TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

शारीरस्थान - अध्याय २

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय २
गर्भिण्याः परिहार्याणां सेवया रोगतो ऽथ-वा ।
पुष्पे दृष्टे ऽथ-वा शूले बाह्यान्तः स्निग्ध-शीतलम् ॥१॥

सेवया रोगतो ऽपि वा सेव्याम्भो-ज-हिम-क्षीरि-वल्क-कल्काज्य-लेपितान् ।
धारयेद् योनि-वस्तिभ्याम् आर्द्रार्द्रान् पिचु-नक्तकान् ॥२॥

धारयेद् वस्ति-योनिभ्याम् शत-धौत-घृताक्तां स्त्रीं तद्-अम्भस्य् अवगाहयेत् ।
स-सिता-क्षौद्र-कुमुद-कमलोत्पल-केसरम् ॥३॥

लिह्यात् क्षीर-घृतं खादेच् छृङ्गाटक-कसेरुकम् ।
पिबेत् कान्ताब्-ज-शालूक-बालोदुम्बर-वत् पयः ॥४॥

शृतेन शालि-काकोली-द्वि-बला-मधुकेक्षुभिः ।
पयसा रक्त-शाल्य्-अन्नम् अद्यात् स-मधु-शर्करम् ॥५॥

रसैर् वा जाङ्गलैः शुद्धि-वर्जं चास्रोक्तम् आचरेत् ।
अ-संपूर्ण-त्रि-मासायाः प्रत्याख्याय प्रसाधयेत् ॥६॥

वर्जं वास्रोक्तम् आचरेत् आमान्वये च तत्रेष्टं शीतं रूक्षोपसंहितम् ।
उपवासो घनोशीर-गुडूच्य्-अरलु-धान्यकाः ॥७॥

दुरालभा-पर्पटक-चन्दनातिविषा-बलाः ।
क्वथिताः सलिले पानं तृण-धान्यानि भोजनम् ॥८॥

तृण-धान्यादि भोजनम् मुद्गादि-यूषैर् आमे तु जिते स्निग्धादि पूर्व-वत् ।
गर्भे निपतिते तीक्ष्णं मद्यं सामर्थ्यतः पिबेत् ॥९॥

गर्भ-कोष्ठ-विशुद्ध्य्-अर्थम् अर्ति-विस्मरणाय च ।
लघुना पञ्च-मूलेन रूक्षां पेयां ततः पिबेत् ॥१०॥

पेयाम् अ-मद्य-पा कल्के साधितां पाञ्चकौलिके ।
बिल्वादि-पञ्चक-क्वाथे तिलोद्दालक-तण्डुलैः ॥११॥

मास-तुल्य-दिनान्य् एवं पेयादिः पतिते क्रमः ।
लघुर् अ-स्नेह-लवणो दीपनीय-युतो हितः ॥१२॥

दीपनीय-युतो हि सः दोष-धातु-परिक्लेद-शोषार्थं विधिर् इत्य् अयम् ।
स्नेहान्न-वस्तयश् चोर्ध्वं बल्य-दीपन-जीवनाः ॥१३॥

संजात-सारे महति गर्भे योनि-परिस्रवात् ।
वृद्धिम् अ-प्राप्नुवन् गर्भः कोष्ठे तिष्ठति स-स्फुरः ॥१४॥

उपविष्टकम् आहुस् तं वर्धते तेन नोदरम् ।
शोकोपवास-रूक्षाद्यैर् अथ-वा योन्य्-अति-स्रवात् ॥१५॥

वाते क्रुद्धे कृशः शुष्येद् गर्भो नागोदरं तु तम् ।
उदरं वृद्धम् अप्य् अत्र हीयते स्फुरणं चिरात् ॥१६॥

गर्भो नागोदरं तु तत् तयोर् बृंहण-वात-घ्न-मधुर-द्रव्य-संस्कृतैः ।
घृत-क्षीर-रसैस् तृप्तिर् आम-गर्भांश् च खादयेत् ॥१७॥

तैर् एव च सु-भिक्षायाः क्षोभणं यान-वाहनैः ।
लीनाख्ये निस्फुरे श्येन-गो-मत्स्योत्क्रोश-बर्हि-जाः ॥१८॥

तैर् एव च सु-तृप्तायाः रसा बहु-घृता देया माष-मूलक-जा अपि ।
बाल-बिल्वं तिलान् माषान् सक्तूंश् च पयसा पिबेत् ॥१९॥

स-मेद्य-मांसं मधु वा कट्य्-अभ्यङ्गं च शीलयेत् ।
हर्षयेत् सततं चैनाम् एवं गर्भः प्रवर्धते ॥२०॥

पुष्टो ऽन्य-था वर्ष-गणैः कृच्छ्राज् जायेत नैव वा ।
उदावर्तं तु गर्भिण्याः स्नेहैर् आशु-तरां जयेत् ॥२१॥

योग्यैश् च वस्तिभिर् हन्यात् स-गर्भां स हि गर्भिणीम् ।
गर्भे ऽति-दोषोपचयाद् अ-पथ्यैर् दैवतो ऽपि वा ॥२२॥

