TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

सूत्रस्थान - भाग २

चरक संहिता आयुर्वेदासंबंधी एक प्रसिद्ध ग्रन्थ आहे. हा ग्रंथ संस्कृत भाषेत आहे. या ग्रंथाचे उपदेशक अत्रिपुत्र पुनर्वसु, ग्रंथकर्ता अग्निवेश आणि प्रतिसंस्कारक चरक हे होत.

Charaka Sanhita is believed to be the oldest Ayurvedic text on internal medicine.


भाग २
आयुर्वेददीपिका


ननु कथमग्निवेशः सकलपदार्थाशेषविशेषज्ञानव्याख्येयम् आयुर्वेदं व्याख्यास्यति यतो न तावद् भेषजादीनाम् अशेषविशेषप्रत्यक्षज्ञेयः सर्वपदार्थानां विशेषाणां प्रत्यक्षाविषयत्वात् अन्वयव्यतिरेकाभ्यां तु सर्वपदार्थावधारणं दुष्करमेव यत एकम् एव मधु स्वरूपेण जीवयति मारयति चोष्णं समघृतं च कफप्रकृतेर्हितमहितं वातप्रकृतेः अनूपे सात्म्यमसात्म्यं मरौ शीते सेव्यमसेव्यं ग्रीष्मे हितम् अवृद्धे वृद्धे चाहितम् अल्पं गुणकरम् आबाधकरम् अत्युपयुक्तम् आमतां गतम् उदरे उपक्रमविरोधित्वाद् अतिविभ्रमकरं काकमाचीयुक्तं पक्वनिकुचेन च सहोपयुक्तं मरणाय अथवा बलवर्णवीर्यतेजौपघाताय भवति इत्येवमादि तत्तद् युक्तं तत्तच्छतशः करोति अत एवैकस्यैव मधुनो रूपं यदानेन प्रकारेण दुरधिगमं तदात्र कैव कथा निखिलपदार्थाशेषविशेषज्ञानस्य अजानंश्च व्याचक्षाणः कथमुपादेयवचन इति कृत्वा गुरोर् आप्तात् प्रतिपन्नं प्रतिपादयिष्याम इति दर्शयन् तामिमां शङ्कां निराचिकीर्षुर् गुरूक्तानुवादरूपतां स्वग्रन्थस्य दर्शयन्नाह इति ह स्माह भगवानात्रेय इति ॥१॥

अत्र इतिशब्दो वक्ष्यमाणार्थपरामर्शकः हशब्दोऽवधारणे यथा न ह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्तीति अत्र न हेति नैवेत्यर्थः ॥२॥

अत्र स्माह इति स्मशब्दप्रयोगेन भूतमात्र एव लिडर्थे लट् स्मे इति लट् न भूतानद्यतनपरोक्षे आत्रेयोपदेशस्याग्निवेशं प्रत्यपरोक्षत्वात् ॥३॥

यथा च भूतमात्रे लिड् भवति तथाच दर्शयिष्यामः ॥४॥

भगं पूजितं ज्ञानं तद्वान् यथोक्तम् उत्पत्तिं प्रलयं चैव भूतानाम् आगतिं गतिम् ॥५॥

वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति यदि वा भगशब्दः समस्तैश्वर्यमाहात्म्यादिवचनः यथोक्तम् ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ॥६॥

ज्ञानवैराग्ययोश्चैव षण्णां भग इतीङ्गनाः इति ॥७॥

अत्रेरपत्यमात्रेयः अनेन विशुद्धवंशत्वं दर्शितं भवति ॥८॥

अत्रान्ये वर्णयन्ति चतुर्विधं सूत्रं भवति गुरुसूत्रं शिष्यसूत्रं प्रतिसंस्कर्तृसूत्रम् एकीयसूत्रं चेति ॥९॥

तत्र गुरुसूत्रं यथा नैतद् बुद्धिमता द्रष्टव्यम् अग्निवेश इत्यादि प्रतिसंस्कर्तृसूत्रं यथा तमुवाच भगवानात्रेयः इत्यादि शिष्यसूत्रं यथा नैतानि भगवन् पञ्चकषायशतानि पूर्यन्ते इत्यादि एकीयसूत्रं यथा कुमारस्य शिरः पूर्वमभिनिर्वर्तत इति कुमारशिरा भरद्वाजः इत्यादि ॥१०॥

