TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

सूत्रस्थान - भाग ३

चरक संहिता आयुर्वेदासंबंधी एक प्रसिद्ध ग्रन्थ आहे. हा ग्रंथ संस्कृत भाषेत आहे. या ग्रंथाचे उपदेशक अत्रिपुत्र पुनर्वसु, ग्रंथकर्ता अग्निवेश आणि प्रतिसंस्कारक चरक हे होत.

Charaka Sanhita is believed to be the oldest Ayurvedic text on internal medicine.


भाग ३
अथातो वातकलाकलीयम् अध्यायं व्याख्यास्यामः ॥१२.१॥

इति ह स्माह भगवानात्रेयः ॥१२.२॥

आयुर्वेददीपिका


पूर्वाध्याये रोगाः स्वरूपमार्गबाह्यकारणभेषजैर् अभिहिताः उपयुक्तज्ञानास् तत्कारणवातादयो बहुवाच्यत्वान् नोक्ताः अतः सम्प्रति पृथक्प्रकरणे ते ऽभिधीयन्ते वातकलाकलीये तत्रापि प्राधान्याद् वायुरेव प्रथममुच्यते ।
कला गुणः यदुक्तं षोडशकलम् इति अकला गुणविरुद्धो दोषः तेन वातकलाकलीयो वातगुणदोषीय इत्यर्थः यदि वा कला सूक्ष्मो भागस् तस्यापि कला कलाकला तस्यापि सूक्ष्मो भाग इत्यर्थः ॥१॥


वातकलाकलाज्ञानमधिकृत्य परस्परमतानि जिज्ञासमानाः समुपविश्य महर्षयः पप्रच्छुरन्योऽन्यं किंगुणो वायुः किमस्य प्रकोपणम् उपशमनानि वास्य कानि कथं चैनम् असंघातवन्तम् अनवस्थितम् अनासाद्य प्रकोपणप्रशमनानि प्रकोपयन्ति प्रशमयन्ति वा कानि चास्य कुपिताकुपितस्य शरीराशरीरचरस्य शरीरेषु चरतः कर्माणि बहिःशरीरेभ्यो वेति ॥१२.३॥

आयुर्वेददीपिका


अत्रानेकर्षिवचनरूपतया वातादिगुणवचनं बह्वृषिसम्मतिदर्शनार्थं तन्त्रधर्मैतिह्ययुक्तत्वकरणार्थं च ।
असंघातमिति पित्तश्लेष्मवद् अवयवसंघातरहितम् ।
अनवस्थितमिति चलस्वभावम् ।
अनासाद्येति चलत्वेनानिबिडावयत्वेन चेति मन्तव्यम् ॥१॥


अत्रोवाच कुशः सांकृत्यायनः रूक्षलघुशीतदारुणखरविशदाः षडिमे वातगुणा भवन्ति ॥१२.४॥

आयुर्वेददीपिका


रूक्षादयो भावप्रधानाः तेन रूक्षत्वादयो गुणा मन्तव्याः ।
दारुणत्वं चलत्वं चलत्वात् एवं दीर्घंजीवितीयोक्तं चलत्वमुक्तं भवति यदि वा दारुणत्वं शोषणत्वात्काठिन्यं करोतीति


तच्छ्रुत्वा वाक्यं कुमारशिरा भरद्वाज उवाच एवमेतद्यथा भगवानाह एत एव वातगुणा भवन्ति स त्व् एवंगुणैर् एवंद्रव्यैर् एवम्प्रभावैश्च कर्मभिरभ्यस्यमानैर् वायुः प्रकोपमापद्यते समानगुणाभ्यासो हि धातूनां वृद्धिकारणमिति ॥१२.५॥

आयुर्वेददीपिका


कुमारशिरा इति भरद्वाजविशेषणम् आत्रेयगुरुभरद्वाजनिषेधार्थम् ।
एवम्प्रभावैरिति प्रभावाद् रौक्ष्यादिकारकैर् धावनजागरणादिभिः प्रभावाभिधानं च कर्मणां निर्गुणत्वात् ।
अभ्यस्यमानैरिति असकृत्प्रयुक्तैः ॥१॥


