TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

शारीरस्थान - अध्याय ६

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय ६
पाषण्डाश्रम-वर्णानां स-वर्णाः कर्म-सिद्धये ।
त एव विपरीताः स्युर् दूताः कर्म-विपत्तये ॥१॥

दीनं भीतं द्रुतं त्रस्तं रूक्षा-मङ्गल-वादिनम् ।
शस्त्रिणं दण्डिनं षण्ढं मुण्ड-श्मश्रु-जटा-धरम् ॥२॥

शस्त्रिणं दण्डिनं खण्डं मुण्ड-श्मश्रुं जटा-धरम् मुण्डं श्मश्रु-जटा-धरम् अ-मङ्गलाह्वयं क्रूर-कर्माणं मलिनं स्त्रियम् ।
अनेकं व्याधितं व्यङ्गं रक्त-माल्यानुलेपनम् ॥३॥

तैल-पङ्काङ्कितं जीर्ण-वि-वर्णार्द्रैक-वाससम् ।
खरोष्ट्र-महिषारूढं काष्ठ-लोष्टादि-मर्दिनम् ॥४॥

काष्ठ-लोहादि-मर्दिनम् नानुगच्छेद् भिषग् दूतम् आह्वयन्तं च दूरतः ।
अ-शस्त-चिन्ता-वचने नग्ने छिन्दति भिन्दति ॥५॥

जुह्वाने पावकं पिण्डान् पितृभ्यो निर्वपत्य् अपि ।
सुप्ते मुक्त-कचे ऽभ्यक्ते रुदत्य् अ-प्रयते तथा ॥६॥

रुदत्य् अ-प्रयते ऽथ-वा वैद्ये दूता मनुष्याणाम् आगच्छन्ति मुमूर्षताम् ।
विकार-सामान्य-गुणे देशे काले ऽथ-वा भिषक् ॥७॥

दूतम् अभ्यागतं दृष्ट्वा नातुरं तम् उपाचरेत् ।
स्पृशन्तो नाभि-नासास्य-केश-रोम-नख-द्वि-जान् ॥८॥

स्पृशन्तो नाभि-नासाक्षि- गुह्य-पृष्ठ-स्तन-ग्रीवा-जठरानामिकाङ्गुलीः ।
कार्पास-बुस-सीसास्थि-कपाल-मुसलोपलम् ॥९॥

६.जठरानामिकाङ्गुलि मार्जनी-शूर्प-चैलान्त-भस्माङ्गार-दशा-तुषान् ।
रज्जूपानत्-तुला-पाशम् अन्यद् वा भग्न-विच्युतम् ॥१०॥

अन्यद् वा भग्न-विद्युतम् तत्-पूर्व-दर्शने दूता व्याहरन्ति मरिष्यताम् ।
तथार्ध-रात्रे मध्याह्ने संध्ययोः पर्व-वासरे ॥११॥

षष्ठी-चतुर्थी-नवमी-राहु-केतूदयादिषु ।
भरणी-कृत्तिकाश्लेषा-पूर्वार्द्रा-पैत्र्य-नैरृते ॥१२॥  

यस्मिंश् च दूते ब्रुवति वाक्यम् आतुर-संश्रयम् ।
पश्येन् निमित्तम् अ-शुभं तं च नानुव्रजेद् भिषक् ॥१३॥

तद् यथा विकलः प्रेतः प्रेतालङ्कार एव वा ।
छिन्नं दग्धं विनष्टं वा तद्-वादीनि वचांसि वा ॥१४॥

प्रेतालङ्कार एव च रसो वा कटुकस् तीव्रो गन्धो वा कौणपो महान् ।
स्पर्शो वा विपुलः क्रूरो यद् वान्यद् अपि तादृशम् ॥१५॥

स्पर्शो वा विपुल-क्रूरो तत् सर्वम् अभितो वाक्यं वाक्य-काले ऽथ-वा पुनः ।
दूतम् अभ्यागतं दृष्ट्वा नातुरं तम् उपाचरेत् ॥१६॥

हाहा-क्रन्दितम् उत्क्रुष्टम् आक्रुष्टं स्खलनं क्षुतम् ।
वस्त्रातप-त्र-पाद-त्र-व्यसनं व्यसनीक्षणम् ॥१७॥

चैत्य-ध्वजानां पात्राणां पूर्णानां च निमज्जनम् ।
हतान्-इष्ट-प्रवादाश् च दूषणं भस्म-पांसुभिः ॥१८॥