तेनाद्यं व्याख्यानप्रतिज्ञासूत्रं गुरोरेव शिष्यस्याग्निवेशस्य व्याख्याने ऽनधिकारत्वात् ॥११॥

द्वितीयं च सूत्रं प्रतिसंस्कर्तुः ।
इतिशब्देन च प्रकारवाचिना दीर्घंजीवितीयं व्याख्यास्याम इति परामृश्यते तेनाह स्मेति भूतानद्यतनपरोक्ष एव भवति प्रतिसंस्कर्तारं प्रत्यात्रेयोपदेशस्य परोक्षत्वात् ॥१२॥

अनेन च न्यायेन तमुवाच भगवानात्रेय इत्यादाव् अपि लिड्विधिर् उपपन्नो भवति ॥१३॥

सुश्रुते च यथोवाच भगवान् धन्वन्तरिः इति प्रतिसंस्कर्तृसूत्रमिति कृत्वा टीकाकृता लिड्विधिर् उपपादितः इति ॥१४॥

अत्र ब्रूमः यत्तावदुक्तं शिष्यस्याग्निवेशस्य व्याख्यानानधिकारादिदं गुरोः सूत्रं तन्न नहि जात्या गुरुत्वम् अस्ति यतः स एवात्रेयः स्वगुरुम् अपेक्ष्य शिष्यः अग्निवेशादीन् अपेक्ष्य गुरुः एवमग्निवेशो ऽपि ग्रन्थकरणकाले स्वबुद्धिस्थीकृताञ्शिष्यान् प्रति गुरुरिति न कश्चिद् दोषः ॥१५॥

यत्पुनर्द्वितीयस्य प्रतिसंस्कर्तृसूत्रतया भूतानद्यतनपरोक्षे लिड्विधिर् उपपाद्यते तत्र विचार्यं किम् इदं द्वितीयं सूत्रं पूर्ववाक्यैकतापन्नं न वा यद्येकवाक्यतापन्नं तदा सुश्रुते तथा व्याख्यास्यामो यथोवाच धन्वन्तरिर् इति योजनीयं तथाच तथा व्याख्यास्याम इति क्रियैकवाक्यतापन्नम् उवाचेतिपदं न भिन्नकर्तृकं भवितुम् अर्हति तथा च कुतो लिड्विधिः अथ नैकतापन्नं तदा गौर् अश्वः पुरुषो हस्तीतिवन्नार्थसंगतिः ॥१६॥

किंच जतूकर्णादौ प्रतिसंस्कर्तृश्रुतिगन्धो ऽपि नास्ति तत् कथं नानाश्रुतपरिपूर्णकण्ठः शिष्यो जतूकर्णः प्राञ्जलिर् अधिगम्योवाच इत्यादौ लिड्विधिः ॥१७॥

अनेन न्यायेन चरके ऽपि प्रतिसंस्कर्तृसूत्रपक्षे लिड्विधिर्नास्ति तस्माच्चरके ऽग्निवेशः सुश्रुते सुश्रुत एव सूत्राणां प्रणेता क्वचित् किंचिदर्थं स्तोतुं निन्दितुं वाख्यायिकारूपं पुराकल्पं दर्शयन् किमपि सूत्रं गुरूक्तानुवादरूपतया किमप्येकीयमतानुवादरूपतया लिखति प्रतिसंस्कर्ता त्व् अयं ग्रन्थं पूरयति तदाद्यग्रन्थकर्तृतयैव ॥१८॥

लिड्विधिस्तु भूतानद्यतनमात्र एव छन्दोविहितो भाषायामपि वर्णनीयः अन्यथा उवाचेति पदं जतूकर्णादौ न स्यात् तथा च हरिवंशे धन्योपाख्याने मामुवाच इति तथा अहमुवाच इति च न स्यात् यथा स मामुवाचाम्बुचरः कूर्मो मानुषवत् स्वयम् ॥१९॥

