुरुः बहुशृङ्गो हरिणः ॥६॥


कूर्मः कर्कटको मत्स्यः शिशुमारस् तिमिङ्गिलः ।
शुक्तिशङ्खोद्रकुम्भीरचुलुकीमकरादयः ॥२७.४०॥



आयुर्वेददीपिका


शिशुमारः गोतुण्डनक्रः ॥१॥

तिमिङ्गिलः सामुद्रो महामत्स्यः ॥२॥

शुक्तिः मुक्ताप्रभवो जन्तुः ऊद्रः जलबिडालः कुम्भीरः घटिकावान् चुलुकी शुशु इति ख्यातः ॥३॥

शिशुमारादीनां मत्स्यग्रहणेन ग्रहणे प्राप्ते विशेषव्यवहारार्थं पुनरभिधानम् ॥४॥


इति वारिशयाः प्रोक्ता वक्ष्यन्ते वारिचारिणः ।
हंसः क्रौञ्चो बलाका च बकः कारण्डवः प्लवः ॥२७.४१॥

शरारिः पुष्कराह्वश्च केसरी मणितुण्डकः ।
मृणालकण्ठो मद्गुश्च कादम्बः काकतुण्डकः ॥२७.४२॥

उत्क्रोशः पुण्डरीकाक्षो मेघरावो ऽम्बुकुक्कुटी ।
आरा नन्दीमुखी वाटी सुमुखाः सहचारिणः ॥२७.४३॥

रोहिणी कामकाली च सारसो रक्तशीर्षकः ।
चक्रवाकस्तथान्ये च खगाः सन्त्यम्बुचारिणः ॥२७.४४॥

आयुर्वेददीपिका


हंसश् चतुर्विधो ऽपि राजहंसादिर् ग्राह्यः ॥१॥

क्रौञ्चः कोञ्च इति ख्यातः ॥२॥

बकः पाण्डुरपक्षः ॥३॥

बलाका शुक्ला ॥४॥

कारण्डवः काकवक्त्रः ॥५॥

प्लवः स्वनामप्रसिद्धः प्रसेवगलः ॥६॥

शरारिः शराली इति लोके ॥७॥

मद्गुः पानीयकाकः ॥८॥

कादम्बः कलहंसः ॥९॥

काकतुण्डकः श्वेतकारण्डवः ॥१०॥

उत्क्रोशः कुरल इति ख्यातः ॥११॥

पुण्डरीकाक्षः पुण्डरः ॥१२॥

मेघरावः मेघनादः ॥१३॥

मेघरावश्चातक इत्यन्ये तन्न तस्य वारिचरत्वाभावात् ॥१४॥

अम्बुकुक्कुटी जलकुक्कुटी ॥१५॥

आरा स्वनामख्याता ॥१६॥

नन्दीमुखी पत्राटी ॥१७॥

सारसः प्रसिद्धः ॥१८॥

रक्तशीर्षकः सारसभेदो लोहितशिराः ॥१९॥

अम्बुचारिण इति जले प्लवन्त इत्यर्थः ॥२०॥


पृषतः शरभो रामः श्वदंष्ट्रो मृगमातृका ।
शशोरणौ कुरङ्गश्च गोकर्णः कोट्टकारकः ॥२७.४५॥

चारुष्को हरिणैणौ च शम्बरः कालपुच्छकः ।
ऋष्यश्च वरपोतश्च विज्ञेया जाङ्गला मृगाः ॥२७.४६॥

आयुर्वेददीपिका


पृषतः चित्रहरिणः ॥१॥

शरभः अष्टापद उष्ट्रप्रमाणो महाशृङ्गः पृष्ठगतचतुष्पादः काश्मीरे प्रसिद्धः ॥२॥

रामः हिमालये महामृगः ॥३॥

श्वदंष्ट्रः चतुर्दंष्ट्रः कार्त्तिकपुरे प्रसिद्धः ॥४॥

मृगमातृका स्वल्पा पृथूदरा हरिणजातिः ॥५॥

कुरङ्गः हरिणभेदः ॥६॥

गोकर्णः गोमुखहरिणविशेषः ॥७॥

हरिणः ताम्रवर्णः एणः कृष्णसारः ॥८॥

ऋष्यः नीलाण्डो हरिणः ॥९॥

चारुष्कादयोऽपि हरिणभेदा एव ॥१०॥

शशस्तु सुश्रुते बिलेशयेषु पठितः तददूरान्तरार्थम् ॥११॥


लावो वर्तीरकश्चैव वार्तीकः सकपिञ्जलः ।
चकोरश्चोपचक्रश्च कुक्कुभो रक्तवर्त्मकः ॥२७.४७॥

लावाद्या विष्किरास्त्वेते वक्ष्यन्ते वर्तकादयः ।
वर्तको वर्तिका चैव बर्ही तित्तिरिकुक्कुटौ ॥२७.४८॥

कङ्कशारपदेन्द्राभगोनर्दगिरिवर्तकाः ।
क्रकरोऽवकरश्चैव वारडश्चेति विष्किराः ॥२७.४९॥

आयुर्वेददीपिका


लावः प्रसिद्धः ॥१॥

वर्तीरः कपिञ्जलभेदः ॥२॥

कपिञ्जलो गौरतित्तिरिः ॥३॥

वार्तीकः चटकभेदः संघातचारी ॥४॥

उपचक्रः चकोरभेदः ॥५॥

कुक्कुभः प्रसिद्धः रक्तवर्त्मक इति कुक्कुभविशेषणं तेन स्थूलकुक्कुभो गृह्यते ॥६॥

वर्तकः वट्टही इति ख्यातः ॥७॥

वार्तिका स्वल्पप्रमाणा जात्यन्तरमेव केचित् तु वर्तकस्त्रियं वर्तिकां वदन्ति अस्याश्च ग्रहणं स्त्रीलिङ्गभेदेऽपि विशेषलाघवप्रतिषेधार्थम् अन्यथा स्त्रीत्वेन वर्तिकाद्वर्तिकाया लाघवं स्यात् ॥८॥

बर्ही मयूरः ॥९॥

शारपदेन्द्राभः मल्लकङ्कः ॥१०॥

गोनर्दो घोडाकङ्क इति ख्यातः ॥११॥

क्रकरः प्रसिद्धः ॥१२॥

लावादिवर्तिकादिविष्किरगणद्वयकरणं गुणभेदकथनार्थम् ॥१३॥


शतपत्त्रो भृङ्गराजः कोयष्टिर् जीवजीवकः ।
कैरातः कोकिलोऽत्यूहो गोपापुत्रः प्रियात्मजः ॥२७.५०॥