पथश् छेदो ऽहि-मार्जार-गोधा-सरट-वानरैः ।
दीप्तां प्रति दिशं वाचः क्रूराणां मृग-पक्षिणाम् ॥१९॥

कृष्ण-धान्य-गुडोदश्विल्-लवणासव-चर्मणाम् ।
सर्षपाणां वसा-तैल-तृण-पङ्केन्धनस्य च ॥२०॥

क्लीब-क्रूर-श्व-पाकानां जाल-वागुरयोर् अपि ।
छर्दितस्य पुरीषस्य पूति-दुर्-दर्शनस्य च ॥२१॥

निः-सारस्य व्यवायस्य कार्पासादेर् अरेर् अपि ।
शयनासन-यानानाम् उत्तानानां तु दर्शनम् ॥२२॥

उत्तानानां च दर्शनम् न्युब्जानाम् इतरेषां च पात्रादीनाम् अ-शोभनम् ।
पुं-संज्ञाः पक्षिणो वामाः स्त्री-संज्ञा दक्षिणाः शुभाः ॥२३॥

प्रदक्षिणं खग-मृगा यान्तो नैवं श्व-जम्बुकाः ।
अ-युग्माश् च मृगाः शस्ताः शस्ता नित्यं च दर्शने ॥२४॥

चाष-भास-भरद्वाज-नकुल-च्छाग-बर्हिणः ।
अ-शुभं सर्व-थोलूक-बिडाल-सरटेक्षणम् ॥२५॥

प्रशस्ताः कीर्तने कोल-गोधाहि-शश-जाहकाः ।
न दर्शने न विरुते वानरर्क्षाव् अतो ऽन्य-था ॥२६॥

धनुर् ऐन्द्रं च लालाटम् अ-शुभं शुभम् अन्यतः ।
अग्नि-पूर्णानि पात्राणि भिन्नानि वि-शिखानि च ॥२७॥

दध्य्-अ-क्षतादि निर्गच्छद् वक्ष्यमाणं च मङ्गलम् ।
वैद्यो मरिष्यतां वेश्म प्रविशन्न् एव पश्यति ॥२८॥

दूताद्य् अ-साधु दृष्ट्वैवं त्यजेद् आर्तम् अतो ऽन्य-था ।
करुणा-शुद्ध-संतानो यत्नतस् तम् उपाचरेत् ॥२९॥

यत्नतः समुपाचरेत् दध्य्-अ-क्षतेक्षु-निष्पाव-प्रियङ्गु-मधु-सर्पिषाम् ।
यावकाञ्जन-भृङ्गार-घण्टा-दीप-सरो-रुहाम् ॥३०॥

दूर्वार्द्र-मत्स्य-मांसानां लाजानां फल-भक्षयोः ।
रत्नेभ-पूर्ण-कुम्भानां कन्यायाः स्यन्दनस्य च ॥३१॥

नरस्य वर्धमानस्य देवतानां नृपस्य च ।
शुक्लानां सु-मनो-वाल-चामराम्बर-वाजिनाम् ॥३२॥

शङ्ख-साधु-द्वि-जोष्णीष-तोरण-स्वस्तिकस्य च ।
भूमेः समुद्धतायाश् च वह्नेः प्रज्वलितस्य च ॥३३॥

मनो-ज्ञस्यान्न-पानस्य पूर्णस्य शकटस्य च ।
नृभिर् धेन्वाः स-वत्साया वडबायाः स्त्रिया अपि ॥३४॥

जीवञ्जीवक-सारङ्ग-सारस-प्रियवादिनाम् ।
हंसानां शतपत्त्राणां बद्धस्यैक-पशोस् तथा ॥३५॥

रुचकादर्श-सिद्धार्थ-रोचनानां च दर्शनम् ।
गन्धः सु-सुरभिर् वर्णः सु-शुक्लो मधुरो रसः ॥३६॥

गो-पतेर् अनुकूलस्य स्वनस् तद्-वद् गवाम् अपि ।
मृग-पक्षि-नराणां च शोभिनां शोभना गिरः ॥३७॥

गो-पतेर् अनुलोमस्य छत्त्र-ध्वज-पताकानाम् उत्क्षेपणम् अभिष्टुतिः ।
भेरी-मृदङ्ग-शङ्खानां शब्दाः पुण्याह-निःस्वनाः ॥३८॥