किमाश्चर्यं मयि मुने धन्यश्चाहं कथं विभो इति तथा स्व्यम्भुवचनात् सो ऽहं वेदान् वै समुपस्थितः ॥२०॥

उवाच चैनांश्चतुरः इति ॥२१॥

यदपि इति ह स्माह इत्यत्र इतिशब्देन पूर्वसूत्रं परामृश्यते तन्न येन दीर्घंजीवितीयादिसूत्रमात्रस्य तदर्थस्य वा गुरूक्तत्वप्रतिपादने सति नैवोत्तरत्राभिधेयाभिधानेन निखिलतन्त्रस्य गुरूक्तानुवादरूपतया करणं श्रोतृश्रद्धाकरणं प्रतिपादितं भवति ॥२२॥

भवति तु भावयितुं यथा पुरा व्याख्यातं तस्मात्तदेव न्याय्यमिति ॥२३॥

अग्निवेशस्य व्याख्यास्याम इति बहुवचनम् एकस्मिन्न् अप्य् अस्मदः प्रयोगाद्बहुवचनप्रयोगस्य साधुत्वात् साधु हि वदन्ति वक्तारो वयं करिष्यामः इति ॥२४॥

भगवानात्रेय इत्यत्र त्व् एकवचननिर्देशः कृतः भगवानित्यनेनैवात्रेयस्य गुरोर्गौरवस्य दर्शितत्वात् ॥२५॥

====================================
दीर्घं जीवितमन्विच्छन्भरद्वाज उपागमत् ।
इन्द्रमुग्रतपा बुद्ध्वा शरण्यममरेश्वरम् ॥१.३॥

ब्रह्मणा हि यथाप्रोक्तम् आयुर्वेदं प्रजापतिः ।
जग्राह निखिलेनादाव् अश्विनौ तु पुनस् ततः ॥१.४॥

अश्विभ्यां भगवाञ्छक्रः प्रतिपेदे ह केवलम् ।
ऋषिप्रोक्तो भरद्वाजस् तस्माच्छक्रम् उपागमत् ॥१.५॥

विघ्नभूता यदा रोगाः प्रादुर्भूताः शरीरिणाम् ।
तपोपवासाध्ययनब्रह्मचर्यव्रतायुषाम् ॥१.६॥

तदा भूतेष्वनुक्रोशं पुरस्कृत्य महर्षयः ।
समेताः पुण्यकर्माणः पार्श्वे हिमवतः शुभे ॥१.७॥

अङ्गिरा जमदग्निश्च वसिष्ठः कश्यपो भृगुः ।
आत्रेयो गौतमः सांख्यः पुलस्त्यो नारदोऽसितः ॥१.८॥

अगस्त्यो वामदेवश्च मार्कण्डेयाश्वलायनौ ।
पारिक्षिर्भिक्षुर् आत्रेयो भरद्वाजः कपिञ्जलः ॥१.९॥

विश्वामित्राश्मरथ्यौ च भार्गवश्च्यवनोऽभिजित् ।
गार्ग्यः शाण्डिल्यकौण्डिन्यौ वार्क्षिर् देवलगालवौ ॥१.१०॥

सांकृत्यो बैजवापिश्च कुशिको बादरायणः ।
बडिशः शरलोमा च काप्यकात्यायनाव् उभौ ॥१.११॥

काङ्कायनः कैकशेयो धौम्यो मारीचकाश्यपौ ।
शर्कराक्षो हिरण्याक्षो लोकाक्षः पैङ्गिरेव च ॥१.१२॥

शौनकः शाकुनेयश्च मैत्रेयो मैमतायनिः ।
वैखानसा वालखिल्यास्तथा चान्ये महर्षयः ॥१.१३॥

ब्रह्मज्ञानस्य निधयो दमस्य नियमस्य च ।
तपसस्तेजसा दीप्ता हूयमाना इवाग्नयः ॥१.१४॥

सुखोपविष्टास्ते तत्र पुण्यां चक्रुः कथामिमाम् ।

आयुर्वेददीपिका


के ते महर्षय इत्याहाङ्गिरा इत्यादि ॥१॥

बह्वृषीणाम् अत्र कीर्तनं ग्रन्थादौ पापक्षयहेतुत्वेन तथायुर्वेदस्यैवंविधमहापुरुषसेवितत्वेन सेव्यत्वोपदर्शनार्थं चेति ॥२॥