तच्छ्रुत्वा वाक्यं काङ्कायनो वाह्लीकभिषग् उवाच एवमेतद्यथा भगवानाह एतान्येव वातप्रकोपणानि भवन्ति अतो विपरीतानि वातस्य प्रशमनानि भवन्ति प्रकोपणविपर्ययो हि धातूनां प्रशमकारणमिति ॥१२.६॥

तच्छ्रुत्वा वाक्यं बडिशो धामार्गव उवाच एवमेतद्यथा भगवानाह एतान्येव वातप्रकोपप्रशमनानि भवन्ति ।
यथा ह्य् एनम् असंघातम् अनवस्थितमनासाद्य प्रकोपणप्रशमनानि प्रकोपयन्ति प्रशमयन्ति वा तथानुव्याख्यास्यामः वातप्रकोपणानि खलु रूक्षलघुशीतदारुणखरविशदशुषिरकराणि शरीराणां तथाविधेषु शरीरेषु वायुराश्रयं गत्वाप्यायमानः प्रकोपमापद्यते वातप्रशमनानि पुनः स्निग्धगुरूष्णश्लक्ष्णमृदुपिच्छिलघनकराणि शरीराणां तथाविधेषु शरीरेषु वायुर् असज्यमानश् चरन् प्रशान्तिमापद्यते ॥१२.७॥

आयुर्वेददीपिका


शरीराणामिति शरीरावयवानाम् ।
शुषिरकराणि रन्ध्रकराणि ।
आश्रयमिति समानगुणस्थानम् ।
आप्यायमानः चीयमानः ।
दारुणविपरीतो मृदुः शुषिरविपरीतो घनः ।
असज्यमानः अनवतिष्ठमानः क्षीयमाणावयव इति यावत् ।
एतेनैतदुक्तं भवति यद्यपि वायुना वातकारणानां वातशमनानां वा तथा सम्बन्धो नास्ति तथापि शरीरसम्बद्धैस् तैर् वातस्य शरीरचारिणः सम्बन्धो भवति ततश्च वातस्य समानगुणयोगाद्वृद्धिर् विपरीतगुणयोगाच्च ह्रास उपपन्न एवेति ॥१॥


तच्छ्रुत्वा बडिशवचनम् अवितथम् ऋषिगणैर् अनुमतमुवाच वायोर्विदो राजर्षिः एवमेतत् सर्वम् अनपवादं यथा भगवानाह ।
यानि तु खलु वायोः कुपिताकुपितस्य शरीराशरीरचरस्य शरीरेषु चरतः कर्माणि बहिःशरीरेभ्यो वा भवन्ति तेषामवयवान् प्रत्यक्षानुमानोपदेशैः साधयित्वा नमस्कृत्य वायवे यथाशक्ति प्रवक्ष्यामः वायुस्तन्त्रयन्त्रधरः प्राणोदानसमानव्यानापानात्मा प्रवर्तकश् चेष्टानाम् उच्चावचानां नियन्ता प्रणेता च मनसः सर्वेन्द्रियाणाम् उद्योजकः सर्वेन्द्रियानाम् अभिवोढा सर्वशरीरधातुव्यूहकरः संधानकरः शरीरस्य प्रवर्तको वाचः प्रकृतिः स्पर्शशब्दयोः श्रोत्रस्पर्शनयोर्मूलं हर्षोत्साहयोर् योनिः समीरणोऽग्नेः दोषसंशोषणः क्षेप्ता बहिर्मलानां स्थूलाणुस्रोतसां भेत्ता कर्ता गर्भाकृतीनाम् आयुषोऽनुवृत्तिप्रत्ययभूतो भवत्यकुपितः ।
कुपितस्तु खलु शरीरे शरीरं नानाविधैर्विकारैर् उपतपति बलवर्णसुखायुषाम् उपघाताय मनो व्याहर्षयति सर्वेन्द्रियाण्य् उपहन्ति विनिहन्ति गर्भान् विकृतिमापादयत्य् अतिकालं वा धारयति भयशोकमोहदैन्यातिप्रलापाञ् जनयति प्राणांश्चोपरुणद्धि ।
प्रकृतिभूतस्य खल्वस्य लोके चरतः कर्माणीमानि भवन्ति तद्यथा धरणीधारणं ज्वलनोज्ज्वालनम् आदित्यचन्द्रनक्षत्रग्रहगणानां संतानगतिविधानं सृष्टिश्च मेघानाम् अपां विसर्गः प्रवर्तनं स्रोतसां पुष्पफलानां चाभिनिर्वर्तनम् उद्भेदनं चौद्भिदानाम् ऋतूनां प्रविभागः विभागो धातूनां धातुमानसंस्थानव्यक्तिः बीजाभिसंस्तारः शस्याभिवर्धनम् अविक्लेदोपशोषणे अवैकारिकविकारश्चेति ।
प्रकुपितस्य खल्वस्य लोकेषु चरतः कर्माणीमानि भवन्ति तद्यथा शिखरिशिखरावमथनम् उन्मथनमनोकहानाम् उत्पीडनं सागराणाम् उद्वर्तनं सरसां प्रतिसरणमापगानाम् आकम्पनं च भूमेः आधमनम् अम्बुदानां नीहारनिर्ह्रादपांशुसिकतामत्स्यभेकोरगक्षाररुधिराश्माशनिविसर्गः व्यापादनं च षण्णामृतूनां शस्यानामसंघातः भूतानां चोपसर्गः भावानां चाभावकरणं चतुर्युगान्तकराणां मेघसूर्यानलानिलानां विसर्गः स हि भगवान् प्रभवश्चाव्ययश्च भूतानां भावाभावकरः सुखासुखयोर् विधाता मृत्युः यमः नियन्ता प्रजापतिः अदितिः विश्वकर्मा विश्वरूपः सर्वगः सर्वतन्त्राणां विधाता भावानामणुः विभुः विष्णुः क्रान्ता लोकानां वायुरेव भगवानिति ॥१२.८॥

