TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

सूत्रस्थान - भाग १

चरक संहिता आयुर्वेदासंबंधी एक प्रसिद्ध ग्रन्थ आहे. हा ग्रंथ संस्कृत भाषेत आहे. या ग्रंथाचे उपदेशक अत्रिपुत्र पुनर्वसु, ग्रंथकर्ता अग्निवेश आणि प्रतिसंस्कारक चरक हे होत.

Charaka Sanhita is believed to be the oldest Ayurvedic text on internal medicine.


भाग १
अथातो दीर्घंजीवितीयम् अध्यायं व्याख्यास्यामः ॥१.१॥

आयुर्वेददीपिका


गुणत्रयविभेदेन मूर्तित्रयम् उपैयुषे ।
त्रयीभुवे त्रिनेत्राय त्रिलोकीपतये नमः ॥१॥

सरस्वत्यै नमो यस्याः प्रसादात् पुण्यकर्मभिः ।
बुद्धिदर्पणसंक्रान्तं जगदध्यक्षम् ईक्ष्यते ॥२॥

ब्रह्मदक्षाश्विदेवेशभरद्वाजपुनर्वसु ॥

हुताशवेशचरकप्रभृतिभ्यो नमो नमः ॥३॥

पातञ्जलमहाभाष्यचरकप्रतिसंस्कृतैः ।
मनोवाक्कायदोषाणां हर्त्रे ऽहिपतये नमः ॥४॥

नरदत्तगुरूद्दिष्टचरकार्थानुगामिनी ।
क्रियते चक्रदत्तेन टीकायुर्वेददीपिका ॥५॥

सभ्याः सद्गुरुवाक्सुधास्रुतिपरिस्फीतश्रुतीन् अस्मि वो नालं तोषयितुं पयोदपयसा नाम्भोनिधिस् तृप्यति ।
व्याख्याभासरसप्रकाशनम् इदं त्व् अस्मिन् यदि प्राप्यते क्वापि क्वापि कणो गुणस्य तदसौ कर्णे क्षणं धीयताम् ॥६॥

इह हि धर्मार्थकाममोक्षपरिपन्थिरोगोपशमाय ब्रह्मप्रभृतिभिः प्रणीतायुर्वेदतन्त्रेष्वतिविस्तरत्वेन सम्प्रति वर्तमानाल्पायुर्मेधसां पुरुषाणां न सम्यगर्थाधिगमः तदनधिगमाच्च तद्विहितार्थानामननुष्ठाने तथैवोपप्लवो रुजामिति मन्वानः परमकारुणिको ऽत्रभवान् अग्निवेशोऽल्पायुर्मेधसामपि सुरोपलम्भार्थं नातिसंक्षेपविस्तरं कायचिकित्साप्रधानम् आयुर्वेदतन्त्रं प्रणेतुम् आरब्धवान् ॥७॥

तस्मिंश्च श्लोकनिदानविमानशारीरेन्द्रियचिकित्सितकल्पसिद्धिस्थानात्मके ऽभिधातव्ये निखिलतन्त्रप्रधानार्थाभिधाय ॥८॥

क्ता इत्यादिवाक्याभिधायकेन दर्शितं मन्तव्यम् ॥९॥

ननु प्रयोजनाभिधानं शास्त्रप्रवृत्त्यर्थमिति यदुक्तं तन्न युक्तं यतो न प्रयोजनाभिधानमात्रेण प्रयोजनवत्तावधारणं विप्रलम्भकसंसारमोचनप्रतिपादकादिशास्त्रेषु प्रयोजनाभिधानेऽपि निष्प्रयोजनत्वदर्शनात् ॥१०॥