एषु च मध्ये केचिद् यायावराः केचिच्छालीनाः केचिदयोनिजाः एवंप्रकाराश्च सर्वे मीलिता बोद्धव्याः ॥३॥

भिक्षुरित्यात्रेयविशेषणं वक्ष्यति हि तन्नेति भिक्षुर् आत्रेयः इति ॥४॥

वैखानसा इति कर्मविशेषप्रयुक्ता संज्ञा ॥५॥

वालखिल्यास्तु स्वल्पप्रमाणाः केचिद् ऋषयः ॥६॥

निधय इव निधयो ऽक्षयस्थानत्वेन ॥७॥

दमो दान्तत्वम् ॥८॥

इमामिति अग्रे वक्ष्यमाणाम् ॥९॥


धर्मार्थकाममोक्षाणामारोग्यं मूलम् उत्तमम् ॥१.१५॥

रोगास्तस्यापहर्तारः श्रेयसो जीवितस्य च ।
प्रादुर्भूतो मनुष्याणामन्तरायो महान् अयम् ॥१.१६॥

कः स्यात्तेषां शमोपाय इत्युक्त्वा ध्यानमास्थिताः ।
अथ ते शरणं शक्रं ददृशुर्ध्यानचक्षुषा ॥१.१७॥

स वक्ष्यति शमोपायं यथावद् अमरप्रभुः ।

आयुर्वेददीपिका


धारणाद्धर्मः स चात्मसमवेतः कार्यदर्शनानुमेयः अर्थः सुवर्णादिः काम्यत इत कामो वनितापरिष्वङ्गादिः मोक्षः संसारविमोक्षः ॥१॥

आरोग्यं रोगाभावाद् धातुसाम्यम् ॥२॥

मूलं कारणम् ॥३॥

उत्तममिति प्रधानं तेनारोग्यं चतुर्वर्गे प्रधानं कारणं रोगगृहीतस्य क्वचिदपि पुरुषार्थे ऽसमर्थत्वाद् इत्युक्तम् ॥४॥

तस्यापहर्तार इति आरोग्यस्यापहर्तारः इदम् एव च रोगाणाम् आरोग्यापहरणं यद् अनर्थलाभः न पुनर् उत्पन्नो रोगः पश्चाद् आरोग्यम् अपहरति भावाभावयोः परस्पराभावात्मकत्वात् ॥५॥

श्रेयसो जीवितस्य चेति श्रेयोवज्जीवितं हितत्वेन सुखत्वेन चार्थे दशमहामूलीये वक्ष्यमाणं तस्य जीवितस्यापहर्तार इति योजनीयम् अश्रेयोजीवितमहितत्वेन दुःखहेतुतया चानुपादेयम् इति कृत्वा तदपहरणमिह नोक्तम् ॥६॥

अत्र सुखितजीवितोपघातो धर्माद्युपघातेनैव लब्धः तेन वयं पश्यामः श्रेयःशब्देन सामान्ये नाभ्युदयवाचिना धर्मादयो ऽभिधीयन्ते जीवितशब्देन च जीवितमात्रं यतो जीवितं स्वरूपेणैव सर्वप्राणिनां निरुपाध्युपादेयं वचनं हि आचकमे च ब्रह्मण इयमात्मा आशीः आयुष्मान् भूयासम् इति ॥७॥

यत्त्वत्यन्तदुःखगृहीतस्य जीवितं जिहासितं तत्र दुःखस्यात्यन्तजिहासितस्यान्यथा हातुम् अशक्यत्वात् प्रियमपि जीवितं त्यक्तुम् इच्छति न स्वरूपेण ॥८॥