मृते ऽन्तर् उदरं शीतं स्तब्धं ध्मातं भृश-व्यथम् ।
गर्भा-स्पन्दो भ्रम-तृष्णा कृच्छ्राद् उच्छ्वसनं क्लमः ॥२३॥

मृते ऽन्तर् जठरं शीतं स्तब्धाध्मातं भृश-व्यथम् अ-रतिः स्रस्त-नेत्र-त्वम् आवीनाम् अ-समुद्भवः ।
तस्याः कोष्णाम्बु-सिक्तायाः पिष्ट्वा योनिं प्रलेपयेत् ॥२४॥

गुडं किण्वं स-लवणं तथान्तः पूरयेन् मुहुः ।
घृतेन कल्की-कृतया शाल्मल्य्-अतसि-पिच्छया ॥२५॥

मन्त्रैर् योगैर् जरायूक्तैर् मूढ-गर्भो न चेत् पतेत् ।
अथापृच्छ्येश्वरं वैद्यो यत्नेनाशु तम् आहरेत् ॥२६॥

अथ पृष्ट्वेश्वरं वैद्यो अथापृष्ट्वेश्वरं वैद्यो हस्तम् अभ्यज्य योनिं च साज्य-शाल्मलि-पिच्छया ।
हस्तेन शक्यं तेनैव गात्रं च विषमं स्थितम् ॥२७॥

गात्रं च विषम-स्थितम् आञ्छनोत्पीड-संपीड-विक्षेपोत्क्षेपणादिभिः ।
आनुलोम्य समाकर्षेद् योनिं प्रत्य् आर्जवागतम् ॥२८॥

आनुलोम्ये समाकर्षेद् हस्त-पाद-शिरोभिर् यो योनिं भुग्नः प्रपद्यते ।
पादेन योनिम् एकेन भुग्नो ऽन्येन गुदं च यः ॥२९॥

विष्कम्भौ नाम तौ मूढौ शस्त्र-दारणम् अर्हतः ।
मण्डलाङ्गुलि-शस्त्राभ्यां तत्र कर्म प्रशस्यते ॥३०॥

वृद्धि-पत्त्रं हि तीक्ष्णाग्रं न योनाव् अवचारयेत् ।
पूर्वं शिरः-कपालानि दारयित्वा विशोधयेत् ॥३१॥

कक्षोरस्-तालु-चिबुक-प्रदेशे ऽन्य-तमे ततः ।
समालम्ब्य दृढं कर्षेत् कुशलो गर्भ-शङ्कुना ॥३२॥

कक्षोरस्-तालु-चिबुके प्रदेशे ऽन्य-तमे ततः अ-भिन्न-शिरसं त्व् अक्षि-कूटयोर् गण्डयोर् अपि ।
बाहुं छित्त्वांस-सक्तस्य वाताध्मातोदरस्य तु ॥३३॥

विदार्य कोष्ठम् अन्त्राणि बहिर् वा संनिरस्य च ।
कटी-सक्तस्य तद्-वच् च तत्-कपालानि दारयेत् ॥३४॥

यद् यद् वायु-वशाद् अङ्गं सज्जेद् गर्भस्य खण्ड-शः ।
तत् तच् छित्त्वाहरेत् सम्यग् रक्षेन् नारीं च यत्नतः ॥३५॥

तत् तच् छित्त्वाहरन् सम्यग् गर्भस्य हि गतिं चित्रां करोति वि-गुणो ऽनिलः ।
तत्रान्-अल्प-मतिस् तस्माद् अवस्थापेक्षम् आचरेत् ॥३६॥

छिन्द्याद् गर्भं न जीवन्तं मातरं स हि मारयेत् ।
सहात्मना न चोपेक्ष्यः क्षणम् अप्य् अस्त-जीवितः ॥३७॥

योनि-संवरण-भ्रंश-मक्कल्ल-श्वास-पीडिताम् ।
पूत्य्-उद्गारां हिमाङ्गीं च मूढ-गर्भां परित्यजेत् ॥३८॥

अथा-पतन्तीम् अपरां पातयेत् पूर्व-वद् भिषक् ।
एवं निर्हृत-शल्यां तु सिञ्चेद् उष्णेन वारिणा ॥३९॥

दद्याद् अभ्यक्त-देहायै योनौ स्नेह-पिचुं ततः ।
योनिर् मृदुर् भवेत् तेन शूलं चास्याः प्रशाम्यति ॥४०॥

दीप्यकातिविषा-रास्ना-हिङ्ग्व्-एला-पञ्च-कोलकात् ।
चूर्णं स्नेहेन कल्कं वा क्वाथं वा पाययेत् ततः ॥४१॥

क्वाथं तां पाययेत् ततः कटुकातिविषा-पाठा-शाक-त्वग्-घिङ्गु-तेजिनीः ।
तद्-वच् च दोष-स्यन्दार्थं वेदनोपशमाय च ॥४२॥