लट्टा लटूषको बभ्रुर् वटहा डिण्डिमानकः ।
जटी दुन्दुभिपाक्कारलोहपृष्ठकुलिङ्गकाः ॥२७.५१॥

कपोतशुकसारङ्गाश् चिरटीकङ्कुयष्टिकाः ।
सारिका कलविङ्कश्च चटकोऽङ्गारचूडकः ॥२७.५२॥

पारावतः पाण्डविक इत्युक्ताः प्रतुदा द्विजाः ।

आयुर्वेददीपिका


शतपत्त्रः काष्ठकुक्कुटकः ॥१॥

भृङ्गराजः प्रसिद्धो भ्रमरवर्णः कोयष्टिः कोडा इति ख्यातः ॥२॥

जीवञ्जीवकः विषदर्शनमृत्युः ॥३॥

अत्यूहः डाहुकः दात्यूह इति वा पाठः स च प्रसिद्धः ॥४॥

लट्टा फेञ्चाको रक्तपुच्छाधोभागः लटूषकोऽपि तद्भेदः ॥५॥

डिण्डिमानकः डिण्डिमवद् उत्कटध्वनिः ॥६॥

कुलिङ्ग इति वनचटकाकारः पीतमस्तकः वाए इति लोके ॥७॥

कलविङ्कः ग्राम्यचटकः ॥८॥

चटकस्तु देवकुलचटकः स्वल्पप्रमाणः ॥९॥

यान्यत्रानुक्तान्यप्रसिद्धानि तानि तद्विद्भ्यो देशान्तरेभ्यश्च ज्ञेयानि ॥१०॥


प्रसह्य भक्षयन्तीति प्रसहास्तेन संज्ञिताः ॥२७.५३॥

भूशया बिलवासित्वाद् आनूपानूपसंश्रयात् ।
जले निवासाज्जलजा जलेचर्याज् जलेचराः ॥२७.५४॥

स्थलजा जाङ्गलाः प्रोक्ता मृगा जाङ्गलचारिणः ।
विकीर्य विष्किराश्चेति प्रतुद्य प्रतुदाः स्मृताः ॥२७.५५॥

योनिरष्टविधा त्व् एषा मांसानां परिकीर्तिता ।

आयुर्वेददीपिका


प्रसहादिसंज्ञानिरुक्त्या लक्षणमाह ॥१॥

प्रसह्येति हठात् ॥२॥

आनूपानूपसंश्रयादिति पूर्वत्रासिद्धविधेर् अनित्यत्वेनानूपा इत्यत्र यलोपस्य सिद्धत्वेनैव संहिता ज्ञेया ॥३॥

जलेचर्यादिति जलवासिनाम् एव हंसादीनां जले चरणमात्रत्वं बोद्धव्यम् ॥४॥

स्थलजा इत्युक्ते गजादिष्वपि स्थलजातेषु प्रसक्तिः स्यादित्याह जाङ्गलचारिण इति ॥५॥

विकीर्येत्यत्र भक्षयन्ति इति शेषः एवं प्रतुद्येत्यत्रापि प्रतुद्येति बहुधाभिहत्य ॥६॥


प्रसहा भूशयानूपवारिजा वारिचारिणः ॥२७.५६॥

गुरूष्णस्निग्धमधुरा बलोपचयवर्धनाः ।
वृष्याः परं वातहराः कफपित्तविवर्धनाः ॥२७.५७॥

हिता व्यायामनित्येभ्यो नरा दीप्ताग्नयश्च ये ।
प्रसहानां विशेषेण मांसं मांसाशिनां भिषक् ॥२७.५८॥

जीर्णार्शोग्रहणीदोषशोषार्तानां प्रयोजयेत् ।
लावाद्यो वैष्किरो वर्गः प्रतुदा जाङ्गला मृगाः ॥२७.५९॥

लघवः शीतमधुराः सकषाया हिता नृणाम् ।
पित्तोत्तरे वातमध्ये संनिपाते कफानुगे ॥२७.६०॥

विष्किरा वर्तकाद्यास्तु प्रसहाल्पान्तरा गुणैः ।

आयुर्वेददीपिका


प्रसहा द्विविधा मांसादा व्याघ्रश्येनादयः तथा अमांसादाश्च गवादयः तेन मांसादानां विशेषमाह प्रसहानाम् इत्यादि ॥१॥

जीर्णत्वेनार्शःप्रभृतीनां चिरानुबन्धं दर्शयति ॥२॥

प्रतुदा इत्यत्र तथा जाङ्गला इत्यत्र चकारो लुप्तनिर्दिष्टः ॥३॥

कफानुगे इति छेदः ॥४॥


नातिशीतगुरुस्निग्धं मांसम् आजम् अदोषलम् ॥२७.६१॥

शरीरधातुसामान्याद् अनभिष्यन्दि बृंहणम् ।
मांसं मधुरशीतत्वाद् गुरु बृंहणमाविकम् ॥२७.६२॥

योनाव् अजाविके मिश्रगोचरत्वादनिश्चिते ।

आयुर्वेददीपिका


शरीरधातुसामान्यादिति मनुष्यमांससमानत्वात् ॥१॥

एतेन शीतगुरुस्निग्धत्वेन युक्तम् अप्याजमांसं शरीरधातुसाम्यात् कफं न करोतीत्युक्तं भवति ॥२॥

आविकं मांसं मधुरशीतत्वेन पित्तहरमपि बोद्धव्यम् अत एव शरद्विधाव् अप्युक्तम् उरभ्रशरभान् इति ॥३॥

रक्तपित्तनिदाने तु वराहमहिषेत्यादिना द्रव्यान्तरसंयुक्तस्यैवाविकमांसस्य रक्तपित्तकर्तृत्वं ज्ञेयम् ॥४॥

योनाव् इति प्रसहाद्यष्टविधजातौ ॥५॥

मिश्रगोचरत्वादिति कदाचिदनूपसेवनात् कदाचिद् धन्वसेवनात् कदाचिद् उभयसेवनाद् अजाव्योर् अनिश्चितयोनित्वम् इत्यर्थः ॥६॥

अत्र अनिश्चिते इति योनिविशेषणं किंवा अजा च अवी च एते अनिश्चिते ॥७॥

ननु यद्येवं तदा तित्तिरिरपि धन्वानूपसेवनान्न विष्किरगणे पठनीयः ॥८॥

नैवं तित्तिरिजातिविशेषस्य धन्वानूपयोर् नियमेन निषेवणाद् गुणनियमः पार्यते कर्तुम् अव्यजयोस्तु नियमोऽयं नास्ति यतः केचिदजावी धन्वमात्रचरे केचिच्चानूपमात्रचरे केचिच्चोभयमात्रचरे तेन तयोर् नियमचरकृतो योनिभेदः कर्तुं न पार्यते ॥९॥