अथ मन्यसे आप्तप्रयोजनाभिधानमेतदतोऽत्र यथार्थत्वं ननु भो कथमयं प्रयोजनाभिधायी आप्तः तदभिहितशास्त्रस्य यथार्थत्वादिति चेत् हन्त न यावच्छास्त्रस्य प्रयोजनवत्तावधारणं न तावच्छास्त्रप्रवृत्तिः न यावच्छास्त्रप्रवृत्तिर् न तावच्छास्त्रस्य यथार्थत्वावधारणं न यावच्छास्त्रस्य यथार्थत्वावधारणं न तावच्छास्त्रस्य कर्तुराप्तत्वमवधार्यते आप्तत्वानवधृतौ च कुतस् तदभिहितप्रयोजनवत्तावधारणम् इति चक्रकमापद्यते अथ मन्यसे मा भवतु प्रयोजनवत्तावधारणम् अर्थरूपप्रयोजनवत्तासंदेह एव प्रवर्तको भविष्यति कृष्यादाव् अपि हि प्रवृत्तिर् अर्थसंदेहादेव न हि तत्र कृषीवलानां फललाभावधारणं विद्यते अन्तरावग्रहादेरपिसंभाव्यमानत्वात् नन्वेवमसत्यपि प्रयोजनाभिधाने सप्रयोजननिष्प्रयोजनशास्त्रदर्शनाच्छास्त्रत्वम् एव प्रयोजनवत्तासंदेहोपदर्शकम् अस्तु तथाप्यलं प्रयोजनाभिधानेन ॥११॥

नैवं नहि सामान्येन प्रयोजनसंदेहः प्रयोजनविशेषार्थिनं तथा प्रवर्तयति यथाभिप्रेतप्रयोजनविशेषविषयः संदेहः अभिप्रेतविशेषविषयश्च संदेहो न विशेषविषयस्मरणमन्तरा भवति अतो ये तावद् अनवधृताग्निवेशप्रामाण्यास् तेषां धातुसाम्यसाधनमिदं शास्त्रं न वेत्येवम् आकारविशेषसंदेहोत्पादनार्थं प्रयोजनविशेषाभिधानं ये पुनः परमर्षेरग्निवेशस्याद्यत एवावधृतप्रामाण्यास्तेषां तदभिहितप्रयोजनवत्तावधारणेनैव प्रवृत्तिर् इति युक्तं प्रयोजनाभिधानम् ॥१२॥

प्रयोजनाभिधायिवाक्ये तु स्वल्पप्रयत्नबोध्ये प्रयोजनसामान्यसंदेहादेव प्रवृत्तिरुपपन्ना न पुनरनेकसंवत्सरक्लेशबोध्ये शास्त्रे ॥१३॥

तदेवं यदुच्यते प्रयोजनाभिधायिवाक्यप्रवृत्ताव् अपि प्रयोजनमभिधातव्यं तथा चानवस्था इति तन्निरस्तं भवति ॥१४॥

अथेत्यादि सूत्रे ऽथशब्दो ब्रह्मादिप्रणीततन्त्रेष्व् अल्पायुर्मेधसामर्थानवधारणस्य तथाभीष्टदेवतानमस्कारशास्त्रकरणार्थगुर्वाज्ञालाभयोर् आनन्तर्ये प्रयुक्तोऽपि शास्त्रादौ स्वरूपेण मङ्गलं भवत्युदकाहरणप्रवृत्तोदकुम्भदर्शनम् इव प्रस्थितानाम् ॥१५॥

ग्रन्थादौ मङ्गलसेवानिरस्तान्तरायाणां ग्रन्थकर्तृश्रोत्ःणाम् अविघ्नेनेष्टलाभो भवतीति युक्तं मङ्गलोपादानम् ॥१६॥