४शाक-त्वग्-घिङ्गु-तेजनीः त्रि-रात्रम् एवं सप्ताहं स्नेहम् एव ततः पिबेत् ।
सायं पिबेद् अरिष्टं च तथा सु-कृतम् आसवम् ॥४३॥

शिरीष-ककुभ-क्वाथ-पिचून् योनौ विनिक्षिपेत् ।
उपद्रवाश् च ये ऽन्ये स्युस् तान् यथा-स्वम् उपाचरेत् ॥४४॥

पयो वात-हरैः सिद्धं दशाहं भोजने हितम् ।
रसो दशाहं च परं लघु-पथ्याल्प-भोजना ॥४५॥

स्वेदाभ्यङ्ग-परा स्नेहान् बला-तैलादिकान् भजेत् ।
ऊर्ध्वं चतुर्भ्यो मासेभ्यः सा क्रमेण सुखानि च ॥४६॥

बला-मूल-कषायस्य भागाः षट् पयसस् तथा ।
यव-कोल-कुलत्थानां दश-मूलस्य चैकतः ॥४७॥

निःक्वाथ-भागो भागश् च तैलस्य तु चतुर्-दशः ।
द्वि-मेदा-दारु-मञ्जिष्ठा-काकोली-द्वय-चन्दनैः ॥४८॥

तैलस्य च चतुर्-दशः शारिवा-कुष्ठ-तगर-जीवकर्षभ-सैन्धवैः ।
कालानुसार्या-शैलेय-वचागुरु-पुनर्नवैः ॥४९॥

कालानुसारी-शैलेय- कालानुसार्य-शैलेय- अश्वगन्धा-वरी-क्षीरशुक्ला-यष्टी-वरा-रसैः ।
शताह्वा-शूर्पपर्ण्य्-एला-त्वक्-पत्त्रैः श्लक्ष्ण-कल्कितैः ॥५०॥

पक्वं मृद्व्-अग्निना तैलं सर्व-वात-विकार-जित् ।
सूतिका-बाल-मर्मास्थि-हत-क्षीणेषु पूजितम् ॥५१॥

५क्षत-क्षीणेषु पूजितम् ज्वर-गुल्म-ग्रहोन्माद-मूत्राघातान्त्र-वृद्धि-जित् ।
धन्वन्तरेर् अभिमतं योनि-रोग-क्षयापहम् ॥५२॥

वस्ति-द्वारे विपन्नायाः कुक्षिः प्रस्पन्दते यदि ।
जन्म-काले ततः शीघ्रं पाटयित्वोद्धरेच् छिशुम् ॥५३॥

मधुकं शाक-बीजं च पयस्या सुरदारु च ।
अश्मन्तकः कृष्ण-तिलास् ताम्रवल्ली शतावरी ॥५४॥

पयस्यामरदारु च वृक्षादनी पयस्या च लता सोत्पल-शारिवा ।
अनन्ता शारिवा रास्ना पद्मा च मधुयष्टिका ॥५५॥

लता चोत्पल-शारिवा पद्माथ मधुयष्टिका पद्माह्व-मधुयष्टिका पद्मकं मधुयष्टिका बृहती-द्वय-काश्मर्य-क्षीरि-शुङ्ग-त्वचा घृतम् ।
पृश्निपर्णी बला शिग्रुः श्वदंष्ट्रा मधुपर्णिका ॥५६॥

बृहती-द्वय-काश्मर्यः ५क्षीरि-शृङ्ग-त्वचा घृतम् क्षीरि-शुङ्ग-त्वचा घृतम् शृङ्गाटकं बिसं द्राक्षा कसेरु मधुकं सिता ।
सप्तैतान् पयसा योगान् अर्ध-श्लोक-समापनान् ॥५७॥

क्रमात् सप्तसु मासेषु गर्भे स्रवति योजयेत् ।
कपित्थ-बिल्व-बृहती-पटोलेक्षु-निदिग्धिकात् ॥५८॥

५पटोलेक्षु-निदिग्धि-जैः मूलैः शृतं प्रयुञ्जीत क्षीरं मासे तथाष्टमे ।
नवमे शारिवानन्ता-पयस्या-मधुयष्टिभिः ॥५९॥

योजयेद् दशमे मासि सिद्धं क्षीरं पयस्यया ।
अथ-वा यष्टिमधुक-नागरामरदारुभिः ॥६०॥

अवस्थितं लोहितम् अङ्गनाया वातेन गर्भं ब्रुवते ऽन्-अभिज्ञाः ।
गर्भाकृति-त्वात् कटुकोष्ण-तीक्ष्णैः स्रुते पुनः केवल एव रक्ते ॥६१॥

गर्भं जडा भूत-हृतं वदन्ति मूर्तेर् न दृष्टं हरणं यतस् तैः ।
ओजो-ऽशन-त्वाद् अथ-वा-व्यवस्थैर् भूतैर् उपेक्ष्येत न गर्भ-माता ॥६२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:02.4130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Indian School of Mining and Applied Geology

  • भारतीय खनिविद्या आणि उपयोजित भूशास्त्र विद्यालय 
RANDOM WORD

Did you know?

पापा पासून मुक्त होण्यासाठी काय उपाय करावेत?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site