सामान्येनोपदिष्टानां मांसानां स्वगुणैः पृथक् ॥२७.६३॥

केषांचिद् गुणवैशेष्याद् विशेष उपदेक्ष्यते ।
दर्शनश्रोत्रमेधाग्निवयोवर्णस्वरायुषाम् ॥२७.६४॥

बर्ही हिततमो बल्यो वातघ्नो मांसशुक्रलः ।
गुरूष्णस्निग्धमधुराः स्वरवर्णबलप्रदाः ॥२७.६५॥

बृंहणाः शुक्रलाश्चोक्ता हंसा मारुतनाशनाः ।
स्निग्धाश्चोष्णाश्चवृष्याश् च बृंहणाः स्वरबोधनाः ॥२७.६६॥

बल्याः परं वातहराः स्वेदनाश्चरणायुधाः ।
गुरूष्णो मधुरो नातिधन्वानूपनिषेवणात् ॥२७.६७॥

तित्तिरिः संजयेच्छीघ्रं त्रीन् दोषाननिलोल्बणान् ।
पित्तश्लेष्मविकारेषु सरक्तेषु कपिञ्जलाः ॥२७.६८॥

मन्दवातेषु शस्यन्ते शैत्यमाधुर्यलाघवात् ।
लावाः कषायमधुरा लघवोऽग्निविवर्धनाः ॥२७.६९॥

संनिपातप्रशमनाः कटुकाश्च विपाकतः ।
गोधा विपाके मधुरा कषायकटुका रसे ॥२७.७०॥

वातपित्तप्रशमनी बृंहणी बलवर्धनी ।
शल्लको मधुराम्लश्च विपाके कटुकः स्मृतः ॥२७.७१॥

वातपित्तकफघ्नश्च कासश्वासहरस्तथा ।
कषायविशदाः शीता रक्तपित्तनिबर्हणाः ॥२७.७२॥

विपाके मधुराश्चैव कपोता गृहवासिनः ।
तेभ्यो लघुतराः किंचित्कपोता वनवासिनः ॥२७.७३॥

शीताः संग्राहिणश्चैव स्वल्पमूत्रकराश्च ते ।
शुकमांसं कषायाम्लं विपाके रूक्षशीतलम् ॥२७.७४॥

शोषकासक्षयहितं संग्राहि लघु दीपनम् ।
चटका मधुराः स्निग्धा बलशुक्रविवर्धनाः ॥२७.७५॥

संनिपातप्रशमनाः शमना मारुतस्य च ।
कषायो विशदो रूक्षः शीतः पाके कटुर्लघुः ॥२७.७६॥

शशः स्वादुः प्रशस्तश्च संनिपाते ऽनिलावरे ।
मधुरा मधुराः पाके त्रिदोषशमनाः शिवाः ॥२७.७७॥

लघवो बद्धविण्मूत्राः शीताश्चैणाः प्रकीर्तिताः ।
स्नेहनं बृंहणं वृष्यं श्रमघ्नमनिलापहम् ॥२७.७८॥

वराहपिशितं बल्यं रोचनं स्वेदनं गुरु ।
गव्यं केवलवातेषु पीनसे विषमज्वरे ॥२७.७९॥

शुष्ककासश्रमात्यग्निमांसक्षयहितं च तत् ।
स्निग्धोष्णं मधुरं वृष्यं माहिषं गुरु तर्पणम् ॥२७.८०॥

दार्ढ्यं बृहत्त्वमुत्साहं स्वप्नं च जनयत्यपि ।
गुरूष्णा मधुरा बल्या बृंहणाः पवनापहाः ॥२७.८१॥

मत्स्याः स्निग्धाश्च वृष्याश्च बहुदोषाः प्रकीर्तिताः ।
शैवालशष्पभोजित्वात्स्वप्नस्य च विवर्जनात् ॥२७.८२॥

रोहितो दीपनीयश्च लघुपाको महाबलः ।
वर्ण्यो वातहरो वृष्यश्चक्षुष्यो बलवर्धनः ॥२७.८३॥

मेधास्मृतिकरः पथ्यः शोषघ्नः कूर्म उच्यते ।
खड्गमांसम् अभिष्यन्दि बलकृन्मधुरं स्मृतम् ॥२७.८४॥

स्नेहनं बृंहणं वर्ण्यं श्रमघ्नमनिलापहम् ।
धार्तराष्ट्रचकोराणां दक्षाणां शिखिनामपि ॥२७.८५॥

चटकानां च यानि स्युर् अण्डानि च हितानि च ।
क्षीणरेतःसु कासेषु हृद्रोगेषु क्षतेषु च ॥२७.८६॥

मधुराण्यविदाहीनि सद्योबलकराणि च ।
शरीरबृंहणे नान्यत्खाद्यं मांसाद्विशिष्यते ॥२७.८७॥

इति वर्गस्तृतीयोऽयं मांसानां परिकीर्तितः ।

आयुर्वेददीपिका


केषांचिदिति वक्ष्यमाणमयूरादीनाम् ॥१॥

गुणवैशेष्यादिति विशिष्टगुणशालित्वात् ॥२॥

मयूरस्य गुरुत्वस्निग्धत्वं वर्तकादिगणपठितत्वेनैव लब्धं सत् पुनरुच्यते विशेषार्थम् ॥३॥

एवमन्यत्रापि गणोक्तगुणकथनेन लब्धस्य पुनः कथने व्याख्येयम् ॥४॥

चरणायुधः कुक्कुटः ॥५॥

धन्वानूपनिषेवणादिति हेतुकथनेन य एव धन्वानूपनिषेवी तित्तिरिः स एव यथोक्तगुण इति ज्ञेयम् ॥६॥

एवमन्ये ऽपि ये गवादयो धन्वानूपनिषेविणस् ते ऽपि तित्तिरिसमानगुणा भवन्ति तित्तिरिस्तु विशेषेणेति तित्तिरिः साक्षादुक्तः ॥७॥

किंवा तित्तिरेरेव एवंगुणत्वे धन्वानूपनिषेवणं हेतुः नान्यत्र गवादेर् अनूपदेशादेर् इति ज्ञेयम् ॥८॥

कपोता गृहवासिन इति पारावताः ॥९॥

चटका मधुरा इत्यादि केचित् पठन्त्येव ये तु न पठन्ति तेषां मते चटकस्य प्रतुदसामान्यगुणलब्धं वृष्यत्वं तृप्तिं चटकमांसानां गत्वा यो ऽनुपिबेत् पयः इत्यादिवृष्यप्रयोगादेव लभ्यते ॥१०॥