अथशब्दस्य मङ्गलत्वे स्मृतिर् ओंकारश् चाथशब्दश्च द्वाव् एतौ ब्रह्मणः पुरा ॥१७॥

कण्ठं भित्त्वा विनिर्यातौ तेन माङ्गलिकाव् उभौ इति ॥१८॥

शास्त्रान्तरे चादौ मङ्गलत्वेन दृष्टोऽयमथशब्दः ॥१९॥

यथा अथ शब्दानुशासनम् अथातो धर्मं व्याख्यास्यामः वै इत्यादौ ॥२०॥

अभीष्टदेवतानमस्कारस्तु ग्रन्थादौ शिष्टाचारप्राप्तः परमशिष्टेनाग्निवेशेन कृत एव अन्यथा शिष्टाचारलङ्घनेन शिष्टत्वमेव न स्याद् व्याख्यानान्तरायभयश्च तथा ग्रन्थाविनिवेशितस्यापि नमस्कारस्य प्रत्यवायापहत्वाच्च न ग्रन्थनिवेशनम् ॥२१॥

यथा च गुर्वाज्ञालाभानन्तरम् एतत् तन्त्रकरणं तथा अथ मैत्रीपरः पुण्यम् इत्यादौ स्फुटमेव ॥२२॥

ग्रन्थकरणे च गुर्वनुमतिप्रतिपादनेन ग्रन्थस्योपादेयता प्रदर्शिता भवति ॥२३॥

यत् पुनः शिष्यप्रश्नानन्तर्यार्थत्वम् अथशब्दस्य वर्ण्यते तन्न मां धिनोति नहि शिष्यान् पुरो व्यवस्थाप्य शास्त्रं क्रियते श्रोतृबुद्धिस्थीकारे तु शास्त्रकरणं युक्तं न च बुद्धिस्थीकृताः प्रष्टारो भवन्ति ॥२४॥

अतःशब्दो ऽधिकारप्रागवध्युपदर्शकः अत ऊर्ध्वं यद् उपदेक्ष्यामो दीर्घंजीवितीयं तदिति यदि वा हेतौ येन ब्रह्मादिप्रणीतायुर्वेदतन्त्राणाम् उक्तेन न्यायेनोत्सम्बन्धत्वम् इव अतो हेतोर् दीर्घंजीवितीयं व्याख्यास्याम इति योजनीयम् ॥२५॥

दीर्घंजीवितीयम् इत्यत्र दीर्घंजीवितशब्दो ऽस्मिन्न् अस्तीति मत्वर्थे अध्यायानुवाकयोर् लुक् च इति छप्रत्ययः ॥२६॥

यदि वा दीर्घंजीवितशब्दम् अधिकृत्य कृतो ग्रन्थो ऽध्यायरूपस्तन्त्ररूपो वा इत्यस्यां विवक्षायाम् अधिकृत्य कृते ग्रन्थे इत्यधिकारात् शिशुक्रन्दयमसभ इत्यादिना छः ॥२७॥

एवमन्यत्राप्येवंजातीये मन्तव्यम् ॥२८॥

अत्र च सत्यपि शब्दान्तरे दीर्घंजीवितशब्देनैव संज्ञा कृता दीर्घंजीवितशब्दस्यैव प्रवचनादौ निवेशात् प्रशस्तत्वाच्च ॥२९॥

दीर्घंजीवितशब्दो ऽस्मिन्न् अस्ति इति दीर्घंजीवितशब्दम् अधिकृत्य कृतो वा इत्यनया व्युत्पत्त्या दीर्घंजीवितीयशब्दस् तन्त्रे ऽध्याये च प्रवर्तनीयः ॥३०॥

तेन दीर्घंजीवितीयं व्याख्यास्याम इत्यनेन तन्त्रं प्रति व्याख्यानप्रतिज्ञा लब्धा भवति पुनर् दीर्घंजीवितीयम् इति पदम् आवर्त्याध्यायपदसमभिव्याहृतम् अध्यायव्याख्यानप्रतिज्ञां लम्भयति ॥३१॥

दृष्टं चावृत्य पदस्य योजनं यथा अपामार्गतण्डुलीये गौरवे शिरसः शूले पीनसे इत्यादौ शिरस इति पदं गौरवे इत्यनेन युज्यते आवृत्य शूले इत्यनेन च ॥३२॥

अतश्च यदुच्यते अकृततन्त्रप्रतिज्ञस्याध्यायप्रतिज्ञा ऊनकायमानेति तन्निरस्तं भवति ॥३३॥