अन्तराय इति धर्मादिसाधने बोद्धव्यः ॥९॥

अयमिति रोगप्रादुर्भावरूपः ॥१०॥

तेषामिति रोगाणाम् ॥११॥

शरणमिति रक्षितारम् ॥१२॥

शक्तत्वाच्छक्र उच्यते ॥१३॥

ध्यानं समाधिविशेषः तदुपलब्धिसाधनत्वाच्चक्षुर् इव ध्यानचक्षुः तेन स वक्ष्यति शमोपायं यथावद् अमरप्रभुः इति ध्यानचक्षुषा ददृशुरिति योजना ॥१४॥


कः सहस्राक्षभवनं गच्छेत् प्रष्टुं शचीपतिम् ॥१.१८॥

अहमर्थे नियुज्येयम् अत्रेति प्रथमं वचः ।
भरद्वाजोऽब्रवीत्तस्मादृषिभिः स नियोजितः ॥१.१९॥

स शक्रभवनं गत्वा सुरर्षिगणमध्यगम् ।
ददर्श बलहन्तारं दीप्यमानमिवानलम् ॥१.२०॥

सो ऽभिगम्य जयाशीर्भिरभिनन्द्य सुरेश्वरम् ।
प्रोवाच विनयाद्धीमान् ऋषीणां वाक्यम् उत्तमम् ॥१.२१॥

व्याधयो हि समुत्पन्नाः सर्वप्राणिभयंकराः ।
तद्ब्रूहि मे शमोपायं यथावदमरप्रभो ॥१.२२॥

तस्मै प्रोवाच भगवानायुर्वेदं शतक्रतुः ।
पदैरल्पैर्मतिं बुद्ध्वा विपुलां परमर्षये ॥१.२३॥

आयुर्वेददीपिका


अथैतेषु मध्ये भरद्वाजः कथम् इन्द्रम् उपागमद् इत्याह क इत्यादि ॥१॥

शचीपतिम् इत्यनेन शचीसम्भोगव्यासक्तम् अप्यहम् उपासितुं क्षम इति भरद्वाजो दर्शयति ॥२॥

अर्थे प्रयोजने ॥३॥

नियुज्येयं व्यापारयेयम् ॥४॥

अत्रेति प्रकृतप्रयोजन एव अत्रेतिशब्दो यस्मादर्थे ॥५॥

यथा सुभिक्षम् इत्यागतः यस्मात् सुभिक्षं तस्मादागत इत्यर्थः ॥६॥

नियोजित इति चौरादिको णिच न हेतौ ॥७॥

अनेन प्रकरणेन भरद्वाजस्यायुर्वेदागमे विशेषेणार्थित्वान्न प्रेरणमिति दर्शितं भवति ॥८॥

प्रोवाचेति सम्यगुवाच न तु प्रशब्दः प्रपञ्चार्थः पदैरल्पैर् इत्युक्तत्वात् ॥९॥

कस्मात् पदैर् अल्पैर् उवाचेत्याह मतिं बुद्ध्वा विपुलाम् इति यस्माद् विपुलमतिं भरद्वाजं प्रतिपन्नवान् तस्मात् पदैर् अल्पैर् उवाचेति भावः मतिश् च बहुविषयत्वेनोपचाराद् विपुलेत्य् उच्यते सा च मतिः शुश्रूषाश्रवणग्रहणधारणोहापोहतत्त्वाभिनिवेशवतीह विपुला बोद्धव्या ॥१०॥

अत्र चेन्द्रेण दिव्यदृशा भरद्वाजाभिप्रायम् अग्रत एव बुद्ध्वायुर्वेद उपदिष्टः तेन भरद्वाजस्येन्द्रपृच्छादीह न दर्शितं किंवा भूतम् अपीन्द्रपृच्छादि ग्रन्थविस्तरभयाद् इह न लिखितम् ॥११॥


हेतुलिङ्गौषधज्ञानं स्वस्थातुरपरायणम् ।
त्रिसूत्रं शाश्वतं पुण्यं बुबुधे यं पितामहः ॥१.२४॥

आयुर्वेददीपिका


यादृशो ऽसाव् अल्पपदैर् उपदिष्ट आयुर्वेदस्तमाह हेत्वित्यादि ॥१॥

हेतुलिङ्गौषधज्ञानमिति हेत्वादीनि ज्ञायन्ते ऽनेनेति हेतुलिङ्गौषधज्ञानं यावच् चायुर्वेदवाच्यं तावद्धेत्वाद्यन्तर्भूतम् इत्यर्थः ॥२॥