आयुर्वेददीपिका


शरीराशरीरचरस्येति वातस्वरूपकथनं तेन शरीरेषु चरत इति बहिः शरीरेभ्यो वेति च पुनरुक्तं न भवति ॥१॥

अत्रावयवानिति वदन् कार्त्स्न्याभिधानमशक्यं बहुप्रपञ्चत्वादिति दर्शयति ॥२॥

साधयित्वा प्रतिपाद्य ॥३॥

वातकर्मसु प्रत्यक्षाणि वचनादीनि मनःप्रेरणाद्यनुमेयं गर्भाकृतिकरणाद्यागमगम्यम् ॥४॥

तन्त्रं शरीरं यद् उक्तं तन्त्रयन्त्रेषु भिन्नेषु तमोऽन्त्यं प्रविविक्षताम् इति तदेव यन्त्रं यदि वा तन्त्रस्य यन्त्रं संधयः ॥५॥

प्राणाद्यात्मा प्राणादिस्वरूपः ॥६॥

चेष्टाविशेषणम् उच्चावचानां विविधानाम् इत्यर्थः किंवा शुभाशुभानामित्यर्थः ॥७॥

नियन्ता अनीप्सिते विषये प्रवर्तमानस्य मनसः प्रणेता च मनस एवेप्सिते ऽर्थे ॥८॥

उद्योजकः प्रेरकः किंवा उद्योगकारक इति पाठः सो ऽप्यभिन्नार्थः ॥९॥

अभिवोढेवाभिवोढा सर्वेन्द्रियार्थग्राहकत्वेन तच्चास्य वायुमयेन स्पर्शनेन्द्रियेण सर्वेन्द्रियाणां व्यापकत्वात् पूर्वाध्यायप्रतिपादितेन न्यायेन बोद्धव्यम् ॥१०॥

व्यूहकरः संघातकरो रचनाकर इति यावत् ॥११॥

प्रकृतिः कारणं शब्दकारणत्वं च वायोर्नित्यम् आकाशानुप्रवेशात् उक्तं हि खादीन्यभिधाय तेषामेकगुणः पूर्वो गुणवृद्धिः परे परे इति ॥१२॥