मयूरादीनां तु बहवो गुणा गणोक्तगुणाधिका इति पृथक् पाठः कृतः ॥११॥

मांसं बृंहणानाम् इत्यनेनैवाग्र्याधिकारवचनेन मांसस्य बृंहणत्वे लब्धे शरीरबृंहणे नान्य इत्यादिवचनं प्रकरणप्राप्तत्वेन तथा तस्यैवार्थस्य दार्ढ्यार्थं च ज्ञेयम् ॥१२॥


पाठाशुषाशटीशाकं वास्तुकं सुनिषण्णकम् ॥२७.८८॥

विद्याद्ग्राहि त्रिदोषघ्नं भिन्नवर्चस्तु वास्तुकम् ।
त्रिदोषशमनी वृष्या काकमाची रसायनी ॥२७.८९॥

नात्युष्णशीतवीर्या च भेदिनी कुष्ठनाशिनी ।
राजक्षवकशाकं तु त्रिदोषशमनं लघु ॥२७.९०॥

ग्राहि शस्तं विशेषेण ग्रहण्यर्शोविकारिणाम् ।
कालशाकं तु कटुकं दीपनं गरशोफजित् ॥२७.९१॥

लघूष्णं वातलं रूक्षं कालायं शाकमुच्यते ।
दीपनी चोष्णवीर्या च ग्राहिणी कफमारुते ॥२७.९२॥

प्रशस्यतेऽम्लचाङ्गेरी ग्रहण्यर्शोहिता च सा ।
मधुरा मधुरा पाके भेदिनी श्लेष्मवर्धनी ॥२७.९३॥

वृष्या स्निग्धा च शीता च मदघ्नी चाप्युपोदिका ।
रूक्षो मदविषघ्नश्च प्रशस्तो रक्तपित्तिनाम् ॥२७.९४॥

मधुरो मधुरः पाके शीतलस्तण्डुलीयकः ।
मण्डूकपर्णी वेत्राग्रं कुचेला वनतिक्तकम् ॥२७.९५॥

कर्कोटकावल्गुजकौ पटोलं शकुलादनी ।
वृषपुष्पाणि शार्ङ्गेष्टा केम्बूकं सकठिल्लकम् ॥२७.९६॥

नाडी कलायं गोजिह्वा वार्ताकं तिलपर्णिका ।
कौलकं कार्कशं नैम्बं शाकं पार्पटकं च यत् ॥२७.९७॥

कफपित्तहरं तिक्तं शीतं कटु विपच्यते ।

आयुर्वेददीपिका


शाकानामपि व्यञ्जनत्वेनानन्तरमुपदेशः ॥१॥

शुषा कासमर्दः ॥२॥

शटी स्वनामप्रसिद्धा ॥३॥

वास्तुकं टङ्कवास्तुकम् ॥४॥

नात्युष्णशीतवीर्येति नोष्णत्वं प्रकर्षप्राप्तमस्या नापि शीतत्वम् इत्यर्थः ॥५॥

यत्तु सुश्रुते तिक्ता काकमाची वातं शमयति उष्णवीर्यत्वात् इत्युक्तं तद्वीर्यवादिमतेन अत एव द्रव्यगुणे सुश्रुतेऽपि नात्युष्णशीता इत्येवमेव पठितम् ॥६॥

राजक्षवकः दुग्धिका ॥७॥

कालशाकं कालिया इति ख्यातं कालाख्यम् इति कालशाकम् एवोच्यते पुनः अन्ये तु कालायम् इति पठन्ति ॥८॥

मण्डूकपर्णी मणिमणीति ख्याता ॥९॥

कुचेला अकर्णविद्धिकाभेदः ॥१०॥

वनतिक्तकं पथ्यसुन्दरम् ॥११॥

अवल्गुजो वाल्गुजी ॥१२॥

शकुलादनी कटुरोहिणी ॥१३॥

शार्ङ्गेष्टा काकतिक्ता ॥१४॥

कठिल्लकः पुनर्नवा ॥१५॥

नाडी नाडीचः ॥१६॥

कलायो वर्तुलकलायः ॥१७॥

तिलपर्णिका हुलहुलिका ॥१८॥

गोजिह्वा दार्विपत्त्रिका ॥१९॥

कुलकः कारवेल्लकः केचित् तु कुलकं पटोलभेदम् आहुः ॥२०॥

कर्कशः स्वल्पकर्कोटकः ॥२१॥


सर्वाणि सूप्यशाकानि फञ्जी चिल्ली कुतुम्बकः ॥२७.९८॥

आलुकानि च सर्वाणि सपत्त्राणि कुटिञ्जरम् ।
शणशाल्मलिपुष्पाणि कर्बुदारः सुवर्चला ॥२७.९९॥

निष्पावः कोविदारश्च पत्तूरश् चुच्चुपर्णिका ।
कुमारजीवो लोट्टाकः पालङ्क्या मारिषस् तथा ॥२७.१००॥

कलम्बनालिकासूर्यः कुसुम्भवृकधूमकौ ।
लक्ष्मणा च प्रपुन्नाटो नलिनीका कुठेरकः ॥२७.१०१॥

लोणिका यवशाकं च कुष्माण्डकम् अवल्गुजम् यातुकः शालकल्याणी त्रिपर्णी पीलुपर्णिका ॥२७.१०२॥

शाकं गुरु च रूक्षं च प्रायो विष्टभ्य जीर्यति ।
मधुरं शीतवीर्यं च पुरीषस्य च भेदनम् ॥२७.१०३॥

स्विन्नं निष्पीडितरसं स्नेहाढ्यं तत् प्रशस्यते ।
शणस्य कोविदारस्य कर्बुदारस्य शाल्मलेः ॥२७.१०४॥

पुष्पं ग्राहि प्रशस्तं च रक्तपित्ते विशेषतः ।
न्यग्रोधोदुम्बराश्वत्थप्लक्षपद्मादिपल्लवाः ॥२७.१०५॥

कषायाः स्तम्भनाः शीता हिताः पित्तातिसारिणाम् ।
वायुं वत्सादनी हन्यात्कफं गण्डीरचित्रकौ ॥२७.१०६॥

श्रेयसी बिल्वपर्णी च बिल्वपत्त्रं तु वातनुत् ।
भण्डी शतावरीशाकं बला जीवन्तिकं च यत् ॥२७.१०७॥

पर्वण्याः पर्वपुष्प्याश्च वातपित्तहरं स्मृतम् ।
लघु भिन्नशकृत्तिक्तं लाङ्गलक्युरुवूकयोः ॥२७.१०८॥

तिलवेतसशाकं च शाकं पञ्चाङ्गुलस्य च ।
वातलं कटुतिक्ताम्लमधोमार्गप्रवर्तनम् ॥२७.१०९॥