हेतुग्रहणेन संनिकृष्टविप्रकृष्टव्याधिहेतुग्रहणं लिङ्गग्रहणेन च व्याधेर् आरोग्यस्य च कृत्स्नं लिङ्गमुच्यते तेन व्याध्यारोग्ये ऽपि लिङ्गशब्दवाच्ये यतस्ताभ्यामपि हि तल्लिङ्गं लिङ्ग्यत एव वक्ष्यति हि विषमारम्भमूलानां ज्वर एको हि लक्षणम् ॥३॥

विषमारम्भमूलाद्यैर् ज्वर एको निगद्यते इत्यादि औषधग्रहणेन च सर्वपथ्यावरोधः ॥४॥

शरीरं चात्र हेतौ लिङ्गे चान्तर्भवति ॥५॥

स्वस्थातुरयोः परमुत्कृष्टमयनं मार्ग इति स्वस्थातुरपरायणम् ॥६॥

किमन्योऽयं हेतुलिङ्गौषधज्ञानरूप आयुर्वेदो ब्रह्मबुद्धादायुर्वेदाद् उतानन्य इत्याह त्रिसूत्रम् इत्यादि ॥७॥

पितामहोऽपि यं त्रिसूत्रं बुबुधे तमिन्द्रः प्रोवाच ॥८॥

त्रीणि हेत्वादीनि सूत्र्यन्ते यस्मिन् येन वा तन्त्रिसूत्रम् ॥९॥

तत्र सूचनात् सूत्रणाच्चार्थसंततेः सूत्रम् ॥१०॥

एतेन तं यथा ब्रह्मा त्रिसूत्रं बुबुधे तथैव हेतुलिङ्गौषधज्ञानम् इन्द्रः प्रोवाचेत्यविप्लुतमागमं दर्शयति ॥११॥

बुबुध इति न कृतवान् ॥१२॥

अत एवोक्तं शाश्वतं नित्यम् इत्यर्थः ॥१३॥

तच्च नित्यत्वं सूत्रस्थानान्ते व्युत्पादनीयम् ॥१४॥


सो ऽनन्तपारं त्रिस्कन्धमायुर्वेदं महामतिः ।
यथावदचिरात् सर्वं बुबुधे तन्मना मुनिः ॥१.२५॥

तेनायुर् अमितं लेभे भरद्वाजः सुखान्वितम् ।
ऋषिभ्योऽनधिकं तच्च शशंसानवशेषयन् ॥१.२६॥

आयुर्वेददीपिका


अथोद्दिष्टम् आयुर्वेदं कथं गृहीतवान् भरद्वाज इत्याह सो ऽनन्तेत्यादि ॥१॥

अविद्यमानाव् अन्तपारौ यस्यासाव् अनन्तपारः अत्र पारशब्देन गोबलीवर्दन्यायेनादिर् उच्यते पारशब्दो ह्य् उभयोर् अपि नदीकूलयोर् विवक्षावशाद् वर्तते किंवा अनन्तो मोक्षः पारम् उत्कृष्टं फलं यस्यायुर्वेदस्यासाव् अनन्तपारः ॥२॥

वक्ष्यति हि चिकित्सा तु नैष्ठिकी या विनोपधाम् इति ॥३॥

अत्र नैष्ठिकी मोक्षसाधनहेतुः ॥४॥

त्रयो हेत्वादयः स्कन्धरूपा यस्य स त्रिस्कन्धः स्कन्धश्च स्थूलावयवः प्रविभागो वा ॥५॥

तत्रैवायुर्वेदग्रहणे मनो यस्य स तन्मनाः ॥६॥

मननाज्ज्ञानप्रकर्षशालित्वान् मुनिः ॥७॥

एतेन यस्मादयं महामतिस् तन्मनाः मुनिश्च तेनानन्तपारमप्यायुर्वेदं हेत्वादिस्कन्धत्रयमालम्बनं कृत्वा यथावदचिरादेव प्रतिपन्नवान् इत्याशयः ॥८॥