तथा पुनरुक्तं खादीन्यभिधाय विष्टं ह्य् अपरं परेण इति ॥१३॥

श्रवणमूलत्वं वायोः कर्णशष्कुलीरचनाविशेषे व्याप्रियमाणत्वात् मूलं प्रधानकारणम् ॥१४॥

उत्साहः कार्येषूद्योगो मनसः ॥१५॥

योनिः अभिव्यक्तिकारणम् ॥१६॥

दोषसंशोषणः शरीरक्लेदसंशोषणः ॥१७॥

भेत्ता कर्ता एतच्च शरीरोत्पत्तिकाले ॥१८॥

भूतशब्दः स्वरूपवचनः ॥१९॥

उपघातायेति छेदः ॥२०॥

गर्भानिति विकृतिम् आपादयत्यतिकालं धारयतीत्यनेन च सम्बध्यते ॥२१॥

आदित्यादीनां संतानेनाविच्छेदेन गतिविधानं संतानगतिविधानम् ॥२२॥

स्रोतसामिति नदीनाम् ॥२३॥

प्रविभागो विभक्तलक्षणम् ॥२४॥

धातूनामिति पृथिव्यादीनां धातवः कार्यद्रव्याणि प्रस्तरादीनि मानं परिमाणं संस्थानमाकृतिः तयोर्व्यक्तिरभिव्यक्तिः तत्र कारणमिति यावत् ॥२५॥

बीजस्य शाल्यादेः अभिसंस्कारोऽङ्कुरजननशक्तिः ॥२६॥

अविक्लेदः पाककालाद् अर्वाग् अविक्लिन्नत्वम् उपशोषणं च पाकेन यवादीनामार्द्राणामेव अविक्लेदोपशोषणे शस्यानामेव ॥२७॥

अवैकारिकविकारेण सर्वस्मिन्नेव जगति प्रकृतिरूपे कारणत्वं ब्रूते ॥२८॥

शिखरी पर्वतः ॥२९॥

अनोकहो वृक्षः ॥३०॥

ऊर्ध्वं वर्तनम् उद्वर्तनम् ॥३१॥

प्रतिसरणं प्रतीपगमनम् ॥३२॥

विसर्जनं विसर्गः स च पृथङ्नीहारादिभिः सम्बध्यते नीहारः शिशिरसमूहः निर्ह्रादो मेघं विना गर्जितम् अशनिः वज्रभेदोऽग्निः ॥३३॥

असंघातः अनुत्पादो ऽनुपचयो वा ॥३४॥

उपसर्गः मरकादिप्रादुर्भावः ॥३५॥

मेघसूर्येत्यादौ विसर्गः सृष्टिः ॥३६॥

वायुर् इह देवतारूपोऽभिप्रेतः तेन तस्य भूतलचतुर्युगान्तकरानिलकरणमविरुद्धम् एवं यदन्यद् अप्य् अनुपपद्यमानं वायोस् तदपि देवतारूपत्वेनैव समाधेयम् ॥३७॥

सम्प्रति सामान्येन पुनः कुपिताकुपितस्य वायोः स्वरूपमुच्यते स हि भगवानित्यादि ॥३८॥

प्रभवः कारणम् ॥३९॥

अव्ययः अक्षयः ॥४०॥

भूतानाम् इत्युत्तरेण सम्बध्यते ॥४१॥

मृत्युयमादिभेदाश्चागमे ज्ञेयाः ॥४२॥

सर्वतन्त्राणां सर्वकर्मणां तन्त्रशब्दः कर्मवचनोऽप्यस्ति यदुक्तं वस्तिस्तन्त्राणां कर्मणामित्यर्थः ॥४३॥


तच्छ्रुत्वा वायोर्विदवचो मरीचिरुवाच यद्यप्येवम् एतत् किमर्थस्यास्य वचने विज्ञाने वा सामर्थ्यमस्ति भिषग्विद्यायां भिषग्विद्याम् अधिकृत्येयं कथा प्रवृत्तेति ॥१२.९॥