रूक्षाम्लमुष्णं कौसुम्भं कफघ्नं पित्तवर्धनम् ।
त्रपुसैर्वारुकं स्वादु गुरु विष्टम्भि शीतलम् ॥२७.११०॥

मुखप्रियं च रूक्षं च मूत्रलं त्रपुसं त्व् अति ।
एर्वारुकं च सम्पक्वं दाहतृष्णाक्लमार्तिनुत् ॥२७.१११॥

वर्चोभेदीन्यलाबूनि रूक्षशीतगुरूणि च ।
चिर्भटैर्वारुके तद्वद्वर्चोभेदहिते तु ते ॥२७.११२॥

सक्षारं पक्वकूष्माण्डं मधुराम्लं तथा लघु ।
सृष्टमूत्रपुरीषं च सर्वदोषनिबर्हणम् ॥२७.११३॥

आयुर्वेददीपिका


सूप्यशाकानि माषपर्ण्यादीनि ॥१॥

फञ्जी ब्राह्मणयष्टिका ॥२॥

चिल्ली गौडवास्तुकः ॥३॥

कुतुम्बकः द्रोणपुष्पिका ॥४॥

आलुकानि पिण्डालुकादीनि ॥५॥

कर्बुदारः काञ्चनः ॥६॥

सुवर्चला सूर्यभक्तिका केचित् फप्पुकम् आहुः ॥७॥

पत्तूरः शालिञ्चः ॥८॥

चुच्चुपर्णिका नाडीचभेदः ॥९॥

कुमारजीवः जीवशाकम् ॥१०॥

लोट्टाकः लोट्टामारिषः ॥११॥

नालिका गोनाडीचः ॥१२॥

आसुरी राजिका मण्डको वा ॥१३॥

वृकधूमकः भूमिशिरीषः ॥१४॥

लक्ष्मणा स्वनामख्याता ॥१५॥

नलिनी पद्ममृणालं नीलिनीति पाठपक्षे बुह्ना ॥१६॥

यवशाकं क्षेत्रवास्तुकम् ॥१७॥

कूष्माण्डः सर्पच्छत्त्रम् ॥१८॥

अवल्गुजमिति अवल्गुजभेदः ॥१९॥

यातुकः शुक्ला शालपर्णी ॥२०॥

शालकल्याणी शालिञ्चभेदः ॥२१॥

त्रिपर्णी हंसपादिका ॥२२॥

पीलुपर्णी मोरटकः ॥२३॥

गण्डीरः शमठः ॥२४॥

बिल्वपर्णी बिल्वार्जकम् ॥२५॥

भण्डी स्वनामख्याता ॥२६॥

पर्वणी पर्वशाकम् ॥२७॥

पर्वपुष्पी कुक्कुटी ॥२८॥

पञ्चाङ्गुलः चित्रैरण्डः ॥२९॥

एर्वारुकं राजकर्कटी ॥३०॥

कूष्माण्डकं सुश्रुते बाल्याद्यावस्थाभेदेन पठितं तद् अप्यविरुद्धम् एव यतो बालमध्ययोस् तत्र पित्तहरत्वं कफकरत्वं चोक्तं तदपीह पित्तोत्तरे कफोत्तरे संनिपाते बोद्धव्यम् ॥३१॥


केलूटं च कदम्बं च नदीमाषकम् ऐन्दुकम् ।
विशदं गुरु शीतं च समभिष्यन्दि चोच्यते ॥२७.११४॥

उत्पलानि कषायाणि रक्तपित्तहराणि च ।
तथा तालप्रलम्बं स्याद् उरःक्षतरुजापहम् ॥२७.११५॥

खर्जूरं तालशस्यं च रक्तपित्तक्षयापहम् ।
तरूटबिसशालूकक्रौञ्चादनकशेरुकम् ॥२७.११६॥

शृङ्गाटकाङ्कलोड्यं च गुरु विष्टम्भि शीतलम् ।
कुमुदोत्पलनालास्तु सपुष्पाः सफलाः स्मृताः ॥२७.११७॥

शीताः स्वादुकषायास्तु कफमारुतकोपनाः ।
कषायमीषद्विष्टम्भि रक्तपित्तहरं स्मृतम् ॥२७.११८॥

पौष्करं तु भवेद्बीजं मधुरं रसपाकयोः ।
बल्यः शीतो गुरुः स्निग्धस्तर्पणो बृंहणात्मकः ॥२७.११९॥

वातपित्तहरः स्वादुर्वृष्यो मुञ्जातकः परम् ।
जीवनो बृंहणो वृष्यः कण्ठ्यः शस्तो रसायने ॥२७.१२०॥

विदारीकन्दो बल्यश्च मूत्रलः स्वादुशीतलः ।
अम्लिकायाः स्मृतः कन्दो ग्रहण्यर्शोहितो लघुः ॥२७.१२१॥

नात्युष्णः कफवातघ्नो ग्राही शस्तो मदात्यये ।
त्रिदोषं बद्धविण्मूत्रं सार्षपं शाकमुच्यते ॥२७.१२२॥

तद्वत् स्याद्रक्तनालस्य रूक्षमम्लं विशेषतः ।
तद्वत् पिण्डालुकं विद्यात् कन्दत्वाच्च मुखप्रियम् ।
सर्पच्छत्त्रकवर्ज्यास् तु बह्व्यो ऽन्याश् छत्त्रजातयः ॥२७.१२३॥

शीताः पीनसकर्त्र्यश्च मधुरा गुर्व्य एव च ।
चतुर्थः शाकवर्गो ऽयं पत्त्रकन्दफलाश्रयः ॥२७.१२४॥

आयुर्वेददीपिका


केलूटे हारीतवचनं केलूटं स्वादु विटपं तत्कन्दः स्वादुशीतलः इति ॥१॥

कदम्बं कदम्बिकां वदन्ति केचित् तु स्वल्पकदम्बकम् आहुः ॥२॥

नदीमाषकः उदीमानक इति ख्यातः ॥३॥

ऐन्दुकं निक्षारः ॥४॥

तालप्रलम्बः तालाङ्कुरः ॥५॥

शस्यशब्देनेह मस्तकमज्जा गृह्यते ॥६॥

तरुटः कह्लारकन्दः ॥७॥

क्रौञ्चादनं धिञ्चुलिका ॥८॥

कशेरुकशब्देन चिञ्चोडका राजकशेरुकश्च गृह्यते ॥९॥

अङ्कालोड्यं ह्रस्वोत्पलकन्दः ॥१०॥

मुञ्जातक औत्तरापथिककन्दः ॥११॥

अम्लिका स्वल्पविटपा प्रायः कामरूपादौ भवति ॥१२॥

सर्पच्छत्त्रं सर्पफणाकारं छत्त्रकम् ॥१३॥

अन्याश् छत्त्रजातयः करीषपलालादिजा बहुला ज्ञेयाः ॥१४॥

पत्त्रकन्दफलाश्रय इति प्राधान्येन तेन पुष्पाद्याश्रयत्वम् अपि शाकवर्गस्य ज्ञेयम् ॥१५॥