अचिरादिति अचिरेण ॥९॥

अत्र च यथा ब्रह्मा त्रिसूत्रं बुबुधे यथा चेन्द्रो हेतुलिङ्गौषधज्ञानं प्रोवाच तथैव भरद्वाजोऽपि त्रिस्कन्धं तं बुबुधे इत्यनेनायुर्वेदस्याविप्लुतागमत्वम् उपदर्श्यते तेन त्रिसूत्रत्रिस्कन्धयोर् न पुनरुक्तिः ॥१०॥

तेनेति इन्द्राद् गृहीतेनायुर्वेदेन ॥११॥

अमितमिति अमितमिवामितम् अतिदीर्घत्वात् ॥१२॥

आयुःशब्दश्चायुःकारणे रसायनज्ञाने बोद्धव्यः येनोत्तरकालं हि रसायनोपयोगाद् अयं भरद्वाजोऽमितमायुरवाप्स्यति न ऋषिभ्य आयुर्वेदकथनात् पूर्वं रसायनमाचरति स्म किंवा सर्वप्राण्युपकारार्थाधीतायुर्वेदजनितधर्मवशात् तत्कालम् एवामितमायुर् लेभे भरद्वाज इति बोद्धव्यम् ॥१३॥

तच्चेति श्रुतं यदा तमिति पाठः तदा तम् आयुर्वेदम् ॥१४॥

अनवशेषयन्निति कार्त्स्न्येनेत्यर्थः ॥१५॥

आयुर्वेदम् अधीत्यानन्तरम् एवायं तमृषिभ्यो दत्तवान् ॥१६॥


ऋषयश्च भरद्वाजाज्जगृहुस् तं प्रजाहितम् ।
दीर्घमायुश्चिकीर्षन्तो वेदं वर्धनमायुषः ॥१.२७॥

महर्षयस्ते ददृशुर्यथावज्ज्ञानचक्षुषा ।
सामान्यं च विशेषं च गुणान् द्रव्याणि कर्म च ॥१.२८॥

समवायं च तज्ज्ञात्वा तन्त्रोक्तं विधिमास्थिताः ।
लेभिरे परमं शर्म जीवितं चाप्यनित्वरम् ॥१.२९॥

आयुर्वेददीपिका


दीर्घमायुश्चिकीर्षन्त इति प्राणिनाम् आत्मनश् च ॥१॥

ज्ञानार्थं ज्ञानरूपं वा चक्षुर् ज्ञानचक्षुः तेन ज्ञानचक्षुषा ॥२॥

गृहीतेन तेनायुर्वेदेन किं ददृशुरित्याह सामान्यं चेत्यादि ॥३॥

एषां चोत्तरत्र लक्षणं षण्णां पदार्थानां विश्वरूपाणां भविष्यति तेनैतत् तत्रैव व्याकरणीयम् ॥४॥

तद् इति सामान्यादि ॥५॥

तन्त्रोक्तं विधिम् इति अपथ्यपरिहारपथ्योपादानरूपम् ॥६॥

शर्म सुखम् ॥७॥

परम् इति दुःखानाक्रान्तम् ॥८॥

अनित्वरम् इति अगत्वरम् ॥९॥


अथ मैत्रीपरः पुण्यमायुर्वेदं पुनर्वसुः ।
शिष्येभ्यो दत्तवान् षड्भ्यः सर्वभूतानुकम्पया ॥१.३०॥

अग्निवेशश्च भेलश् च जतूकर्णाः पराशरः ।
हारीतः क्षारपाणिश्च जगृहुस्तन्मुनेर्वचः ॥१.३१॥

आयुर्वेददीपिका


अथेत्यादिना भरद्वाजशिष्यस्यात्रेयस्य पुनर्वस्वपरनाम्नो ऽग्निवेशादिगुरुतां दर्शयति ॥१॥