यदि वा अध्यायप्रतिज्ञैवास्तु तयैव तन्त्रप्रतिज्ञाप्यर्थलब्धैव न ह्य् अध्यायस् तन्त्रव्यतिरिक्तः तेनावयवव्याख्याने तन्त्रस्याप्यवयविनो व्याख्या भवत्येव यथा अङ्गुलीग्रहणेन देवदत्तोऽपि गृहीतो भवति ॥३४॥

अवयवान्तरव्याख्यानप्रतिज्ञा तु न लभ्यते तां तु प्रत्यध्यायमेव करिष्यति ॥३५॥

अध्यायमिति अधिपूर्वादिङः इङश्च इति कर्मणि घञा साध्यम् ॥३६॥

तेन अधीयते इत्यध्यायः ॥३७॥

न चानया व्युत्पत्त्या प्रकरणचतुष्कस्थानादिष्वतिप्रसङ्गः यतो योगरूढेयम् अध्यायसंज्ञाध्यायस्य प्रकरणसमूहविशेष एव दीर्घंजीवितीयादिलक्षणे पङ्कजशब्दवद्वर्तते न योगमात्रेण वर्तते ॥३८॥

वक्ष्यति हि अधिकृत्येयमध्यायनामसंज्ञा प्रतिष्ठिता इति नामसंज्ञा योगरूढसंज्ञेत्यर्थः ॥३९॥

यदि वा करणाधिकरणयोर् अर्थयोः ॥४०॥

अध्यायन्यायोद्यावसंहाराश् च इतिसूत्रेण निपातनाद् अध्यायपदसिद्धिः ॥४१॥

अधीयतेऽस्मिन्ननेन वार्थविशेष इत्यध्यायः ॥४२॥

अतिप्रसक्तिनिषेधस् तूक्तन्यायः ॥४३॥

व्याख्यास्याम इति व्याङ्पूर्वात् ख्यातेऌर्टा साध्यम् ॥४४॥

चक्षिङो हि प्रयोगेऽनिच्छतो ऽपि व्याख्यातुः क्रियाफलसम्बन्धस्य दुर्निवारत्वेन स्वरितञित इत्यादिनात्मनेपदं स्यादिति ॥४५॥

वि इति विशेषे विशेषाश्च व्याससमासादयः ॥४६॥

आङयं क्रियायोगे ये तु मर्यादायाम् अभिविधौ वा आङ्प्रयोगं मन्यन्ते तेषाम् अभिप्रायं न विद्मः ॥४७॥

यतो मर्यादायामभिविधौ चाङः प्रातिपदिकेन योगः स्यात् यथा आसमुद्रक्षितीशानाम् आपाटलीपुत्राद् वृष्टो देव इत्यादौ इहापि च तथा ॥४८॥

क्रियायोगविरहे उपसर्गाः क्रियायोगे इति नियमाद् आङ उपसर्गत्वं न स्यात् ततश्चानुपसर्गेणाङा व्यवधानाद् वेर् उपसर्गस्य प्रयोगो न स्यात् ॥४९॥

येनाव्यवहितः सजातीयव्यवहितो वा धातोर् उपसर्गो भवति ॥५०॥

व्याङोर् उभयोर् अप्यनुपसर्गत्वे तत्सम्बन्धोचितभूरिप्रातिपदिककल्पनागौरवप्रसङ्गः स्यात् तस्मात् क्रियायोगित्वम् एवाङो न्याय्यम् ॥५१॥

अथ अतः दीर्घं जीवितीयम् अध्यायं वि आ ख्यास्याम इत्यष्टपदत्वम् ॥५२॥


इति ह स्माह भगवानात्रेयः ॥१.२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:28.2800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

substrata

  • पु./अ.व. अधःस्तर 
  • (sing. substratum) 
  • पु./अ.व. अधस्तर 
  • (sing. substratum) 
RANDOM WORD

Did you know?

चांदणी चोळी म्हणजे काय
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.