तृष्णादाहज्वरश्वासरक्तपित्तक्षतक्षयान् ।
वातपित्तमुदावर्तं स्वरभेदं मदात्ययम् ॥२७.१२५॥

तिक्तास्यताम् आस्यशोषं कासं चाशु व्यपोहति ।
मृद्वीका बृंहणी वृष्या मधुरा स्निग्धशीतला ॥२७.१२६॥

मधुरं बृंहणं वृष्यं खर्जूरं गुरु शीतलम् ।
क्षयेऽभिघाते दाहे च वातपित्ते च तद्धितम् ॥२७.१२७॥

तर्पणं बृंहणं फल्गु गुरु विष्टम्भि शीतलम् ।
परूषकं मधूकं च वातपित्ते च शस्यते ॥२७.१२८॥

मधुरं बृंहणं बल्यम् आम्रातं तर्पणं गुरु ।
सस्नेहं श्लेष्मलं शीतं वृष्यं विष्टभ्य जीर्यति ॥२७.१२९॥

तालशस्यानि सिद्धानि नारिकेलफलानि च ।
बृंहणस्निग्धशीतानि बल्यानि मधुराणि च ॥२७.१३०॥

मधुराम्लकषायं च विष्टम्भि गुरु शीतलम् ।
पित्तश्लेष्मकरं भव्यं ग्राहि वक्त्रविशोधनम् ॥२७.१३१॥

अम्लं परूषकं द्राक्षा बदराण्यारुकाणि च ।
पित्तश्लेष्मप्रकोपीणि कर्कन्धुनिकुचान्यपि ॥२७.१३२॥

नात्युष्णं गुरु सम्पक्वं स्वादुप्रायं मुखप्रियम् ।
बृंहणं जीर्यति क्षिप्रं नातिदोषलमारुकम् ॥२७.१३३॥

द्विविधं शीतमुष्णं च मधुरं चाम्लमेव च ।
गुरु पारावतं ज्ञेयमरुच्यत्यग्निनाशनम् ॥२७.१३४॥

भव्यादल्पान्तरगुणं काश्मर्यफलमुच्यते ।
तथैवाल्पान्तरगुणं तूदम् अम्लं परूषकात् ॥२७.१३५॥

कषायमधुरं टङ्कं वातलं गुरु शीतलम् ।
कपित्थमामं कण्ठघ्नं विषघ्नं ग्राहि वातलम् ॥२७.१३६॥

मधुराम्लकषायत्वात्सौगन्ध्याच्च रुचिप्रदम् ।
परिपक्वं च दोषघ्नं विषघ्नं ग्राहि गुर्वपि ॥२७.१३७॥

बिल्वं तु दुर्जरं पक्वं दोषलं पूतिमारुतम् ।
स्निग्धोष्णतीक्ष्णं तद्बालं दीपनं कफवातजित् ॥२७.१३८॥

रक्तपित्तकरं बालमापूर्णं पित्तवर्धनम् ।
पक्वमाम्रं जयेद्वायुं मांसशुक्रबलप्रदम् ॥२७.१३९॥

कषायमधुरप्रायं गुरु विष्टम्भि शीतलम् ।
जाम्बवं कफपित्तघ्नं ग्राहि वातकरं परम् ॥२७.१४०॥

बदरं मधुरं स्निग्धं भेदनं वातपित्तजित् ।
तच्छुष्कं कफवातघ्नं पित्ते न च विरुध्यते ॥२७.१४१॥

कषायमधुरं शीतं ग्राहि सिम्बितिकाफलम् ।
गाङ्गेरुकी करीरं च बिम्बी तोदनधन्वनम् ॥२७.१४२॥

मधुरं सकषायं च शीतं पित्तकफापहम् ।
सम्पक्वं पनसं मोचं राजादनफलानि च ॥२७.१४३॥

स्वादूनि सकषायाणि स्निग्धशीतगुरूणि च ।
कषायविशदत्वाच्च सौगन्ध्याच्च रुचिप्रदम् ॥२७.१४४॥

अवदंशक्षमं हृद्यं वातलं लवलीफलम् ।
नीपं शताह्वकं पीलु तृणशून्यं विकङ्कतम् ॥२७.१४५॥

प्राचीनामलकं चैव दोषघ्नं गरहारि च ।
ऐङ्गुदं तिक्तमधुरं स्निग्धोष्णं कफवातजित् ॥२७.१४६॥

तिन्दुकं कफपित्तघ्नं कषायं मधुरं लघु ।
विद्याद् आमलके सर्वान् रसांल्लवणवर्जितान् ॥२७.१४७॥

रूक्षं स्वादु कषायं कफपित्तहरं परम् ।
रसासृङ्मांसमेदोजान्दोषान् हन्ति विभीतकम् ॥२७.१४८॥

स्वरभेदकफोत्क्लेदपित्तरोगविनाशनम् ।
अम्लं कषायमधुरं वातघ्नं ग्राहि दीपनम् ॥२७.१४९॥

स्निग्धोष्णं दाडिमं हृद्यं कफपित्तविरोधि च ।
रूक्षाम्लं दाडिमं यत्तु तत्पित्तानिलकोपनम् ॥२७.१५०॥

मधुरं पित्तनुत्तेषां पूर्वं दाडिममुत्तमम् ।
वृक्षाम्लं ग्राहि रूक्षोष्णं वातश्लेष्मणि शस्यते ॥२७.१५१॥

अम्लिकायाः फलं पक्वं तस्मादल्पान्तरं गुणैः ।
गुणैस् तैर् एव संयुक्तं भेदनं त्व् अम्लवेतसम् ॥२७.१५२॥

शूले ऽरुचौ विबन्धे च मन्दे ऽग्नौ मद्यविप्लवे ।
हिक्काश्वासे च कासे च वम्यां वर्चोगदेषु च ॥२७.१५३॥

वातश्लेष्मसमुत्थेषु सर्वेष्वेवोपदिश्यते ।
केसरं मातुलुङ्गस्य लघु शेषमतोऽन्यथा ॥२७.१५४॥

रोचनो दीपनो हृद्यः सुगन्धिस्त्वग्विवर्जितः ।
कर्चूरः कफवातघ्नः श्वासहिक्कार्शसां हितः ॥२७.१५५॥

मधुरं किंचिदम्लं च हृद्यं भक्तप्ररोचनम् ।
दुर्जरं वातशमनं नागरङ्गफलं गुरु ॥२७.१५६॥