वेदाध्ययन-शब्दाश् च सुखो वायुः प्रदक्षिणः ।
पथि वेश्म-प्रवेशे च विद्याद् आरोग्य-लक्षणम् ॥३९॥

इत्य् उक्तं दूत-शकुनं स्वप्नान् ऊर्ध्वं प्रचक्षते ।
स्वप्ने मद्यं सह प्रेतैर् यः पिबन् कृष्यते शुना ॥४०॥

स्वप्नान् ऊर्ध्वं प्रचक्ष्यते स्वप्नान् ऊर्ध्वं प्रवक्ष्यते स मर्त्यो मृत्युना शीघ्रं ज्वर-रूपेण नीयते ।
रक्त-माल्य-वपुर्-वस्त्रो यो हसन् ह्रियते स्त्रिया ॥४१॥

स मर्त्यो मृत्युना तूर्णं सो ऽस्र-पित्तेन महिष-श्व-वराहोष्ट्र-गर्दभैः ।
यः प्रयाति दिशं याम्यां मरणं तस्य यक्ष्मणा ॥४२॥

लता कण्टकिनी वंशस् तालो वा हृदि जायते ।
यस्य तस्याशु गुल्मेन यस्य वह्निम् अन्-अर्चिषम् ॥४३॥

जुह्वतो घृत-सिक्तस्य नग्नस्योरसि जायते ।
पद्मं स नश्येत् कुष्ठेन चण्डालैः सह यः पिबेत् ॥४४॥

स्नेहं बहु-विधं स्वप्ने स प्रमेहेण नश्यति ।
उन्मादेन जले मज्जेद् यो नृत्यन् राक्षसैः सह ॥४५॥

अपस्मारेण यो मर्त्यो नृत्यन् प्रेतेन नीयते ।
यानं खरोष्ट्र-मार्जार-कपि-शार्दूल-शूकरैः ॥४६॥

यस्य प्रेतैः शृगालैर् वा स मृत्योर् वर्तते मुखे ।
अपूप-शष्कुलीर् जग्ध्वा विबुद्धस् तद्-विधं वमन् ॥४७॥

न जीवत्य् अक्षि-रोगाय सूर्येन्दु-ग्रहणेक्षणम् ।
सूर्या-चन्द्रमसोः पात-दर्शनं दृग्-विनाशनम् ॥४८॥

मूर्ध्नि वंश-लतादीनां संभवो वयसां तथा ।
निलयो मुण्ड-ता काक-गृध्राद्यैः परिवारणम् ॥४९॥

तथा प्रेत-पिशाच-स्त्री-द्रविडान्ध्र-गवाशनैः ।
सङ्गो वेत्र-लता-वंश-तृण-कण्टक-संकटे ॥५०॥

श्वभ्र-श्मशान-शयनं पतनं पांसु-भस्मनोः ।
मज्जनं जल-पङ्कादौ शीघ्रेण स्रोतसा हृतिः ॥५१॥

नृत्य-वादित्र-गीतानि रक्त-स्रग्-वस्त्र-धारणम् ।
वयो-ऽङ्ग-वृद्धिर् अभ्यङ्गो विवाहः श्मश्रु-कर्म च ॥५२॥

पक्वान्न-स्नेह-मद्याशः प्रच्छर्दन-विरेचने ।
हिरण्य-लोहयोर् लाभः कलिर् बन्ध-पराजयौ ॥५३॥

प्रच्छर्दन-विरेचनम् उपानद्-युग-नाशश् च प्रपातः पाद-चर्मणोः ।
हर्षो भृशं प्रकुपितैः पितृभिश् चावभर्त्सनम् ॥५४॥

प्रदीप-ग्रह-नक्षत्र-दन्त-दैवत-चक्षुषाम् ।
पतनं वा विनाशो वा भेदनं पर्वतस्य च ॥५५॥

भेदनं पर्वतस्य वा कानने रक्त-कुसुमे पाप-कर्म-निवेशने ।
चितान्ध-कार-संबाधे जनन्यां च प्रवेशनम् ॥५६॥

६.५६च्च् चिन्तान्ध-कार-संबाधे पातः प्रासाद-शैलादेर् मत्स्येन ग्रसनं तथा ।
काषायिणाम् अ-सौम्यानां नग्नानां दण्ड-धारिणाम् ॥५७॥