वायोर्विद उवाच भिषक् पवनम् अतिबलम् अतिपरुषम् अतिशीघ्रकारिणम् आत्ययिकं चेन् नानुनिशाम्येत् सहसा प्रकुपितम् अतिप्रयतः कथमग्रेऽभिरक्षितुमभिधास्यति प्रागेवैनम् अत्ययभयात् वायोर्यथार्था स्तुतिर् अपि भवत्यारोग्याय बलवर्णविवृद्धये वर्चस्वित्वायोपचयाय ज्ञानोपपत्तये परमायुःप्रकर्षाय चेति ॥१२.१०॥

मरीचिरुवाच अग्निरेव शरीरे पित्तान्तर्गतः कुपिताकुपितः शुभाशुभानि करोति तद्यथा पक्तिमपक्तिं दर्शनमदर्शनं मात्रामात्रत्वम् ऊष्मणः प्रकृतिविकृतिवर्णौ शौर्यं भयं क्रोधं हर्षं मोहं प्रसादम् इत्येवमादीनि चापराणि द्वंद्वानीति ॥१२.११॥

आयुर्वेददीपिका


पित्तान्तर्गत इति वचनेन शरीरे ज्वालादियुक्तवह्निनिषेधेन पित्तोष्मरूपस्य वह्नेः सद्भावं दर्शयति न तु पित्तादभेदं पित्ते नाग्निमान्द्यस्य ग्रहण्यध्याये वक्ष्यमाणत्वात् तथा पित्तहरस्य सर्पिषोऽग्निवर्धनत्वेनोक्तत्वात् ॥१॥

पक्तिमपक्तिमिति अविकृतिविकृतिभेदेन पाचकस्याग्नेः कर्म दर्शनादर्शने नेत्रगतस्यालोचकस्य ऊष्मणो मात्रामात्रत्वं वर्णभेदौ च त्वग्गतस्य भ्राजकस्य भयशौर्यादयो हृदयस्थस्य साधकस्य रञ्जकस्य तु बहिःस्फुटकार्यादर्शनाद् उदाहरणं न कृतम् ॥२॥


तच्छ्रुत्वा मरीचिवचः काप्य उवाच सोम एव शरीरे श्लेष्मान्तर्गतः कुपिताकुपितः शुभाशुभानि करोति तद्यथा दार्ढ्यं शैथिल्यमुपचयं कार्श्यम् उत्साहमालस्यं वृषतां क्लीबतां ज्ञानमज्ञानं बुद्धिं मोहमेवमादीनि चापराणि द्वंद्वानीति ॥१२.१२॥

आयुर्वेददीपिका


सोमो जलदेवता यदि वा चन्द्रः ॥१॥


तच्छ्रुत्वा काप्यवचो भगवान् पुनर्वसुरात्रेय उवाच सर्व एव भवन्तः सम्यग् आहुर् अन्यत्रैकान्तिकवचनात् सर्व एव खलु वातपित्तश्लेष्माणः प्रकृतिभूताः पुरुषमव्यापन्नेन्द्रियं बलवर्णसुखोपपन्नम् आयुषा महतोपपादयन्ति सम्यगेवाचरिता धर्मार्थकामा इव निःश्रेयसेन महता पुरुषमिह चामुष्मिंश् च लोके विकृतास्त्वेनं महता विपर्ययेणोपपादयन्ति क्रतवस् त्रय इव विकृतिमापन्ना लोकमशुभेनोपघातकाल इति ॥१२.१३॥

तदृषयः सर्व एवानुमेनिरे वचनमात्रेयस्य भगवतोऽभिननन्दुश् चेति ॥१२.१४॥

तदात्रेयवचः श्रुत्वा सर्व एवानुमेनिरे ।
ऋषयोऽभिननन्दुश्च यथेन्द्रवचनं सुराः ॥१२.१५॥

गुणाः षड् द्विविधो हेतुर् विविधं कर्म यत् पुनः ।
वायोश्चतुर्विधं कर्म पृथक् च कफपित्तयोः ॥१२.१६॥

महर्षीणां मतिर्या या पुनर्वसुमतिश्च या ।
कलाकलीये वातस्य तत् सर्वं संप्रकाशितम् ॥१२.१७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:28.3730000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Rollerman (Hand press)

  • मुद्रितक सहायक 
RANDOM WORD

Did you know?

हिंदू धर्मात मुलाचे जावळ काढतात परंतु मुलीचे का काढत नाहीत?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.