अत्र केचिद्भरद्वाजात्रेययोरैक्यं मन्यन्ते तन्न भरद्वाजसंज्ञया आत्रेयस्य क्वचिद् अपि तन्त्रप्रदेशे ऽकीर्तनात् हारीते चात्रेयादिगुरुतया भरद्वाज उक्तः शक्राद् अहम् अधीतवान् इत्यादिना मत्तः पुनरसंख्येयास् त्रिसूत्रं त्रिप्रयोजनम् ॥२॥

अत्रात्रेयादिपर्यन्ता विदुः सप्त महर्षयः ॥३॥

आत्रेयाद्धारीत ऋषिर् इत्यन्तेन ॥४॥

वाग्भटेन तु यदुक्तं ब्रह्मा स्मृत्वायुषो वेदं प्रजापतिम् अजिग्रहत् ॥५॥

सो ऽश्विनौ तौ सहस्राक्षं सो ऽत्रिपुत्रादिकान् मुनीन् वा इत्यनेनात्रेयस्येन्द्रशिष्यत्वं तदायुर्वेदसमुत्थानीयरसायनपादे आदिशब्देन वक्ष्यमाणेन्द्रशिष्यतायोगात् समर्थनीयम् ॥६॥

तत्र हीन्द्रेण पुनर्महर्षीणाम् आयुर्वेद उपदिष्ट इति वक्तव्यम् ॥७॥

मैत्रीपरो मैत्रीप्रधानः मैत्री च सर्वप्राणिष्वात्मनीव बुद्धिः ॥८॥


बुद्धेर् विशेषस् तत्रासीन्नोपदेशान्तरं मुनेः ।
तन्त्रस्य कर्ता प्रथमम् अग्निवेशो यतो ऽभवत् ॥१.३२॥

अथ भेलादयश् चक्रुः स्वं स्वं तन्त्रं कृतानि च ।
श्रावयामासुर् आत्रेयं सर्षिसंघं सुमेधसः ॥१.३३॥

श्रुत्वा सूत्रणम् अर्थानाम् ऋषयः पुण्यकर्मणाम् ।
यथावत् सूत्रितम् इति प्रहृष्टास् ते ऽनुमेनिरे ॥१.३४॥

सर्व एवास्तुवंस् तांश् च सर्वभूतहितैषिणः ।
साधु भूतेष्वनुक्रोश इत्युच्चैर् अब्रुवन् समम् ॥१.३५॥

तं पुण्यं शुश्रुवुः शब्दं दिवि देवर्षयः स्थिताः ।
सामराः परमर्षीणां श्रुत्वा मुमुदिरे परम् ॥१.३६॥

अहो साध्विति निर्घोषो लोकांस् त्रीन् अन्ववादयत् ।
नभसि स्निग्धगम्भीरो हर्षाद्भूतैर् उदीरितः ॥१.३७॥

शिवो वायुर् ववौ सर्वा भाभिर् उन्मीलिता दिशः ।
निपेतुः सजलाश् चैव दिव्याः कुसुमवृष्टयः ॥१.३८॥

अथाग्निवेशप्रमुखान् विविशुर् ज्ञानदेवताः ।
बुद्धिः सिद्धिः स्मृतिर् मेधा धृतिः कीर्तिः क्षमादयः ॥१.३९॥

तानि चानुमतान्येषाम् तन्त्राणि परमर्षिभिः ।
भवाय भूतसंघानां प्रतिष्ठां भुवि लेभिरे ॥१.४०॥

हिताहितं सुखं दुःखम् आयुस् तस्य हिताहितम् ।
मानं च तच्च यत्रोक्तम् आयुर्वेदः स उच्यते ॥१.४१॥

शरीरेन्द्रियसत्त्वात्मसंयोगो धारि जीवितम् ।
नित्यगश् चानुबन्धश् च पर्यायैर् आयुर् उच्यते ॥१.४२॥

तस्यायुषः पुण्यतमो वेदो वेदविदां मतः ।
वक्ष्यते यन् मनुष्याणां लोकयोर् उभयोर् हितम् ॥१.४३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:28.3270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

directly similar

  • सरळ समरुप 
RANDOM WORD

Did you know?

कोणत्याही पूजेसाठी गणपती म्हणून चिकणी सुपारीला महत्व आहे, मग बाकीच्यांना कां नाही?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site