रक्ताक्षाणां च कृष्णानां दर्शनं जातु नेष्यते ।
कृष्णा पापाननाचारा दीर्घ-केश-नख-स्तनी ॥५८॥

वि-राग-माल्य-वसना स्वप्ने काल-निशा मता ।
मनो-वहानां पूर्ण-त्वात् स्रोतसां प्रबलैर् मलैः ॥५९॥

दृश्यन्ते दारुणाः स्वप्ना रोगी यैर् याति पञ्च-ताम् ।
अ-रोगः संशयं प्राप्य कश्-चिद् एव विमुच्यते ॥६०॥   

दृष्टः श्रुतो ऽनुभूतश् च प्रार्थितः कल्पितस् तथा ।
भाविको दोष-जश् चेति स्वप्नः सप्त-विधो मतः ॥६१॥

स्वप्नः सप्त-विधः स्मृतः तेष्व् आद्या निष्-फलाः पञ्च यथा-स्व-प्रकृतिर् दिवा ।
विस्मृतो दीर्घ-ह्रस्वो ऽति पूर्व-रात्रे चिरात् फलम् ॥६२॥

यथा-स्वं प्रकृतिर् दिवा विस्मृतो दीर्घ-ह्रस्वो ऽपि विस्मृतो दीर्घ-ह्रस्वो वा दृष्टः करोति तुच्छं च गो-सर्गे तद्-अहर् महत् ।
निद्रया वान्-उपहतः प्रतीपैर् वचनैस् तथा ॥६३॥

दृष्टः करोति तुच्छं वा निद्रया चान्-उपहतः याति पापो ऽल्प-फल-तां दान-होम-जपादिभिः ।
अ-कल्याणम् अपि स्वप्नं दृष्ट्वा तत्रैव यः पुनः ॥६४॥

याति पापो ऽप्य् अ-फल-तां पश्येत् सौम्यं शुभं तस्य शुभम् एव फलं भवेत् ।
देवान् द्वि-जान् गो-वृषभान् जीवतः सुहृदो नृपान् ॥६५॥

साधून् यशस्विनो वह्निम् इद्धं स्वच्छान् जलाशयान् ।
कन्याः कुमारकान् गौरान् शुक्ल-वस्त्रान् सु-तेजसः ॥६६॥

कन्यां कुमारकान् गौरान् नराशनं दीप्त-तनुं समन्ताद् रुधिरोक्षितम् ।
यः पश्येल् लभते यो वा छत्त्रादर्श-विषामिषम् ॥६७॥

नराशनं दीप्त-तनुः समन्ताद् रुधिरोक्षितः शुक्लाः सु-मनसो वस्त्रम् अ-मेध्यालेपनं फलम् ।
शैल-प्रासाद-स-फल-वृक्ष-सिंह-नर-द्वि-पान् ॥६८॥

आरोहेद् गो-ऽश्व-यानं च तरेन् नद-ह्रदोद-धीन् ।
पूर्वोत्तरेण गमनम् अ-गम्यागमनं मृतम् ॥६९॥  

तरेन् नद-महोद-धीन् संबाधान् निःसृतिर् देवैः पितृभिश् चाभिनन्दनम् ।
रोदनं पतितोत्थानं द्विषतां चावमर्दनम् ॥७०॥

संकटान् निःसृतिर् देवैः द्विषतां चापमर्दनम् यस्य स्याद् आयुर् आरोग्यं वित्तं बहु च सो ऽश्नुते ।
मङ्गलाचार-संपन्नः परिवारस् तथातुरः ॥७१॥

वित्तं स बहु-शो ऽश्नुते श्रद्-दधानो ऽनुकूलश् च प्रभूत-द्रव्य-संग्रहः ।
सत्-त्व-लक्षण-संयोगो भक्तिर् वैद्य-द्वि-जातिषु ॥७२॥

चिकित्सायाम् अ-निर्वेदस् तद् आरोग्यस्य लक्षणम् ।   
इत्य् अत्र जन्म-मरणं यतः सम्यग् उदाहृतम् ॥७३॥

शरीरस्य ततः स्थानं शारीरम् इदम् उच्यते ॥७३॥       

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:03.1500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

पोटास टांचा देणें

  • पोटास चिमटा घेणें 
  • पुरेसे खावयास न मिळणें 
  • अर्धपोटी असणें. 
RANDOM WORD

Did you know?

मंदिराला कळस बांधतात, पण घरातील देव्हार्‍याला कळस का नसतो?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site