वातामाभिषुकाक्षोटमुकूलकनिकोचकाः ।
गुरूष्णस्निग्धमधुराः सोरुमाणा बलप्रदाः ॥२७.१५७॥

वातघ्ना बृंहणा वृष्याः कफपित्ताभिवर्धनाः ।
प्रियालमेषां सदृशं विद्यादौष्ण्यं विना गुणैः ॥२७.१५८॥

श्लेष्मलं मधुरं शीतं श्लेष्मातकफलं गुरु ।
श्लेष्मलं गुरु विष्टम्भि चाङ्कोटफलमग्निजित् ॥२७.१५९॥

गुरूष्णं मधुरं रूक्षं केशघ्नं च शमीफलम् ।
विष्टम्भयति कारञ्जं वातश्लेष्माविरोधि च ॥२७.१६०॥

आम्रातकं दन्तशठम् अम्लं सकरमर्दकम् ।
रक्तपित्तकरं विद्यादैरावतकम् एव च ॥२७.१६१॥

वातघ्नं दीपनं चैव वार्ताकं कटु तिक्तकम् ।
वातलं कफपित्तघ्नं विद्यात्पर्पटकीफलम् ॥२७.१६२॥

पित्तश्लेष्मघ्नमम्लं च वातलं चाक्षिकीफलम् ।
मधुराण्यम्लपाकीनि पित्तश्लेष्महराणि च ॥२७.१६३॥

अश्वत्थोदुम्बरप्लक्षन्यग्रोधानां फलानि च ।
कषायमधुराम्लानि वातलानि गुरूणि च ॥२७.१६४॥

भल्लातकास्थ्यग्निसमं तन्मांसं स्वादु शीतलम् ।
पञ्चमः फलवर्गो ऽयमुक्तः प्रायोपयोगिकः ॥२७.१६५॥

आयुर्वेददीपिका


फलानामपि केषांचिच्छाकवद् उपयोगात् फलवर्गम् आह ॥१॥

मृद्वीकाग्रे ऽभिधीयते श्रेष्ठगुणत्वात् ॥२॥

फल्गु औदुम्बरम् ॥३॥

मधूकशब्देन समानगुणत्वात् फलं कुसुमं च ज्ञेयम् ॥४॥

परूषकं चेह मधुरपरूषकं ज्ञेयम् ॥५॥

आम्रातम् आमडा इति ख्यातमाम्रफलसदृशम् इति चन्द्रिका एतच्च द्विविधं मधुरमम्लं च अत्र मधुरस्यैव गुणः अम्लस्य वक्ष्यमाणत्वात् ॥६॥

तालशस्यानीति तालफलानि यथा हरीतकीनां शस्यानि इत्यत्र फलमेव शस्यम् उच्यते ॥७॥

सिद्धानि पक्वानि तेन पक्वतालस्य ग्रहणम् ॥८॥

भव्यं कर्मरङ्गफलं केचित् त्वक्संहितमात्रफलं वदन्ति ॥९॥

आरुकं कार्त्तिकेयपुरे प्रसिद्धम् ॥१०॥

कर्कन्धूः शृगालबदरी कर्कन्धूनिकुचयोर् विच्छिद्य पाठेन नित्यं पित्तश्लेष्मकर्तृत्वं तयोर् दर्शयति ॥११॥

परूषकादीनां तु मधुराम्लभेदेन द्विरूपाणां य एव परूषकादयो ऽम्लास्त एव पित्तश्लेष्मकरा इति ॥१२॥

पारावतः कामरूपप्रसिद्धः ॥१३॥

अत्र यो मधुरः स शीतः यश्चाम्लः स उष्ण इति ज्ञेयम् ॥१४॥

एवं रसनिर्देशेनैव वीर्ये लब्धेऽपि पुनर्वीर्याख्यानमम्लस्यामलकस्य शीततादर्शनाद् बोद्धव्यम् ॥१५॥

टङ्कं काश्मीरप्रसिद्धम् ॥१६॥

सिद्धम् इति कालवशात् पक्वम् ॥१७॥

कपित्थबिल्वाम्राणाम् अवस्थाभेदेन गुणकथनं सर्वावस्थासु तेषामुपयोज्यत्वात् ॥१८॥

बदरं मध्यप्रमाणं तद्धि मधुरमेव भवति ॥१९॥

गाङ्गेरुकं नागबलाफलम् ॥२०॥

करीरो मरुजो द्रुमः ॥२१॥

तोदनं धन्वनभेदः ॥२२॥

राजादनं क्षीरी ॥२३॥

अवदंशक्षममिति लवलीफलं प्राश्य द्रव्यान्तरे रुचिर् भवति ॥२४॥

नीपं कदम्बकम् ॥२५॥

शताह्वकफलं सेह इति ख्यातम् ॥२६॥

पीलु औत्तरापथिकम् ॥२७॥

तृणशून्यं केतकीफलम् ॥२८॥

प्राचीनामलकं पानीयामलकम् ॥२९॥

तिन्दुकं केन्दुः ॥३०॥

दाडिमगुणे कफपित्ताविरोधीति अम्लदाडिमं पित्ताविरोधि मधुरं तु कफाविरोधि एवं च त्रिदोषहरत्वमस्योपपन्नं यद् उक्तं सुश्रुते द्विविधं तत्तु विज्ञेयं मधुरं चाम्लमेव च ॥३१॥

त्रिदोषघ्नं तु मधुरमम्लं वातकफापहम् इति ॥३२॥

वृक्षाम्लं महार्द्रकम् ॥३३॥

अम्लिका तिन्तिडी ॥३४॥

शेषमिति त्वङ्मांसम् अतोऽन्यथेति गुरु किंवा शूले ऽरुचाव् इत्याद्युक्तकेसरगुणविपरीतम् ॥३५॥

वातामादय औत्तरापथिकाः ॥३६॥

प्रियालोऽयं मगधप्रसिद्धः ॥३७॥

दन्तशठः जम्बीरः केचिद् अम्लोटं वदन्ति ॥३८॥

इहाम्रातकमम्लं ग्राह्यं पूर्वं तु मधुरमाम्रातकम् उक्तम् ॥३९॥

करमर्दं द्विविधं ग्रामजं वनजं च ॥४०॥

ऐरावतम् अम्लातकं किंवा नागरङ्गम् ॥४१॥

वार्ताकं दक्षिणापथे फलवत् खाद्यते यद् गोष्ठवार्ताकसंज्ञकं तस्येह गुणः किंवा फलवदसिद्धस्यैव वार्ताकस्योपयोज्यस्यायं गुणः ॥४२॥

आक्षिकी लता तस्याः फलम् आक्षिकम् ॥४३॥

अनुपाकि अनुया इति ख्याता ॥४४॥

अग्निसमम् इति स्फोटादिजनकत्वात् ॥४५॥


रोचनं दीपनं वृष्यम् आर्द्रकं विश्वभेषजम् ।
वातश्लेष्मविबन्धेषु रसस्तस्योपदिश्यते ॥२७.१६६॥

रोचनो दीपनस् तीक्ष्णः सुगन्धिर्मुखशोधनः ।
जम्बीरः कफवातघ्नः क्रिमिघ्नो भक्तपाचनः ॥२७.१६७॥

बालं दोषहरं वृद्धं त्रिदोषं मारुतापहम् ।
स्निग्धसिद्धं विशुष्कं तु मूलकं कफवातजित् ॥२७.१६८॥

हिक्काकासविषश्वासपार्श्वशूलविनाशनः ।
पित्तकृत्कफवातघ्नः सुरसः पूतिगन्धहा ॥२७.१६९॥

यवानी चार्जकश्चैव शिग्रुशालेयमृष्टकम् ।
हृद्यान्य् आस्वादनीयानि पित्तमुत्क्लेशयन्ति च ॥२७.१७०॥

गण्डीरो जलपिप्पल्यस्तुम्बरुः शृङ्गवेरिका ।
तीक्ष्णोष्णकटुरूक्षाणि कफवातहराणि च ॥२७.१७१॥

पुंस्त्वघ्नः कटुरूक्षोष्णो भूस्तृणो वक्त्रशोधनः ।
खराह्वा कफवातघ्नी वस्तिरोगरुजापहा ॥२७.१७२॥

धान्यकं चाजगन्धा च सुमुखश्चेति रोचनाः ।
सुगन्धा नातिकटुका दोषानुत्क्लेशयन्ति च ॥२७.१७३॥

ग्राही गृञ्जनकस्तीक्ष्णो वातश्लेष्मार्शसां हितः ।
स्वेदनेऽभ्यवहारे च योजयेत् तम् अपित्तिनाम् ॥२७.१७४॥

श्लेष्मलो मारुतघ्नश्च पलाण्डुर्न च पित्तनुत् ।
आहारयोगी बल्यश्च गुरुर्वृष्योऽथ रोचनः ॥२७.१७५॥

क्रिमिकुष्ठकिलासघ्नो वातघ्नो गुल्मनाशनः ।
स्निग्धश्चोष्णश्च वृष्यश्च लशुनः कटुको गुरुः ॥२७.१७६॥

शुष्काणि कफवातघ्नान्य् एतान्य् एषां फलानि च ।
हरितानामयं चैष षष्ठो वर्गः समाप्यते ॥२७.१७७॥

आयुर्वेददीपिका


हरितानाम् अप्यार्द्रकादीनां फलवदग्निपाकम् अन्तरेण भोजनस्य प्राक् पश्चाच्चोपयोगात् फलम् अनु हरितकथनं फलेभ्यस्तु पश्चादभिधानं हरितस्य तृप्त्यनाधायकत्वात् ॥१॥

आर्द्रकमिति विशेषणं शुण्ठीव्यावृत्त्यर्थं शुण्ठीगुणश्चाहारसंयोगिवर्गे भविष्यति ॥२॥

जम्बीरः पर्णासभेदः जम्बीरफलं सुगन्धि ॥३॥

बालं दोषहरमिति तरुणावस्थायामव्यक्तरसायां त्रिदोषहरम् ॥४॥

तन्त्रान्तरवचनं हि यावद्धि चाव्यक्तरसान्वितानि नवप्ररूढानि च मूलकानि भवन्ति तावल्लघुदीपनानि पित्तानिलश्लेष्महराणि चैव ॥५॥

वृद्धं त्रिदोषमिति तदेवप्रवृद्धम् एनामेव मूलकावस्थाम् अभिप्रेत्य चोक्तं मूलकं कन्दानामपथ्यत्वे प्रकृष्टतमम् इति मारुतापहं स्निग्धसिद्धमिति सामान्येन बालं वृद्धं च ॥६॥

शुष्काणि कफवातघ्नान्येतानि इति वक्ष्यमाणग्रन्थेनैव शुष्ककस्य कफवातहन्तृत्वे लब्धे पुनर्वचनं प्रकर्षप्राप्त्यर्थम् ॥७॥

पूतिगन्धहेति शरीरस्य तथा व्यञ्जनार्थं मांसस्य च पूतिगन्धतां हन्ति ॥८॥

अर्जकः श्वेतपर्णासः ॥९॥

शिग्रुः विटपशोभाञ्जनः शालेयश् चाणक्यमूलं मरौ प्रसिद्धं किंवा शालेयम् इति मिस्तेयं पाटकप्रसिद्धं वचनं हि चाणक्यमूलमिस्तेये शालेयाभिख्यया जगुः इति मृष्टकं राजिका ॥१०॥

गण्डीरो द्विविधो रक्तः शुक्लश्च तत्र यो रक्तः स हि कटुत्वेन हरितवर्गे पठ्यते यस्तु शुक्लो जलजः स शाकवर्गे पठित इति नैकस्य वर्गद्वये पाठः ॥११॥

जलपिप्पली जले पिप्पल्याकारा भवति ॥१२॥

शृङ्गवेरी गोजिह्विका किंवा आर्द्रकाकृतिः शृङ्गवेरी यदुक्तं शृङ्गवेरवद् आकृत्या शृङ्गवेरीति भाषिता ॥१३॥

कुस्तुम्बुरुसमाकृत्या तुम्बुरूणि वदन्ति च इति ॥१४॥

भूस्तृणो गन्धतृणः ॥१५॥

खराह्वा कृष्णजीरकम् ॥१६॥

अजगन्धा वनयवानी ॥१७॥

सुमुखः पर्णासभेदः ॥१८॥

अयं च धान्यकादीनाम् आर्द्राणां गुणः शुष्काणां त्व् आहारयोगिगणे कारवी कुञ्चिका इत्यादिना गुणं निर्देक्ष्यति ॥१९॥

गृञ्जनकः स्वल्पनालपत्त्रः पलाण्डुर् एव ॥२०॥

एतानीति हरितवर्गोक्तानि ॥२१॥

शुष्काणीत्यादिना यद्यपि शुष्काणाम् अपि शुण्ठीप्रभृतीनां गुण उक्तो भवति तथापि विशेषगुणान्तरकथनार्थं पुनस्तदभिधानम् आहारसंयोगिवर्गे भविष्यतीति न पौनरुक्त्यम् ॥२२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:28.5000000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Government of the Dominion of India

  • न. डोमिनियन ऑफ इंडियाचे सरकार 
RANDOM WORD

Did you know?

सर्व धार्मिक कार्यांत आरंभी श्रीगणेशाची पूजा कां करतात?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.